चतुर्थमायुषो भागमुषित्वाद्यं गुरौ द्विजाः
द्वितीयमायुषो भागं कृतदारो गृहे वसेत्
॥१॥अद्रोहेणैव भूतानामल्पद्रोहेण वा पुनः
या वृत्तिस्तां समास्थाय विप्रो जीवेदनापदि
॥२॥यात्रामात्रप्रसिद्ध्यर्थं स्वैः कर्मभिरगर्हितैः
अक्लेशेन शरीरस्य कुर्वीत धनसंचयम्
॥३॥ऋतामृताभ्यां जीवेत्तु मृतेन प्रमृतेन वा
सत्यानृताभ्यामपि वा न श्ववृत्त्या कदा चन
॥४॥ऋतमुञ्छशिलं ज्ञेयममृतं स्यादयाचितम्
मृतं तु याचितं भैक्षं प्रमृतं कर्षणं स्मृतम्
॥५॥सत्यानृतं तु वाणिज्यं तेन चैवापि जीव्यते
सेवा श्ववृत्तिराख्याता तस्मात्तां परिवर्जयेत्
॥६॥कुसूलधान्यको वा स्यात्कुम्भीधान्यक एव वा
त्र्यहैहिको वापि भवेदश्वस्तनिक एव वा
॥७॥चतुर्णामपि चैतेषां द्विजानां गृहमेधिनाम्
ज्यायान्परः परो ज्ञेयो धर्मतो लोकजित्तमः
॥८॥षट्कर्मैको भवत्येषां त्रिभिरन्यः प्रवर्तते
द्वाभ्यामेकश्चतुर्थस्तु ब्रह्मसत्त्रेण जीवति
॥९॥वर्तयंश्च शिलोञ्छाभ्यामग्निहोत्रपरायणः
इष्टीः पार्वायणान्तीयाः केवला निर्वपेत्सदा
॥१०॥न लोकवृत्तं वर्तेत वृत्तिहेतोः कथं चन
अजिह्मामशथां शुद्धां जीवेद्ब्राह्मणजीविकाम्
॥११॥संतोषं परमास्थाय सुखार्थी संयतो भवेत्
संतोषमूलं हि सुखं दुःखमूलं विपर्ययः
॥१२॥अतोऽन्यतमया वृत्त्या जीवंस्तु स्नातको द्विजः
स्वर्गायुष्ययशस्यानि व्रताणीमानि धारयेत्
॥१३॥वेदोदितं स्वकं कर्म नित्यं कुर्यादतन्द्रितः
तद्धि कुर्वन्यथाशक्ति प्राप्नोति परमां गतिम्
॥१४॥नेहेतार्थान्प्रसङ्गेन न विरुद्धेन कर्मणा
न विद्यमानेष्वर्थेषु नार्त्यामपि यतस्ततः
॥१५॥इन्द्रियार्थेषु सर्वेषु न प्रसज्येत कामतः
अतिप्रसक्तिं चैतेषां मनसा संनिवर्तयेत्
॥१६॥सर्वान्परित्यजेदर्थान्स्वाध्यायस्य विरोधिनः
यथा तथाध्यापयंस्तु सा ह्यस्य कृतकृत्यता
॥१७॥वयसः कर्मणोऽर्थस्य श्रुतस्याभिजनस्य च
वेषवाग्बुद्धिसारूप्यमाचरन्विचरेदिह
॥१८॥बुद्धिवृद्धिकराण्याशु धन्यानि च हितानि च
नित्यं शास्त्राण्यवेक्षेत निगमांश्चैव वैदिकान्
॥१९॥यथा यथा हि पुरुषः शास्त्रं समधिगच्छति
तथा तथा विजानाति विज्ञानं चास्य रोचते
॥२०॥ऋषियज्ञं देवयज्ञं भूतयज्ञं च सर्वदा
नृयज्ञं पितृयज्ञं च यथाशक्ति न हापयेत्
॥२१॥एतानेके महायज्ञान्यज्ञशास्त्रविदो जनाः
अनीहमानाः सततमिन्द्रियेष्वेव जुह्वति
॥२२॥वाच्येके जुह्वति प्राणं प्राणे वाचं च सर्वदा
वाचि प्राणे च पश्यन्तो यज्ञनिर्वृत्तिमक्षयाम्
॥२३॥ज्ञानेनैवापरे विप्रा यजन्त्येतैर्मखैः सदा
ज्ञानमूलां क्रियामेषां पश्यन्तो ज्ञानचक्षुषा
॥२४॥अग्निहोत्रं च जुहुयादाद्यन्ते द्युनिशोः सदा
दर्शेन चार्धमासान्ते पौर्णामासेन चैव हि
॥२५॥सस्यान्ते नवसस्येष्ट्या तथा र्त्वन्ते द्विजोऽध्वरैः
पशुना त्वयनस्यादौ समान्ते सौमिकैर्मखैः
॥२६॥नानिष्ट्वा नवसस्येष्ट्या पशुना चाग्निमान्द्विजः
नवान्नमद्यान्मांसं वा दीर्घमायुर्जिजीविषुः
॥२७॥नवेनानर्चिता ह्यस्य पशुहव्येन चाग्नयः
प्राणानेवात्तुमिच्छन्ति नवान्नामिषगर्धिनः
॥२८॥आसनाशनशय्याभिरद्भिर्मूलफलेन वा
नास्य कश्चिद्वसेद्गेहे शक्तितोऽनर्चितोऽतिथिः
॥२९॥पाषाण्डिनो विकर्मस्थान्बैडालव्रतिकाञ्शठान्
हैतुकान्बकवृत्तींश्च वाङ्गात्रेणापि नार्चयेत्
॥३०॥वेदविद्याव्रतस्नाताञ्श्रोत्रियान्गृहमेधिनः
पूजयेद्धव्यकव्येन विपरीतांश्च वर्जयेत्
॥३१॥शक्तितोऽपचमानेभ्यो दातव्यं गृहमेधिना
संविभागश्च भूतेभ्यः कर्तव्योऽनुपरोधतः
॥३२॥राजतो धनमन्विच्छेत्संसीदन्स्नातकः क्षुधा
याज्यान्तेवासिनोर्वापि न त्वन्यत इति स्थितिः
॥३३॥न सीदेत्स्नातको विप्रः क्षुधा शक्तः कथं चन
न जीर्णमलवद्वासा भवेच्च विभवे सति
॥३४॥कॢप्तकेशनखश्मश्रुर्दान्तः शुक्लाम्बरः शुचिः
स्वाध्याये चैव युक्तः स्यान्नित्यमात्महितेषु च
॥३५॥वैणवीं धारयेद्यष्टिं सोदकं च कमण्डलुम्
यज्ञोपवीतं वेदं च शुभं रौक्मे च कुण्डले
॥३६॥नेक्षेतोद्यन्तमादित्यं नास्तं यान्तं कदा चन
नोपसृष्टं न वारिस्थं न मध्यं नभसो गतम्
॥३७॥न लङ्घयेद्वत्सतन्त्रीं न प्रधावेच्च वर्षति
न चोदके निरीक्षेत स्वरूपमिति धारणा
॥३८॥मृदं गां दैवतं विप्रं घृतं मधु चतुष्पथम्
प्रदक्षिणानि कुर्वीत प्रज्ञातांश्च वनस्पतीन्
॥३९॥नोपगच्छेत्प्रमत्तोऽपि स्त्रियमार्तवदर्शने
समानशयने चैव न शयीत तया सह
॥४०॥रजसाभिप्लुतां नारीं नरस्य ह्युपगच्छतः
प्रज्ञा तेजो बलं चक्षुरायुश्चैव प्रहीयते
॥४१॥तां विवर्जयतस्तस्य रजसा समभिप्लुताम्
प्रज्ञा तेजो बलं चक्षुरायुश्चैव प्रवर्धते
॥४२॥नाश्नीयाद्भार्यया सार्धं नैनामीक्षेत चाश्नतीम्
क्षुवतीं जृम्भमाणां वा न चासीनां यथासुखम्
॥४३॥नाञ्जयन्तीं स्वके नेत्रे न चाभ्यक्तामनावृताम्
न पश्येत्प्रसवन्तीं च तेजस्कामो द्विजोत्तमः
॥४४॥नान्नमद्यादेकवासा न नग्नः स्नानमाचरेत्
न मूत्रं पथि कुर्वीत न भस्मनि न गोव्रजे
॥४५॥न फालकृष्टे न जले न चित्यां न च पर्वते
न जीर्णदेवायतने न वल्मीके कदा चन
॥४६॥न ससत्त्वेषु गर्तेषु न गच्छन्नपि न स्थितः
न नदीतीरमासाद्य न च पर्वतमस्तके
॥४७॥वाय्वग्निविप्रमादित्यमपः पश्यंस्तथैव गाः
न कदा चन कुर्वीत विण्मूत्रस्य विसर्जनम्
॥४८॥तिरस्कृत्योच्चरेत्काष्ठलोष्ठपत्रतृणादिना
नियम्य प्रयतो वाचं संवीताङ्गोऽवगुण्ठितः
॥४९॥मूत्रोच्चारसमुत्सर्गं दिवा कुर्यादुदङ्मुखः
दक्षिणाभिमुखो रात्रौ संध्यायोश्च यथा दिवा
॥५०॥छायायामन्धकारे वा रात्रावहनि वा द्विजः
यथासुखमुखः कुर्यात्प्राणबाधभयेषु च
॥५१॥प्रत्यग्निं प्रतिसूर्यं च प्रतिसोमोदकद्विजम्
प्रतिगु प्रतिवातं च प्रज्ञा नश्यति मेहतः
॥५२॥नाग्निं मुखेनोपधमेन्नग्नां नेक्षेत च स्त्रियम्
नामेध्यं प्रक्षिपेदग्नौ न च पादौ प्रतापयेत्
॥५३॥अधस्तान्नोपदध्याच्च न चैनमभिलङ्घयेत्
न चैनं पादतः कुर्यान्न प्राणाबाधमाचरेत्
॥५४॥नाश्नीयात्संधिवेलायां न गच्छेन्नापि संविशेत्
न चैव प्रलिखेद्भूमिं नात्मनोऽपहरेत्स्रजम्
॥५५॥नाप्सु मूत्रं पुरीषं वा ष्ठीवनं वा समुत्सृजेत्
अमेध्यलिप्तमन्यद्वा लोहितं वा विषाणि वा
॥५६॥नैकः सुप्याच्छून्यगेहे न श्रेयांसं प्रबोधयेत्
नोदक्ययाभिभाषेत यज्ञं गच्छेन्न चावृतः
॥५७॥अग्न्यगारे गवां गोष्ठे ब्राह्मणानां च संनिधौ
स्वाध्याये भोजने चैव दक्षिनं पाणिमुद्धरेत्
॥५८॥न वारयेद्गां धयन्तीं न चाचक्षीत कस्य चित्
न दिवीन्द्रायुधं दृष्ट्वा कस्य चिद्दर्शयेद्बुधः
॥५९॥नाधर्मिके वसेद्ग्रामे न व्याधिबहुले भृशम्
नैकः प्रपद्येताध्वानं न चिरं पर्वते वसेत्
॥६०॥न शूद्रराज्ये निवसेन्नाधार्मिकजनावृते
न पाषण्डिगणाक्रान्ते नोपस्षृटेऽन्त्यजैर्नृभिः
॥६१॥न भुञ्जीतोद्धृतस्नेहं नातिसौहित्यमाचरेत्
नातिप्रगे नातिसायं न सायं प्रातराशितः
॥६२॥न कुर्वीत वृथाचेष्टां न वार्यञ्जलिना पिबेत्
नोत्सङ्गे भक्षयेद्भक्ष्यान्न जातु स्यात्कुतूहली
॥६३॥न नृत्येदथ वा गायेन्न वादित्राणि वादयेत्
नास्फोटयेन्न च क्ष्वेडेन्न च रक्तो विरावयेत्
॥६४॥न पादौ धावयेत्कांस्ये कदा चिदपि भाजने
न भिन्नभाण्डे भुञ्जीत न भावप्रतिदूषिते
॥६५॥उपानहौ च वासश्च धृतमन्यैर्न धारयेत्
