मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

कृष्ण अष्टोत्तरशत नाम स्तोत्रम्

3

ब्रह्माण्डपुराणम्

ॐ अस्य श्रीकृष्णाष्टोत्तरशतनामस्तोत्रस्य श्रीशेष ऋषिः। अनुष्टुप्-छन्दः। श्रीकृष्णो देवता। श्रीकृष्णप्रीत्यर्थे श्री-कृष्णाष्टोत्तरशतनामजपे विनियोगः।

ध्यानम्

शिखिमुकुटविशेषं नीलपद्माङ्गदेशं

विधुमुखकृतकेशं कौस्तुभापीतवेशम् ।

मधुररवकलेशं शं भजे भ्रातृशेषं

व्रजजनवनितेशं माधवं राधिकेशम् ॥

॥१॥

श्रीशेष उवाच

वसुन्धरे वरारोहे जनानामस्ति मुक्तिदम् ।

सर्वमङ्गलमूर्धन्यमणिमाद्यष्टसिद्धिदम् ॥

॥२॥

महापातककोटिघ्नं सर्वतीर्थफलप्रदम् ।

समस्तजपयज्ञानां फलदं पापनाशनम् ॥

॥३॥

शृणु देवि प्रवक्ष्यामि नाम्नामष्टोत्तर शतम् ।

सहस्रनाम्नां पुण्यानां त्रिरावृत्या तु यत्फलम् ॥

॥४॥

एकावृत्या तु कृष्णस्य नामैकं तत्प्रयच्छति ।

तस्मात्पुण्यतरं चैतत्स्तोत्रं पातकनाशनम् ॥

॥५॥

नाम्नामष्टोत्तरशतस्याहमेव ऋषिः प्रिये ।

छन्दोऽनुष्टुब्देवता तु योगः कृष्णप्रियावहः ॥

॥६॥

स्तोत्रम्

श्रीकृष्णः कमलानाथो वासुदेवः सनातनः ।

वसुदेवात्मजः पुण्यो लीलामानुषविग्रहः ॥

॥७॥

श्रीवत्सकौस्तुभधरो यशोदावत्सलो हरिः ।

चतुर्भुजात्तचक्रासिगदाशङ्खाम्बुजायुधः ॥

॥८॥

देवकीनन्दनः श्रीशो नन्दगोपप्रियात्मजः ।

यमुनावेगसंहारी बलभद्रप्रियानुजः ॥

॥९॥

पूतनाजीवितहरः शकटासुरभञ्जनः ।

नन्दव्रजजनानन्दी सच्चिदानन्दविग्रहः ॥

॥१०॥

नवनीतविलिप्ताङ्गो नवनीतनटोऽनघः ।

नवनीतनवाहारो मुचुकुन्दप्रसादकः ॥

॥११॥

षोडशस्त्रीसहस्रेशस्त्रिभङ्गी मधुराकृतिः ।

शुकवागमृताब्धीन्दुर्गोविन्दो योगिनां पतिः ॥

॥१२॥

वत्सवाटचरोऽनन्तो धेनुकासुरभञ्जनः ।

तृणीकृततृणावर्तो यमलार्जुनभञ्जनः ॥

॥१३॥

उत्तालतालभेत्ता च तमालश्यामलाकृतिः ।

गोपगोपीश्वरो योगी कोटिसूर्यसमप्रभः ॥

॥१४॥

इलापतिः परञ्ज्योतिर्यादवेन्द्रो यदूद्वहः ।

वनमाली पीतवासाः पारिजातापहारकः ॥

॥१५॥

गोवर्धनाचलोद्धर्ता गोपालः सर्वपालकः ।

अजो निरञ्जनः कामजनकः कञ्जलोचनः ॥

॥१६॥

मधुहा मथुरानाथो द्वारकानायको बली ।

वृन्दावनान्तसञ्चारी तुलसीदामभूषणः ॥

॥१७॥

स्यमन्तकमणेर्हर्ता नरनारायणात्मकः ।

