मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

भज गोविन्दम्

Bhaja Govindam (Moha Mudgaram) of Ādi Śaṅkarācārya.

3

श्रीशङ्करभगवत्पादकृतम्

भज गोविन्दं भज गोविन्दं

गोविन्दं भज मूढमते ।

सम्प्राप्ते सन्निहिते काले

न हि न हि रक्षति डुकृञ् करणे ॥

॥१॥

मूढ जहीहि धनागमतृष्णां

कुरु सद्बुद्धिं मनसि वितृष्णाम् ।

यल्लभसे निजकर्मोपात्तं

वित्तं तेन विनोदय चित्तम् ॥

॥२॥

नारीस्तनभरनाभीदेशं

दृष्ट्वा मा गा मोहावेशम् ।

एतन्मांसावसादि विकारं

मनसि विचिन्तय वारं वारम् ॥

॥३॥

नलिनीदलगतजलमतितरलं

तद्वज्जीवितमतिशयचपलम् ।

विद्धि व्याध्यभिमानग्रस्तं

लोकं शोकहतं च समस्तम् ॥

॥४॥

यावद्वित्तोपार्जन-सक्तः

तावन्निज-परिवारो रक्तः ।

पश्चाज्जीवति जर्जरदेहे

वार्तां कोऽपि न पृच्छति गेहे ॥

॥५॥

यावत् पवनो निवसति देहे

तावत् पृच्छति कुशलं गेहे ।

गतवति वायौ देहापाये

भार्या बिभ्यति तस्मिन् काये ॥

॥६॥

बालस्तावत्क्रीडासक्तः

तरुणस्तावत्तरुणीसक्तः ।

वृद्धस्तावच्चिन्तासक्तः

परे ब्रह्मणि कोऽपि न सक्तः ॥

॥७॥

का ते कान्ता कस्ते पुत्रः

संसारोऽयमतीव विचित्रः ।

कस्य त्वं कः कुत आयातः

तत्त्वं चिन्तय तदिह भ्रातः ॥

॥८॥

सत्सङ्गत्वे निःसङ्गत्वं

निःसङ्गत्वे निर्मोहत्वम् ।

निर्मोहत्वे निश्चलितत्त्वं

निश्चलितत्त्वे जीवन-मुक्तिः ॥

॥९॥

वयसि गते कः कामविकारः

शुष्के नीरे कः कासारः ।

क्षीणे वित्ते कः परिवारः

ज्ञाते तत्त्वे कः संसारः ॥

॥१०॥

मा कुरु धनजनयौवनगर्वं

हरति निमेषात् कालः सर्वम् ।

मायामयमिदमखिलं हित्वा

ब्रह्मपदं त्वं प्रविश विदित्वा ॥

॥११॥

दिनयामिन्यौ सायं प्रातः

शिशिरवसन्तौ पुनरायातः ।

कालः क्रीडति गच्छत्यायुः

तदपि न मुञ्चत्याशावायुः ॥

॥१२॥

द्वादशमञ्जरिकाभिरशेषः

कथितो वैयाकरणस्यैषः ।

उपदेशो भूद्विद्यानिपुणैः

श्रीमच्छङ्करभगवच्छरणैः ॥

॥१३॥

का ते कान्ता धनगतचिन्ता

वातुल किं तव नास्ति नियन्ता ।

त्रिजगति सज्जनसङ्गतिरेका

भवति भवार्णवतरणे नौका ॥

॥१४॥

जटिलो मुण्डी लुञ्छितकेशः

काषायाम्बरबहुकृतवेषः ।

पश्यन्नपि चन पश्यति मूढः

उदरनिमित्तं बहुकृतवेषः ॥

॥१५॥

अङ्गं गलितं पलितं मुण्डं

दशनविहीनं जातं तुण्डम् ।

वृद्धो याति गृहीत्वा दण्डं

तदपि न मुञ्चत्याशापिण्डम् ॥

॥१६॥

अग्रे वह्निः पृष्ठे भानुः

रात्रौ चुबुकसमर्पितजानुः ।

करतलभिक्षस्तरुतलवासः

तदपि न मुञ्चत्याशापाशः ॥

