सम्प्रदायतः श्रीशङ्करकृता
देहनिन्दाप्रकरणम्
नित्यानन्दैकरसं सच्चिन्मात्रं स्वयंज्योतिः ।
पुरुषोत्तममजमीशं वन्दे श्रीयादवाधीशम् ॥
॥१॥यं वर्णयितुं साक्षाच्छृतिरपि मूकेव मौनमाचरति ।
सोऽस्माकं मनुजानां किं वाचां गोचरो भवति ॥
॥२॥यद्यप्येवं विदितं तथापि परिभाषितो भवेदेव ।
अध्यात्मशास्त्रसारैर्हरिचिन्तनकीर्तनाभ्यासैः ॥
॥३॥क्लृप्तैर्बहुभिरुपायैरभ्यासज्ञानभक्त्याद्यैः ।
पुंसो विना विरागं मुक्तेरधिकारिता न स्यात् ॥
॥४॥वैराग्यमात्मबोधो भक्तिश्चेति त्रयं गदितम् ।
मुक्तेः साधनमादौ तत्र विरागो वितृष्णता प्रोक्ता ॥
॥५॥सा चाहंममताभ्यां प्रच्छन्ना सर्वदेहेषु ।
तत्राहन्ता देहे ममता भार्यादिविषयेषु ॥
॥६॥देहः किमात्मकोऽयं कः संबन्धोऽस्य वा विषयैः ।
एवं विचार्यमाणेऽहन्ताममते निवर्तेते ॥
॥७॥स्त्रीपुंसोः संयोगात्सम्पाते शुक्रशोणितयोः ।
प्रविशञ्जीवः शनकैः स्वकर्मणा देहमाधत्ते ॥
॥८॥मातृगुरूदरदर्यां कफमूत्रपुरीषपूर्णायाम् ।
जठराग्निज्वालाभिर्नवमासं पच्यते जन्तुः ॥
॥९॥दैवात्प्रसूतिसमये शिशुस्तिरश्चीनतां यदा याति ।
शस्त्रैर्विखण्ड्य स तदा बहिरिह निष्कास्यतेऽतिबलात् ॥
॥१०॥अथवा यन्त्रच्छिद्राद्यद तु निःसार्यते प्रबलैः ।
प्रसवसमीरैश्च तदा यः क्लेशः सोऽप्यनिर्वाच्यः ॥
॥११॥आधिव्याधिवियोगात्मीयविपत्कलहदीर्घदारिद्रैः ।
जन्मान्तरमपि यः क्लेशः किं शक्यते वक्तुम् ॥
॥१२॥नरपशुविहङ्गतिर्यग्योनीनां चतुरशीतिलक्षाणाम् ।
कर्मनिबद्धो जीवः परिभ्रमन्यातना भुङ्क्ते ॥
॥१३॥चरमस्तत्र नृदेहस्तत्रोज्जन्मान्वयोत्पत्तिः ।
स्वकुलाचारविचारः श्रुतिप्रचारश्च तत्रापि ॥
॥१४॥आत्मानात्मविवेको नो देहस्य च विनाशिताज्ञानम् ।
एवं सति स्वमायुः प्राज्ञैरपि नीयते मिथ्या ॥
॥१५॥आयुःक्षणलवमात्रं न लभ्यते हेमकोटिभिः क्वापि ।
तच्चेद्गच्छति सर्वं मृषा ततः काधिका हानिः ॥
॥१६॥नरदेहातिक्रमणात्प्राप्तौ पश्वादिदेहानाम् ।
स्वतनोरप्यज्ञाने परमार्थस्यात्र का वार्ता ॥
॥१७॥सततं प्रवाह्यमानैर्वृषभैरश्वैः खरैर्गजैर्महिषैः ।
हा कष्टं क्षुत्कामैः श्रान्तैर्नो शक्यते वक्तुम् ॥
॥१८॥रुधिरत्रिधातुमज्जामेदोमांसास्थिसंहतिर्देहः ।
स बहिस्त्वचा पिनद्धस्तस्मान्नो भक्ष्यते काकैः ॥
॥१९॥नासाग्राद्वदनादवा कफं मलं पायुतो विसृजन् ।
स्वयमेवैति जुगुप्सामन्तः प्रसृतं च नो वेत्ति ॥
॥२०॥पथि पतितमस्थि दृष्ट्वा स्पर्शभयादन्यमार्गतो याति ।
नो पश्यति निजदेहं चास्थिसहस्रावृतं परितः ॥
॥२१॥केशावधि नखराग्रादिदमन्तः पूतिगन्धसम्पूर्णम् ।
बहिरपि चागरुचन्दनकर्पूराद्यैर्विलेपयति ॥
॥२२॥यत्नादस्य पिधत्ते स्वाभाविकदोषसंघातम् ।
औपाधिकगुणनिवहं प्रकाशयञ्श्लाघते मूढः ॥
॥२३॥क्षतमुतन्नं देहे यदि न प्रक्षाल्यते त्रिदिनम् ।
तत्रोत्पतन्ति बहवः क्रिमयो दुर्गन्धसंकीर्णाः ॥
॥२४॥यो देहः सुप्तोऽभूत्सुपुष्पशय्योपशोभिते तल्पे ।
सम्प्रति स रज्जुकाष्ठैर्नियन्त्रितः क्षिप्यते वह्नौ ॥
॥२५॥सिंहासनोपविष्टं दृष्ट्वा यं मुदमवाप लोकोऽयम् ।
तं कालाकृष्टतनुं विलोक्य नेत्रे निमीलयति ॥
॥२६॥एवंविधोऽतिमलिनो देहो यत्सत्तया चलति ।
तं विस्मृत्य परेशं वहत्यहंतामनित्येऽस्मिन् ॥
॥२७॥क्वात्मा सच्चिद्रूपः क्व मांसरुधिरास्थिनिर्मितो देहः ।
इति यो लज्जति धीमानितरशरीरं स किं मनुते ॥
॥२८॥विषयनिन्दाप्रकरणम्
मूढः कुरुते विषयजकर्दमसंमार्जनं मिथ्या ।
दुरदृष्टवृष्टिविरसो देहो गेहं पतत्येव ॥
॥२९॥भार्या रूपविहीना मनसः क्षोभाय जायते पुंसाम् ।
अत्यन्तं रूपाढ्या सा परपुरुषैर्वशीक्रियते ॥
॥३०॥यः कश्चित्परपुरुषो म्त्रं भृत्योऽथवा भिक्षुः ।
पश्यति हि साभिलाषं विलक्षणोदाररूपवतीम् ॥
॥३१॥यं कंचित्पुरुषवरं स्वभर्तुरतिसुन्दरं दृष्ट्वा ।
मृगयति किं न मृगाक्षी मनसेव परस्त्रियं पुरुषः ॥
॥३२॥एवं सुरूपनार्या भर्ता कोपात्प्रतिक्षणं क्षीणः ।
नो लभते सुखलेशं बलिमिव बलिभुग्बहुष्वेकः ॥
॥३३॥वनिता नितान्तमज्ञा स्वाज्ञामुल्लङ्घ्य वर्तते यदि सा ।
शत्रोरप्यधिकतरा परभिलाषिण्यसौ किमुत ॥
॥३४॥लोको नापुत्रस्यास्तीति श्रुत्यास्य कः प्रभाषितो लोकः ।