कुब्जाकृष्णाम्बरधरो मायी परमपूरुषः ॥

॥१८॥

मुष्टिकासुरचाणूरमल्लयुद्धविशारदः ।

संसारवैरी कंसारिर्मुरारिर्नरकान्तकः ॥

॥१९॥

अनादिब्रह्मचारी च कृष्णाव्यसनकर्षकः ।

शिशुपालशिरश्छेत्ता दुर्योधनकुलान्तकः ॥

॥२०॥

विदुराक्रूरवरदो विश्वरूपप्रदर्शकः ।

सत्यवाक् सत्यसङ्कल्पः सत्यभामारतो जयी ॥

॥२१॥

सुभद्रापूर्वजो विष्णुर्भीष्ममुक्तिप्रदायकः ।

जगद्गुरुर्जगन्नाथो वेणुनादविशारदः ॥

॥२२॥

वृषभासुरविध्वंसी बाणासुरकरान्तकः ।

युधिष्ठिरप्रतिष्ठाता बर्हिबर्हावतंसकः ॥

॥२३॥

पार्थसारथिरव्यक्तो गीतामृतमहोदधिः ।

कालीयफणिमाणिक्यरञ्जितश्रीपदाम्बुजः ॥

॥२४॥

दामोदरो यज्ञभोक्ता दानवेन्द्रविनाशकः ।

नारायणः परब्रह्म पन्नगाशनवाहनः ॥

॥२५॥

जलक्रीडासमासक्तगोपीवस्त्रापहारकः ।

पुण्यश्लोकस्तीर्थपादो वेदवेद्यो दयानिधिः ॥

॥२६॥

सर्वतीर्थात्मकः सर्वग्रहरूपी परात्परः ।

इत्येवं कृष्णदेवस्य नाम्नामष्टोत्तरं शतम् ॥

॥२७॥

कृष्णेन कृष्णभक्तेन श्रुत्वा गीतामृतं पुरा ।

स्तोत्रं कृष्णप्रियकरं कृतं तस्मान्मया श्रुतम् ॥

॥२८॥

कृष्णप्रेमामृतं नाम परमानन्ददायकम् ।

अत्युपद्रवदुःखघ्नं परमायुष्यवर्धनम् ॥

॥२९॥

दानं व्रतं तपस्तीर्थं यत्कृतं त्विह जन्मनि ।

पठतां शृण्वतां चैव कोटिकोटिगुणं भवेत् ॥

॥३०॥

पुत्त्रप्रदमपुत्त्राणामगतीनां गतिप्रदम् ।

धनावहं दरिद्राणां जयेच्छूनां जयावहम् ॥

॥३१॥

शिशूनां गोकुलानां च पुष्टिदं पुण्यवर्धनम् ।

बालरोगग्रहादीनां शमनं शान्तिकारकम् ॥

॥३२॥

अन्ते कृष्णस्मरणदं भवतापत्रयापहम् ।

असिद्धसाधकं भद्रे जपादिकरमात्मनाम् ॥

॥३३॥

कृष्णाय यादवेन्द्राय ज्ञानमुद्राय योगिने ।

नाथाय रुक्मिणीशाय नमो वेदान्तवेदिने ॥

॥३४॥

इमं मन्त्रं महादेवि जपन्नेव दिवानिशम् ।

सर्वग्रहानुग्रहभाक् सर्वप्रियतमो भवेत् ॥

॥३५॥

पुत्रपौत्रैः परिवृतः सर्वसिद्धिसमृद्धिमान् ।

निषेव्यभोगानन्तेऽपि कृष्णसायुज्यमाप्युनात् ॥

॥३६॥

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यभागे तृतीय उपोद्घातपादे भार्गवचरिते षट्त्रिंशत्तमोऽध्यायान्तर्गत श्रीकृष्णाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम्