skipLink.label

द्वितीय काण्ड

प्रपाठक 1

द्वितीयकाण्डे प्रथमः प्रपाठकः

द्वितीयकाण्डे प्रथमः प्रपाठकः

अग्नये वैश्वानराय द्वादशकपालं निवर्पेत् कामाय संवत्सरो वा अग्निर् वैश्वानरः संवत्सरो काम आप्यते संवत्सरम् एवापत् सो ऽस्मै कामम् आप्नोति यत्कामो भवत्य् अग्नये वैश्वानराय द्वादशकपालं निर्वपेत् समान्तम् अभिध्रोक्ष्यन् संवत्सरो वा अग्निर् वैश्वानरः संवत्सराय समम्यते संवत्सरम् एवाप्त्वा वरुणं कामम् अभिद्रुह्यत्य् अग्नये वैश्वानराय द्वादशकपालं निर्वपेत् सनिं प्रैश्यन् संवत्सरो वा अग्निर् वैश्वानरः संवत्सराय प्रतिगृह्यते संवत्सरम् एवाप्त्वा सातां सनिं वनुते स यदा वन्वीताथाग्नये वैश्वानराय द्वादशकपालं निर्वपेत् संवत्सरो वा अग्निर् वैश्वानरः संवत्सरम् एष प्रयुङ्क्ते संवत्सर एतस्मै वनुते तम् एव भागिनम् अकस् तं व्यमौग् यं द्विश्यात् तस्मै दक्शिणां दद्यात् पाशेन वा एश चरति तम् एवास्मिन् प्रतिमुञ्चत्य् एकहायनो गौर् दक्षिणा स हि संवत्सरस्य प्रतिमाग्नये वैश्वानराय द्वादशकपालं निर्वपेद् अनन्नम् अत्स्यन् संवत्सरो वा अग्निर् वैश्वानरः संवत्सरायैवैनद् अप्यधात् स यदानन्नम् अद्याद् अथाग्नये वैशवानराय द्वादशकपालं निर्वपेद् यद् एवादो ऽनन्नम् अत्ति तद् अस्मै संवत्सरः स्वदयति स्वदितम् एवात्ति सीसं दक्षिणा कृष्णं वा वासो ऽनन्नं वै सीसम् अनन्नं कृष्णम् अनन्नेनैवानन्नम् अपहत्यान्नाद्यम् आत्मन् धत्ते ऽग्नये वैश्वानराय द्वादशकपालं निर्वपेत् सङ्ग्रामम् अभिप्रयान् संवत्सरो वा अग्निर् वैश्वानरः संवत्सरेणैवैनम् अभिप्रयात्य् अग्नये वैश्वानराय द्वादशकपालं निर्वपेत् सङ्ग्रामं संयत्य यतरो वै सङ्गृभाणयोर् आयतनवत्तरो भवति स जयतीयं वा अग्निर् वैश्वानर इमाम् एवायतनम् अकृतास्यां पराक्रंस्त जयति सङ्ग्रामं स यदा सङ्ग्रामं जयेद् अथाग्नये वैश्वानराय द्वादशकपालं निर्वपेत् संवत्सरो वा अग्निर् वैश्वानरः संवत्सरम् एष प्रयुङ्क्ते संवत्सर एतस्मै जयति तम् एव भागिनम् अकस् तं व्यमौग् अग्नये वैश्वानराय द्वादशकपालं निर्वपेद् यः कामयेतानेन राजेमान् यवान् व्रीहीन् व् आदधीयेति संवत्सरो वा अग्निर् वैश्वानरः संवत्सरो ऽन्नाद्यस्य प्रदाता तम् एव भागधेयेनोपासरत् सो ऽस्मा अन्नाद्यं प्रयछत्य् अग्नये वैश्वानराय द्वादशकपालं निर्वपेद् वारुणं यवमयम् चरुम् आमयाविनं याजयेद् वरुणगृहीतो वा एष य आमयावी वरुणाद् एवैनं तेन मुञ्चत्य् असौ वा आदित्यो ऽग्निर् वैश्वानरो ऽमुना वा एनम् एतं निगृहीतं वरुणो गृह्णाति तत एनं मुक्त्वा यावान् एवास्यात्मा तं वरुणान् मुञ्चति वारुणं चरुं निर्वपेद् यवमयम् इयन्तम् अग्नये वैश्वानराय द्वादशकपालं भूतिकामं याजयेद् वरुणगृहीतो वा एष यो भूतिकामो वरुणाद् एवैनं तेन मुञ्चतीयांश् चरुर् भवत्य् एतावान् वा आत्मा यावान् एवास्यात्मा तं वरुणात् मुक्त्वासौ वा आदित्यो ऽग्निर् वैश्वानरो ऽमुम् एनम् अन्वारम्भयत्य् अमुष्यैनम् आदित्यस्य मात्रां गमयति

॥२.१.२॥

इयन्तम् : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।

अग्नये जातवेदसे ऽष्टाकपालं निर्वपेद् दधिक्राव्णा एकादशकपालम् अग्नये वैश्वानराय द्वादशकपालं यः सर्ववेदसी प्रथमाम् इष्टिम् आलभेताग्निर् वा एतस्य तद् वेद यत्रास्येष्टं यत्र सुकृतम् अग्निर् एवास्मै तद् विन्दत्य् अमेध्यो वा एष यः सर्वं ददाति तद् दधिक्रावैवैनं मेध्यं करोति संवत्सरो वा अग्निर् वैश्वानरः संवत्सरो वा एतस्य तद् वेद यत्रास्येष्टं यत्र सुकृतं संवत्सर एवास्मै तद् विन्दत्य् अग्नये सुरभिमते ऽष्टाकपालं निर्वपेद् अभिशस्यमानं याजयेद् रथप्रोतं वै दार्भ्यम् अभ्यशंसंस् तं कौलकावती अब्रूतां तथा त्वा याजयिष्यावो यथा ते ऽन्नम् अत्स्यन्ति यत्र ग्राम्यस्य पशोर् नोपशृणवस् तद् गछ यस् त्वा कश् चोपायत् तूष्णीम् एवास्वेति तं ह स्म वै व्याघ्रा उपघ्रायं तूष्णीम् एवापक्रामन्ति तौ वै तत्रैव श्वो भूते यज्ञायुधैर् अन्वेत्याग्निं मथित्वाग्नये सुरभिमते ऽष्टाकपालं निरवपतां ततो वा एनं न पर्यवृञ्जन् यम् अभिशंसेयुस् तम् एतया याजयेद् दुरभि वा एतम् आरद्यम् अभिशंसन्त्य् एषा वा अग्नेर् भेषजा तनूर् यत् सुरभिर् भेषजम् एवास्मा अकः सुरभिम् एनम् अकः शमयत्य् एवाग्नये पवमानायाष्टाकपालं निर्वपेद् दधिक्राव्णा एकादशकपालम् अग्नये वैश्वानराय द्वादशकपालं पुनर् एत्य गृहेषु पवमान एवैनं पुनात्य् अग्निर् निष्टपत्य् अपूतो वा एष यम् अभिशंसन्ति नैनं दधिक्रावा चन पावयाङ्क्रियाद् इति खलु वा आहुस् तद् दधिक्रावैवैनं पावयति संवत्सरो वा अग्निर् वैश्वानरः संवत्सर एवैनं स्वदयत्य् आग्नेयम् अष्टाकपालं निर्वपेद् अग्नीषोमीयम् एकादशकपालं द्यावापृथिवीयं द्विकपालं यः सङ्ग्रामं जिगीषेन् नृज्यायं वा जिज्यासेद् ऋद्ध्या एवाग्नेयो ऽग्नीषोमाभ्यां वै वीर्येणेन्द्रो वृत्रम् अहन् वृत्रं खलु वा एष हन्ति यः सङ्ग्रामं जयति नृज्यायं वा जिनाति तद् वार्त्रघ्नम् एवैतद् इन्द्रो वै वृत्राय वज्रम् उदयछत् तं द्यावापृथिवी नान्वमन्येतां तम् एतेन भागधेयेनान्वमन्येतां यद् द्यावापृथिवीयो वज्रस्यानुमत्यय् अथो अनुमतवज्रो ऽसद् इति स यदा सङ्ग्रामं जयेन् नृज्यायं वा जिनीयाद् अथाग्नेयम् अष्टाकपालं निर्वपेद् ऐन्द्राग्नम् एकादशकपालं द्यावापृथिवीयं द्विकपालम् ऋद्ध्या एवाग्नेयो ऽग्नीषोमाभ्यां वै वीर्येणेन्द्रो वृत्रम् अहन् स ओजसा वीर्येण व्यार्ध्यत स एतम् ऐन्द्राग्नम् अपश्यत् तेनौजो वीर्यम् आत्मन्न् अधत्तौजसा वा एष वीर्येण व्यृध्यते यः सङ्ग्रामं जयति नृज्यायं वा जिनात्य् ओजो वीर्यम् इन्द्राग्नी ओजसैवैनं वीर्येण समर्धयतो ऽथ यद् द्यावापृथिवीयो ये एवास्मै वज्रम् अन्वमंसातां ताभ्याम् एष भागः क्रियते

॥२.१.३॥

अग्नीषोमीयम् एकादशकपालं निर्वपेद् ब्राह्मणः कामायाग्नीषोमीयो वै ब्राह्मणो देवतया स्वाम् एव देवतां कामाय भागधेयेनोपासरत् ता अस्मै कामं समर्धयतो यत्कामो भवत्य् अग्नीषोमीयम् एकादशकपालं निर्वपेद् ब्राह्मणं भूतिकामं याजयेद् देवा वै सत्रम् आसत कुरुक्षेत्रे ऽग्निः सोमा इन्द्रस् ते ऽब्रुवन् यतमं नः प्रथमं यस ऋछात् तं नः सहेति तेषां वै सोमं यश आर्छत् तम् अभिसमगछन्त तस्मात् सोमम् अभिसङ्गछन्ते स हि यशस्वितमस् तद् वै सोमो न्यकामयत स गिरिम् अगछत् तम् अग्निर् अन्वगछत् तौ गिरा अग्नीषोमौ समभवतां तस्मात् सददि गिरा अग्निर् दहति गिरौ सोमः स वा इन्द्रः शिथिर इवामन्यत सो ऽग्नीषोमा अन्वगछत् ता अब्रवीद् याजयतं मेति तं वा एतयाग्नीषोमा अयाजयतां तस्मिंस् तेजो ऽग्निर् अदधाद् इन्द्रियं सोमस् तता इन्द्रो ऽभवद् यो भूतिकामः स्यात् तम् एतया याजयेत् तेज एवास्मिन्न् अग्निर् दधातीन्द्रियं सोमो भवत्य् एवाग्नीषोमीयम् एकादशकपालं निर्वपेञ् श्यामाकं वसन्ता ब्रह्मवर्चसकामो ऽग्नीषोमौ वै ब्रह्मवर्चसस्य प्रदातारौ ता एव भागधेयेनोपासरत् ता अस्मै ब्रह्मवर्चसं प्रयछतस् वसन्ता यजेत वसन्तो वै ब्राह्मणस्य ऋतुः स्व एवास्मा ऋतौ ब्रह्मवर्चसं प्रयछतो यत् पुरोडाशस् तेनाग्नेयो यञ् श्यामाकस् तेन सौम्यः सर्वम् एवाग्नीषोमाभ्यां हव्यं सम्प्रादात् ता अस्मै सर्वं ब्रह्मवर्चसं प्रयछतः सौमाग्नी संयाज्ये स्यातां तेजो वा अग्निर् इन्द्रियं सोमस् तेजसा च वावास्मा एतद् इन्द्रियेण चोभयतो ब्रह्मवर्चसं परिगृह्णाति सौमापौष्णं चरुं निर्वपेन् नेमपिष्टं पशुकामः सोमो वै रेतोधाः पूषा पशूनां प्रजनयिता सोम एवास्मै रेतो दधाति पूषा पशून् प्रजनयति सौमेन्द्रं चरुं निर्वपेत् पुरोधाकामः सौम्यो वै ब्राह्मणो देवतयैन्द्रो राजन्यो ऽनपदोष्यं खलु वै सोमः प्रयछति तम् एव भागधेयेनोपासरत् सो ऽस्मा अनपदोष्यं राष्ट्रं प्रयछत्य् आग्निवारुणं चरुं निर्वपेत् समान्तम् अभिद्रुह्यामयावी वानृतं वा एष करोति यः समान्तम् अभिद्रुह्यति देवता वा एष आरद्यो ऽनृतं करोत्य् अग्निर् वै सर्वा देवता अत्र वै सापि देवता याम् आरत् तत एनं मुञ्चति यद् वारुणो वरुणाद् एवैनं तेन मुञ्चति तत् काजवं वा एतत् क्रियते सर्वस्यावेष्टिः सर्वस्य प्रायश्चित्तिः

॥२.१.४॥

सौमारौद्रं घृते चरुं निर्वपेञ् शुक्लानां व्रीहीणां ब्रह्मवर्चसकामः स्वर्भानुर् वा आसुरः सूर्यं तमसाविध्यत् तं सोमारुद्रा अभिषज्यतां तस्य वा एतेनैव शमलम् अपाहताम् एतेनास्मिंस् तेजो ऽधत्तां यो ब्रह्मवर्चसकामः स्यात् तम् एतया याजयेच् छमलम् एवास्यापहन्ति तेजो ऽस्मिन् दधातीयांश् चरुर् भवत्य् एतावान् वा आत्मा यावान् एवास्यात्मा तावद् अस्मिंस् तेजो दधाति शुक्ला व्रीहयो भवन्ति श्वेता गा आज्याय दुहन्ति तेज एवैतत् सम्भ्रियते घृतं प्रोक्षणं भवति घृतेन मार्जयन्ते घृते भवति भूय एवासिम्ंस् तेजो दधाति यस्या रात्र्याः प्रातर् यक्ष्यमाणः स्यान् नास्य तां रात्रीम् अपो गृहान् प्रहरेयुर् आपो वै शान्तिः शमयेयुर् एव परिश्रिते याजयन्ति तेजसः परिगृहीत्यै साकं रश्मिभिः प्रचरन्ति साकम् एवास्य रस्मिभिः शमलम् अपघ्नन्ति तिष्यापूर्णमासे याजयेत् सोमो वै चन्द्रमा रुद्रस् तिष्यः सम्प्रत्य् एवैना उपासरत् प्राचीनं वै सौमीर् ओषधयः प्रतीचीनं रौद्रीर् न हि प्राचीनं शुष्यन्ति शुष्यन्ति प्रतीचीनं मनोर् ऋचो भवन्ति मनुर् वै यत् किञ्चावदत् तद् भेषजम् एवावदत् तद् भेषजत्वायैवैताः शक्वरीर् भवन्ति शक्त्यै नाराशंसीर् भवन्ति शान्त्यै किलासत्वाद् वा एतस्य भयम् अति ह्य् अपहन्ति सौमापौष्णं चरुं निर्वपेन् नेमपिष्टं पशुकामः सौम्यो वै ब्राह्मणो देवतया पशवः पूषा स्वां वा एतद् देवतां पशुभिर् बंहयते त्वचम् एवाकृत