मुक्तिः संसरणं वा तदन्यलोकोऽथवा नाद्यः ॥
॥३५॥सर्वेऽपि पुत्रभाजस्तन्मुक्तौ संसृतिर्भवति ।
श्रवणादयोऽप्युपाया मृषा भवेयुस्तृतीयेऽपि ॥
॥३६॥तत्प्राप्त्युपायसत्त्वाद्द्वितीयपक्षेऽप्यपुत्रस्य ।
पुत्रेष्ट्यादिकयागप्रवृत्तये वेदवादोऽयम् ॥
॥३७॥नानाशरीरकष्टैर्धनव्ययैः साध्यते पुत्रः ।
उत्पन्नमात्रपुत्रे जीवितचिन्ता गरीयसी तस्य ॥
॥३८॥जीवन्नपि किं मूर्खः प्राज्ञः किं वा सुशीलभाग्भविता ।
जारश्चौरः पिशुनः पतितो द्यूतप्रियः क्रूरः ॥
॥३९॥पितृमातृबन्धुघाती मनसः खेदाय जायते पुत्रः ।
चिन्तयति तातनिधनं पुत्रो द्रव्याद्यधीशताहेतोः ॥
॥४०॥सर्वगुणैरुपपन्नः पुत्रः कस्यापि कुत्रचिद्भवति ।
सोऽल्पायू रुग्णो वा ह्यनपत्यो वा तथापि खेदाय ॥
॥४१॥पुत्रात्सद्गतिरिति चेत्तदपि प्रायोऽस्ति युक्त्यसहम् ।
इत्थं शरीरकष्टैर्दुःखं सम्प्रार्थ्यते मूढैः ॥
॥४२॥पितृमातृबन्धुभगिनीपितृव्यजामातृमुख्यानाम् ।
मार्गस्थानामिव युतिरनेकयोनिभ्रमात्क्षणिका ॥
॥४३॥दैवं यावद्विपुलं यावत्प्रचुरः परोपकारश्च ।
तावत्सर्वे सुहृदो व्यत्ययतः शत्रवः सर्वे ॥
॥४४॥अश्नन्ति चेदनुदिनं वन्दिन इव वर्णयन्ति संतृप्ताः ।
तच्चेद्द्वित्रदिनान्तरमभिनिन्दन्तः प्रकुप्यन्ति ॥
॥४५॥दुर्भरजठरनिमित्तं समुपार्जयितुं प्रवर्तते चित्तम् ।
लक्षावधि बहुवित्तं तथाप्यलभ्यं कपर्दिकामात्रम् ॥
॥४६॥लब्धश्चेदधिकोऽर्थः पत्न्यादीनां भवेत्स्वार्थः ।
नृपचौरतोऽप्यनर्थस्तस्मादृव्योद्यमो व्यर्थः ॥
॥४७॥अन्यायमर्थभाजं पश्यति भूपोऽध्वगामिनं चौरः ।
पिशुनो व्यसनप्राप्तिं दायादानां गणः कलहम् ॥
॥४८॥पातकभरैरनेकैरर्थं समुपार्जयन्ति राजानः ।
अश्वमतङ्गजहेतोः प्रतिक्षणं नाश्यते सोऽर्थः ॥
॥४९॥राज्यान्तराभिगमनाद्रणभङ्गान्मन्त्रिभृत्यदोषाद्वा ।
विषशस्त्रगुप्तघातान्मग्नाश्चिन्तार्णवे भूपाः ॥
॥५०॥मनोनिन्दाप्रकरणम्
हसति कदाचिद्रौति भ्रान्तं सद्दश दिशो भ्रमति ।
हृष्टं कदापि रुष्टं शिष्टं दुष्टं च निन्दति
स्तौति ॥
॥५१॥किमपि द्वेष्टि सरोषं ह्यात्मानं श्लाघते कदाचिदपि ।
चित्तं पिशाचमभवद्राक्षस्या तृष्णया व्याप्तम् ॥
॥५२॥दम्भाभिमानलोभैः कामक्रोधोरुमत्सरैश्चेतः ।
आकृष्यते समन्ताच्छ्वभिरिव पतितास्थिवन्मार्गे ॥
॥५३॥तस्माच्छुद्धविरागो मनोऽभिलषितं त्यजेदर्थम् ।
तदनभिलषितं कुर्यान्निर्व्यापारं ततो भवति ॥
॥५४॥विषयनिग्रहप्रकरणम्
संसृतिपारावारे ह्यगाधविषयोदकेन सम्पूर्णे ।
नृशरीरमम्बुतरणं कर्मसमीरैरतस्ततश्चलति ॥
॥५५॥छिद्रैर्नवभिरुपेतं जीवो नौकापतिर्महानलसः ।
छिद्राणामनिरोधाज्जलपरिपूर्ण पतत्यधः सततम् ॥
॥५६॥छिद्राणां तु निरोधात्सुखेन पारं परं याति ।
तस्मादिन्द्रियनिग्रहमृते न कश्चित्तरत्यनृतम् ॥
॥५७॥पश्यति परस्य युवति सकाममपि तन्मनोरथं कुरुते ।
ज्ञात्वैव तदप्राप्तिं व्यर्थं मनुजोऽतिपापभाग्भवति ॥
॥५८॥पिशुनैः प्रकाममुदितां परस्य निन्दां श्रुणोति कर्णाभ्याम् ।
तेन परः किं म्रियते व्यर्थं मनुजोऽतिपापभाग्भवति ॥
॥५९॥अनृतं परापवादं रसना वदति प्रतिक्षणं तेन ।
परहानिर्लब्धिः का व्यर्थं मनुजोऽतिपापभाग्भवति ॥
॥६०॥विषयेन्द्रिययोर्योगे निमेपसमयेन यत्सुखं भवति ।
विषये नष्टे दुःखं यावज्जिवं च तत्तयोर्मध्ये ॥
॥६१॥हेयमुपादेयं वा प्रविचार्य सुनिश्चितं तस्मात् ।
अल्पसुखस्य त्यागादनल्पदुःखं जहाति सुधीः ॥
॥६२॥धीवरदत्तमहामिषमश्नन्वैसारिणो म्रियते ।
तद्वद्विषयान्भुञ्जन्कलाकृष्टो नरः पतति ॥
॥६३॥उरगग्रस्तार्धतनुर्भेकोऽश्नातीह मक्षिकाः शतशः ।
एवं गतायुरपि सन्विषयान्समुपार्यत्यन्धः ॥
॥६४॥मनोनिग्रहप्रकरणम्
स्वीयोद्गमतोयवहा सागरमुपयाति नीचमार्गेण ।
सा चेदुद्गम एव स्थिरा सती किं न याति वार्धित्वम् ॥
॥६५॥एवं मनः स्वहेतुं विचारयत्सुस्थिरं भवेदन्तः ।
न बहिर्वोदेति तदा किं नात्मत्वं स्वयं याति ॥
॥६६॥वर्षास्वम्भःप्रचयात्कूपे गुरुनिर्झरे पयः क्षारम् ।
ग्रीष्मेणैव तु शुष्के माधुर्यं भजति तत्राम्भः ॥
॥६७॥तद्वद्विषयोद्रिक्तं तमःप्रधानं मनः कलुषम् ।
तस्मिन्विरागशुष्के शनकैराविर्भवेत्सत्त्वम् ॥
॥६८॥यं विषयमपि लषित्वा धावति बाह्येन्द्रियद्वारा ।
तस्याप्राप्तौ खिद्यति तथा यथा स्वं गतं किंचित् ॥
॥६९॥नगनगरदुर्गदुर्गमसरितः परितः परिभ्रमच्चेतः ।
यदि नो लभते विषयं विषयन्त्रितमिव खिन्नमायाति ॥
॥७०॥तुम्बीफ्लं जलान्तर्बलादधः क्षिप्तमप्युपैत्यूर्ध्वम् ।
तद्वन्मनः स्वरूपे निहितं यत्नाद्बहिर्याति ॥
॥७१॥इह वा पूर्वभवे वा स्वकर्मणैवार्जितं फलं यद्यत् ।
शुभमशुभं वा तत्तद्भोगोऽप्यप्रार्थितो भवति ॥
॥७२॥चेतःपशुमशुभपथं प्रधावमानं निराकर्तुम् ।
वैराग्यमेकमुचितं गलकाष्ठं निर्मितं धात्रा ॥
॥७३॥निद्रावसरे यत्सुखमेतत्किं विषयजं यस्मात् ।
न हि चेन्द्रियप्रदेशावस्थानं चेतसो निद्रा ॥
॥७४॥अद्वारतुङ्गकुड्ये गृहेऽवरुद्धो यथा व्याघ्रः ।
बहुनिर्गमप्रयत्नैः श्रान्तस्तिष्ठति पतञ्श्वसंश्च तथा ॥
॥७५॥सर्वेन्द्रियावरोधादुद्योगशतैरनिर्गमं वीक्ष्य ।
शान्तं तिष्ठति चेतो निरुद्यमत्वं तदा याति ॥
॥७६॥प्राणस्पन्दनिरोधात्सत्सङ्गाद्वासनात्यागात् ।
हरिचरणभक्तियोगान्मनः स्ववेगं जहाति शनैः ॥
॥७७॥वैराग्यप्रकरणम्
परगृहगृहिणीपुत्रद्रविणानामागमे विनाशे वा ।
कथितौ हर्षविषादौ किं वा स्यातां क्षणं स्थातुः ॥
॥७८॥दैवात्स्थितं गतं वा यं कंचिद्विषयमीड्यमल्पं वा ।
नो तुष्यन्न च सीदन्वीक्ष्य गृहेष्वतिथिवन्निवसेत् ॥
॥७९॥ममताभिमानशून्यो विषयेषु पराङ्मुखः पुरुषः ।
तिष्ठन्नपि निजसदने न बाध्यते कर्मभिः क्वापि ॥
॥८०॥कुत्राप्यरण्यदेशे सुनीलतृणवालिकोपचिते ।
शीतलतरुतलभूमौ सुखं शयानस्य पुरुषस्य ॥
॥८१॥तरवः पत्रफलाढ्याः सुगन्धशीतानिलाः परितः ।
कलकूजितवरविहगाः सरितो मित्राणि किं न स्युः ॥
॥८२॥वैराग्यभाग्यभाजः प्रसन्नमनसो निराशस्य ।
अप्रार्थितफलभोक्तुः पुंसो जन्मनि कृतार्थतेह स्यात् ॥
॥८३॥द्रव्यं पल्लवतश्च्युतं यदि भवेत्क्वापि प्रमादात्तदा
शोकायाथ तदर्पितं श्रुतवते तोषाय च श्रेयसे ।
स्वातन्त्र्याद्विषयाः प्रयान्ति यदमी शोकाय ते स्युश्चिरं
संत्यक्ताः स्वयमेव चेत्सुखमयं निःश्रेयसं तन्वते ॥
॥८४॥विस्मृत्यात्मनिवासमुत्कटभवाटव्यां चिरं पर्यट-
न्संतापत्रयदीर्घदावदहनज्वालावलीव्याकुलः ।
वल्गन्फल्गुषु सुप्रदीप्तनयनश्चेतःकुरङ्गो बला-
दाशापाशवशीकृतोऽपि विषयव्याघ्रैर्मृषा
हन्यते ॥
॥८५॥आत्मसिद्धिप्रकरणम्
उत्पन्नेऽपि विरागे विना प्रबोधं सुखं न स्यात् ।
स भवेद्गुरूपदेशात्तस्माद्गुरुमाश्रयेत्प्रथमम् ॥
॥८६॥यद्यपि जलधेरुदकं यद्यपि वा प्रेरकोऽनिलस्तत्र ।
तदपि पिपासाकुलितः प्रतीक्षते चातको मेघम् ॥
॥८७॥त्रेधा प्रतीतिरुक्ता शास्त्राद्गुरुतस्तथात्मनस्तत्र ।
शास्त्रप्रतीतिरादौ यद्वन्मधुरो गुडोऽस्तीति ॥
॥८८॥अग्रे गुरुप्रतीतिर्दूराद्गुडदर्शनं यद्वत् ।
आत्मप्रतीतिरस्माद्गुडभक्षणजं सुखं यद्वत् ॥
॥८९॥रसगन्धरूपशब्दस्पर्शा अन्ये पदार्थाश्च ।
कस्मादनुभूयन्ते नो देहान्नेन्द्रियग्रामात् ॥
॥९०॥मृतदेहेन्द्रियवर्गो यतो न जानाति दाहजं दुःखम् ।
प्राणश्चेन्निद्रायां तस्करबाधां स किं वेत्ति ॥
॥९१॥मनसो यदि वा विषयस्तद्युगपत्किं न जानाति ।
तस्य पराधीनत्वाद्यतः प्रमादस्य कस्त्राता ॥
॥९२॥गाढध्वान्तगृहान्ततः क्षितितले दीपं निधायोज्ज्वलं
पञ्चच्छिद्रमधोमुखं हि कलशं तस्योपरि स्थापयेत् ।
तद्बाह्ये परितोऽनुरन्ध्रममलां वीणां च कस्तूरिकां
सद्रत्नं व्यजनं न्यसेच्च
कलशच्छिद्राध्वनिर्गच्छताम् ॥
॥९३॥तेजोंशेन पृथक्पदार्थनिवहज्ञानं हि यज्जायते
तद्रन्ध्रैः कलशेन वा किमु मृदो भाण्डेन तैलेन वा ।
किं सूत्रेण न चैतदस्ति रुचिरं प्रत्यक्षबाधादतो
दीपज्योतिरिहैकमेव शरणं देहे तथात्मा स्थितः ॥
॥९४॥मायासिद्धिप्रकरणम्
चिन्मत्रः परमात्मा ह्यपश्यदात्मानमात्मतया ।
अभवत्सोऽहंनामा तस्मादासीद्भिदो मूलम् ॥
॥९५॥द्वेधैव भाति तस्मात्पतिश्च पत्नी च तौ भवेतां वै ।
तस्मादयमाकाशस्त्रिधैव परिपूर्यते सततम् ॥
॥९६॥सोऽयमपीक्षां चक्रे ततो मनुष्या अजायन्त ।
इत्युपनिषदः प्राहुर्दयितां प्रति याज्ञवल्क्योक्त्या ॥
॥९७॥चिरमानन्दानुभवात्सुषुप्तिरिव काप्यवस्थाभूत् ।
