मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

कृष्णाष्टकम् १

3

श्रीशङ्करभगवत्पादकृतम्

श्रियाश्लिष्टो विष्णुः स्थिरचरगुरुर्वेदविषयो

धियां साक्षी शुद्धो हरिरसुरहन्ताब्जनयनः ।

गदी शङ्खी चक्री विमलवनमाली स्थिररुचिः

शरण्यो लोकेशो मम भवतु कृष्णोऽक्षिविषयः ॥

॥१॥

यतः सर्वं जातं वियदनिलमुख्यं जगदिदं

स्थितौ निःशेषं योऽवति निजसुखांशेन मधुहा ।

लये सर्वं स्वस्मिन् हरति कलया यस्तु स विभुः

शरण्यो लोकेशो मम भवतु कृष्णोऽक्षिविषयः ॥

॥२॥

असूनायम्यादौ यमनियममुख्यैः सुकरणैः

निरुद्‌ध्येदं चित्तं हृदि विलयमानीय सकलम् ।

यमीड्यं पश्यन्ति प्रवरमतयो मायिनमसौ

शरण्यो लोकेशो मम भवतु कृष्णोऽक्षिविषयः ॥

॥३॥

पृथिव्यां तिष्ठन् यो यमयति महीं वेद न धरा

यमित्यादौ वेदो वदति जगतामीशममलम् ।

नियन्तारं ध्येयं मुनिसुरनृणां मोक्षदमसौ

शरण्यो लोकेशो मम भवतु कृष्णोऽक्षिविषयः ॥

॥४॥

महेन्द्रादिर्देवो जयति दितिजान् यस्य बलतो

न कस्य स्वातन्त्र्यं क्वचिदपि कृतौ यत्कृतिमृते ।

बलारातेर्गर्वं परिहरति योऽसौ विजयिनः

शरण्यो लोकेशो मम भवतु कृष्णोऽक्षिविषयः ॥

॥५॥

विना यस्य ध्यानं व्रजति पशुतां सूकरमुखां

विना यस्य ज्ञानं जनिमृतिभयं याति जनता ।

विना यस्य स्मृत्या कृमिशतजनिं याति स विभुः

शरण्यो लोकेशो मम भवतु कृष्णोऽक्षिविषयः ॥

॥६॥

नरातङ्कोट्टङ्कः शरणशरणो भ्रान्तिहरणो

घनश्यामो वामो व्रजशिशुवयस्योऽर्जुनसखः ।

स्वयम्भूर्भूतानां जनक उचिताचारसुखदः

शरण्यो लोकेशो मम भवतु कृष्णोऽक्षिविषयः ॥

॥७॥

यदा धर्मग्लानिर्भवति जगतां क्षोभकरणी

तदा लोकस्वामी प्रकटितवपुः सेतुधृगजः ।

सतां धाता स्वच्छो निगमगणगीतो व्रजपतिः

शरण्यो लोकेशो मम भवतु कृष्णोऽक्षिविषयः ॥

॥८॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्री-गोविन्द-भगवत्पूज्य-पाद-शिष्यस्य श्रीमच्छङ्करभगवतः कृतौ श्री-कृष्णाष्टकं सम्पूर्णम्