॥२.१.५॥

अति : फ़्न् एमेन्देद्। एद्।: अति

सौमारौद्रं चरुं निर्वपेत् कृष्णानां व्रीहीणाम् अभिचरन् सौमीर् वा ओषधयस् तत एनं निर्याच्य रुद्रायास्य पशून् अपिदधाति कृष्णा व्रीहयो भवन्ति तमो वै कृष्णं मृत्युस् तमो मृत्युनैवैनं ग्राहयति शरमयं बर्हिर् भवति वैभीदक इध्मः शृणाद् इति शरमयं बर्हिर् भवति विभत्त्यै वैभीदक इध्मः सौमारौद्रं चरुं निर्वपेद् उदश्वित्य् अविचितानां व्रीहीणां यः कामयेत द्वितीयम् अस्य लोके जनेयम् इति सौमीर् वा इमाः प्रजा द्वितीयम् एवास्य लोके जनयति नेमं शरमयं बर्हिर् भवति नेमम् अशरमयं नेमो वैभीदक इध्मो नेमो ऽवैभीदको द्वितीयम् एवास्य लोके जनयति सौमारौद्रीम् आमिक्षां निर्वपेद् आमयाविनं याजयेद् आग्नेयो वै प्रमीतः सौम्यो जीवन्न् उभयत एवैनं निःक्रीणाति पयो वै पुरुषः पय एतस्यामयति पयसैवास्य पयो निःक्रीणात्य् अपिनद्धाक्षो होता स्यात् तम् अरण्यं पराणीय विक्शापयेत् तस्मा अनड्वाहं दद्यात् तं घ्नीत तस्याश्नीयाद् यत् तस्य नाश्नीयात् प्रमीयेत

॥२.१.६॥

आग्नावैष्णवम् एकादशकपालं निर्वपेद् अभिचरन्न् अभिचर्यमाणो वा सरस्वतीम् अप्य् आज्यस्य यजेद् अग्निर् वै सर्वा देवता देवताभिर् एवास्य देवताः प्रतिचरति विष्णुर् यज्ञो यज्ञेन यज्ञं वाक् सरस्वती वाचा वाचं तद् अभिचर्याभिप्रायुक्ताथो प्रतिचर्यात्य् एव प्रायुक्ताग्नावैष्णवं घृते चरुं निर्वपेच् चक्षुष्कामो ऽग्निर् वै मनुष्याणां चक्षुषः प्रदाता विष्णुर् देवानाम् एतौ वै चक्षुषः प्रदातारौ ता एव भागधेयेनोपासरत् ता अस्मै चक्षुः प्रयछतो धेन्वा वै घृतं पयो ऽनडुहस् तण्डुलास् तन् मिथुनं मिथुनं चक्षुर् मिथुनेनैवास्मै मिथुनं चक्षुर् जनयतः पयो वै घृतं पयश् चक्षुः पयसैवास्मै पयश् चक्षुर् जनयतस् तेजो वै घृतं तेजश् चक्षुस् तेजसैवास्मै तेजश् चक्षुर् जनयतो हिरण्यं ददात्य् आयुर् वै हिरण्यम् आयुश् चक्षुर् आयुषैवास्मा आयुश् चक्षुर् दधाति शतमानं भवति शतायुर् वै पुरुषः शतवीर्य आयुर् एव वीर्यम् आप्नोत्य् आग्नावैष्णवम् एकादशकपालं निर्वपेद् अभिचर्यमाणो ऽग्निर् वै सर्वा देवता विष्णुर् यज्ञो देवताश् चैव यज्ञं चास्तृत्यै मध्यतः प्रविशत्य् आग्नावैष्णवम् एकादशकपालं निर्वपेत् सङ्ग्रामे सरस्वतीम् अप्य् आज्यस्य यजेद् अग्निर् वै सर्वा देवता देवताभिर् एवास्य देवताः प्रणुदते विष्णुर् यज्ञो यज्ञेन यज्ञं वाक् सरस्वती वाचा वाचं यदि मन्येत प्रति पुरस्ताच् चरन्तीति द्वे पुरोनुवाक्ये कुर्याद् एकां याज्यां समम् एव द्वाभ्यां क्रियते ऽत्य् एकया प्रयुङ्क्त आग्नावैष्णवं प्रातर् अष्टाकपालं निर्वपेत् सारस्वतं चरुं बार्हस्पत्यं चरुम् आग्नावैष्णवम् एकादशकपालं मध्यन्दिने सारस्वतं चरुं बार्हस्पत्यं चरुम् आग्नावैष्णवं द्वादशकपालम् अपराह्णे सारस्वतं चरुं बार्हस्पत्यं चरुं यस्य भ्रातृव्यः सोमेन यजेताग्निर् वै सर्वा देवता देवताभिर् एवास्य देवता आप्नोति विष्णुर् यज्ञो यज्ञेन यज्ञं वाक् सरस्वती वाचा वाचं ब्रह्म बृहस्पतिर् ब्रह्मणैवास्य ब्रह्माप्नोति कपालैश् छन्दांसि पुरोडाशैः सवनानि मैत्रावरुणम् एककपालं निर्वपेत् पयस्यां वानूबन्ध्याम् एवैतेनाप्नोति सैषाध्वरकल्पेष्टिर् यज्ञम् एवैतयाप्नोति

॥२.१.७॥

आग्निमारुतं चरुं निर्वपेद् वृष्टिकामः समान्या मृदश् चरुं च कुर्युः कुम्भं च यस्मिन्न् एवाग्नौ चरुं पचेयुस् तस्मिन् कुम्भं धूपयेयुर् धूमो वा अस्यामूं गछति नार्चिस् तस्माद् एतं धूपयन्ति न पचन्ति यदा हवींश्य् आसादयेयुर् अथ दक्षिणायां श्रोण्यां कुम्भम् आसाद्योदकेन पूरयेयुर् यदि पुरा संस्थानाद् वीर्येताद्य वर्षिष्यतीति ब्रूयाद् यदि संस्थिते श्वो व्रष्टेति ब्रूयाद् यदि चिरम् इव वीर्येत नाद्धा विद्मेति ब्रूयाद् अग्निर् वा इतो वृष्टिम् ईट्टे मरुतो ऽमुतश् च्यावयन्त्य् एते वै वृष्ट्याः प्रदातारस् तान् एव भागधेयेनोपासरत् ते ऽस्मै वृष्टिं प्रयछन्ति मारुतं चरुं निर्वपेत् पयसि प्रैयङ्गवं ग्रामकामो वा पशुकामो वा पृश्नीनां गवां दुग्धे पृश्नीनां गवाम् आज्यं स्यात् तत्रापि गोमूत्रस्याश्चोतयेयुः पृश्निर् वै यद् अदुहत् स प्रियङ्गुर् अभवद् इयं वै पृश्निर् वाग् वा तस्या वा एतत् पयो यत् प्रियङ्गवः स्वेनैवैनां पयसाछैति प्रियवती याज्यानुवाक्ये भवतः प्रियम् एनं सजातानां करोति द्विपदा च चतुष्पदा च भवतो द्विपदश् चैवास्मै चतुष्पदश् च पशून् अवरुन्द्धे यथा वत्स ऊधर् अभ्यायछति वत्सं वा गौर् एवम् एनं सजाता अभ्यायछन्ति मारुतं त्रयोदशकपालं निर्वपेद् यस्य यमौ पुत्रौ गावौ वा जायेयातां निर्वीरतां वै पुरुषो यमो जात आशास्ते ऽपशुतां गौर् यत् त्रयोदशं प्रजापतिर् वै त्रयोदशं प्रजापतिम् एवाप्नोति यद् द्वादशं संवत्सरात् तेन यद् गायत्र्य् अनुवाक्या संवत्सरात् तेन यज् जगती याज्या पशुभ्यस् तेन यन् मारुतीष्टिः पशुभ्यस् तेन मारुतं सप्तकपालं निर्वपेद् यत्र विड् राजानं जिज्यासेद् अगस्त्यस्य कयाशुभीयं सामिधेनीश् च स्युर् याज्यानुवाक्याश् चागस्त्यो वै मरुद्भ्य उक्ष्णः प्रौक्षत् तान् इन्द्रायालभत ते वज्रम् आदायाभ्यपतंस् तान् वा एतेनाशमयत् तञ् शमयत्य् एवैतेन सप्तकपालो भवति सप्त हि मरुतो विञ् मरुतः स्वेनैवैनान् भागधेयेन शमयति

॥२.१.८॥

ऐन्द्रम् एकादशकपालं निर्वपेन् मारुतं सप्तकपालं राजन्यं भूतिकामं याजयेद् ऐन्द्रो वै राजन्यो देवतया मारुती विड् इन्द्रियेनैवास्मै विशम् उपयुनक्त्य् अनुकाम् अस्मै विशम् अविवादिनीं करोत्य् ऐन्द्रम् एकादशकपालं निर्वपेन् मारुतं सप्तकपालं यः कामयेत विशे च क्षत्राय च समदं कुर्याम् इत्य् ऐन्द्रस्यैन्द्रीम् अनूच्य मारुत्या यजेन् मारुतस्य मारुतीम् अनूच्यैन्द्र्या यजेत् स्व एवैभ्यो भागधेये समदं करोति यदि कामयेतातुर्मुह्यं स्याद् इति पूर्वार्धे ऽन्यां जनताया गां निदध्याज् जघनार्धे ऽन्याम् अपि ते सङ्गछेते तावद् अतुर्मुह्यं भवति यदि कामयेत कल्पेतेत्य् एते एव हविषी निरुप्य यथायथं यजेत् कल्पते ऽहैन्द्रम् एकादशकपालं निर्वपेन् मारुतं सप्तकपालम् अभिचरन्न् उपरिष्टाद् ऐन्द्रस्यावद्येद् अधस्तान् मारुतस्योभयत एवैनान् आदीपयति ज्येष्ठतश् च कनिष्ठतश् चैन्द्रम् एकादशकपालं निर्वपेन् मारुतीम् आमिक्षां राजन्यं ग्रामकामं याजयेन् मध्य आमिक्षायाः पुरोडाशं निधायोभयस्यावद्येत् क्षत्रं वा इन्द्रो विण् मरुतो विशं वा एतन् मध्यतः प्रविशति पर्यूहम् अवद्यति विशैवैनं पर्यूहति मारुतम् एकविंशतिकपालं निर्वपेद् अभिचरन् देवविशा वै मरुतो न वै विशा प्रत्तं घ्नन्ति देवविश एवैनं निर्याच्य स्तृणुते तं बर्हिषदं कृत्वा समया स्फ्येन विहन्यात् ॥

इदम् अहम् अमुष्यामुष्यायणस्येन्द्रवज्रेण शिरश् छिनद्मि ॥ इतीन्द्रवज्रेनैवास्य शिरश् छिनत्त्य् अथ यत् स्फ्यो वज्रो वै स्फ्यो वज्रेणैवैनं स्तृणुते ॥

एना व्याघ्रं परिषस्वजानाः सिंहं मृजन्ति महते धनाय ।

महिषं नः सुभ्वं तस्थिवांसं मर्मृज्यन्ते द्वीपिनम् अप्स्व् अन्तः ॥

इति वज्रो वा आपो यद् एतद् अप्सुमद् यजुर् भवति वज्रेणैवैनं स्तृणुते

॥२.१.९॥

अग्नये पथिकृते ऽष्टाकपालं निर्वपेद् यस्य प्रज्ञातेष्टिर् अतिपद्येत बहिष्पथं वा एष एति यस्य प्रज्ञतेष्टिर् अतिपद्यते ऽग्निर् वै देवानां पथिकृत् तम् एव भागधेयेनोपासरत् स एनं पन्थाम् अपिनयत्य् अनड्वान् दक्षिणा स हि पन्थाम् अपिवहत्य् अग्नये व्रतपतये ऽष्टाकपालं निर्वपेद् य आहिताग्निः सन् प्रवसेद् बहु वा एष व्रतम् अतिपादयति य आहिताग्निः सन् प्रवसति व्रत्ये ह्य् अहनि स्त्रियं वोपैति मांसं वाश्नात्य् अग्निर् वै देवानां व्रतपतिस् तम् एव भागधेयेनोपासरत् स एनं व्रतम् आलम्भयत्य् अग्नये व्रतभृते ऽष्टाकपालं निर्वपेद् य आहिताग्निः सन्न् अश्रु कुर्याद् आनीतो वा एष देवानां य आहिताग्निस् तस्माद् एतेनाश्रु न कर्तवै न हि देवा अश्रु कुर्वन्त्य् अग्निर् वै देवानां व्रतभृद् अग्निम् एतस्य व्रतम् अगंस् तस्माद् एवाधिव्रतम् आलभते ऽग्नये यविष्ठायाष्टाकपालं निर्वपेद् अभिचर्यमाणो याभिर् एवैनम् इतरः प्रयुक्तिभिर् अभिप्रयुङ्क्ते ता अस्माद् यविष्ठो योयावाग्नये वाजसृते ऽष्टाकपालं निर्वपेत् सङ्ग्रामे वाजं वा एष सिसीर्षति यः सङ्ग्रामं जिगीषत्य् अग्निर् वै देवानां वाजसृत् तम् एव भागधेयेनोपासरत् सो ऽस्मै वाजं धावत्य् अग्नये ऽनीकवते ऽटाकपालं निर्वपेत् सङ्ग्रामे यद्र्यग् वा अग्नेर् अनीकम् एति न तत् प्रतिधृषे ऽग्निर् एवास्मा अनीकानि जयति विष्णुम् अप्य् आज्यस्य यजेद् अतो वै विष्णुर् इमांल् लोकान् उदजयद् विष्णोर् एवोज्जितिम् अन्व् इमांल् लोकान् उज्जयति प्रैभ्यो लोकेभ्यो भ्रातृव्यं नुदते ऽग्नये रुद्रवते ऽष्टाकपालं निर्वपेद् यः कामयेत रुद्रायास्य पशून् अपिदध्याम् इत्य् अग्निर् वै रुद्रो रुद्रायैवास्य पशून् अपिदधाति यदि कामयेत शाम्येद् इत्य् अग्नये सुरभिमते ऽष्टाकपालं निर्वपेद् एषा वा अग्नेर् भेषजा तनूर् यत् सुरभिर् भेषजम् एवास्मा अकः सुरभिम् एनम् अकः शमयत्य् एवाग्नये ऽन्नवते ऽन्नादायान्नपतये ऽष्टाकपालं निर्वपेद् यः कामयेतान्नवान् अन्नादो ऽन्नपतिः स्याम् इत्य् अग्निर् वै देवानाम् अन्नवान् अन्नादो ऽन्नपतिस् तम् एव भागधेयेनोपासरत् स एनम् अन्नवन्तम् अन्नादम् अन्नपतिं करोति

॥२.१.१०॥

अग्नये रक्षोघ्ने ऽष्टाकपालं निर्वपेद् यो रक्षोभ्यो बिभीयाद् इन्द्रं वै रक्षांस्य् असचन्त सो ऽग्निं प्राविशत् तानि वा एनम् अभिसममृशन् स एता विप्रुषो ऽजनयत या इमाः स्कूयमानस्य विप्रवन्ते तानि वा अग्निनैवापाहताग्निर् वै देवानां रक्षोहा तेनैव रक्षांस्य् अपहते नक्तं याजयेन् नक्तं वै रक्षांसि प्रेरते यर्ह्य् एव प्रेरते तर्ह्य् एनान्य् अपहते वामदेवस्य पञ्चदश सामिधेनीश् च स्युर् याज्यानुवाक्याश् च वामदेवश् च वै कुसितायी चाजीम् अयाताम् आत्मनोः सा कुसितायी वामदेवरथस्य कूबरम् अछिनत् सापरं न्याप्लवत युगं वा छेत्स्यामीषां वेति सो ऽग्निम् उख्यम् अवैक्षत स एतं मन्त्रम् अपश्यत् ताम् अर्चिर् उदौषत् सार्चिषा दह्यमाना ह्रदं प्राविशत् स वाव कौसितो ह्रदो रक्षांसि वै स तेनापाहत तद् रक्षांस्य् एवैतेनापहत आग्नेयम् अष्टाकपालं निर्वपेद् यो राष्ट्रे स्पर्धेत यो वा कामयेतान्नादः स्याद् इति देवाश् च वा असुराश् चास्पर्धन्त तान् गायत्री सर्वम् अन्नं परिगृह्यान्तरातिष्ठत् ते ऽविदुर् यतरान् वा इयम् उपावर्त्स्यति त इदं भविस्यन्तीति तस्यां वा उभय ऐछन्त तां नाम्नोपैप्सन् ॥

दाभि ॥ इत्य् असुरा आह्वयन् ॥

विश्वकर्मन् ॥ इति देवाः सा नान्यतरांश् चनोपावर्तत तां देवा एतेन यजुषावृञ्जत ॥

ओजो ऽसि सहो ऽसि बलम् असि भ्राजो ऽसि देवानां धाम नामासि विश्वम् असि विश्वायुः सर्वम् असि सर्वायुर् अभिभूः ॥ इति संवत्सरो वै गायत्री संवत्सरो वै तद् अतिष्ठत् संवत्सरं वा एषां तद् अन्नाद्यम् अवृञ्जत तत् संवत्सरम् एवैतद् अन्नाद्यं यजमानो भ्रातृव्यस्य वृङ्क्ते सैषा गायत्रीष्टिर् अथो आहुर् राष्ट्रस्य संवर्ग इति

॥२.१.११॥

ऐन्द्राबार्हस्पत्यं हविर् निर्वपेद् यो राष्ट्रीयो नेव प्रस्तिङ्नुयाद् अदितिर् वै प्रजाकम् औदनम् अपचत् सोञ्शिष्टम् आश्नात् तं वा इन्द्रम् अन्तर् एव गर्भं सन्तम् अयस्मयेन दाम्नापौम्भत् सो ऽपोब्धो ऽजायत तं वा एतेन बृहस्पतिर् अयाजयद् ऐन्द्राबार्हस्पत्येन तस्य तद् दाम स्वयम् एव व्यपद्यत स इमा दिशो वज्रेणाभिपर्यावर्तत यो राष्ट्रीयो नेव प्रस्तिङ्नुयात् तम् एतेन याजयेद् ऐन्द्राबार्हस्पत्येन परिततो हि वा एष पाप्मनाथैष न प्रस्तिङ्नोति बृहस्पतये निरुप्यत इन्द्राय क्रियते सर्वत एवैनं मुञ्चति वज्रेणेमा दिशो ऽभिपर्यावर्तते

॥२.१.१२॥
प्रपाठक 2

द्वितीयकाण्डे द्वितीयः प्रपाठकः

द्वितीयकाण्डे द्वितीयः प्रपाठकः

यां त्वा जनो भूमिर् इति प्रमन्दते निरृतिं त्वाहं परिवेद विश्वतः ॥ इति निरृतिगृहीतो वा एष यो निरुद्धो निरृत्या एवैनं तेन मुञ्चत्य् एतद् वै विशम् अवागन्न् अथ वा अस्य राज्यम् अन्वगतं तद् यो ऽमी कृष्णा व्रीहयस् तं वारुणं घृते चरुं निर्वपेद् वरुणो वै देवानां राजा स राज्यस्यावगमयिता तम् एव भागधेयेनोपासरत् स एनं राज्यम् अवगमयत्य् एतद् वै नानाविश्यम् उभयीम् एवैतेन विशम् अवगछति दैवीं च मानुषीं च

॥२.२.१॥

सौर्यं घृते चरुं निर्वपेञ् शुक्लानां व्रीहीणां ब्रह्मवर्चसकामः शतमानो रुक्मो रजतो ऽधस्तात् स्याच् छतमानो रुक्मो हरित उपरिष्टाद् इह वा असा आदित्य आसीत् तम् आभ्यां परिगृह्योपरिष्टाद् आसां प्रजानां न्यदधुर् उपरिष्टाद् वा असा आदित्य इमाः प्रजा अधिषद्यात्तीयं वै रजतासौ हरिण्य् आभ्याम् एवैनं परिगृह्योपरिष्टाद् आसां प्रजानां निदधात्य् उपरिष्टाद् इमाः प्रजा अधिषद्यात्ति पञ्च कृष्णलान्य् अपि प्रयाजेषु जुहुयाद् एतैर् वा असा आदित्य इमान् पञ्च ऋतून् अनु तेजस्वीमा एवैनं पञ्च दिशो ऽनु तेजस्विनं करोति प्राजापत्यं घृते चरुं निर्वपेञ् शतकृष्णलम् आयुष्कामो देवा असुरान् हत्वा मृत्योर् अबिभयुस् ते देवाः प्रजापतिम् एवोपाधावंस् तान् वा एतया प्रजापतिर् अयाजयत् ततो देवा अमृतत्वम् अगछन्न् अमृतं वै हिरण्यम् अमृतम् आयुर् अमृतेनैवैष्व् अमृतम् आयुर् आप्त्वादधाद् य आयुष्कामः स्यात् तम् एतया याजयेद् एतद् वै मनुष्यस्यामृतत्वं यत् सर्वम् आयुर् एत्य् अमृतं वै हिरण्यम् अमृतम् आयुर् अमृतेनैवास्मिन्न् अमृतम् आयुर् आप्त्वा दधाति तेन स सर्वम् आयुर् एति न पुरायुषः प्रमीयते शतकृष्णलो भवति शतायुर् वै पुरुषः शतवीर्य आयुर् एव वीर्यम् आप्नोति चत्वारिचत्वारि कृष्णलान्य् अवद्यति समृद्ध्यै सर्वं ब्रह्मणे परिहर्तवा आह सर्वं ब्रह्मणि यज्ञं प्रतिष्ठापयति सर्वम् अस्मिन् ब्रह्मा वीर्यं दधात्य् अथो ब्रह्म वै ब्रह्मा ब्रह्मणैवास्मिन् ब्रह्मायुर् दधाति

॥२.२.२॥

बार्हस्पत्यं चरुं निर्वपेत् पुरोधाकामस् तस्य बार्हस्पत्ये ज्योतिष्मती याज्यानुवाक्ये स्यातां ब्रह्म वै बृहस्पतिर् बार्हस्पत्यो ब्राह्मणो देवतया स्वाम् एव देवतां पुरोधाया उपासरत् स्वैनं देवता पुरोधां गमयति यद् वै लेलायद् वीव भाति तज् ज्योतिस् तस्माज् ज्योतिष्मती यदि नेव पुरोधां गछेद् ऐन्द्राबार्हस्पत्यं हविर् निर्वपेद् ब्रह्म चैव क्षत्रं च सयुजा अकस् ताजग् एनं पुरोदधते बार्हस्पत्यं चरुं निर्वपेत् पयसि ग्रामकामो वा पशुकामो वा तस्य बार्हस्पत्ये गणवती याज्यानुवाक्ये स्यातां यो बहुपुरुष्टस् तस्य गृहात् क्षीरम् आहरेयुः स्यात् स्वासां गवां दुग्धं स्याद् उदकं पुष्टिर् एवैषा सम्भ्रियते ब्रह्म वै बृहस्पतिर् बृहस्पतिश् छन्दांसि छन्दोभिर् बृहस्पतिर् गणी स्वां वा एतद् देवतां भूयिष्ठेनार्पयति सजातैर् एनं गणिनं करोति ब्राह्मणस्पत्यं चरुं निर्वपेत् सङ्ग्रामे तस्य ब्राह्मणस्पत्ये वीरवती वयस्वती याज्यानुवाक्ये स्यातां छदिर् दर्शे याजयेद् उद्बर्हिः प्रस्तरः स्याद् बाणवन्तः परिधयो वयांसि परं ग्रामम् आविशन्ति तथा विज्ञेयं जेष्यामा इति ब्रह्म वै ब्रह्मणस्पतिर् ब्रह्मैवोपासरद् ब्राह्मणस्पत्यं चरुं निर्वपेद् यत्र कामयेत ब्रह्मबलं स्याद् इति तस्य ब्राह्मणस्पत्ये मरुत्वती याज्यानुवाक्ये स्यातां ब्रह्म वै ब्रह्मणस्पतिर् विण् मरुतो ब्रह्मणि वा एतद् विशम् अधि विनाशयति द्रढिम्ने ऽशिथिरत्वाय

॥२.२.३॥

लेलायद् : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।

बार्हस्पत्यं चरुं निर्वपेद् गार्मुतं पशुकामः प्रजापतिः पशून् असृजत ते ऽस्मात् सृष्टाः पराञ्च आयंस् तान् बृहस्पतिश् चान्वैतां ते यत्रावसंस् ततः शक्नो गर्मुद् अजायत तं वा अब्रवीद् अनेन मा याजयेति तेन वा एनम् अयाजयत् तं पशव उपावर्तन्त यः पशुकामः स्यात् तम् एतेन याजयेद् उप हैनं पशवा आवर्तन्ते यदा हि स तम् एतेनायाजयद् अथ तं पशव उपावर्तन्त सौमापौष्णं चरुं निर्वपेद् गार्मुतं पशुकामः प्रजापतिः पशून् असृजत ते ऽस्मात् सृष्टाः पराञ्च आयंस् तेषां पूषणम् अधिपाम् अकरोत् ते यत्रावसंस् ततः शक्नो गर्मुद् अजायत तं वा आहरद् अनेन मे प्रतिष्ठेति स सोमो ऽब्रवीन् मम वा अकृष्टपच्यम् इति तं सौमापौष्णं निरवपत् तं पशव उपावर्तन्त यः पशुकामः स्यात् तम् एतेन याजयेद् उप हैनं पशवा आवर्तन्ते यदा हि स तम् एतेनायाजयद् अथ तं पशव उपावर्तन्त सोमो वै रेतोधाः पूषा पशूनां प्रजनयिता सोम एवास्मै रेतो दधाति पूषा पशून् प्रजनयति प्राजापत्यं चरुं निर्वपेद् गार्मुतं पशुकामः पृश्नीनां गवां दुग्धे पृश्नीनां गवाम् आज्यं स्यात् तत्रापि गोमूत्रस्याश्चोतयेयुः पृश्निर् वै यद् अदुहत् स गर्मुद् अभवद् इयं वै पृश्निर् वाग् वा तस्या वा एतञ् शिरो यद् गर्मुतस् तस्माद् एतद् आण्डम् इव पीयूष इव तं प्राजापत्यं चरुं निर्वपेत् पशुकामः प्राजापत्या वै पशवः प्रजापतिः पशूनां प्रजनयिता तम् एव भागधेयेनोपासरत् सो ऽस्मै पशून् प्रजनयति वास्त्वमयं रौद्रं चरुं निर्वपेद् यत्र रुद्रः प्रजाः शमायेत वास्तोर् वै वास्त्वं जातं वास्त्वमयं खलु वै रुद्रस्य स्वेनैवैनं भागधेयेन शमयति तया निषादस्थपतिं याजयेत् सा हि तस्येष्टिः कूतं दक्षिणा कर्णो वा गर्दभः

॥२.२.४॥

परमेष्ठिने द्वादशकपालं निर्वपेद् यः कामयेत परमेष्ठी स्याम् इति परमेष्ठी वा एष देवानां यः परमेष्ठी परमेष्ठी राजन्यो मनुष्याणां तम् एव भागधेयेनोपासरत् स एनं परमेष्ठिनं करोति तस्मै धनुश् च तिस्रश् च प्रयछेत् ॥ अग्निष् टे तेजः प्रयछत्व् इन्द्र इन्द्रियं पित्र्यां बन्धुताम् ॥ इत्य् अग्निर् एवास्मै तेजः प्रयछतीन्द्रं इन्द्रियं पित्र्यां बन्धुतां वैश्वदेवं द्वादशकपालं निर्वपेद् भ्रातृव्यवांस् तं बर्हिषदं कृत्वा समया स्फ्येन व्य्·हेत् ॥ इदम् अहं मां चामुं च व्य्·हामि ॥ इति यं द्विष्यात् तं यद् अधो ऽवमृद्येत यच् च स्फ्य आश्लिष्येत् तद् विष्णव उरुक्रमायावद्येद् विष्णुर् एवैना अन्तरा विक्रमते तं पुनः समूहेत् ॥ इदम् अहं मां चामुं च समूहामि ॥ इति यो ऽस्य प्रियः स्यात् तं वैश्वदेवीर् वा इमाः प्रजास् ताभिर् एवेतरं व्यूहति ताभिर् आत्मानं समूहतीन्द्राण्यै चरुं निर्वपेत् सेनायाम् उत्तिष्ठन्त्यां सेना वा इन्द्राणी ब्रह्मणैवैनां पुरस्तान् मुखतो जित्यै संश्यति बल्बजा अपीध्मे स्युः शक्नो वा एते ऽध्युत्थिता न्यायेनैवैनाम् अभिनयति यत् तस्यां सेनायां विन्देत सा दक्षिणा वाचस्पतये चरुं निर्वपेञ् श्रीकामो यो वै वाचो ऽध्यक्षः स वाचस्पतिस् तञ् श्रीकरणम् एवैतत्

॥२.२.५॥

अग्नये वसुमते सतीनानाम् अष्टाकपालं निर्वपेत् सोमाय रुद्रवते श्यामाकं चरुम् इन्द्राय मरुत्वते नैवारम् एकादशकपालं वरुणायादित्यवते यवमयं चरुं देवा अन्योन्यस्य श्रैष्ठ्ये तिष्ठमानाश् चतुर्धा व्युदक्रामन्न् अग्निर् वसुभिः सोमो रुद्रैर् इन्द्रो मरुद्भिर् वरुण आदित्यैस् तान् वा एतया बृहस्पतिर् अयाजयत् सञ्ज्ञान्यात इन्द्रम् एवाभिसमावर्तन्तेन्द्रम् अभिसमजानत तद् य एतया यजते तम् एवाभिसमावर्तन्ते तम् अभिसञ्जानते तद् आहुर् ऐन्द्र एकादशकपालः कार्या इतीन्द्रं हि ते ऽभिसमावर्तन्तेन्द्रम् अभिसमजानत ॥

श्रैष्ठ्ये : फ़्न् एमेन्देद्। एद्।: श्रीष्टे। च्फ़्। ३।७।१०:९०।१

सञ्ज्ञानं नो दिवा पशोः सञ्ज्ञानं नक्तम् अर्वतः ।

सञ्ज्ञानं नः स्वेभ्यः सञ्ज्ञानम् अरणेभ्यः सञ्ज्ञानम् अश्विना युवम् इहास्मभ्यं नियछतम् ॥

सम् इन्द्र राया सम् इषा रभेमहि सं वाजैः पुरुश्चन्द्रैर् अभिद्युभिः ।

सं देव्या प्रमत्या वीरशुष्मया गोअग्रयाश्ववत्या रभेमहि ॥

गोअग्रयाश्ववत्या : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।

इन्द्रवायू सुसन्दृशा सुहवेह हवामहे ।

यथा नः सर्वा इज् जनः सङ्गमे सुमना असत् ॥

सं वो मनांसि सं व्रता सम् आकूतीर् अनंसत ।

अमी ये विव्रताः स्थ तान् वः सन्नमयामसि ॥

समाना वा आकूतानि समाना हृदयानि वः ।

समानम् अस्तु वो मनो यथा वः सुसहासति ॥

समानो मन्त्रः समितिः समानी समानं व्रतं सह चित्तम् एषाम् ।

समानं क्रतुम् अभिमन्त्रयध्वं समानेन वो हविषा जुहोमि ॥

सङ्गछध्वं सञ्जानीध्वं सं वो मनांसि जानताम् ।

देवा भागं यथा पूर्वे सञ्जानाना उपासते

॥२.२.६॥

आग्नेयम् अष्टाकपालं निर्वपेत् सावित्रं चरुं वायव्यां यवागूं प्रतिधुग् वा भौमम् एककपालं यस्य हिरण्यं नश्येद् यो वा हिरण्यं विन्देद् अग्निर् वा अग्रे हिरण्यम् अविन्दत् स सवित्रामन्त्रयत न खलु वै किञ्चन वायुनानभिगतम् अस्त्य् अस्यां वै स तद् अविन्दद् वित्त्या एवाग्नेयः प्रसवाय सावित्रो ऽभिनीत्यै वायव्याथ यद् भौमो ऽस्यां हि स तद् अविन्दद् एते वै प्रदातारस् तान् एव भागधेयेनोपासरत् ते ऽस्मै प्रयछन्ति स यदा विन्देद् अथैतेभ्य एव निर्वपेद् यैर् एवाविन्दत् तान् भागिनः करोत्य् अहिंसायै प्रजापतिर् वै सोमाय राज्ञे दुहितॄर् अददान् नक्षत्राणि स रोहिण्याम् एवावसन् नेतरासु ता अनुपेयमानाः पुनर् अगछंस् तं राजयक्ष्मेणाग्रहयत् स निरस्रवत् तस्माद् राजयक्ष्मगृहीतो निःस्रवति स वै प्रजापतिम् एवोपाधावत् तं प्रजापतिर् अब्रवीद् ऋतं ब्रूहीति स ऋतम् अब्रवीद् यथा सर्वास्व् एव समावद् वसानीति तस्माद् एष सर्वास्व् एव समावद् वसति तस्मै वै प्रजापतिः प्रायश्चित्तिम् ऐछत् तस्मा अमावास्यायां वैश्वदेवं चरुं निरवपत् तेनास्मै प्रायश्चित्तिम् अविन्दत् सो ऽमुम् आप्यायमानम् अन्वाप्यायत वसीयान् अभवद् यो राजयक्ष्मगृहीतः स्यात् तस्मा अमावास्यायां वैश्वदेवं चरुं निर्वपेद् एतेन वै स तस्मै प्रायश्चित्तिम् अविन्दत् तेनैवास्मै प्रायश्चित्तिं विन्दत्य् अमुम् एवाप्यायमानम् अन्वाप्यायते वसीयान् भवति

॥२.२.७॥

प्रजापतिर् वै देवेभ्यो भागधेयानि व्यकल्पयत् स इन्द्रो ऽब्रवीद् यद् अतिरिच्यते तन् ममेति तद् वा इन्द्रियम् एवात्यरिच्यत तद् इमांल् लोकान् ऊर्ध्वम् अनूदश्रयत तन् नैकेनाप्नोन् न द्वाभ्यां तत् तृतीयेनाप्त्वावारुन्द्ध यत् त्रयः पुरोडाशा भवन्त्य् एभ्यो वा एतल् लोकेभ्य इन्द्रियं वीर्यम् आप्त्वावरुन्द्ध उत्तरौत्तरः पुरोडाशो ज्यायान् भवत्य् उत्तर उत्तरो हि लोको ज्यायान् इन्द्राय राज्ञे प्रथम इन्द्राय स्वराज्ञे मध्यम इन्द्रायाधिराजायोत्तम एतानि वै सर्वाणीन्द्रो ऽभवद् राज्यं स्वाराज्यम् आधिराज्यम् एतानि सर्वाणि भवति य एतैर् यजते सर्वम् एतद् भवति य एवं वेद प्रथमाम् अनूच्य मध्यमया यजेन् मध्यमाम् अनूच्योत्तमया यजेद् उत्तमाम् अनूच्य प्रथमया यजेद् एवम् अस्य सर्वा अनुवाक्या भवन्ति सर्वा याज्या एषां लोकानां प्रतिप्रज्ञात्यय् अथो अनुसन्तत्यईन्द्राय घर्मवते सूर्यवता एकादशकपालं निर्वपेत् तेजस्कामस् तेजो वै घर्मस् तेजः सूर्यस् तेज एवावरुन्द्ध इन्द्रायेन्द्रियवता एकादशकपालं निर्वपेत् पशुकाम इन्द्रियं वै पशव इन्द्र इन्द्रियस्य प्रदाता तम् एव भागधेयेनोपासरत् सो ऽस्मा इन्द्रियं पशून् प्रयछति

॥२.२.८॥

एतल् : फ़्न् एमेन्देद्। एद्।: एतं

इन्द्रायार्कवते ऽश्वमेधवता एकादशकपालं निर्वपेन् निरुद्धं याजयेद् अन्तं वा एष गतो यो निरुद्धो ऽन्तो ऽर्को ऽन्तो ऽश्वमेधो ऽन्तेनैवास्मा अन्ते कल्पयति वशा दक्षिणा वशं मा नयाद् इतीन्द्रायार्कवते ऽश्वमेधवता एकादशकपालं निर्वपेद् यः कामयेत जने म ऋध्येतेत्य् अन्तो वा एषा ऋद्धीनां यज् जनो ऽन्तो ऽर्को ऽन्तो ऽश्वमेधो ऽन्तेनैवास्मा अन्ते कल्पयति वशा दक्षिणा वशं मा नयाद् इतीन्द्रायार्कवते ऽश्वमेधवता एकादशकपालं निर्वपेद् गतश्रीर् यदा वै श्रियो ऽन्तं गछत्य् अथ पापीयान् भवत्य् अन्तो ऽर्को ऽन्तो ऽश्वमेधो ऽन्तम् एवालब्ध न पापीयान् भवतीन्द्रायार्कवते ऽश्वमेधवता एकादशकपालं निर्वपेद् यः कामयेत महायज्ञो मोपनमेद् इत्य् एते वा इन्द्रस्य यज्ञिये तन्वौ यद् अर्कश् चाश्वमेधश् च ते एवालब्ध ताभ्यां महायज्ञम् आलभत इन्द्राय घर्मवते सूर्यवता एकादशकपालं निर्वपेद् इन्द्राय मन्युमते मनस्वता एकादशकपालम् इन्द्रायेन्द्रियवता एकादशकपालम् इन्द्रायार्कवते ऽश्वमेधवता एकादशकपालं भूतिकामं याजयेद् इदं वा इन्द्रस्य घर्मश् च सूर्यश् चेदम् अस्य मन्युश् च मनश् चेदम् अस्येन्द्रश् चेन्द्रियं चेदम् अस्यार्कश् चाश्वमेधश् चैतानि वै सर्वाणीन्द्रो ऽभवद् एतानि सर्वाणि भवति य एतैर् यजते सर्वम् एतद् भवति य एवं वेद

॥२.२.९॥

इन्द्रायांहोमुचा एकादशकपालं निर्वपेद् आमयाविनं यजयेद् एषा वा इन्द्रस्य भेषजा तनूर् यद् अंहोमुक् तम् एव भागधेयेनोपासरत् स एनम् अंहसो मुञ्चतीन्द्राय त्रात्र एकादशकपालं निर्वपेद् यो ज्यान्या मारणाद् अपरोधाद् वा बिभीयाद् इन्द्रो वै त्रातेन्द्रो ऽपरोद्धा तम् एव भागधेयेनोपासरत् स एनं त्रायत इन्द्रायान्वृजवा एकादशकपालं निर्वपेज् ज्येष्ठबन्धुर् इन्द्रियं वै ज्येष्ठबन्धुर् इन्द्रियेणैवैनान् अन्वृजून् कुरुत इन्द्राय प्रबभ्रायैकादशकपालं निर्वपेत् सङ्ग्रामे प्रवभ्रो वा इन्द्रो वृत्राय वज्रं प्राहरत् प्रबभ्र एवैभ्यो वज्रं प्रहरतीन्द्राय वैमृधायैकादशकपालं निर्वपेत् सङ्ग्रामे मृधो वा एष विहन्ति यः सङ्ग्रामं जयति मृध एव विहत इन्द्रायाभिमातिघ्न एकादशकपालं निर्वपेत् सङ्ग्रामे ऽभिमातीर् वा एष हन्ति यः स्माग्रामं जयत्य् अभिमातीर् एव हत इन्द्रायाभिमातिषाहा एकादशकपालं निर्वपेद् यः कामयेत विषहेयाभयं मे स्याद् इतीन्द्रो वै वृत्राय वज्रम् उदयछत् तं दानवा नान्वमन्यन्त तम् एतेन भागधेयेनान्वमन्यन्त ततो वै सो ऽभिमातीर् अहन् वृत्रम् अहन् वृत्रं खलु वा एष हन्ति यः सङ्ग्रामं जयति तद् वार्त्रघ्नम् एवैतत्

॥२.२.१०॥

वैमृधायैकादशकपालं : फ़्न् एमेन्देद्। एद्।: वै मृधायैकादशकपालं

ऐन्द्रम् एककपालं निर्वपेन् निरुद्धं याजयेद् आ प्रेहि परमस्याः परावता इति याज्यानुवाक्ये स्यातां परावतं वा एष गतो यो निरुद्धः परावत एवैनम् अध्य् आप्त्वावगमयत्य् ऐन्द्रं त्रयोदशकपालं निर्वपेन् निरुद्धं याजयेद् अतिरिक्तं वै त्रयोदशम् अतिरिक्तो निरुद्धो ऽतिरिक्ताद् एवैनम् अतिरिक्तम् आप्त्वावगमयतीन्द्राय वज्रिणा एकादशकपालं निर्वपेद् इन्द्राय वृत्रघ्न एकादशकपालम् इन्द्राय वृत्रतूरा एकादशकपालं यस्य भ्रातृव्यः सोमेन यजेत वज्रं वा एष भ्रातृव्यायोञ्श्रयति यः सोमेन यजते यद् वज्रिणे वज्रेणैवास्य वज्रं स्तृणुते यद् वृत्रघ्ने भ्रातृव्यो वै वृत्रो हन्त्य् एवैनं यद् वृत्रतूरे भ्रातृव्यो वै वृत्रस् तरत्य् एवैनम् इन्द्राय क्षेत्रञ्जयायैकादशकपालं निर्वपेद् यः क्षेत्रे पशुषु वा विवदेतेन्द्रो वै देवानां क्षेत्रञ्जयस् तम् एव भागधेयेनोपासरत् सो ऽस्मै क्षेत्रं पशून् जयतीन्द्रायाधिराजायैकादशकपालं निर्वपेद् यत्र राजानः सदृशा इव स्युर् इन्द्रो वै देवानाम् अधिराजस् तम् एव भागधेयेनोपासरत् स एनम् आधिराज्यं गमयति

॥२.२.११॥

इन्द्राय मन्युमते मनस्वता एकादशकपालं निर्वपेत् सङ्ग्रामे मन्युना वै वीर्यं क्रियत इन्द्रियेण जयति वीर्यं चैवैष्व् इन्द्रियं च जित्यै दधाति मन्यवे चरुं निर्वपेत् सङ्ग्रामे मन्युना वै वीर्यं क्रियते वीर्यम् एवैषु जित्यै दधाति यं जीवग्राहं गृह्णीयुस् तं विकृन्तेयुर् मन्योः स्विद् एव सत्यम् अकर् इन्द्राय मनस्वता एकादशकपालं निर्वपेद् यः कामयेत पुन्यः स्याम् अनाधृष्य इति मनो वै श्रीस् त्विषिः श्रियम् एवास्मिंस् त्विषिं दधाति संवत्सरं नु पुरा मनसो न कीर्तयेत् संवत्सरेण वा अनाप्तम् आप्यते संवत्सरेणैवास्मा आप्त्वा श्रियं त्विषिं दधाति

॥२.२.१२॥

यस्य सान्नाय्यं चन्द्रमा अभ्युदियाद् ये पुरोडाश्याः स्युस् तांस् त्रेधा कुर्याद् ये मध्यमास् तम् अग्नये दात्रे ऽष्टाकपालं निर्वपेद् ये स्थविष्ठास् तम् इन्द्राय प्रदात्रे दधंश् चरुं ये क्षोदिष्ठास् तं विष्णवे शिपिविष्टाय शृते चरुम् अग्निर् वै मध्यमस्य दातेन्द्रो ज्येष्ठस्य प्रदाताथ यत् क्षोदिष्ठं तञ् शिपिविष्टं तद् आप्नोति पशून् एव सोमो वा एतस्यातिरिच्यते यस्य सान्नाय्यं चन्द्रमा अभ्युदेति स वै पशून् एवाभ्यतिरिच्यते यः पशुकामः स्यात् सो ऽमावास्याम् इष्ट्वा वत्सान् अपाकुर्याद् ये पुरोडाश्याः स्युस् तांस् त्रेधा कुर्याद् ये क्षोदिष्ठास् तम् अग्नये सनिमते ऽष्टाकपालं निर्वपेद् ये मध्यमास् तं विष्णवे शिपिविष्टाय शृते चरुं ये स्थविष्ठास् तम् इन्द्राय प्रदात्रे दधंश् चरुम् अग्निर् एवास्मै तद् विन्दति यद् इह विष्णुस् तद् यद् अन्तरिक्ष इन्द्रस् तद् यद् दिवि सत्वानो गा इछन्ति यद् एते तण्डुला विभाज्यन्ते सत्वानो वा एत एष्टारो ऽभिरोद्धार एवाग्नेयम् अष्टाकपालं निर्वपेद् गतश्रीस् तस्य गौर् धेनुर् दक्षिणा स प्राङ् प्रयाय वैष्णवं त्रिकपालं तस्य वडबा धेनुर् दक्षिणा स प्राङ् प्रयाय गिरिं गत्वापो वा प्रजापत्यं घृते चरुं तस्य पुरुषी धेनुर् दक्षिणा यद् आग्नेय इमां तेनाक्रमते यद् वैष्णवो ऽन्तरिक्षं तेन यत् प्राजापत्यो ऽमुं तेन लोकं यत् प्राङ् प्रयात्य् अभि स्विद् एवाक्रमीद् यद् गिरिं गछत्य् अपो वान्तं स्विद् एवागन् यत् तिस्रो धेनवो दक्षिणा त्रयो वा इमे लोका इमान् अस्मै लोकान् धेनुर् अकर् इमान् अस्मै लोकान् प्रदापयति प्रत्तान् ह वा अस्मा इमांल् लोकान् दुहे य एवं वेद सौमेन्द्रं चरुं निर्वपेञ् श्यामाकं सोमवामिन इन्द्रो वै त्वष्टुः सोमम् अपिबद् अनुपहूयमानस् तस्योर्ध्वः सोमपीथो ऽपतत् ते श्यामाका अभवन्त् सोमपीथेन वा एष व्यृध्यते यः सोमं वमिति यत् सौम्यः सोमपीथेनैवैनं समर्धयतीन्द्रियेण वा एष वीर्येण व्यृध्यते यः सोमं वमिति यद् ऐन्द्र इन्द्रियेणैवैनं वीर्येण समर्धयति शिथिर इव हि वा एतस्य सोमपीथो ऽथैष सोमं वमिति यञ् श्यामाकतण्डुलैः श्रीणाति सोमपीथस्य धृत्यै

॥२.२.१३॥
प्रपाठक 3

द्वितीयकाण्डे तृतीयः प्रपाठकः

द्वितीयकाण्डे तृतीयः प्रपाठकः

एते वै वरुणस्य पाशास् तत एनं मुञ्चति

॥२.३.१॥

वैश्वदेवं चरुं निर्वपेद् भ्रातृव्यवान् देवाश् च वा असुराश् चास्पर्धन्त ते देवाः सङ्ग्रहणेनायजन्त ते यत् किञ्चासुराणां स्वम् आसीत् तत् समगृह्णन् मनांसि वावैषां तत् समगृह्णंस् ते ऽमनसः पराभवन् भ्रातृव्यवान् यजेत मनोग्रहणं वा एतन् मनांसि वा एतद् भ्रातृव्याणां सङ्गृह्णाति ते ऽमनसः पराभवन्ति ग्रामकामो यजेत मनोग्रहणं वा एतन् मनांसि वा एतत् सजातानां सङ्गृह्णाति ते ऽस्मान् मनोगृहीता नापयन्ति सर्वेषां सजातानां गृहाद् आज्यम् आहरेयुर् यावताम् एव कियतां च गृहाद् आज्यम् आहरन्ति तेषां सर्वेषां मनांसि सङ्गृह्णाति ते ऽस्मान् मनोगृहीता नापयन्त्य् आमनेन जुहोत्य् आमनस एवैनान् करोति ॥

आमनस्य देव ये सजाताः समनसस् तान् अहं कामये हृदा ते मां कामयन्तां हृदा तान् मा आमनसस् कृधि स्वाहामनस्य देव ये पुत्राः समनसस् तान् अहं कामये हृदा ते मां कामयन्तां हृडा तान् मा आमनसस् कृधि स्वाहामनस्य देव याः स्त्रियः समनसस् ता अहं कामये हृदा ता मां कामयन्तां हृदा ता मा आमनसस् कृथि स्वाहामनस्य देव ये पशवः समनसस् तान् अहं कामये हृदा ते मां कामयन्तां हृदा तान् मा आमनसस् कृधि स्वाहा ॥

एते वै सजाताः सजाता इव पुत्रा इव स्त्रिय इव पशव इव तैर् आत्मानम् अभिसंयुङ्क्ते तैर् भवति पृषती गौर् धेनुर् दक्षिणा सा हि वैश्वदेव्य् अथ यद् वैश्वदेवीष्टिर् वैश्वदेवीर् वा इमाः प्रजास् ता एवावारुन्द्ध ता आद्या अकृत बहिरात्मं वै प्रयाजानुयाजा आत्मा देवता यत् प्रयाजानुयाजानां पुरस्ताद् वोपरिष्टाद् वा जुहुयाद् बहिरात्मं सजातान् दधीताथ यन् मध्यतो जुहोति मध्यत एव सजातान् आत्मन् धत्ते यदि कामयेत ताजग् एयुस् ताजक् परेयुर् इति दारुमयेण जुहुयाच् चराचरा हि वनस्पतयो यदि कामयेत ध्रुवाः स्युः कृछ्राद् एयुर् इति मृन्मयेन जुहुयात् ॥

ध्रुवा हीयं ध्रुवो सि ध्रुवस् त्वं देवेष्व् एधि ध्रुवो ऽहं सजातेषु भूयासं प्रियः सजातानाम् उग्रश् चेत्ता वसुविद् उग्रो ऽस्य् उग्रस् त्वं देवेष्व् एध्य् उग्रो ऽहं सजातेषु भूयासं प्रियः सजातानाम् उग्रश् चेत्ता वसुविद् अभिभूर् अस्य् अभिभूस् त्वं देवेष्व् एध्य् अभिभूर् अहं सजातेषु भूयासं प्रियः सजातानाम् उग्रश् चेत्ता वसुवित् परिभूर् असि परिभूस् त्वं देवेष्व् एधि परिभूर् अहं सजातेषु भूयासं प्रियः सजातानाम् उग्रश् चेत्ता वसुवित् सूरिर् असि सूरिस् त्वं देवेष्व् एधि सूरिर् अहं सजातेषु भूयासं प्रियः सजातानाम् उग्रश् चेत्ता वसुवित् ॥

एते वै सजातास् तान् अस्मिन् दधाति तान् अस्माद् अनपक्रमिणः करोति

॥२.३.२॥

अथैषो ऽश्वः प्रतिगृह्यते स वा उभयतोदन् प्रतिगृहीतो निर्बभस्त्य् अस्येन्द्रियं च पशूंश् च वरुणो वा अश्वो वरुणदेवत्यो यो वा अश्वं प्रतिगृह्णाति वरुणं स प्रसीदति तद् अश्वहविषा यष्टव्यं निर्वरुणत्वाय चतुष्कपाला भवन्ति चतुष्पाद् वा अश्वः कपालैर् एवैनम् आप्नोति यावन्तो ऽश्वास् तावन्तः पुरोडाशा भवन्ति सर्वत एवैनं मुञ्चत्य् एको ऽधि भवति यन् नोपस्मरति तस्मा एव स यः पुनः प्रतिग्रहिष्यन्त् स्यान् न स यजेत यद् धि पुनः प्रतिगृह्णीयात् पुनर् वरुणं प्रसीदेद् अथ यः पुनः प्रतिग्रहीष्यन्त् स्यात् तस्य वारुणा नेमाः स्युः सौर्यवारुणा नेमा यद् वारुणो वरुणाद् एवैनं तेन मुञ्चत्य् अथ यत् सौर्यः स्वाम् एव देवताम् उपप्रतिगृह्णात्य् आत्मनो ऽहिंसायय् एकविंशतिः सामिधेनीर् भवन्त्य् असा आदित्य एकविंशः प्रजापतिर् असा आदित्यः प्राजापत्यो ऽश्वो यावान् एवाश्वस् तम् आप्नोति सर्वे वा अन्ये पशवो योनिमन्तः पुरुषयोनयो ऽयोनिर् अश्वो ऽप्सुजा यद् एषो ऽपोनप्त्रीयश् चरुर् भवति योनिमन्तम् एवैनम् अकः स्व एवैनं योनौ प्रतिष्ठापयति ॥

यस् ते राजन् वरुण गायत्रछन्दाः पाशो ब्रह्मन् प्रतिष्ठितस् तं त एतेनावयजे तस्मै ते स्वाहा यस् ते राजन् वरुण त्रिष्टुप्छन्दाः पाशः क्षत्रे प्रतिष्ठितस् तं त एतेनावयजे तस्मै ते स्वाहा यस् ते राजन् वरुण जगच्छन्दाः पाशो विशि प्रतिष्ठितस् तं त एतेनावयजे तस्मै ते स्वाहा यस् ते राजन् वरुणानुष्टुप्छन्दाः पाशो दिक्षु प्रतिष्ठितस् तं त एतेनावयजे तस्मै ते स्वाहा ॥

छन्दांसि वै वरुणस्य पाशास् तैर् एनं गृह्णाति यैर् एनं गृह्णाति तैर् एनं मुञ्चत्य् अपोनप्त्रीयाभ्यां द्वाभ्यां जुहोति य एवाप्सव्यो वरुणस् तत एनं मुञ्चति

॥२.३.३॥

अग्नेर् आयुर् असि तेनास्मा अमुष्मा आयुर् देहीन्द्रस्य प्राणो ऽसि प्राणं देह्य् अमुष्मै यस्य ते प्राणः स्वाहा पित्πणां प्राणो ऽसि प्राणं दत्तामुष्मै येषां वः प्राणः स्वाहा विश्वेषां देवानां प्राणो ऽसि प्राणं दत्तामुष्मै येषां वः प्राणः स्वाहा बृहस्पतेः प्राणो ऽसि प्राणं देह्य् अमुष्मै यस्य ते प्राणः स्वाहा प्रजापतेः प्राणो ऽसि प्राणं देह्य् अमुष्मै यस्य ते प्राणः स्वाहा ॥

यन् नवम् ऐत् तन् नवनीतम् अभवद् यद् असर्पत् तत् सर्पिः ।

यद् अघ्रियत तद् घृतम् ॥

घृतस्य पन्थाम् अमृतस्य नाभिम् इन्द्रेण दत्तं प्रयतं मरुद्भिः ।

तत् त्वा विष्णुर् अन्वपश्यत् तत् त्वेडा गव्य् ऐरयत् ॥

पावमानस्य त्वा स्तोमेन गायत्रस्य वर्तन्योपांशोस् त्वा वीर्येणोत्सृजे बृहता त्वा रथन्तरेण त्रैष्टुभ्या वर्तन्या शुक्रस्य त्वा वीर्येणोद्धरे ऽग्नेष् ट्वा मात्रया जागत्या वर्तन्या देवस् त्वा सवितोन्नयतु जीवात्वै जी वनस्यायै ॥

इदं वर्चो अग्निना दत्तम् आगान् महि राधः सह ओजो बलं यत् ।

दीर्घायुत्वाय शतशारदाय प्रतिगृभ्णामि महत इन्द्रियाय ॥

इमम् अग्ना आयुषे वर्चसे कृधि तिग्मम् ओजो वरुण सोम राजन् ।

मातेवास्मा अदिते शर्म यछ विश्वे देवा जरदष्टिर् यथासत् ॥

अग्निर् आयुस् तस्य मनुष्या आयुष्कृतस् तेनायुषायुष्मान् एधि ब्रह्मायुस् तस्य ब्राह्मणा आयुष्कृतस् तेनायुषायुष्मान् एधि यज्ञ आयुस् तस्य दक्षिणा आयुष्कृतस् तेनायुषायुष्मान् एध्य् अमृतम् आयुस् तस्य देवा आयुष्कृतस् तेनायुषायुष्मान् एध्य् अश्विनोः प्राणो ऽसि तौ ते प्राणं दत्तां तेन जीव मित्रावरुणयोः प्राणो ऽसि तौ ते प्राणं दत्तां तेन जीव बृहस्पतेः प्राणो ऽसि स ते प्राणं ददातु तेन जीव प्रजापतेः परमेष्ठिनः प्राणो ऽसि स ते प्राणं ददातु तेन जीव

॥२.३.४॥

आग्नावैष्णवम् एकादशकपालं निर्वपेत् सारस्वतं चरुं बार्हस्पत्यं चरुं पूर्वेद्युर् आमयाविनं याजयेद् अग्निर् वै सर्वा देवता विष्णुर् यज्ञो देवताभिश् चैवास्मिन् यज्ञेन चायुर् दधाति वाक् सरस्वती ब्रह्म बृहस्पतिर् वाचा चैवास्मिन् ब्रह्मणा चायुर् दधात्य् अथो प्राणा वै देवताः प्राणान् वा एतत् पूर्वेद्युर् गृहीत्वोपवसति स श्वो भूत आग्नेयम् अष्टाकपालं निर्वपेत् सौम्यं पयसि चरुम् आदित्यं घृते चरुं वारुणं चरुं यवमयम् इयन्तम् अग्नये वैश्वानराय द्वादशकपालम् आमयाविनं याजयेद् यो वै प्रमीयते ऽग्निं तस्य शरीरं गछति सोमं रसो यद् आग्नेयः शरीरम् एवास्य तेन निष्क्रीणाति यत् सौम्यो रसं तेन यावान् एव तं निष्क्रीयेयं वा अदितिर् अस्याम् अधि प्रजाः प्रजायन्ते ऽस्याम् एवैनम् अधि प्रजानयतीयांश् चरुर् भवत्य् एतावान् वा आत्मा यावान् एवास्यात्मा तं वरुणान् मुक्त्वा संवत्सरो वा अग्निर् वैश्वानरः संवत्सर एवैनं प्रतिष्ठापयति संवत्सरायुषम् एनं करोत्य् अग्नेर् आयुर् असि तेनास्मा अमुष्मा आयुर् देहीत्य् अग्निर् वै मनुष्याणाम् आयुषः प्रदाता सो ऽस्मा आयुः प्रयछति पञ्चभिर् जुहोति पाङ्क्तः पुरुषो यावान् एव पुरुषस् तं समीरयति यावान् एव पुरुषस् तं समीरयित्वायं वाव यः पवत एष प्राण आभ्यो वा एष दिग्भ्यो ऽधिपवत एतद्देवत्या वा इमा दिशो यथादेवतं वावैनम् एतद् आभ्यो दिग्भ्यो ऽधि समीरयित्वा प्राणान् अस्मिन् दधाति ॥

यन् नवम् ऐत् तन् नवनीतम् अभवद् यद् असर्पत् तत् सर्पिः ।

यद् अघ्रियत तद् घृतम् ॥ इति घृतस्य वा एतन् महिमानम् उदाचष्टे ऽथो महयत्य् एवैनत् पावमानस्य त्वा स्तोमेन गायत्रस्य वर्तन्योपांशोस् त्वा वीर्येणोत्सृजा इति यथा वा इदं वध्यम् उत्सृजत्य् उद्धरत्य् उन्नयत्य् एवं तद् एतावद् वा अस्ति स्तोमा ग्रहाश् छन्दांसि यावद् एवास्ति तेनास्मा आयुर् दधाति यज्ञेनास्मा आयुर् दधाति सर्व ऋत्विजः पर्याहुः सर्वे वा एत एतस्मै चिकित्सन्ति सर्व एवास्मा आयुर् दधति ब्रह्मणो हस्तम् आलभ्य पर्याहुर् ब्रह्म वै ब्रह्मा ब्रह्मणैवास्मिन् ब्रह्मायुर् दधाति हिरण्याद् अधि घृतं निष्पाययन्त्य् अमृतं वै हिरण्यम् आयुर् घृतम् अमृताद् एवैनम् अध्य् आयुर् निष्पाययन्ति निर् इव धयत्य् आयुर् एवात्मन् धत्ते तद् अस्मा आबध्नात्य् आयुषैनं समर्धयत्य् आग्नेय्याबध्नात्य् अग्निर् वै सर्वा देवताः सर्वाभिर् एवास्मिन् देवताभिर् आयुर् दधात्य् अग्निर् आयुस् तस्य मनुष्या आयुष्कृतस् तेनायुषायुष्मान् एधीति यो वै देवान् आयुष्मतश् चायुष्कृतश् च वेद सर्वम् आयुर् एति न पुरायुषः प्रमीयत एते वै देवा आयुष्मन्तश् चायुष्कृतश् च यद् इमे प्राणास् ते ऽस्मिन्न् आयुर् दधत्य् अश्विनोः प्राणो ऽसि तौ ते प्राणं दत्तां तेन जीवेतीमे वा एते प्राणास् तान् अस्मिन् दधाति तान् अस्माद् अनपक्रमिणः करोति दश देया दश ह्य् आत्मन् प्राणाः प्राणान् अस्मिन् दधात्य् अश्वो देयो वासो देयं हिरण्यं देयं गौर् देयो वरो देयो बहु देयम्

॥२.३.५॥

दधति : फ़्न् एमेन्देद्। एद्।: दधाति

देवताः : फ़्न् एमेन्देद्। एद्।: देवता।

आग्नेयम् अष्टाकपालं निर्वपेद् ऐन्द्रं पञ्चकपालं दधि मधु घृतं धाना उदकं तत् संसृष्टं भवत्य् अर्यम्णे चरुर् भवति ऊद्ध्या एवाग्नेय ऐन्द्रः पञ्चकपालः पाङ्क्तो यज्ञः पङ्क्ती याज्यानुवाक्ये पाङ्क्ताः पशवः पाङ्क्तः पुरुषो यावान् एव पुरुषस् तम् आप्नोति स सर्वो भूत्वा पशून् आप्नोति पशव इव ह्य् एतत् संसृष्टम् अथो यावन्त एव पशवस् तान् अस्मै संसृजति तद् आहुर् ऐन्द्र एकादशकपालः कार्या इति ऐन्द्रा हि पशवो ऽथो आहुः प्राजापत्यं कार्यम् इति प्राजापत्या हि पशवः प्रजापतिः पशूनां प्रजनयिता तम् एव भागधेयेनोपासरत् सो ऽस्मै पशून् प्रजनयत्य् अथैषो ऽर्यम्णे चरुर् यो ददाति सो ऽर्यमा दानम् अर्यमा दानकामा अस्मै प्रजा भवन्त्य् अग्नये भ्राजस्वते ऽष्टाकपालं निर्वपेत् सौर्यं चरुम् अग्नये भ्राजस्वते ऽष्टाकपालं चक्षुष्कामं याजयेद् अग्नेर् वै मनुष्या नक्तं चक्षुषा पश्यन्ति सूर्यस्य दिवैतौ वै चक्षुषः प्रदातारौ ता एव भागधेयेनोपासरत् ता अस्मै चक्षुः प्रयछतः समानं वै चक्षुर् दधातु यत् समानी देवता चरुम् अभितो भवति नानानम् एवास्मै चक्षुषी प्रतिदधाति यावद् अन्यतरेणाक्ष्णा पश्यति तावद् उभाभ्यां पश्येद् यच् चरुर् अन्तरा न स्याद् अथ यच् चरुर् अन्तरा भवति तस्माद् इदम् अन्तरा चक्षुषोर् विधृत्यै शुक्ला व्रीहयो भवन्ति श्वेता गा आज्याय दुहन्त्य् एवम् इव ह्य् असा आदित्यः समृद्ध्यै पयसि भवति पयो वै घृतं पयश् चक्षुः पयसैवास्मै पयश् चक्षुर् दधाति सौरीभिर् आदधाति चक्षुर् अस्मिन् दधाति

॥२.३.६॥

देवा असुराणां वेशत्वम् उपायन्न् इन्द्रस् तु नाप्य् उपैत् तेषां वा इन्द्रियाणि वीर्याण्य् अपाक्रामन्न् अग्ने रथन्तरम् इन्द्रस्य बृहद् विश्वेषां देवानां वैरूपं सवितुर् वैराजं त्वष्टू रेवती मरुतां शक्वरी तानि वा इन्द्रो ऽन्वपाक्रामत् तैर् आत्मानम् अभिसमयुङ्क्त तैर् अभवद् यो भूतिकामः स्यात् तम् एतया याजयेद् एतैर् एवेन्द्रियैर् वीर्यैर् आत्मानम् अभिसंयुङ्क्ते तैर् भवति द्वादशकपालो भवति वैश्वदेवत्वायोत्तानानि कपालान्य् उपदधाति तत् स्विच् चरुम् अकर् अनिर्दाहायाभिशस्यमानं याजयेद् यस्य वै देवा अन्नम् अदन्त्य् अदन्ति तस्य मनुष्या अन्नं सर्वा वा एता देवताः सर्वा वावास्यैतद् देवता अन्नम् अजीघसद् अदन्ति हास्य मनुष्या अन्नम् ॥

इन्द्राय राथन्तरायानुब्रूहि ॥ इति रथन्तरस्या ऋचम् अनूच्य बृहत ऋचा यजेत् ॥

इन्द्राय बार्हतायानुब्रूहि ॥ इति बृहत ऋचम् अनूच्य रथन्तरस्य ऋचा यजेत् ॥

इन्द्राय वैरूपायानुब्रूहि ॥ इति वैरूपस्या ऋचम् अनूच्य वैराजस्य ऋचा यजेत् ॥

इन्द्राय वैराजायानुब्रूहि ॥ इति वैराजस्या ऋचम् अनूच्य वैरूपस्य ऋचा यजेत् ॥

इन्द्राय रैवतायानुब्रूहि ॥ इति रेवतीम् अनूच्य शक्वर्या यजेत् ॥

इन्द्राय शाक्वरायानुब्रूहि ॥ इति शक्वरीम् अनूच्य रेवत्या यजेद् एतैर् एवैनम् इन्द्रियैर् एताभिर् देवताभिर् व्यतिषजति पर्यूहम् अवद्यत्य् एतैर् एवैनम् इन्द्रियैर् एताभिर् देवताभिः पर्यूहति पशवो वै बृहत्य् अग्नी रुद्रो यद् बृहत्या वषट्कुर्याद् रुद्रायास्य पशून् अपिदध्याद् अथो बृहतीं ह्य् अयातयाम्नीं पशवो ऽनुप्रजायन्ते ऽनुवाक्यायाश् चत्वार्य् अक्षराणि याज्याम् अभ्यत्यूहत्य् अनुष्टुभं च सम्पादयति पङ्क्तिं च वाग् वा अनुष्टुप् प्रजापतिः पङ्क्तिर् वाचि वा एतत् प्रजापतिम् अप्य् अस्राट् प्रजननाय तन् मिथुनं तस्माद् एव मिथुनाद् यजमानः प्रजया च पशुभिश् च प्रजायते

॥२.३.७॥

स्वाद्वीं त्वा स्वादुना तीव्रां तीव्रेण शुक्रां शुक्रेण ।

देवीं देवेनामृताम् अमृतेन सृजामि सं सोमेन ॥

सोमो ऽस्य् अश्विभ्यां पच्यस्व सरस्वत्यै पच्यस्वेन्द्राय सुत्राम्णे पच्यस्व ॥

पुनातु ते परिस्रुतं सोमं सूर्यस्य दुहिता ।

वारेण शस्वता तना ॥

वायोः पूतः पवित्रेण प्रत्यङ् सोमो अतिस्रुतः ।

इन्द्रस्य युज्यः सखा ॥

कुविद् अङ्ग यवमन्तो यवं चिद् यथा दान्त्य् अनुपूर्वं वियूय ।

इहेहैषां कृणुत भोजनानि ये बर्हिषा नमौक्तिं न जग्मुः ॥

उपयामगृहीतो ऽस्य् अछिद्रां त्वाछिद्रेणाश्विभ्यां जुष्टं गृह्णाम्य् एष ते योनिर् अश्विभ्यां त्वोपयामगृहीतो ऽस्य् अछिद्रां त्वाछिद्रेण सरस्वत्यै जुष्टं गृह्णाम्य् एष ते योनिः सरस्वत्यै त्वोपयामगृहीतो ऽस्य् अछिद्रां त्वाछिद्रेणेन्द्राय सुत्राम्णे जुष्टं गृह्णाम्य् एष ते योनिर् इन्द्राय त्वा सुत्राम्णे ॥