॥१७॥

कुरुते गङ्गासागरगमनं

व्रतपरिपालनमथवा दानम् ।

ज्ञानविहीनः सर्वमतेन

मुक्तिं न भजति जन्मशतेन ॥

॥१८॥

सुरमन्दिर-तरुमूल-निवासः

शय्या भूतलमजिनं वासः ।

सर्व-परिग्रह भोगत्यागः

कस्य सुखं न करोति विरागः ॥

॥१९॥

योगरतो वा भोगरतो वा

सङ्गरतो वा सङ्गविहीनः ।

यस्य ब्रह्मणि रमते चित्तं

नन्दति नन्दति नन्दत्येव ॥

॥२०॥

भगवद्गीता किञ्चिदधीता

गङ्गाजललव-कणिका पीता ।

सकृदपि येन मुरारि समर्चा

क्रियते तस्य यमेन न चर्चा ॥

॥२१॥

पुनरपि जननं पुनरपि मरणं

पुनरपि जननी-जठरे शयनम् ।

इह संसारे बहुदुस्तारे

कृपयाऽपारे पाहि मुरारे ॥

॥२२॥

रथ्या-चर्पट-विरचित-कन्थः

पुण्यापुण्य-विवर्जित-पन्थः ।

योगी योगनियोजित चित्तो

रमते बालोन्मत्तवदेव ॥

॥२३॥

कस्त्वं कोऽहं कुत आयातः

का मे जननी को मे तातः ।

इति परिभावय सर्वमसारं

विश्वं त्यक्त्वा स्वप्नविचारम् ॥

॥२४॥

त्वयि मयि चान्यत्रैको विष्णुः

व्यर्थं कुप्यसि मय्यसहिष्णुः ।

सर्वस्मिन्नपि पश्यात्मानं

सर्वत्रोत्सृज भेदाज्ञानम् ॥

॥२५॥

शत्रौ मित्रे पुत्रे बन्धौ

मा कुरु यत्नं विग्रहसन्धौ ।

भव समचित्तः सर्वत्र त्वं

वाञ्छस्यचिराद्यदि विष्णुत्वम् ॥

॥२६॥

कामं क्रोधं लोभं मोहं

त्यक्त्वाऽऽत्मानं भावय कोऽहम् ।

आत्मज्ञानविहीना मूढाः

ते पच्यन्ते नरकनिगूढाः ॥

॥२७॥

गेयं गीता नामसहस्रं

ध्येयं श्रीपति-रूपमजस्रम् ।

नेयं सज्जन-सङ्गे चित्तं

देयं दीनजनाय च वित्तम् ॥

॥२८॥

सुखतः क्रियते रामाभोगः

पश्चाद्धन्त शरीरे रोगः ।

यद्यपि लोके मरणं शरणं

तदपि न मुञ्चति पापाचरणम् ॥

॥२९॥

अर्थमनर्थं भावय नित्यं

नास्ति ततः सुखलेशः सत्यम् ।

पुत्रादपि धनभाजां भीतिः

सर्वत्रैषा विहिता रीतिः ॥

॥३०॥

प्राणायामं प्रत्याहारं

नित्यानित्य-विवेकविचारम् ।

जाप्यसमेत-समाधिविधानं

कुर्ववधानं महदवधानम् ॥

॥३१॥

गुरुचरणाम्बुज-निर्भर-भक्तः

संसारादचिराद्भव मुक्तः ।

सेन्द्रियमानस-नियमादेवं

द्रक्ष्यसि निजहृदयस्थं देवम् ॥

॥३२॥

मूढः कश्चन वैयाकरणो

डुकृञ्करणाध्ययन-धुरिणः ।

श्रीमच्छङ्कर-भगवच्छिष्यैः

बोधित आसिच्छोधितकरणः ॥

॥३३॥

भज गोविन्दं भज गोविन्दं

गोविन्दं भज मूढमते ।

नामस्मरणादन्यमुपायं

न हि पश्यामो भवतरणे ॥

॥३४॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्री-गोविन्द-भगवत्पूज्य-पाद-शिष्यस्य श्रीमच्छङ्करभगवतः कृतौ भज गोविन्दं सम्पूर्णम्