उपवीतमलङ्कारं स्रजं करकमेव च
॥६६॥नाविनीतैर्भजेद्धुर्यैर्न च क्षुध्व्याधिपीडितैः
न भिन्नशृङ्गाक्षिखुरैर्न वालधिविरूपितैः
॥६७॥विनीतैस्तु व्रजेन्नित्यमाशुगैर्लक्षणान्वितैः
वर्णरूपोपसंपन्नैः प्रतोदेनातुदन्भृशम्
॥६८॥बालातपः प्रेतधूमो वर्ज्यं भिन्नं तथासनम्
न छिन्द्यान्नखरोमाणि दन्तैर्नोत्पाटयेन्नखान्
॥६९॥न मृल्लोष्ठं च मृद्नीयान्न छिन्द्यात्करजैस्तृणम्
न कर्म निष्फलं कुर्यान्नायत्यामसुखोदयम्
॥७०॥लोष्ठमर्दी तृणच्छेदी नखखादी च यो नरः
स विनाशं व्रजत्याशु सूचकाशुचिरेव च
॥७१॥न विगर्ह्य कथां कुर्याद्बहिर्माल्यं न धारयेत्
गवां च यानं पृष्ठेन सर्वथैव विगर्हितम्
॥७२॥अद्वारेण च नातीयाद्ग्रामं वा वेश्म वावृतम्
रात्रौ च वृक्षमूलानि दूरतः परिवर्जयेत्
॥७३॥नाक्षैर्दीव्येत्कदा चित्तु स्वयं नोपानहौ हरेत्
शयनस्थो न भुञ्जीत न पाणिस्थं न चासने
॥७४॥सर्वं च तिलसंबद्धं नाद्यादस्तमिते रवौ
न च नग्नः शयीतेह न चोच्छिष्टः क्व चिद्व्रजेत्
॥७५॥आर्द्रपादस्तु भुञ्जीत नार्द्रपादस्तु संविशेत्
आर्द्रपादस्तु भुञ्जानो दीर्घमायुरवाप्नुयात्
॥७६॥अचक्षुर्विषयं दुर्गं न प्रपद्येत कर्हि चित्
न विण्मूत्रमुदीक्षेत न बाहुभ्यां नदीं तरेत्
॥७७॥अधितिष्ठेन्न केशांस्तु न भस्मास्थिकपालिकाः
न कार्पासास्थि न तुषान्दीर्घमायुर्जिजीविषुः
॥७८॥न संवसेच्च पतितैर्न चाण्डालैर्न पुल्कसैः
न मूर्खैर्नावलिप्तैश्च नान्त्यैर्नान्त्यावसायिभिः
॥७९॥न शूद्राय मतिं दद्यान्नोच्छिष्टं न हविष्कृतम्
न चास्योपदिशेद्धर्मं न चास्य व्रतमादिशेत्
॥८०॥यो ह्यस्य धर्ममाचष्टे यश्चैवादिशति व्रतम्
सोऽसंवृतं नाम तमः सह तेनैव मज्जति
॥८१॥न संहताभ्यां पाणिभ्यां कण्डूयेदात्मनः शिरः
न स्पृशेच्चैतदुच्छिष्टो न च स्नायाद्विना ततः
॥८२॥केशग्रहान्प्रहारांश्च शिरस्येतान्विवर्जयेत्
शिरःस्नातश्च तैलेन नाङ्गं किं चिदपि स्पृशेत्
॥८३॥न राज्ञः प्रतिगृह्णीयादराजन्यप्रसूतितः
सूनाचक्रध्वजवतां वेशेनैव च जीवताम्
॥८४॥दशसूनासमं चक्रं दशचक्रसमो ध्वजः
दशध्वजसमो वेशो दशवेशसमो नृपः
॥८५॥दश सूणासहस्राणि यो वाहयति सौनिकः
तेन तुल्यः स्मृतो राजा घोरस्तस्य प्रतिग्रहः
॥८६॥यो राज्ञः प्रतिगृह्णाति लुब्धस्योच्छास्त्रवर्तिनः
स पर्यायेण यातीमान्नरकानेकविंशतिम्
॥८७॥तामिस्रमन्धतामिस्रं महारौरवरौरवौ
नरकं कालसूत्रं च महानरकमेव च
॥८८॥संजीवनं महावीचिं तपनं संप्रतापनम्
संहातं च सकाकोलं कुड्मलं प्रतिमूर्तिकम्
॥८९॥लोहशङ्कुमृजीषं च पन्थानं शाल्मलीं नदीम्
असिपत्रवनं चैव लोहदारकमेव च
॥९०॥एतद्विदन्तो विद्वांसो ब्राह्मणा ब्रह्मवादिनः
न राज्ञः प्रतिगृह्णन्ति प्रेत्य श्रेयोऽभिकाङ्क्षिणः
॥९१॥ब्राह्मे मुहूर्ते बुध्येत धर्मार्थौ चानुचिन्तयेत्
कायक्लेशांश्च तन्मूलान्वेदतत्त्वार्थमेव च
॥९२॥उत्थायावश्यकं कृत्वा कृतशौचः समाहितः
पूर्वां संध्यां जपंस्तिष्ठेत्स्वकाले चापरां चिरम्
॥९३॥ऋषयो दीर्घसंध्यत्वाद्दीर्घमायुरवाप्नुयुः
प्रज्ञां यशश्च कीर्तिं च ब्रह्मवर्चसमेव च
॥९४॥श्रावण्यां प्रौष्ठपद्यां वाप्युपाकृत्य यथाविधि
युक्तश्छन्दांस्यधीयीत मासान्विप्रोऽर्धपञ्चमान्
॥९५॥पुष्ये तु छन्दसां कुर्याद्बहिरुत्सर्जनं द्विजः
माघशुक्लस्य वा प्राप्ते पूर्वाह्णे प्रथमेऽहनि
॥९६॥यथाशास्त्रं तु कृत्वैवमुत्सर्गं छन्दसां बहिः
विरमेत्पक्षिणीं रात्रिं तदेवैकमहर्निशम्
॥९७॥अत ऊर्ध्वं तु छन्दांसि शुक्लेषु नियतः पठेत्
वेदाङ्गानि च सर्वाणि कृष्णपक्षेषु संपठेत्
॥९८॥नाविस्पष्टमधीयीत न शूद्रजनसन्निधौ
न निशान्ते परिश्रान्तो ब्रह्माधीत्य पुनः स्वपेत्
॥९९॥यथोदितेन विधिना नित्यं छन्दस्कृतं पठेत्
ब्रह्म छन्दस्कृतं चैव द्विजो युक्तो ह्यनापदि
॥१००॥इमान्नित्यमनध्यायानधीयानो विवर्जयेत्
अध्यापनं च कुर्वाणः शिष्याणां विधिपूर्वकम्
॥१०१॥कर्णश्रवेऽनिले रात्रौ दिवा पांसुसमूहने
एतौ वर्षास्वनध्यायावध्यायज्ञाः प्रचक्षते
॥१०२॥विद्युत्स्तनितवर्षेषु महोल्कानां च संप्लवे
आकालिकमनध्यायमेतेषु मनुरब्रवीत्
॥१०३॥एतांस्त्वभ्युदितान्विद्याद्यदा प्रादुष्कृताग्निषु
तदा विद्यादनध्यायमनृतौ चाभ्रदर्शने
॥१०४॥निर्घाते भूमिचलने ज्योतिषां चोपसर्जने
एतानाकालिकान्विद्यादनध्यायानृतावपि
॥१०५॥प्रादुष्कृतेष्वग्निषु तु विद्युत्स्तनितनिःस्वने
सज्योतिः स्यादनध्यायः शेषे रात्रौ यथा दिवा
॥१०६॥नित्यानध्याय एव स्याद्ग्रामेषु नगरेषु च
धर्मनैपुण्यकामानां पूतिगन्धे च सर्वदा
॥१०७॥अन्तर्गतशवे ग्रामे वृषलस्य च सन्निधौ
अनध्यायो रुद्यमाने समवाये जनस्य च
॥१०८॥उदके मध्यरात्रे च विण्मूत्रस्य विसर्जने
उच्छिष्टः श्राद्धभुक्चैव मनसापि न चिन्तयेत्
॥१०९॥प्रतिगृह्य द्विजो विद्वानेकोद्दिष्टस्य केतनम्
त्र्यहं न कीर्तयेद्ब्रह्म राज्ञो राहोश्च सूतके
॥११०॥यावदेकानुदिष्टस्य गन्धो लेपश्च तिष्ठति
विप्रस्य विदुषो देहे तावद्ब्रह्म न कीर्तयेत्
॥१११॥शयानः प्रौढपादश्च कृत्वा चैवावसक्थिकाम्
नाधीयीतामिषं जग्ध्वा सूतकान्नाद्यमेव च
॥११२॥नीहारे बाणशब्दे च संध्ययोरेव चोभयोः
अमावास्याचतुर्दश्योः पौर्णमास्यष्टकासु च
॥११३॥अमावास्या गुरुं हन्ति शिष्यं हन्ति चतुर्दशी
ब्रह्माष्टकपौर्णमास्यौ तस्मात्ताः परिवर्जयेत्
॥११४॥पांसुवर्षे दिशां दाहे गोमायुविरुते तथा
श्वखरोष्ट्रे च रुवति पङ्क्तौ च न पठेद्द्विजः
॥११५॥नाधीयीत श्मशानान्ते ग्रामान्ते गोव्रजेऽपि वा
वसित्वा मैथुनं वासः श्राद्धिकं प्रतिगृह्य च
॥११६॥प्राणि वा यदि वाप्राणि यत्किं चिच्छ्राद्धिकं भवेत्
तदालभ्याप्यनध्यायः पाण्यास्यो हि द्विजः स्मृतः
॥११७॥चोरैरुपद्रुते ग्रामे संभ्रमे चाग्निकारिते
आकालिकमनध्यायं विद्यात्सर्वाद्भुतेषु च
॥११८॥उपाकर्मणि चोत्सर्गे त्रिरात्रं क्षेपणं स्मृतम्
अष्टकासु त्वहोरात्रमृत्वन्तासु च रात्रिषु
॥११९॥नाधीयीताश्वमारूढो न वृक्षं न च हस्तिनम्
न नावं न खरं नोष्ट्रं नेरिणस्थो न यानगः
॥१२०॥न विवादे न कलहे न सेनायां न संगरे
न भुक्तमात्रे नाजीर्णे न वमित्वा न शुक्तके
॥१२१॥अतिथिं चाननुज्ञाप्य मारुते वाति वा भृशम्
रुधिरे च स्रुते गात्राच्छस्त्रेण च परिक्षते
॥१२२॥सामध्वनावृग्यजुषी नाधीयीत कदा चन
वेदस्याधीत्य वाप्यन्तमारण्यकमधीत्य च
॥१२३॥ऋग्वेदो देवदैवत्यो यजुर्वेदस्तु मानुषः
सामवेदः स्मृतः पित्र्यस्तस्मात्तस्याशुचिर्ध्वनिः
॥१२४॥एतद्विद्वन्तो विद्वांसस्त्रयीनिष्कर्षमन्वहम्
क्रमतः पूर्वमभ्यस्य पश्चाद्वेदमधीयते
॥१२५॥पशुमण्डूकमार्जारश्वसर्पनकुलाखुभिः
अन्तरागमने विद्यादनध्यायमहर्निशम्
॥१२६॥द्वावेव वर्जयेन्नित्यमनध्यायौ प्रयत्नतः
स्वाध्यायभूमिं चाशुद्धमात्मानं चाशुचिं द्विजः
॥१२७॥अमावास्यामष्टमीं च पौर्णमासीं चतुर्दशीम्
ब्रह्मचारी भवेन्नित्यमप्यृतौ स्नातको द्विजः
॥१२८॥न स्नानमाचरेद्भुक्त्वा नातुरो न महानिशि
न वासोभिः सहाजस्रं नाविज्ञाते जलाशये
॥१२९॥देवतानां गुरो राज्ञः स्नातकाचार्ययोस्तथा
नाक्रामेत्कामतश्छायां बभ्रुणो दीक्षितस्य च
॥१३०॥मध्यंदिनेऽर्धरात्रे च श्राद्धं भुक्त्वा च सामिषम्
संध्ययोरुभयोश्चैव न सेवेत चतुष्पथम्
॥१३१॥उद्वर्तनमपस्नानं विण्मूत्रे रक्तमेव च
श्लेश्मनिष्ठ्यूतवान्तानि नाधितिष्ठेत्तु कामतः
॥१३२॥वैरिणं नोपसेवेत सहायं चैव वैरिणः
अधार्मिकं तस्करं च परस्यैव च योषितं
॥१३३॥न हीदृशमनायुष्यं लोके किं चन विद्यते
यादृशं पुरुषस्येह परदारोपसेवनम्
॥१३४॥क्षत्रियं चैव सर्पं च ब्राह्मणं च बहुश्रुतम्
नावमन्येत वै भूष्णुः कृशानपि कदा चन
॥१३५॥एतत्त्रयं हि पुरुषं निर्दहेदवमानितम्
तस्मादेतत्त्रयं नित्यं नावमन्येत बुद्धिमान्
॥१३६॥नात्मानमवमन्येत पुर्वाभिरसमृद्धिभिः
आ मृत्योः श्रियमन्विच्छेन्नैनां मन्येत दुर्लभाम्
॥१३७॥सत्यं ब्रूयात्प्रियं ब्रूयान्न ब्रूयात्सत्यमप्रियम्
प्रियं च नानृतं ब्रूयादेष धर्मः सनातनः
॥१३८॥भद्रं भद्रमिति ब्रूयाद्भद्रमित्येव वा वदेत्
शुष्कवैरं विवादं च न कुर्यात्केन चित्सह
॥१३९॥नातिकल्यं नातिसायं नातिमध्यंदिने स्थिते
नाज्ञातेन समं गच्छेन्नैको न वृषलैः सह
॥१४०॥हीनाङ्गानतिरिक्ताङ्गान्विद्याहीनान्वयोऽधिकान्
रूपद्रविणहीनांश्च जातिहीनांश्च नाक्षिपेत्
॥१४१॥न स्पृशेत्पाणिनोच्छिष्टो विप्रो गोब्राह्मणानलाण्
न चापि पश्येदशुचिः सुस्थो ज्योतिर्गणान्दिवा
॥१४२॥स्पृष्ट्वैतानशुचिर्नित्यमद्भिः प्राणानुपस्पृशेत्
गात्राणि चैव सर्वाणि नाभिं पाणितलेन तु
॥१४३॥अनातुरः स्वानि खानि न स्पृशेदनिमित्ततः
रोमाणि च रहस्यानि सर्वाण्येव विवर्जयेत्
॥१४४॥मङ्गलाचारयुक्तः स्यात्प्रयतात्मा जितेन्द्रियः
जपेच्च जुहुयाच्चैव नित्यमग्निमतन्द्रितः
॥१४५॥मङ्गलाचारयुक्तानां नित्यं च प्रयतात्मनाम्
जपतां जुह्वतां चैव विनिपातो न विद्यते
॥१४६॥वेदमेवाभ्यसेन्नित्यं यथाकालमतन्द्रितः
तं ह्यस्याहुः परं धर्ममुपधर्मोऽन्य उच्यते
॥१४७॥वेदाभ्यासेन सततं शौचेन तपसैव च
अद्रोहेण च भूतानां जातिं स्मरति पौर्विकीम्
॥१४८॥पौर्विकीं संस्मरन्जातिं ब्रह्मैवाभ्यस्यते पुनः
ब्रह्माभ्यासेन चाजस्रमनन्तं सुखमश्नुते
॥१४९॥सावित्राञ्शान्तिहोमांश्च कुर्यात्पर्वसु नित्यशः
पितॄंश्चैवाष्टकास्वर्चेन्नित्यमन्वष्टकासु च
॥१५०॥दूरादावसथान्मूत्रं दूरात्पादावसेचनम्
उच्छिष्टान्ननिषेकं च दूरादेव समाचरेत्
॥१५१॥मैत्रं प्रसाधनं स्नानं दन्तधावनमञ्जनम्
पूर्वाह्ण एव कुर्वीत देवतानां च पूजनम्
॥१५२॥दैवतान्यभिगच्छेत्तु धार्मिकांश्च द्विजोत्तमान्
ईश्वरं चैव रक्षार्थं गुरूनेव च पर्वसु
॥१५३॥अभिवादयेद्वृद्धांश्च दद्याच्चैवासनं स्वकम्
कृताञ्जलिरुपासीत गच्छतः पृष्ठतोऽन्वियात्
॥१५४॥श्रुतिस्मृत्युदितं सम्यङ्निबद्धं स्वेषु कर्मसु
धर्ममूलं निषेवेत सदाचारमतन्द्रितः
॥१५५॥आचाराल्लभते ह्यायुराचारादीप्सिताः प्रजाः
आचाराद्धनमक्षय्यमाचारो हन्त्यलक्षणम्
॥१५६॥दुराचारो हि पुरुषो लोके भवति निन्दितः
दुःखभागी च सततं व्याधितोऽल्पायुरेव च
॥१५७॥सर्वलक्षणहीनोऽपि यः सदाचारवान्नरः
श्रद्दधानोऽनसूयश्च शतं वर्षाणि जीवति
॥१५८॥यद्यत्परवशं कर्म तत्तद्यत्नेन वर्जयेत्
यद्यदात्मवशं तु स्यात्तत्तत्सेवेत यत्नतः
॥१५९॥सर्वं परवशं दुःखं सर्वमात्मवशं सुखम्
एतद्विद्यात्समासेन लक्षणं सुखदुःखयोः
॥१६०॥यत्कर्म कुर्वतोऽस्य स्यात्परितोषोऽन्तरात्मनः
तत्प्रयत्नेन कुर्वीत विपरीतं तु वर्जयेत्
॥१६१॥आचार्यं च प्रवक्तारं पितरं मातरं गुरुम्
न हिंस्याद्ब्राह्मणान्गाश्च सर्वांश्चैव तपस्विनः
॥१६२॥नास्तिक्यं वेदनिन्दां च देवतानां च कुत्सनम्