यद् अत्र शिष्टं रसिनः सुतस्य यम् अस्येन्द्रो अपिबञ् शचीभिः ।

अहं तम् अस्य मनसा घृतेन सोमं राजानम् इह भक्षयामि ॥

नाना हि वां देवहितं सदस् कृतं मा संसृक्षाथां परमे व्योमन् ।

सुरा त्वम् असि शुष्मिणी सोम एष मा मा हिंसिष्टं स्वं योनिम् आविशन्तौ ॥

द्वे स्रुती अशृणवं पित्πणाम् अहं देवानाम् उत मर्त्यानाम् ।

याभ्याम् इदं विश्वम् एजत् समेति यद् अन्तरा पितरं मातरं च ॥

ये भक्षयन्तो न वसून्य् आनशुर् यान् अग्नयो अन्वतप्यन्त धिष्ण्याः ।

या तेषाम् अवया दुरिष्टिः स्विष्टिं नस् तां विश्वकर्मा कृणोतु ॥

अयज्ञियान् यज्ञियान् मन्यमानः प्राणस्य विद्वान्त् समरे न धीरः ।

एनो महच् चकृवान् बद्ध एष तं विश्वकर्मन् प्रमुञ्चा स्वस्तये ॥

यजमानम् ऋषया एनसाहुर् विहाय प्रजाम् अनुतप्यमानाः ।

मधव्यौ स्तोका अप तौ रराध सं नस् ताभ्यां सृजतु विश्वकर्मा

॥२.३.८॥

कुवलसक्तुभिर् आश्विनं श्रीणाति बदरसक्तुभिर् ऐन्द्रं कर्कन्धुसक्तुभिः सारस्वतं वाग् वै सरस्वती वाचैवास्मिन्त् स्वादुमानं दधात्य् अथ यैनम् असा अश्लीलं वाग् अभिवदत्य् अत्यपविष्ट व्यार्धिष्टेति सैनं पुनः कल्याणं वदति सिंहा अध्वर्युर् ध्यायति व्याघ्रौ प्रतिप्रस्थाता वृकौ यजमान एषा सुरा भवति स यैर् एव तद् इन्द्रियैर् वीर्यैर् व्यृध्यते तान्य् अस्मिन्न् आप्त्वा धत्तो ब्राह्मणस्य मूर्धन्त् साद्या मेध्यत्वायान्नं वै सुरा मेध्यं वा अन्नं तेन मेध्यैका पुरोरुग् एका याज्यैकधास्मिन् वीर्यं दधाति ब्राह्मणः पाययितव्यस् तेन हविः क्रियत आत्मनापेयात्मन्न् एव वीर्यं धत्ते ऽग्नौ सर्वा होतव्याः समृद्ध्यै मध्यतो वा एष पाप्मना गृहीतो यत् समया व्येति मध्यत एवैनं पाप्मनो मुञ्चति यद् आहवनीये जुहुयान् न पाप्मना व्यावर्तेत क्रियेत भेषजम् अथ यद् दक्षिणे जुहोति वि पाप्मना वर्तते क्रियते भेषजम् अथ यद् विक्षारयत्य् एवम् इव ह्य् एष विक्षरति शतक्षरो भवति शतायुर् वै पुरुषः शतवीर्य आयुर् एव वीर्यम् आप्नोति यद् वा एतस्य व्यार्धि यत् प्रामायि पितॄन् वा एतस्य तद् अगन् यत् पितृमतीभिर् अनुमन्त्रयन्ते पितृभ्य एवैनं तेन समीरयन्ति यत् तिस्रस् तृतीये हि लोके पितरो ऽथ यच् चत्वारो दिग्भ्य एवैनं तेन समीरयन्ति

॥२.३.९॥
प्रपाठक 4

द्वितीयकाण्डे चतुर्थः प्रपाठकः

द्वितीयकाण्डे चतुर्थः प्रपाठकः

विश्वरूपो वै त्वाष्ट्र आसीत् त्रिशीर्षासुराणां स्वस्रीयः स सोमम् एकेन शीर्ष्णापिबत् सुराम् एकेनान्नम् एकेनावयत् स इन्द्रो ऽमन्यतायं वावेदं भविष्यतीति तेन समलभत तेन युगशरम् अपतत् स तक्षाणं तिष्ठन्तम् अब्रवीद् आधावेमान्य् अस्य शीर्षाणि छिन्द्धीति तस्य तक्षोपस्कन्द्य परशुना शीर्षाण्य् अछिनत् तस्मात् तक्ष्णे शिरो धृतं तस्माद् अस्यान्नम् अन्नाद्यं तस्य यत् सोमपं शिरा आसीत् स कपिञ्जलो ऽभवद् यत् सुरापं स कलविङ्को येनान्नम् आवयत् स तित्तिरिः स वै त्वष्टा पुत्रे हते सोमम् आहरद् ऋत इन्द्रं तम् अधः शतशले ऽसुनोद् अथो आहुः सहस्रशला इति तस्मिन् वा इन्द्र उपहवम् ऐछत तन् नोपाह्वयत तं प्रासहादाय नाड्या निरपिबत् स सोमपीथेन व्यार्ध्यत तस्मात् सोमो नानुपहूतेन पेयः सोमपीथेन ह व्यर्धुको भवति यद् इतो ऽमुच्यत तौ सिंहा अभवतां यद् इतस् तौ व्याघ्रौ यद् इतस् तौ वृकौ यत् प्रथमं निरष्टीवत् तत् कुवलम् अभवद् यद् द्वितीयं तद् बदरं यत् तृतीयं तत् कर्कन्धुर् यद् अधस्तात् सा सुरा तं वा एतयाश्विना अयाजयतां सौत्रामण्या स यैर् एव तद् इन्द्रियैर् वीर्यैर् व्यार्ध्यत तान्य् अस्मिन्न् आप्त्वाधत्तां सोमेनातिपुपुवानं याजयेद् इन्द्रियेण वा एष वीर्येण व्यृध्यते यं सोमो ऽतिपवते यावद् एवेन्द्रियं वीर्यं तद् अस्मिन्न् आप्त्वा दधाति राजसूयेनाभिषिषिचानं याजयेद् इन्द्रियेण वा एष वीर्येण व्यृध्यते यो राजसूयेनाभिषिञ्चते यावद् एवेन्द्रियं वीर्यं तद् अस्मिन्न् आप्त्वा दधाति भूतिकामं याजयेद् इन्द्रियेण वा एष वीर्येण व्यृध्यते यो ऽलं भूत्यै सन् न भवति यावद् एवेन्द्रियं वीर्यं तद् अस्मिन्न् आप्त्वा दधाति ज्योगामयाविनं याजयेद् इन्द्रियेण वा एष वीर्येण व्यृध्यते यस्य ज्योग् आमयति यावद् एवेन्द्रियं वीर्यं तद् अस्मिन्न् आप्त्वा दधाति नानार्तेन यष्टव्यम् इत्य् आहुर् आर्तयज्ञ इव ह्य् एष तद् आहुर् यष्टव्यम् एव सर्वो हि पुरुषा आर्तः सर्वो बुभूषति यद् आश्विन्य् अश्विनौ ह्य् अभिषज्यतां यत् सारस्वती वाग् वै सरस्वती वाचा ह्य् अभिषज्यतां यद् ऐन्द्रीन्द्रे हि तौ तानीन्द्रियाणि वीर्याण्य् आप्त्वाधत्ताम्

॥२.४.१॥

अन्नाद्यं : फ़्न् थिस् स्होउल्द् बे अन्नाद्यम्।

सीसेन क्लीबात् कार्यानृतं वै सीसम् अनृतं क्लीबो ऽनृतं सुरानृतेनैवानृताद् अनृतं क्रीणाति तद् आहुः कार्या वडबा दक्षिणेति सृत्वरीव ह्य् एषा सृत्वरी वडबाश्विनं प्रथमम् आलभन्ते ऽथ सारस्वतीम् अथैन्द्रम् एवम् एव वपाभिश् चरतीन्द्र एवैषु तद् अधिभवत्य् ऐन्द्रः पुनः प्रचरतां प्रथमो भवतीन्द्रं वा एतत् पुनर् आलभन्ते सेन्द्रियत्वायैन्द्री वपानाम् उत्तमा भवत्य् ऐन्द्रः पुरोडाशानां प्रथमो वीर्यं वा इन्द्रो वीर्य एवैनम् अभिसन्धत्तः प्रसवाय सावित्रो निर्वरुणत्वाय वारुणो मध्यतो ह्य् एष वरुणगृहीतः पश्चाद् वा एषा सृष्टा प्रतीचीनशीर्ष्णी यद् उपरिष्टात् पुरोडाशो भवत्य् अपिहित्या अछिद्रत्वाय सह समवत्तं भवति सहेडाम् उपह्वयन्ते संहित्यय् अथो इडाया अविदोहाय यद् वै सौत्रामण्याव्यृद्धं तद् अस्याः समृद्धं यद् अन्यदेवत्याः पुरोडाशा भवन्त्य् अन्यदेवत्याः पशवस् तद् अस्या व्यृद्धं सत् समृद्धम् अर्धं वै प्रजापतेर् आत्मनो धैर्यम् आसीद् अर्धं माल्व्यं यद् धैर्यं तत् पुरस्ताद् अकुरुत यन् माल्व्यं तत् पश्चात् पर्यौहत यद् धैर्यं सोमो वै स ततो ब्राह्मणम् असृजत तस्माद् ब्राह्मणः सर्व एव ब्रह्माभि धीरो यन् माल्व्यं सुरा वै सा ततो राजन्यम् असृजत तस्माज् ज्यायांश् च कनीयांश् च स्नुषा च श्वशुरश् च सुरां पीत्वा विलालपत आसते माल्व्यं हि तत् पाप्मा वै माल्व्यं तस्माद् ब्राह्मणः सुरां न पिबेत् पाप्मनात्मानं नेत् संसृजा इति तद् उतैतद् राष्ट्रीयाय ब्राह्मणं ब्रूयात् तद् य एवं विद्वान्त् सुरां पिबति न हैनं द्रूणात्य् एषा वै प्रजापतेर् वीर्यवती तनूर् वीर्यं प्रजापतिर् वीर्यम् अस्मिन् दधाति

॥२.४.२॥

ततो यः सोमो ऽत्यरिच्यत तम् अग्ना उपप्रावर्तयत् ।

स्वाहेन्द्रशत्रुर् वर्धस्व ॥

इतीन्द्रस्याहैनं शत्रुम् अचिकीर्षद् इन्द्रम् अस्य शत्रुम् अकरोत् तथा वाक् स्वयम् एव व्यैत् स यं सोमं प्रावर्तयद् यस्मिंश् चाग्ना उपप्रावर्तयत् ता अग्नीषोमौ देवते प्राणापाना अभिसमभवतां स यावद् ऊर्ध्वबाहुः पराविध्यत् तावति व्यरमत यदि वा प्रवणं तावद् आसीद् यदि वाग्नेर् अधि तावद् आसीत् स वा इषुमात्रम् एवाह्ना तिर्यङ्ङ् अवर्धतेषुमात्रम् अन्वङ्ङ् अथो आहुर् अहोरात्रे एवेषुमात्रं तिर्यङ्ङ् अवर्धतेषुमात्रम् अन्वङ्ङ् इत्य् अथो आहुर् अर्धमासम् अथो मासम् अथो संवत्सरम् इति स वा इमाः सर्वाः स्नोत्याः पर्यशयत् तस्माद् वा इन्द्रो ऽबिभेत् तस्माद् उ त्वष्टाबिभेत् तस्येन्द्रः प्रत्तिम् ऐछत् तम् अस्मै प्रायछत् तस्मै त्वष्टा वज्रम् असिञ्चत् तपो वै स वज्र आसीत् तम् उद्यमं नाशक्नोद् अथ वै तर्हि विष्णुर् अन्या देवतासीत् सो ऽब्रवीद् विष्णा एहीदम् आहरिष्यावो येनायम् इदम् इति स त्रेधात्मानं विन्यधत्ताभिपर्यावर्ताद् अबिभेद् अस्यां तृतीयम् अन्तरिक्षे तृतीयं दिवि तृतीयं स यद् अस्यां तृतीयम् आसीत् तेन वज्रम् उदयछद् विष्ण्वनुष्ठितः स वज्रम् उद्यतं दृष्ट्वाबिभेत् सो ऽब्रवीद् अस्ति वा इदं त्यस्मिन्न् अन्तर् वीर्यं तत् ते प्रदास्यामि मा मा वधीर् इति तद् वा अस्मै प्रायछत् तत् प्रत्यगृह्णात् ॥

अधा मा ॥ इति तद् विष्णवे ऽतिप्रायछत् तद् विष्णुः प्रत्यगृह्णात् ॥

अस्मास्व् इन्द्र इन्द्रियं दधात्व् अस्मान् रायो मघवानः सचन्ताम् ।

अस्माकं सन्त्व् आशिषः ॥

इति सो ऽवेद् अस्ति वावास्मिन्न् अन्तर् वीर्यम् इति स यद् अन्तरिक्षे तृतीयम् आसीत् तेन वज्रम् उदयछद् विष्ण्वनुष्ठितः स वज्रम् उद्यतं दृष्ट्वाबिभेत् सो ऽब्रवीद् अस्ति वा इदं त्यस्मिन्न् अन्तर् वीर्यं तत् ते प्रदास्यामि मा मा वधीर् इति तद् वा अस्मै प्रायछत् तत् प्रत्यगृह्णात् ॥

द्विर् माधाः ॥

इति तद् विष्णवे ऽतिप्रायछत् तद् विष्णुः प्रत्यगृह्णात् ॥

अस्मास्व् इन्द्र इन्द्रियं दधात्व् अस्मान् रायो मघवानः सचन्ताम् ।

अस्माकं सन्त्व् आशिषः ॥

इति सो ऽवेद् अस्ति वावास्मिन्न् अन्तर् वीर्यम् इति स यद् दिवि तृतीयम् आसीत् तेन वज्रम् उदयछद् विष्ण्वनुष्ठितः स वज्रम् उद्यतं दृष्ट्वाबिभेत् सो ऽब्रवीद् अस्ति वा इदं त्यस्मिन्न् अन्तर् वीर्यं तत् ते प्रदास्यामि मा मा वधीः ॥

