महाभारतम्
शृणुध्वं मुनयः सर्वे गोपालस्य महात्मनः ।
अनन्तस्याप्रमेयस्य नामद्वादशकं स्तवम् ॥
॥१॥अर्जुनाय पुरा गीतं गोपालेन महात्मना ।
द्वारकायां प्रार्थयते यशोदायाश्च सन्निधौ ॥
॥२॥ध्यानम्
जानुभ्यामपि धावन्तं बाहुभ्यामतिसुन्दरम् ।
सकुण्डलालकं बालं गोपालं चिन्तयेदुषः ॥
॥३॥स्तोत्रम्
प्रथमं तु हरिं विद्याद् द्वितीयं केशवं तथा ।
तृतीयं पद्मनाभं तु चतुर्थं वामनं तथा ॥
॥४॥पञ्चमं वेदगर्भं च षष्ठं तु मधुसूदनम् ।
सप्तमं वासुदेवं च वराहं चाष्टमं तथा ॥
॥५॥नवमं पुण्डरीकाक्षं दशमं तु जनार्दनम् ।
कृष्णमेकादशं प्रोक्तं द्वादशं श्रीधरं तथा ॥
॥६॥एतद् द्वादशनामानि मया प्रोक्तानि फाल्गुन ।
कालत्रये पठेद् यस्तु तस्य पुण्यफलं शृणु ॥
॥७॥चान्द्रायणसहस्रस्य कन्यादानशतस्य च ।
अश्वमेधसहस्रस्य फलमाप्नोति मानवः ॥
॥८॥इति श्री-कृष्णद्वादशनामस्तोत्रं सम्पूर्णम्