द्वेषं दम्भं च मानं च क्रोधं तैक्ष्ण्यं च वर्जयेत्
॥१६३॥परस्य दण्डं नोद्यच्छेत्क्रुद्धो नैनं निपातयेत्
अन्यत्र पुत्राच्छिष्याद्वा शिष्ट्यर्थं ताडयेत्तु तौ
॥१६४॥ब्राह्मणायावगुर्यैव द्विजातिर्वधकाम्यया
शतं वर्षाणि तामिस्रे नरके परिवर्तते
॥१६५॥ताडयित्वा तृणेनापि संरम्भान्मतिपूर्वकम्
एकविंशतीमाजातीः पापयोनिषु जायते
॥१६६॥अयुध्यमानस्योत्पाद्य ब्राह्मणस्यासृगङ्गतः
दुःखं सुमहदाप्नोति प्रेत्याप्राज्ञतया नरः
॥१६७॥शोणितं यावतः पांसून्संगृह्णाति महीतलात्
तावतोऽब्दानमुत्रान्यैः शोणितोत्पादकोऽद्यते
॥१६८॥न कदा चिद्द्विजे तस्माद्विद्वानवगुरेदपि
न ताडयेत्तृणेनापि न गात्रात्स्रावयेदसृक्
॥१६९॥अधार्मिको नरो यो हि यस्य चाप्यनृतं धनम्
हिंसारतश्च यो नित्यं नेहासौ सुखमेधते
॥१७०॥न सीदन्नपि धर्मेण मनोऽधर्मे निवेशयेत्
अधार्मिकानां पापानामाशु पश्यन्विपर्ययम्
॥१७१॥नाधर्मश्चरितो लोके सद्यः फलति गौरिव
शनैरावर्त्यमानस्तु कर्तुर्मूलानि कृन्तति
॥१७२॥यदि नात्मनि पुत्रेषु न चेत्पुत्रेषु नप्तृषु
न त्वेव तु कृतोऽधर्मः कर्तुर्भवति निष्फलः
॥१७३॥अधर्मेणैधते तावत्ततो भद्राणि पश्यति
ततः सपत्नान्जयति समूलस्तु विनश्यति
॥१७४॥सत्यधर्मार्यवृत्तेषु शौचे चैवारमेत्सदा
शिष्यांश्च शिष्याद्धर्मेण वाग्बाहूदरसंयतः
॥१७५॥परित्यजेदर्थकामौ यौ स्यातां धर्मवर्जितौ
धर्मं चाप्यसुखोदर्कं लोकसंक्रुष्टमेव च
॥१७६॥न पाणिपादचपलो न नेत्रचपलोऽनृजुः
न स्याद्वाक्चपलश्चैव न परद्रोहकर्मधीः
॥१७७॥येनास्य पितरो याता येन याताः पितामहाः
तेन यायात्सतां मार्गं तेन गच्छन्न रिष्यति
॥१७८॥ऋत्विक्पुरोहिताचार्यैर्मातुलातिथिसंश्रितैः
बालवृद्धातुरैर्वैद्यैर्ज्ञातिसंबन्धिबान्धवैः
॥१७९॥मातापितृभ्यां जामीभिर्भ्रात्रा पुत्रेण भार्यया
दुहित्रा दासवर्गेण विवादं न समाचरेत्
॥१८०॥एतैर्विवादान्संत्यज्य सर्वपापैः प्रमुच्यते
एतैर्जितैश्च जयति सर्वांल्लोकानिमान्गृही
॥१८१॥आचार्यो ब्रह्मलोकेशः प्राजापत्ये पिता प्रभुः
अतिथिस्त्विन्द्रलोकेशो देवलोकस्य च र्त्विजः
॥१८२॥जामयोऽप्सरसां लोके वैश्वदेवस्य बान्धवाः
संबन्धिनो ह्यपां लोके पृथिव्यां मातृमातुलौ
॥१८३॥आकाशेशास्तु विज्ञेया बालवृद्धकृशातुराः
भ्राता ज्येष्ठः समः पित्रा भार्या पुत्रः स्वका तनुः
॥१८४॥छाया स्वो दासवर्गश्च दुहिता कृपणं परम्
तस्मादेतैरधिक्षिप्तः सहेतासंज्वरः सदा
॥१८५॥प्रतिग्रहसमर्थोऽपि प्रसङ्गं तत्र वर्जयेत्
प्रतिग्रहेण ह्यस्याशु ब्राह्मं तेजः प्रशाम्यति
॥१८६॥न द्रव्याणामविज्ञाय विधिं धर्म्यं प्रतिग्रहे
प्राज्ञः प्रतिग्रहं कुर्यादवसीदन्नपि क्षुधा
॥१८७॥हिरण्यं भूमिमश्वं गामन्नं वासस्तिलान्घृतम्
प्रतिगृह्णन्नविद्वांस्तु भस्मीभवति दारुवत्
॥१८८॥हिरण्यमायुरन्नं च भूर्गौश्चाप्योषतस्तनुम्
अश्वश्चक्षुस्त्वचं वासो घृतं तेजस्तिलाह्प्रजाः
॥१८९॥अतपास्त्वनधीयानः प्रतिग्रहरुचिर्द्विजः
अम्भस्यश्मप्लवेनेव सह तेनैव मज्जति
॥१९०॥तस्मादविद्वान्बिभियाद्यस्मात्तस्मात्प्रतिग्रहात्
स्वल्पकेनाप्यविद्वान्हि पङ्के गौरिव सीदति
॥१९१॥न वार्यपि प्रयच्छेत्तु बैडालव्रतिके द्विजे
न बकव्रतिके पापे नावेदविदि धर्मवित्
॥१९२॥त्रिष्वप्येतेषु दत्तं हि विधिनाप्यर्जितं धनम्
दातुर्भवत्यनर्थाय परत्रादातुरेव च
॥१९३॥यथा प्लवेनाउपलेन निमज्जत्युदके तरन्
तथा निमज्जतोऽधस्तादज्ञौ दातृप्रतीच्छकौ
॥१९४॥धर्मध्वजी सदा लुब्धश्छाद्मिको लोकदम्भकः
बैडालव्रतिको ज्ञेयो हिंस्रः सर्वाभिसंधकः
॥१९५॥अधोदृष्टिर्नैष्कृतिकः स्वार्थसाधनतत्परः
शठो मिथ्याविनीतश्च बकव्रतचरो द्विजः
॥१९६॥ये बकव्रतिनो विप्रा ये च मार्जारलिङ्गिनः
ते पतन्त्यन्धतामिस्रे तेन पापेन कर्मणा
॥१९७॥न धर्मस्यापदेशेन पापं कृत्वा व्रतं चरेत्
व्रतेन पापं प्रच्छाद्य कुर्वन्स्त्रीशूद्रदम्भनम्
॥१९८॥प्रेत्येह चेदृशा विप्रा गर्ह्यन्ते ब्रह्मवादिभिः
छद्मना चरितं यच्च व्रतं रक्षांसि गच्छति
॥१९९॥अलिङ्गी लिङ्गिवेषेण यो वृत्तिमुपजीवति
स लिङ्गिनां हरत्येनस्तिर्यग्योनौ च जायते
॥२००॥परकीयनिपानेषु न स्नायाद्धि कदा चन
निपानकर्तुः स्नात्वा तु दुष्कृतांशेन लिप्यते
॥२०१॥यानशय्यासनान्यस्य कूपोद्यानगृहाणि च
अदत्तान्युपयुञ्जान एनसः स्यात्तुरीयभाक्
॥२०२॥नदीषु देवखातेषु तडागेषु सरःसु च
स्नानं समाचरेन्नित्यं गर्तप्रस्रवणेषु च
॥२०३॥यमान्सेवेत सततं न नित्यं नियमान्बुधः
यमान्पतत्यकुर्वाणो नियमान्केवलान्भजन्
॥२०४॥नाश्रोत्रियतते यज्ञे ग्रामयाजिकृते तथा
स्त्रिया क्लीबेन च हुते भुञ्जीत ब्राह्मणः क्व चित्
॥२०५॥अश्लीकमेतत्साधूनां यत्र जुह्वत्यमी हविः
प्रतीपमेतद्देवानां तस्मात्तत्परिवर्जयेत्
॥२०६॥मत्तक्रुद्धातुराणां च न भुञ्जीत कदा चन
केशकीटावपन्नं च पदा स्पृष्टं च कामतः
॥२०७॥भ्रूणघ्नावेक्षितं चैव संस्पृष्टं चाप्युदक्यया
पतत्रिणावलीढं च शुना संस्पृष्टमेव च
॥२०८॥गवा चान्नमुपघ्रातं घुष्टान्नं च विशेषतः
गणान्नं गणिकान्नं च विदुषा च जुगुप्सितम्
॥२०९॥स्तेनगायनयोश्चान्नं तक्ष्णो वार्धुषिकस्य च
दीक्षितस्य कदर्यस्य बद्धस्य निगडस्य च
॥२१०॥अभिशस्तस्य षण्ढस्य पुंश्चल्या दाम्भिकस्य च
शुक्तं पर्युषितं चैव शूद्रस्योच्छिष्टमेव च
॥२११॥चिकित्सकस्य मृगयोः क्रूरस्योच्छिष्टभोजिनः
उग्रान्नं सूतिकान्नं च पर्याचान्तमनिर्दशम्
॥२१२॥अनर्चितं वृथामांसमवीरायाश्च योषितः
द्विषदन्नं नगर्यन्नं पतितान्नमवक्षुतम्
॥२१३॥पिशुनानृतिनोश्चान्नं क्रतुविक्रयिणस्तथा
शैलूषतुन्नवायान्नं कृतघ्नस्यान्नमेव च
॥२१४॥कर्मारस्य निषादस्य रङ्गावतारकस्य च
सुवर्णकर्तुर्वेणस्य शस्त्रविक्रयिणस्तथा
॥२१५॥श्ववतां शौण्डिकानां च चैलनिर्णेजकस्य च
रञ्जकस्य नृशंसस्य यस्य चोपपतिर्गृहे
॥२१६॥मृष्यन्ति ये चोपपतिं स्त्रीजितानां च सर्वशः
अनिर्दशं च प्रेतान्नमतुष्टिकरमेव च
॥२१७॥राजान्नं तेज आदत्ते शूद्रान्नं ब्रह्मवर्चसम्
आयुः सुवर्णकारान्नं यशश्चर्मावकर्तिनः
॥२१८॥कारुकान्नं प्रजां हन्ति बलं निर्णेजकस्य च
गणान्नं गणिकान्नं च लोकेभ्यः परिकृन्तति
॥२१९॥पूयं चिकित्सकस्यान्नं पुंश्चल्यास्त्वन्नमिन्द्रियम्
विष्ठा वार्धुषिकस्यान्नं शस्त्रविक्रयिणो मलम्
॥२२०॥य एतेऽन्ये त्वभोज्यान्नाः क्रमशः परिकीर्तिताः
तेषां त्वगस्थिरोमाणि वदन्त्यन्नं मनीषिणः
॥२२१॥भुक्त्वातोऽन्यतमस्यान्नममत्या क्षपणं त्र्यहम्
मत्या भुक्त्वाचरेत्कृच्छ्रं रेतोविण्मूत्रमेव च
॥२२२॥नाद्याच्छूद्रस्य पक्वान्नं विद्वानश्राद्धिनो द्विजः
आददीताममेवास्मादवृत्तावेकरात्रिकम्
॥२२३॥श्रोत्रियस्य कदर्यस्य वदान्यस्य च वार्धुषेः
मीमांसित्वोभयं देवाः सममन्नमकल्पयन्
॥२२४॥तान्प्रजापतिराहैत्य मा कृध्वं विषमं समम्
श्रद्धापूतं वदान्यस्य हतमश्रद्धयेतरत्
॥२२५॥श्रद्धयेष्टं च पूर्तं च नित्यं कुर्यादतन्द्रितः
श्रद्धाकृते ह्यक्षये ते भवतः स्वागतैर्धनैः
॥२२६॥दानधर्मं निषेवेत नित्यमैष्टिकपौर्तिकम्
परितुष्टेन भावेन पात्रमासाद्य शक्तितः
॥२२७॥यत्किं चिदपि दातव्यं याचितेनानसूयया
उत्पत्स्यते हि तत्पात्रं यत्तारयति सर्वतः
॥२२८॥वारिदस्तृप्तिमाप्नोति सुखमक्षय्यमन्नदः
तिलप्रदः प्रजामिष्टां दीपदश्चक्षुरुत्तमम्
॥२२९॥भूमिदो भूमिमाप्नोति दीर्घमायुर्हिरण्यदः
गृहदोऽग्र्याणि वेश्मानि रूप्यदो रूपमुत्तमम्
॥२३०॥वासोदश्चन्द्रसालोक्यमश्विसालोक्यमश्वदः
अनडुहः श्रियं पुष्टां गोदो ब्रध्नस्य विष्टपम्
॥२३१॥यानशय्याप्रदो भार्यामैश्वर्यमभयप्रदः
धान्यदः शाश्वतं सौख्यं ब्रह्मदो ब्रह्मसार्ष्टिताम्
॥२३२॥सर्वेषामेव दानानां ब्रह्मदानं विशिष्यते
वार्यन्नगोमहीवासस्तिलकाञ्चनसर्पिषाम्
॥२३३॥येन येन तु भावेन यद्यद्दानं प्रयच्छति
तत्तत्तेनैव भावेन प्राप्नोति प्रतिपूजितः
॥२३४॥योऽर्चितं प्रतिगृह्णाति ददात्यर्चितमेव वा
तावुभौ गच्छतः स्वर्गं नरकं तु विपर्यये
॥२३५॥न विस्मयेत तपसा वदेदिष्ट्वा च नानृतम्
नार्तोऽप्यपवदेद्विप्रान्न दत्त्वा परिकीर्तयेत्
॥२३६॥यज्ञोऽनृतेन क्षरति तपः क्षरति विस्मयात्
आयुर्विप्रापवादेन दानं च परिकीर्तनात्
॥२३७॥धर्मं शनैः संचिनुयाद्वल्मीकमिव पुत्तिकाः
परलोकसहायार्थं सर्वभूतान्यपीडयन्
॥२३८॥नामुत्र हि सहायार्थं पिता माता च तिष्ठतः
न पुत्रदारं न ज्ञातिर्धर्मस्तिष्ठति केवलः
॥२३९॥एकः प्रजायते जन्तुरेक एव प्रलीयते
एकोऽनुभुङ्क्ते सुकृतमेक एव च दुष्कृतम्
॥२४०॥मृतं शरीरमुत्सृज्य काष्ठलोष्टसमं क्षितौ
विमुखा बान्धवा यान्ति धर्मस्तमनुगच्छति
॥२४१॥तस्माद्धर्मं सहायार्थं नित्यं संचिनुयाच्छनैः
धर्मेण हि सहायेन तमस्तरति दुस्तरम्
॥२४२॥धर्मप्रधानं पुरुषं तपसा हतकिल्बिषम्
परलोकं नयत्याशु भास्वन्तं खशरीरिणम्
॥२४३॥उत्तमैरुत्तमैर्नित्यं संबन्धानाचरेत्सह
निनीषुः कुलमुत्कर्षमधमानधमांस्त्यजेत्
॥२४४॥उत्तमानुत्तमानेव गच्छन्हीनांस्तु वर्जयन्
ब्राह्मणः श्रेष्ठतामेति प्रत्यवायेन शूद्रताम्
॥२४५॥दृढकारी मृदुर्दान्तः क्रूराचारैरसंवसन्
अहिंस्रो दमदानाभ्यां जयेत्स्वर्गं तथाव्रतः
॥२४६॥एधोदकं मूलफलमन्नमभ्युद्यतं च यत्
सर्वतः प्रतिगृह्णीयान्मध्वथाभयदक्षिणाम्
॥२४७॥आहृताभ्युद्यतां भिक्षां पुरस्तादप्रचोदिताम्
मेने प्रजापतिर्ग्राह्यामपि दुष्कृतकर्मणः
॥२४८॥नाश्नन्ति पितरस्तस्य दशवर्षाणि पञ्च च
न च हव्यं वहत्यग्निर्यस्तामभ्यवमन्यते
॥२४९॥शय्यां गृहान्कुशान्गन्धानपः पुष्पं मणीन्दधि
धाना मत्स्यान्पयो मांसं शाकं चैव न निर्णुदेत्
॥२५०॥गुरून्भृत्यांश्चोज्जिहीर्षन्नर्चिष्यन्देवतातिथीन्
सर्वतः प्रतिगृह्णीयान्न तु तृप्येत्स्वयं ततः
॥२५१॥गुरुषु त्वभ्यतीतेषु विना वा तैर्गृहे वसन्
आत्मनो वृत्तिमन्विच्छन्गृह्णीयात्साधुतः सदा
॥२५२॥आर्धिकः कुलमित्रं च गोपालो दासनापितौ
एते शूद्रेषु भोज्यान्ना याश्चात्मानं निवेदयेत्
॥२५३॥यादृशोऽस्य भवेदात्मा यादृशं च चिकीर्षितम्
यथा चोपचरेदेनं तथात्मानं निवेदयेत्
॥२५४॥योऽन्यथा सन्तमात्मानमन्यथा सत्सु भाषते
स पापकृत्तमो लोके स्तेन आत्मापहारकः
॥२५५॥वाच्यर्था नियताः सर्वे वाङ्गूला वाग्विनिःसृताः
तांस्तु यः स्तेनयेद्वाचं स सर्वस्तेयकृन्नरः
॥२५६॥महर्षिपितृदेवानां गत्वानृण्यं यथाविधि
पुत्रे सर्वं समासज्य वसेन्माध्यस्थ्यमाश्रितः
॥२५७॥एकाकी चिन्तयेन्नित्यं विविक्ते हितमात्मनः
एकाकी चिन्तयानो हि परं श्रेयोऽधिगच्छति
॥२५८॥एषोदिता गृहस्थस्य वृत्तिर्विप्रस्य शाश्वती
स्नातकव्रतकल्पश्च सत्त्ववृद्धिकरः शुभः
॥२५९॥अनेन विप्रो वृत्तेन वर्तयन्वेदशास्त्रवित्
व्यपेतकल्मषो नित्यं ब्रह्मलोके महीयते
॥२६०॥