परमात्मनस्तु तस्मात्स्वप्नवदेवोत्थिता माया ॥
॥९८॥सदसद्विलक्षणासौ परमात्मसदाश्रयानादिः ।
सा च गुणत्रयरूपा सूते सचराचरं विश्वम् ॥
॥९९॥माया तावददृश्या दृश्यं कार्यं कथं जनयेत् ।
तन्तुभिरदृश्यरूपैः पटोऽत्र दृश्यः कथं भवति ॥
॥१००॥स्वप्ने सुरतानुभवाच्छुक्रद्रावोयथा शुभे वसने ।
अनृतं रतं प्रबोधे वसनोपहतिर्भवेत्सत्या ॥
॥१०१॥स्वप्ने पुरुषः सत्यो योषिदसत्या तयोर्युतिश्च मृषा ।
शुक्रद्रावः सत्यस्तद्वत्प्रकृतेऽपि संभवति ॥
॥१०२॥एवमदृश्या माया तत्कार्यं जगदिदं दृश्यम् ।
माया तावदियं स्याद्या स्वविनाशेन हर्षदा भवति ॥
॥१०३॥रजनीवातिदुरन्ता न लक्ष्यतेऽत्र स्वभवोऽस्याः ।
सौदामिनीव नश्यति मुनिभिः सम्प्रक्ष्यमाणैव ॥
॥१०४॥माया ब्रह्मोपगताविद्या जीवाश्रया प्रोक्ता ।
चिदश्चिद्ग्रन्थिश्चेतस्तदक्षयं ज्ञेयमा मोक्षात् ॥
॥१०५॥घटमठकुड्यैरावृतमाकाशं तत्तदाह्वयं भवति ।
तद्वदविद्यावृतमिह चैतन्यं जीव इत्युक्तः ॥
॥१०६॥ननु कथमावरणं स्यादज्ञानं ब्रह्मणो विशुद्धस्य ।
सूर्यस्येव तमिस्रं रात्रिभवं स्वप्रकाशस्य ॥
॥१०७॥दिनकरकिरणोत्पन्नैर्मेघैराच्छाद्यते यथा सूर्यः ।
न खलु दिनस्य दिनत्वं तैर्विकृतैः सान्द्रसंघातैः ॥
॥१०८॥अज्ञानेन तथात्मा शुद्धोऽपि च्छाद्यते सुचिरम् ।
न परंतु लोकसिद्धा प्राणिषु तच्चेतनाशक्तिः ॥
॥१०९॥लिङ्गदेहादिनिरूपणप्रकरणम्
स्थूलशरीरस्यान्तर्लिङ्गशरीरं च तस्यान्तः ।
कारणमस्याप्यन्तस्ततो महाकारणं तुर्यम् ॥
॥११०॥स्थूलं निरूपितं प्रागधुना सूक्ष्मादितो ब्रूमः ।
अङ्गुष्ठमात्रः पुरुषः श्रुतिरिति यत्प्राह तत्सूक्ष्मम् ॥
॥१११॥सूक्ष्माणि महाभूतान्यसवः पञ्चेन्द्रियाणि पञ्चैव ।
षोडशमन्तःकरणं तत्संघातो हि लिङ्गतनुः ॥
॥११२॥तत्कारणं स्मृतं यत्तस्यान्तर्वासनाजालम् ।
तस्य प्रवृत्तिहेतुर्बुद्ध्याश्रयमत्र तुर्यं स्यात् ॥
॥११३॥तत्सारभूतबुद्धो यत्प्रतिफलितं तु शुद्धचैतन्यम् ।
जीवः स उक्त आद्यैर्योऽहमिति स्फूर्तिकृद्वपुषि ॥
॥११४॥चरतरतरङ्गसङ्गात्प्रतिबिम्बं भास्करस्य च चलं
स्यात् ।
अस्ति तथा चञ्चलता चैतन्ये चित्तचाञ्चल्यात् ॥
॥११५॥नन्वर्कप्रतिबिम्बः सलिलादिषुयः स चावभासयति ।
किमितरपदार्थनिवहं प्रतिबिम्बोऽप्यात्मनस्तद्वत् ॥
॥११६॥प्रतिफलितं यत्तेजः सवितुः कांस्यादिपात्रेषु ।
तदनु प्रविष्टमन्तर्गृहमन्यार्थान्प्रकाशयति ॥
॥११७॥चित्प्रतिबिम्बस्तद्वद्बुद्धिषु यो जीवतां प्राप्तः ।
नेत्रादीन्द्रियमार्गैर्बहिरर्थान्सोऽवभासयति ॥
॥११८॥अद्वैतप्रकरणम्
तदिदं य एवमार्यो वेद ब्रह्माहमस्मीति ।
स इदं सर्वं च स्यात्तस्य हि देवाश्च नेशते भूत्या ॥
॥११९॥येषां स भवत्यात्मा योऽन्यामथ देवतामुपास्ते यः ।
अहमन्योऽसावन्यश्चेत्थं यो वेद पशुवत्सः ॥
॥१२०॥इत्युपनिषदामुक्तिस्तथा श्रुतिर्भगवदुक्तिश्च ।
ज्ञानी त्वात्मैवेयं मतिर्ममेत्यत्र युक्तिरपि ॥
॥१२१॥ऋजु वक्रं वा काष्ठं हुताशदग्धं सदग्नितां याति ।
तत्किं हस्तग्राह्यं ऋजुवक्राकारसत्त्वेऽपि ॥
॥१२२॥एवं य आत्मनिष्ठो ह्यात्माकारश्च जायते पुरुषः ।
देहीव दृश्यतेऽसौ परं त्वसौ केवलो ह्यात्मा ॥
॥१२३॥प्रतिफलति भानुरेकोऽनेकशरावोदकेषु यथा ।
तद्वदसौ परमात्मा ह्येकोऽनेकेषु देहेषु ॥
॥१२४॥दैवादेकशरावे भग्ने किं वा विलीयते सूर्यः ।
प्रतिबिम्बचञ्चलत्वादर्कः किं चञ्चलो भवति ॥
॥१२५॥स्वव्यापारं कुरुते यथैकसवितुः प्रकाशेन ।
तद्वच्चराचरमिदं ह्येकात्मसत्तया चलति ॥
॥१२६॥येनोदकेन कदलीचम्पकजात्यादयः प्रवर्धन्ते ।
मूलकपलाण्डुलशुनास्तेनैवैते विभिन्नरसगन्धाः ॥
॥१२७॥एको हि सूत्रधारः काष्ठप्रकृतीरनेकशो युगपत् ।
स्तम्भाग्रपट्टिकायां नर्तयतीह प्रगूढतया ॥
॥१२८॥गुडखण्डशर्कराद्या भिन्नाः स्युर्विकृतयो यथैकेक्षोः ।
केयूरकङ्कणाद्या यथैकहेम्नो भिदाश्च पृथक् ॥
॥१२९॥एवं पृथक्स्वभावं पृथगाकारं पृथग्वृत्ति ।
जगदुच्चावचमुच्चैरेकेनैवात्मना चलति ॥
॥१३०॥स्कन्धधृतसिद्धमन्नं यावन्नाश्नाति मार्गगस्तावत् ।
स्पर्शभयक्षुत्पीडे तस्मिन्भुक्ते न ते भवतः ॥
॥१३१॥मानुषमतङ्गमहिषश्वसूकरादिष्वनुस्यूतम् ।
यः पश्यति जगदीशं स एव भुङ्क्तेऽद्वयानन्दम् ॥
॥१३२॥कर्तृत्वभोक्तृत्वप्रकरणम्
यद्वत्सूर्येऽभ्युदिते स्वव्यवहारं जनः कुरुते ।
तं न करोति विवस्वान्न कारयति तद्वदात्मापि ॥
॥१३३॥लोहे हुतभुग्व्याप्ते लोहान्तरताड्यमानेऽपि ।
तस्यान्तर्गतवह्नेः किं स्यान्निर्घातजं दुःखम् ॥
॥१३४॥निष्ठुरकुठारघातैः काष्ठे संछेद्यमानेऽपि ।
अन्तर्वर्ती वह्निः किं घातैश्छेद्यते तद्वत् ॥
॥१३५॥ब्रूते श्रुतिरपि भूयोऽनश्नन्नन्योऽभिचाकशीत्यादि ॥
॥१३६॥निशि वेश्मनि प्रदीपे दीप्यति चौरस्तु वित्तमपहरति ।
ईरयति वारयति वा तं दीपः किं तथात्मापि ॥
॥१३७॥गेहान्ते दैववशात्कस्मिंश्चित्समुदिते विपन्ने वा ।
दीपस्तुष्यत्यथवा खिद्यति किं तद्वदात्मापि ॥
॥१३८॥स्वप्रकाशताप्रकरणम्
रविचन्द्रवह्निदीपप्रमुखाः स्वपरप्रकाशाः स्युः ।
यद्यपि तथाप्यमीभिः प्रकाश्यते क्वापि नैवात्मा ॥
॥१३९॥चक्षुर्द्वारैव स्यात्परात्मना भानमेतेषाम् ।
यद्वा तेऽपि पदार्था न ज्ञायन्तेऽथ केवलालोकात् ॥
॥१४०॥तत्राप्यक्षिद्वारा सहायभूतो न चेदात्मा ।
नो चेत्सत्यालोके पश्यत्यन्धः कथं नार्थान् ॥
॥१४१॥सत्यात्मन्यपि किं नो ज्ञानं तच्चेन्द्रियान्तरेण स्यात् ।
अन्धे दृक्प्रतिबन्धे करसंबन्धे पदार्थभानं हि ॥
॥१४२॥जानाति येन सर्वं केन च तं वा विजानीयात् ।
इत्युपनिषदामुक्तिर्बध्यत आत्मात्मना तस्मात् ॥
॥१४३॥नादानुसन्धानप्रकरणम्
यावत्क्षणं क्षणार्धं स्वरूपपरिचिन्तनं क्रियते ।
तावद्दक्षिणकर्णे त्वनाहतः श्रूयते शब्दः ॥
॥१४४॥सिद्ध्यारम्भस्थिरताविश्रमविश्वासबीजशुद्धीनाम् ।
उपलक्षणं हि मनसः परमं नादानुसन्धनम् ॥
॥१४५॥भेरीमृदङ्गशङ्खाद्याहतनादे मनः क्षणं रमते ।
किं पुनरनाहतेऽस्मिन्मधुमधुरेऽखण्डिते स्वच्छे ॥
॥१४६॥चित्तं विषयोपरमाद्यथा यथा याति नैश्चल्यम् ।
वेणोरिव दीर्घतरस्तथा तथा श्रूयते नादः ॥
॥१४७॥नादाभ्यन्तर्वर्ति ज्योतिर्यद्वर्तते हि चिरम् ।
तत्र मनो लीनं चेन्न पुनः संसारबन्धाय ॥
॥१४८॥परमानन्दानुभवात्सुचिरं नादानुसन्धानात् ।
श्रेष्ठश्चित्तलयोऽयं सत्स्वन्यलयेष्वनेकेषु ॥
॥१४९॥मनोलयप्रकरणम्
संसारतापतप्तं नानायोनिभ्रमात्परिश्रान्तम् ।
लब्ध्वा परमानन्दं न चलति चेतः कदा क्वापि ॥
॥१५०॥अद्वैतानन्दभरात्किमिदं कोऽहं च कस्याहम् ।
इति मन्थरतां यातं यदा तदा मूर्छितं चेतः ॥
॥१५१॥चिरतरमात्मानुभवादात्माकारं प्रजायते चेतः ।
सरिदिव सागरयाता समुद्रभावं प्रयात्युच्चैः ॥
॥१५२॥आत्मन्यनुप्रविष्टं चित्तं नापेक्षते पुनर्विषयान् ।
क्षीरादुद्धृतमाज्यं यथा पुनः क्षीरतां न यातीह ॥
॥१५३॥दृष्टौ द्रष्टरि दृश्ये यदनुस्यूतं च भानमात्रं
स्यात् ।
तत्रोपक्षीणं चेच्चित्तं तन्मूर्छितं भवति ॥
॥१५४॥याति स्वसंमुखत्वं दृङ्मात्रं वा यदा तदा भवति ।
दृश्यद्रष्टृविभेदो ह्यसंमुखेऽस्मिन्न तद्भवति ॥
॥१५५॥एकस्मिन्दृङ्मात्रे त्रेधा द्रष्ट्रादिकं हि समुदेति ।
त्रिविधे तस्मिँल्लीने दृङ्मात्रं शिष्यते पश्चात् ॥
॥१५६॥दर्पणतः प्राक्पश्चादस्ति मुखं प्रतिमुखं तदाभाति ।
आदर्शेऽपि च नष्टे मुखमस्ति मुखे तथैवात्मा ॥
॥१५७॥प्रबोधप्रकरणम्
माधुर्यं गुडपिण्डे यत्तत्तस्यांशकेऽणुमात्रेऽपि ।
एवं न पृथग्भावो गुडत्वमधुरत्वयोरस्ति ॥
॥१५८॥अथवा न भिन्नभावः कर्पूरामोदयोरेवम् ।
आत्मस्वरूपमनसां पुंसां जगदात्मतां याति ॥
॥१५९॥यद्भावानुभवः स्यान्निद्रादौ जागरस्यान्ते ।
अन्तः स चेत्स्थिरः स्याल्लभते हि तदाद्वयानन्दम् ॥
॥१६०॥अतिगम्भीरेऽपारे ज्ञानचिदानन्दसागरे स्फारे ।
कर्मसमीरणतरला जीवतरङ्गावलिः स्फुरति ॥
॥१६१॥खरतरकरैः प्रदीप्तेऽभ्युदिते चैतन्यतिग्मांशौ ।
स्फुरति मृषैव समन्तादनेकविधजीवमृगतृष्णा ॥
॥१६२॥अन्तरदृष्टे यस्मिञ्जगदिदमारात्परिस्फुरति ।
दृष्टे यस्मिन्सकृदपि विलीयते क्वाप्यसद्रूपम् ॥
॥१६३॥बाह्याभ्यन्तरपूर्णः परमानन्दार्णवे निमग्नो यः ।
चिरमाप्लुत इव कलशो महाह्रदे जह्नुतनयायाः ॥
॥१६४॥पूर्णात्पूर्णतरे परात्परतरेऽप्यज्ञातपारे हरौ
संवित्स्फारसुधार्णवे विरहिते वीचीतरङ्गादिभिः ।
भास्वत्कोटिविकासितोज्ज्वलदिगाकाशप्रकाशे परे
स्वानन्दैकरसे निमग्नमनसां न त्वं न चाहं जगत् ॥
॥१६५॥द्विधाभक्तिप्रकरणम्
चित्ते सत्त्वोत्पत्तौ तटिदिव बोधोदयो भवति ।
तर्ह्येव स स्थिरः स्याद्यदि चित्तं शुद्धिमुपयाति ॥
॥१६६॥शुद्ध्यति हि नान्तरात्मा कृष्णपदाम्भोजभक्तिमृते ।
वसनमिव क्षारोदैर्भक्त्या प्रक्षाल्यते चेतः ॥
॥१६७॥यद्वत्समलादर्शे सुचिरं भस्मादिना शुद्धे ।
प्रतिफलति वक्त्रमुच्चैः शुद्धे चित्ते तथा ज्ञानम् ॥
॥१६८॥जानन्तु तत्र बीजं हरिभक्त्या ज्ञानिनो ये स्युः ।
मूर्तं चैवामूर्तं द्वे एव ब्रह्मणो रूपे ॥
॥१६९॥इत्युपनिषत्तयोर्वा द्वौ भक्तो भगवदुपदिष्टौ ।
क्लेशादक्लेशाद्वा मुक्तिः स्यादेतयोर्मध्ये ॥
॥१७०॥स्थूला सूक्ष्मा चेति द्वेधा हरिभक्तिरुद्दिष्टा ।
प्रारम्भे स्थूला स्यात्सूक्ष्मा तस्याः सकाशाच्च ॥
॥१७१॥स्वाश्रमधर्माचरणं कृष्णप्रतिमार्चनोत्सवो नित्यम् ।
विविधोपचारकरणैर्हरिदासैः संगमः शश्वत् ॥
॥१७२॥कृश्णकथासंश्रवणे महोत्सवः सत्यवादश्च ।
परयुवतौ द्रविणे वा परापवादे पराङ्मुखता ॥
॥१७३॥ग्राम्यकथासूद्वेगः सुतीर्थगमनेषु तात्पर्यम् ।
यदुपतिकथावियोगे व्यर्थं गतमायुरिति चिन्ता ॥
॥१७४॥एवं कुर्वति भक्तिं कृष्णकथानुग्रहोत्पन्ना ।
समुदेति सूक्ष्मभक्तिर्यस्या हरिरन्तराविशति ॥
॥१७५॥स्मृतिसत्पुराणवाक्यैर्यथाश्रुतायां हरेर्मूर्तौ ।
मानसपूजाभ्यासो विजननिवासेऽपि तात्पर्यम् ॥
॥१७६॥सत्यं समस्तजन्तुषु कृष्णस्यावस्थितेर्ज्ञानम् ।
अद्रोहो भूतगणे ततस्तु भूतानुकम्पा स्यात् ॥
॥१७७॥प्रमितयदृच्छालाभे सन्तुष्टिर्दारपुत्रादौ ।
ममताशून्यत्वमतो निरहंकारत्वमक्रोधः ॥
॥१७८॥मृदुभाषिता प्रसादो निजनिन्दायां स्तुतौ समता ।
सुखदुःखशीतोष्णद्वन्द्वसहिष्णुत्वमापदो न भयम् ॥
॥१७९॥निद्राहारविहारेष्वनादरः सङ्गराहित्यम् ।
वचने चानवकाशः कृष्णस्मरणेन शाश्वती शान्तिः ॥
॥१८०॥केनापि गीयमाने हरिगीते वेणुनादे वा ।
आनन्दाविर्भावो युगपत्स्याद्धृष्टसात्त्विकोद्रेकः ॥
॥१८१॥तस्मिन्ननुभवति मनः प्रगृह्यमाणं परात्मसुखम् ।
स्थिरतां याते तस्मिन्याति मदोन्मत्तदन्तिदशाम् ॥
॥१८२॥जनुषु भगवद्भावं भगवति भूतानि पश्यति क्रमशः ।
एतादृशी दशा चेत्तदैव हरिदसवर्यः स्यात् ॥
॥१८३॥ध्यानविधिप्रकरणम्
यमुनातटनिकटस्थितवृन्दावनकानने महारम्ये ।
कल्पद्रुमतलभूमौ चरणं चरणोपरि स्थाप्य ॥
॥१८४॥तिष्ठन्तं घननीलं स्वतेजसा भासयन्तमिह विश्वम् ।
पीताम्बरपरिधानं चन्दनकर्पूरलिप्तसर्वाङ्गम् ॥
॥१८५॥आकर्णपूर्णनेत्रं कुण्डलयुगमण्डितश्रवणम् ।
मन्दस्मितमुखकमलं सुकौस्तुभोदारमणिहारम् ॥
॥१८६॥वलयाङ्गुलीयकाद्यानुज्ज्वलयन्तं स्वलङ्कारान् ।
गलविलुलितवनमालं स्वतेजसापास्तकलिकालम् ॥
॥१८७॥गुञ्जारवालिकलितं गुञ्जापुञ्जान्विते शिरसि ।
भुञ्जानं सह गोपैः कुञ्जान्तरवर्तिनं हरिं स्मरत ॥
॥१८८॥मन्दारपुष्पवासितमन्दानिलसेवितं परानन्दम् ।
मन्दाकिनीयुतपदं नमत महानन्ददं महापुरुषम् ॥
॥१८९॥सुरभीकृतदिग्वलयं सुरभिशतैरावृतं सदा परितः ।
सुरभीतिक्षपणमहासुरभीमं यादवं नमत ॥
॥१९०॥कंदर्पकोटिसुभगं वाञ्छितफलदं दयार्णवं
कृष्णम् ।
त्यक्त्वा कमन्यविषयं नेत्रयुगं द्रष्टुमुत्सहते ॥
॥१९१॥पुण्यतमामतिसुरसां मनोऽभिरामां हरेः कथां त्यक्त्वा ।
श्रोतुं श्रवणद्वन्द्वं ग्राम्यं कथमादरं भवति ॥
॥१९२॥दौर्भाग्यमिन्द्रियाणां कृष्णे विषये हि शाश्वतिके ।
क्षणिकेषु पापकरणेष्वपि सज्जन्ते यदन्यविषयेषु ॥
॥१९३॥सगुणनिर्गुणयोरैक्यप्रकरणम्
श्रुतिभिर्महापुराणैः सगुणगुणातीतयोरैक्यम् ।
यत्प्रोक्तं गूढतया तदहं वक्ष्येऽतिविशदार्थम् ॥
॥१९४॥भूतेष्वन्तर्यामी ज्ञानमयः सच्चिदानन्दः ।
प्रकृतेः परः परात्मा यदुकुलतिलकः स एवायम् ॥
॥१९५॥ननु सगुणो दृश्यतनुस्तथैकदेशाधिवासश्च ।
स कथं भवेत्परात्मा प्राकृतवद्रागरोषयुतः ॥
॥१९६॥इतरे दृश्यपदार्था लक्ष्यन्तेऽनेन चक्षुषा सर्वे ।
भगवाननया दृष्ट्या न लक्ष्यते ज्ञानदृग्गम्यः ॥
॥१९७॥यद्विश्वरूपदर्शनसमये पार्थाय दत्तवान्भगवान् ।
दिव्यं चक्षुस्तस्माददृश्यता युज्यते नृहरौ ॥
॥१९८॥साक्षाद्यथैकदेशे वर्तुलमुपलभ्यते रवेर्बिम्बम् ।
विश्वं प्रकाशयति तत्सर्वैः सर्वत्र दृश्यते युगपत् ॥
॥१९९॥यद्यपि साकारोऽयं तथैकदेशी विभाति यदुनाथः ।
सर्वगतः सर्वात्मा तथाप्ययं सच्चिदानन्दः ॥
॥२००॥एको भगवान्रेमे युगपद्गोपीष्वनेकासु ।
अथवा विदेहजनकश्रुतदेवभूदेवयोर्हरिर्युगपत् ॥
॥२०१॥अथावा कृष्णाकारां स्वचमूं दुर्योधनोऽपश्यत् ।
तस्माद्व्यापक आत्मा भगवान्हरिरीश्वरः कृष्णः ॥
॥२०२॥वक्षसि यदा जघान श्रीवत्सः श्रीपतेः स किं द्वेष्यः ।
भक्तानामसुराणामन्येषां वा फलं सदृशम् ॥
॥२०३॥तस्मान्न कोऽपि शत्रुर्नो मित्रं नाप्युदासीनः ।
नृहरिः सन्मार्गस्थः सफलः शाखीव यदुनाथः ॥
॥२०४॥लोहशलाकनिवहैः स्पर्शाश्मनि भिद्यमानेऽपि ।
स्वर्णत्वमेति लौहं द्वेषादपि विद्विषां तथा प्राप्तिः ॥
॥२०५॥नन्वात्मनः सकाशादुत्पन्ना जीवसंततिश्चेयम् ।
जगतः प्रियतर आत्मा तत्प्रकृते नैव संभवति ॥
॥२०६॥वत्साहरणावसरे पृथग्वयोरूपवासनाभूषान् ।
हरिरजमोहं कर्तुं सवत्सगोपान्विनिर्ममे स्वस्मात् ॥
॥२०७॥अग्नेर्यथा स्फुलिङ्गाः क्षुद्रास्तु व्युच्चरन्तीति ।
श्रुत्यर्थं दर्शयितुं स्वतनोरतनोत्स जीवसंदोहम् ॥
॥२०८॥यमुनातीरनिकुञ्जे कदाचिदपि वत्सकांश्च चारयति ।
कृष्णे तथार्यगोपेषु च वरगोष्ठेषु चारयत्स्वारात् ॥
॥२०९॥वत्सं निरीक्ष्य दूराद्गावः स्नेहेन संभ्रान्ताः ।
तदभिमुखं धावन्त्यः प्रययुर्गोपैश्च दुर्वाराः ॥
॥२१०॥प्रस्रवभरेण भूयः स्रुतस्तनाः प्राप्य पूर्ववद्वत्सान् ।
पृथुरसनया लिहन्त्यस्तर्णकवत्यः प्रपाययन्प्रमुदा ॥
॥२११॥गोप अपि निजबालाञ्जगृहुर्मूर्धानमाघ्राय ।
इत्थमलौकिकलाभस्तेषां तत्र क्षणं ववृधे ॥
॥२१२॥गोपा वत्साश्चान्या पूर्वं कृष्णात्मका ह्यभवन् ।
तेनात्मनः प्रियत्वं दर्शितमेतेषु कृष्णेन ॥
॥२१३॥प्रेयः पुत्राद्वित्तात्प्रेयोऽन्यस्माच्च सर्वस्मात् ।
अन्तरतरं यदात्मेत्युपनिषदः सत्यताभिहिता ॥
॥२१४॥नन्वुच्चावचभूतेष्वात्मा सम एव वर्ततेऽथ हरिः ।
दुर्योधनेऽर्जुने वा तरतमभावं कथं नु गतवान्सः ॥
॥२१५॥बधिरान्धपङ्गुमूका दीर्घाः खर्वाः सरूपाश्च ।
सर्वे विधिना दृष्टाः सवत्सगोपाश्चतुर्भुजास्तेन ॥
॥२१६॥भूतसमत्वं नृहरेः समो हि मशकेन नागेन ।
लोकैः समस्त्रिभिर्वेत्युपनिषदा भाषितः साक्षात् ॥
॥२१७॥आत्मा तावदभोक्ता तथैव ननु वासुदेवश्चेत् ।
नानाकैतवयत्नैः पररमणीभिः कथं रमते ॥
॥२१८॥सुन्दरमभिनवरूपं कृष्णं दृष्ट्वा विमोहिता गोप्यः ।
तमभिलषन्त्यो मनसा कामाद्विरहव्यथां प्रापुः ॥
॥२१९॥गच्छन्त्यस्तिष्ठन्त्यो गृहकृत्यपराश्च भुञ्जानाः ।
कृष्णं विनान्यविषयं समक्षमपि जातु नाविन्दन् ॥
॥२२०॥दुःसहविरहभ्रान्त्या स्वपतीन्ददृशुस्तरून्नरांश्च
पशून् ।
हरिरयमिति सुप्रीताः सरभसमालिङ्गयांचक्रुः ॥
॥२२१॥काऽपि च कृष्णायन्ती कस्याश्चित्पूतनायन्त्याः ।
अपिबत्स्तनमिति साक्षाद्व्यासो नारायणः प्राह ॥
॥२२२॥तस्मान्निजनिजदयितान्कृष्णाकारान्वृजस्त्रियो वीक्ष्य ।
स्वपरनृपतिपत्नीनामन्तर्यामी हरिः साक्षात् ॥
॥२२३॥परमार्थतो विचारे गुडतन्मधुरत्वदृष्टान्तात् ।
नश्वरमपि नरदेहं परमात्माकारतां याति ॥
॥२२४॥किं पुनरनन्तशक्तेर्लीलावपुरीश्वरस्येह ।
कर्माण्यलौकिकानि स्वमायया विदधतो नृहरेः ॥
॥२२५॥मृद्भक्षणेन कुपिअतां विकसितवदनां स्वमातरं वक्त्रे ।
विश्वमदर्शयदखिलं किं पुनरथ विश्वरूपोऽसौ ॥
॥२२६॥आनुग्रहिकप्रकरणम्
विषविषमस्तनयुगलं पाययितुं पूतना गृहं प्राप्ता ।
तस्याः पृथुभाग्याया आसीत्कृष्णार्पणो देहः ॥
॥२२७॥अनयत्पृथुतरशकटं निजनिकटं वा कृतापराधमपि ।
कण्ठाश्लेषविशेषादवधीद्बाल्येऽसुरं कृष्णः ॥
॥२२८॥यमलार्जुनौ तरू उन्मूल्योलूखलगतश्चिरं खिन्नौ ।
रिङ्गन्नङ्गणभूमौ स्वमालयं प्रापयन्नृहरिः ॥
॥२२९॥नित्यं त्रिदशद्वेषी येन च मृत्योर्वशीकृतः केशी ।
काकः कोऽपि वराको बकोऽप्यशोकं गतो लोकम् ॥
॥२३०॥गोगोपीगोपानां निकरमहि पीडयन्तमतिवेगात् ।
अनघमघासुरमकरोत्पृथुतरमुरगेश्वरं भगवान् ॥
॥२३१॥पीत्वारण्यहुताशनमसह्यतत्तेजसो हेतोः ।
दग्धान्मुग्धानखिलाञ्जुगोप गोपान्कृपासिन्धुः ॥
॥२३२॥पातु गोकुलमाकुलमशनितटिद्वर्षणैः कृष्णः ।
असहायएकहस्ते गोवर्धनमुद्दधारोच्चैः ॥
॥२३३॥वासोलोभाकलितं धावद्रजकं शिलातलैर्हत्वा ।
विस्मृत्य तदपराधं विकुण्ठवासोऽर्पितस्तस्मै ॥
॥२३४॥त्रेधा वक्रशरीरामतिलम्बोष्ठीं स्खलद्वपुर्वचनात् ।
स्रक्चन्दनपरितोषात्कुब्जामृज्वाननामकरोत् ॥
॥२३५॥निहतः पपात हरिणा हरिचरणाग्रेण कुवलयापीडः ।
तुङ्गोन्मत्तमतङ्गः पतङ्गवद्दीपकस्याग्रे ॥
॥२३६॥युद्धमिषात्सह रङ्गे श्रीरङ्गेनाङ्गसङ्गमं प्राप्य ।
मुस्श्टिकचाणूराख्यौ ययतुर्निःश्रेयसं सपदि ॥
॥२३७॥देहकृतादपराधाद्वैकुण्ठोत्कण्ठितान्तरात्मानम् ।
यदुवरकुलावतंसः कंसं विध्वंसयामास ॥
॥२३८॥हरिसंदर्शनयोगात्पृथुरणतीर्थे निमज्जते तस्मै ।
भगवान्नु प्रददाद्यः सद्यश्चैद्याय सायुज्यम् ॥
॥२३९॥मीनादिभिरवतारैर्निहताः सुरविद्विषो बहवः ।
नीतास्ते निजरूपं तत्र च मोक्षस्य का वार्ता ॥
॥२४०॥ये यदुनन्दननिहतास्ते तु न भूयः पुनर्भवं प्रापुः ।
तस्मादवताराणामन्तर्यामी प्रवर्तकः कृष्णः ॥
॥२४१॥ब्रह्माण्डानि बहूनि पङ्कजभवान्प्रत्यण्डमत्यद्भुतान्
गोपान्वत्सयुतानदर्शयदजं विष्णूनशेषांश्च यः ।
शम्भुर्यच्चरणोदकं स्वशिरसा धत्ते च मूर्तित्रयात्
कृष्णो वै पृथगस्ति कोऽप्यविकृतः सच्चिन्मयो नीलिमा ॥
॥२४२॥कृपापात्रं यस्य त्रिपुररिपुरम्भोजवसतिः
सुता जह्नोः पूता चरणनखनिर्णेजनजलम् ।
प्रदानं वा यस्य त्रिभुवनपतित्वं विभुरपि
निदानं सोऽस्माकं जयति कुलदेवो यदुपतिः ॥
॥२४३॥मायाहस्तेऽर्पयित्वा भरणकृतिकृते मोहमूलोद्भवं मां
मातः कृष्णाभिधाने चिरसमयमुदासीनभावं गतासि ।
कारुण्यैकाधिवासे सकृदपि वदनं नेक्षसे त्वं मदीयं
तत्सर्वज्ञे न कर्तुं प्रभवसि भवती किं नु मूलस्य शान्तिम् ॥
॥२४४॥उदासीनः स्तब्धः सततमगुणः सङ्गरहितो
भवांस्तातः कातः परमिह भवेज्जीवनगतिः ।
अकस्मादस्माकं यदि न कुरुते स्नेहमथ तत्
वसस्व स्वीयान्तर्विमलजठरेऽस्मिन्पुनरपि ॥
॥२४५॥लोकाधीशे त्वयीशे किमिति भवभवा वेदना स्वाश्रितानां
संकोचः पङ्कजानां किमिह समुदिते मण्डले चण्डरश्मेः ।
भोगः पूर्वार्जितानां भवति भुवि नृणां कर्मणां चेदवश्यं
तन्मे दृष्टैर्नृपुष्टैर्ननु दनुजनृपैरूर्जितं निर्जितं ते ॥
॥२४६॥नित्यानन्दसुधानिधेरधिगतः सन्नीलमेघः सता-
मौत्कण्ठ्यप्रबलप्रभञ्जनभरैराकर्षितो वर्षति ।
विज्ञानामृतमद्भुतं निजवचो धाराभिरारादिदं
चेतश्चातक चेन्न वाञ्छतिमृषाक्रान्तोऽसि सुप्तोऽसि किम् ॥
॥२४७॥चेतश्चञ्चलतां विहाय पुरतः संधाय कोटिद्वयं
तत्रैकत्र निधेहि सर्वविषयानन्यत्र च श्रीपतिम् ।
विश्रान्तिर्हितमप्यहो क्व नु त्वयोर्मध्ये तदालोच्यतां
युक्त्या वानुभवेन यत्र परमानन्दश्च तत्सेव्यताम् ॥
॥२४८॥पुत्रान्पौत्रमथस्त्रियोऽन्ययुवतीर्वित्तन्यथोऽन्यद्धनं
भोज्यादिष्वपि तारतम्यवशतो नालं समुत्कण्ठया ।
नैतादृग्यदुनायके समुदिते चेतस्यनन्ते विभौ
सान्द्रानन्दसुधार्णवे विहरति स्वैरं यतो निर्भयम् ॥
॥२४९॥काम्योपासनयार्थयन्त्यनुदिनं किंचित्फलं सेप्सितं
किंचित्स्वर्गमथापवर्गमपरैर्योगादियज्ञादिभिः ।
अस्माकं यदुनन्दनाङ्घ्रियुगलध्यानावधानार्थिनां
किं लोकेन दमेन किं नृपतिना स्वर्गापवर्गैश्च किम् ॥
॥२५०॥आश्रितमात्रं पुरुषं
स्वाभिमुखं कर्षति श्रीशः ।
लोहमपि चुम्बकाश्मा
संमुखमात्रं जडं यद्वत् ॥
॥२५१॥अयमुत्तमोऽयमधमो
जात्या रूपेण सम्पदा वयसा ।
श्लाघ्योऽश्लाघ्यो वेत्थं
न वेत्ति भगवाननुग्रहावसरे ॥
॥२५२॥अन्तःस्थभावभोक्ता
ततोऽन्तरात्मा महामेघः ।
खदिरश्चम्पक इव वा
प्रवर्षणं किं विचारयति ॥
॥२५३॥यद्यपि सर्वत्र समस्तथापि नृहरिस्तथाप्येते ।
भक्ताः परमानन्दे रमन्ति सदयावलोकेन ॥
॥२५४॥सुतरामनन्यशरणाः क्षीराद्याहारमन्तरा यद्वत् ।
केवलया स्नेहदृशा कच्छपतनयाः प्रजीवन्ति ॥
॥२५५॥यद्यपि गगनं शून्यं तथापि जलदामृतांश्रूपेण ।
चातकचकोरनाम्नोर्दृढभावात्पूरयत्याशाम् ॥
॥२५६॥तद्वद्रजतां पुंसां दृग्वाङ्मनसामगोचरोऽपि हरिः ।
कृपया फलत्यकस्मात्सत्यानन्दामृतेन विपुलेन ॥
॥२५७॥इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ प्रबोधसुधाकरः समाप्तः