मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

गणपति अष्टोत्तरशत नाम स्तोत्रम्

3

गणेशपुराणम्

ध्यानम्

ॐकारसन्निभमिभाननमिन्दुभालं

मुक्ताग्रबिन्दुममलद्युतिमेकदन्तम् ।

लम्बोदरं कलचतुर्भुजमादिदेवं

ध्यायेन्महागणपतिं मतिसिद्धिकान्तम् ॥

॥१॥

स्तोत्रम्

गणेश्वरो गणक्रीडो महागणपतिस्तथा ।

विश्वकर्ता विश्वमुखो दुर्जयो धूर्जयो जयः ॥

॥२॥

सुरूपः सर्वनेत्राधिवासो वीरासनाश्रयः ।

योगाधिपस्तारकस्थः पुरुषो गजकर्णकः ॥

॥३॥

चित्राङ्गः श्यामदशनो भालचन्द्रश्चतुर्भुजः ।

शम्भुतेजा यज्ञकायः सर्वात्मा सामबृंहितः ॥

॥४॥

कुलाचलांसो व्योमनाभिः कल्पद्रुमवनालयः ।

निम्ननाभिः स्थूलकुक्षिः पीनवक्षा बृहद्भुजः ॥

॥५॥

पीनस्कन्धः कम्बुकण्ठो लम्बोष्ठो लम्बनासिकः ।

सर्वायवसम्पूर्णः सर्वलक्षणलक्षितः ॥

॥६॥

इक्षुचापधरः शूली कान्तिकन्दलिताश्रयः ।

अक्षमालाधरो ज्ञानमुद्रावान् विजयावहः ॥

॥७॥

कामिनीकामनाकाममालिनीकेलिलालितः ।

अमोघसिद्धिराधार आधाराधेयवर्जितः ॥

॥८॥

इन्दीवरदलश्याम इन्दुमण्डलनिर्मलः ।

कर्मसाक्षी कर्मकर्ता कर्माकर्मफलप्रदः ॥

॥९॥

कमण्डलुधरः कल्पः कपर्दी कटिसूत्रभृत् ।

कारुण्यदेहः कपिलो गुह्यागमनिरूपितः ॥

॥१०॥

गुहाशयो गुहाब्धिस्थो घटकुम्भो घटोदरः ।

पूर्णानन्दः परानन्दो धनदो धरणीधरः ॥

॥११॥

बृहत्तमो ब्रह्मपरो ब्रह्मण्यो ब्रह्मवित्प्रियः ।

भव्यो भूतालयो भोगदाता चैव महामनाः ॥

॥१२॥

वरेण्यो वामदेवश्च वन्द्यो वज्रनिवारणः ।

विश्वकर्ता विश्वचक्षुर्हवनं हव्यकव्यभुक् ॥

॥१३॥

स्वतन्त्रः सत्यसङ्कल्पस्तथा सौभाग्यवर्धनः ।

कीर्तिदः शोकहारी च त्रिवर्गफलदायकः ॥

॥१४॥

चतुर्बाहुश्चतुर्दन्तश्चतुर्थातिथिसम्भवः ।

सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ॥

॥१५॥

कामरूपः कामगतिर्द्विरदो द्वीपरक्षकः ।

क्षेत्राधिपः क्षमाभर्ता लयस्थो लड्डुकप्रियः ॥

॥१६॥

प्रतिवादिमुखस्तम्भो दुष्टचित्तप्रसादनः ।

भगवान् भक्तिसुलभो याज्ञिको याजकप्रियः ॥

॥१७॥

इत्येवं देवदेवस्य गणराजस्य धीमतः ।

शतमष्टोत्तरं नाम्नां सारभूतं प्रकीर्तितम् ॥

॥१८॥

सहस्रनाम्नामाकृष्य मया प्रोक्तं मनोहरम्

ब्राह्मे मुहूर्ते चोत्थाय स्मृत्वा देवं गणेश्वरम्

पठेत्स्तोत्रमिदं भक्त्या गणराजः प्रसीदति ॥

॥१९॥

इति श्रीगणेशपुराणे उपासनाखण्डे श्रीगणपत्यष्टोत्तरशतनामस्तोत्रं सम्पूर्णम्