सन्धां नु सन्दधावहै यथा त्वाम् एव प्रविशानीति सो ऽब्रवीद् यन् मां प्रविशेः किं मे ततः स्याद् इति सो ऽब्रवीत् त्वाम् एवेन्धीय तव भोगाय त्वां प्रविशेयम् इति तद् वा अस्मै प्रायछत् तत् प्रत्यगृह्णात् ॥

त्रिर् माधाः ॥ इति तद् वाव त्रैधातव्या सहस्रं वा अस्मै तत् प्रायछद् ऋचः सामानि यजूंषि यद् वा इदं किं च तत् त्रैधातव्या तद् आप्नोति पशून् एव

॥२.४.३॥

उदरं वै वृत्रः पाप्मा क्षुद् भ्रातृव्यः पुरुषस्य यत् तप उपैति पाप्मानं वा एतत् स्तृणुते भ्रातृव्यं क्षुधम् एव तस्मिन् वा अवदेतां सेयम् अस्या अध्य् ऊर्ध्वा वाग् अवदत् ॥

उभा जिग्यथुर् न पराजयेथे न पराजिग्ये कतरश्चनैनोः ।

इन्द्रश् च विष्णो यद् अपस्पृधेथां त्रेधा सहस्रं वि तद् ऐरयेथाम् ॥

इति सत्यम् आहेत्य् अब्रवीद् द्वे एव तृतीये आहर्तुर् एकं प्रतिग्रहीतुर् इति तौ वै तत्रैवातिष्ठेतां तस्माद् ऐन्द्रावैष्णवं त्रिरात्रस्य वा उपेप्सायै त्रैधातव्याह्रियते यावद् वै त्रिरात्रेणोपाप्नोति तावत् त्रैधातव्ययावरुन्द्धे तस्माद् आहुः सहस्रदक्षिणेत्य् उष्णिहाककुभा अन्वाह गायत्री वा उष्णिहाथ यान्य् एतानि चत्वार्य् अक्षराण्य् ऋच्य् अधि चतुष्पादो वा एते पशवो यथा वा इदं पुरोडाशे पुरोडाशो ऽध्य् एवं वा एतद् यद् ऋच्य् अध्य् अक्षराणि प्राणो वै गायत्री प्राणेन पशवो यता यद् उष्णिहाककुभा अन्वाह पशूनां यत्यै ॥

अग्ने त्री ते वाजिना त्री षधस्था तिस्रस् ते जिह्वा ऋतजात पूर्वीः ।

तिस्र उ ते तन्वो देववातास् ताभिर् नः पाहि गिरो अप्रयुछन् ॥

इति परिदधाति वीरतायय् अथो रूपताया एव यज् जगत्या परिदध्याद् अन्तं गछेद् अथ यत् त्रिष्टुभा परिदधाति तान्तं गछत्य् ओजो वै वीर्यं त्रिष्टुब् ओजस्य् एव वीर्ये प्रतितिष्ठति

॥२.४.४॥

सर्वाभ्यो देवताभ्यो यज्ञ आहृत्या इत्य् आहुः सर्वो वा एष यज्ञः सर्वाभ्यो हि देवताभ्यो यज्ञ आह्रियते सर्वाणि छन्दांस्य् अन्वाह सर्वाणि हि छन्दांसि यज्ञे प्रयुज्यन्ते ऽभिचरन्न् आहरेत् सर्वो वा एष यज्ञः सर्वेणैवैनं यज्ञेनाभिचरत्य् अदक्षिणस् तु स्यास् तत् स्विन् मेनिम् अकर् मेनिर् ह्य् अदक्षिणो ऽथ यो यक्ष्य इत्य् उक्त्वा न यजेत तम् एतेन याजयेत् सर्वो वा एष यज्ञः सर्वेणैवास्मै यज्ञेन प्रायश्चित्तिं विन्दत्य् उत्तरौत्तरः पुरोडाशो ज्यायान् भवत्य् उत्तरौत्तरो हि लोको ज्यायान् यथा वा इयम् एवम् असव् अथ वा अन्तरिक्षं नास्या रूपं नामुष्यास् तस्माद् यवमयो मध्यतो ऽथो एवम् इव ह्य् अन्तरिक्षस्य रूपं द्वादशकपालो भवति यद् वै त्रिस्त्रिस् तत् त्रैधातव्यायाः समृद्धं सर्वेषाम् अतिघातम् अवद्यत्य् अछम्बट्काराय यावता हि न प्राप्नुयात् तावता छम्बट्कुर्याद् एतद् वै तद् यद् आहुश् छम्बण् णासा इति वास इव वै यज्ञ ऊयते यत् तार्प्याणि विषीव्यन्ति यजुषां तद् रूपं यद् धेनवो दीयन्त उक्थामदानां तद् यद् धिरण्यं दीयते चन्द्रं गीयता इति वै सामाहुः साम्नां तद् रूपम् एतेन वै सृञ्जया अयजन्त ते श्रियो ऽन्तम् अगछंस् तस्मान् नातिबहु यष्टव्यम् ईश्वरो हि पराङ् अतिपत्तोर् यो वा एतेन यजते वि स छिनत्ति पुत्रो याजयितव्यो ऽनुसन्तत्यै

॥२.४.५॥

णासा : फ़्न् एमेन्देद्। एद्।: णासा। च्फ़्। नोते ३

आग्नेयम् अष्टाकपालं निर्वपेद् ऐन्द्रम् एकादशकपालं बार्हस्पत्यं चरुं भूतिकामं याजयेद् इन्द्रो वै शिथिर इवामन्यत सो ऽग्निं च बृहस्पतिं चाब्रवीद् याजयतं मेति तं वा एतयाग्निश् च बृहस्पतिश् चायाजयतां तस्मिंस् तेजो ऽग्निर् अदधाद् इन्द्रियम् इन्द्रो ब्रह्म बृहस्पतिस् तता इन्द्रो ऽभवद् यो भूतिकामः स्यात् तम् एतया याजयेत् तेज एवास्मिन्न् अग्निर् दधातीन्द्रियम् इन्द्रो ब्रह्म बृहस्पतिर् भवत्य् एव यद् अस्मिंश् त्रीणि वीर्याण्य् अधत्तां तस्मात् त्रिधातुर् ऐन्द्र इतरा अभिसंश्लेषयन्ति सेन्द्रियत्वाय

॥२.४.६॥

पुरोवात जिन्व रावट् स्वाहा वातवान् वर्षन् भीम रावट् स्वाहा स्तनयन् वर्षन्न् उग्र रावाट् स्वाहातिरात्रं ववर्ष्वान् पूर्त रावट् स्वाहा बहु ह वा अयम् अवर्षीद् इति श्रुत रावट् स्वाहा तपति वर्षन् विराड् रावट् स्वाहा ऽवस्फूर्जन् विद्युद् वर्षंस् त्वेष रावट् स्वाहा नशन्य् अवस्फूर्जन् वर्षन् भूत रावट् स्वाहा ॥

ऽवस्फूर्जन् : ⟨ अवस्फूर्जन्

मान्दा वशा ज्योतिष्मतीर् अमस्वरीः शुन्धो अज्रा उन्दतीः सुफेनाः ।

मित्रभृतः क्षत्रभृतः सुराष्ट्रा इह नो ऽवत ॥

वृष्णो अश्वस्य सन्दानम् असि वृष्ट्यै त्वोपनह्यामि ॥

देवा वसव्या अग्ने सोम सूर्यापो दत्तोदधिं भिन्त ।

दिवः पर्जन्याद् अन्तरिक्षात् पृथिव्यास् ततो नो वृष्ट्यावत ॥

देवाः शर्मण्या मित्र वरुणार्यमन्न् अपो दत्तोदधिं भिन्त ।

दिवः पर्जन्याद् अन्तरिक्षात् पृथिव्यास् ततो नो वृष्ट्यावत ॥

देवाः सपीतयो ऽपां नपान् नराशंसापो दत्तोदधिं भिन्त ।

दिवः पर्जन्याद् अन्तरिक्षात् पृथिव्यास् ततो नो वृष्ट्यावत ॥

दिवा चित् तमः कृण्वन्ति पर्जन्येनोदवाहेन ।

यत् पृथिवीं व्युन्दन्ति ॥

आयन् नरः सुदानवो ददाशुषे दिवः कोशम् अचुच्यवुः ।

प्र पर्जन्यः सृजतां रोदसी अनु धन्वना यन्तु वृष्टयः ॥

उदीरयता मरुतः समुद्रतो दिवो वृष्टिं वर्षयता पुरीषिणः ।

न वो दस्रा उपदस्यन्ति धेनवः शुभे कम् अनु रथा अवृत्सत ॥

सृजा वृष्टिं दिव आद्भिः समुद्रं पृण ये देवा दिविभागाः स्थ ये अन्तरिक्षभागा ये पृथिवीभागास् त इदं क्षेत्रम् आविशत त इदं क्षेत्रम् अनुविविशत

॥२.४.७॥

वृष्टिर् वै देवेभ्यो ऽन्नाद्यम् अपाक्रामत् तत इदं सर्वम् अशुष्यत् ते देवाः प्रजापतिम् एवोपाधावंस् तान् वा एतया प्रजापतिर् अयाजयत् कारीर्या तेभ्यो वृष्टिम् अन्नाद्यम् अवारुन्द्ध यत्र पर्जन्यो न वर्षेत् तद् एतया ज्येष्ठं वा पुरोहितं वा याजयेद् वृष्टिर् वा एतेभ्यो ऽन्नाद्यम् अपक्रामति यत्र पर्जन्यो न वर्षति यत् कारीर्या याजयन्ति वृष्ट्या अन्नाद्यस्यावरुद्ध्यय् अष्टौ वातहोमा अष्टौ दिशा इति दिग्भ्य एवैतैर् वृष्टिम् आवर्तयन्ति मान्दा वशा ज्योतिष्मतीर् अमस्वरीर् इत्य् एतानि वा अपां नामधेयानि यथा वा इदं नामग्राहम् असा असा इति ह्वयत्य् एवं वा एतद् अपो नामधेयैश् च्यावयति वृष्णो अश्वस्य सन्दानम् असीति वृषा ह्य् अश्वो वृषा पर्जन्यः समृद्ध्यै वृष्ट्यै त्वोपनह्यामीति वृष्ट्यै ह्य् उपनह्यति देवा वसव्या अग्ने सोम सूर्येति देवताभिर् एवान्वहं वृष्टिम् अछैति यदि न वर्षेत् तत्रैव वसेयुर् अहोरात्राभ्याम् एव वृष्टिं च्यावयन्ति करीराणि भवन्ति वृष्ट्या अन्नाद्यस्यावरुद्ध्यै मधूद्युतानि भवन्त्य् अपां वा एष ओषधीनां रसो ऽपाम् एवैना ओषधीनां रसेनाछैति रसेनैनाश् च्यावयत्य् अग्नये धामछदे ऽष्टाकपालं निर्वपेन् मारुतं सप्तकपालं सौर्यम् एककपालं वृष्टिकामं याजयेद् अग्निर् वा इतो वृष्टिम् ईट्टे मरुतो ऽमुतश् च्यावयन्ति तां सूर्यो रश्मिभिर् वर्षत्य् एते वै वृष्ट्याः प्रदातारस् तान् एव भागधेयेनोपासरत् ते ऽस्मै वृष्टिं प्रयछन्ति सृजा वृष्टिं दिव आद्भिः समुद्रं पृणेतीमाश् चैवामूश् च समस्राड् आभिर् अमूर् अछैति ये देवा दिविभागाः स्थ ये अन्तरिक्षभागा ये पृथिवीभागास् त इदं क्षेत्रम् आविशत त इदं क्षेरम् अनुविविशतेतीमान् एव लोकान् वृष्ट्यै सम्मृशति

॥२.४.८॥
प्रपाठक 5

द्वितीयकाण्डे पञ्चमः प्रपाठकः

द्वितीयकाण्डे पञ्चमः प्रपाठकः

सौम्यं बभ्रुं लोमशं पिङ्गलम् आलभेत पशुकामः सौमीर् वा ओषधय ओषधयः पशवो यत् सौम्यः प्रत्यक्षम् एवास्मै पशुम् आलभते लोमशो भवत्य् एतद् वै पुष्ट्या रूपं पुष्टिम् एवावरुन्द्धे बभ्रुः पिङ्गलो भवति सोमस्य रूपं समृद्ध्यै यस् त्रैतानाम् उत्तमो जायेत तं सौमापौष्णम् आलभेत पशुकामः सोमो वै रेतोधाः पूषा पशूनां प्रजनयिता सोम एवास्मै रेतो दधाति पूषा पशून् प्रजनयति स्तनं वा एतेषाम् द्वा अभिजायेते ऊर्जं तृतीय ऊर्ग् वै पशव ऊर्जैवास्मा ऊर्जं पशून् आप्त्वावरुन्द्धे त्रिर् वा एषा संवत्सरस्यान्यान् पशून् परिविजायत एतद् वै पुष्ट्या रूपं पुष्टिम् एवावरुन्द्धे भागिनीर् वा अन्याः प्रजा अभागा अन्या यद् औदुम्बरो यूपो भवत्य् उभयीर् एवैना भागिनीः करोति मासिमासि वा एषो ऽवान्तरम् अन्येभ्यो वनस्पतिभ्यः पच्यत एतद् वै पुष्ट्या रूपं पुष्टिम् एवावरुन्द्धे प्राजापत्यं तूपरम् आलभेत पशुकामः प्राजापत्या वै पशवः प्रजापतिः पशूनां प्रजनयिता तम् एव भागधेयेनोपासरत् सो ऽस्मै पशून् प्रजनयति योनिर् वै प्रजापतिर् योनेर् एव प्रजायते सर्वेषां वा एष पशूनां रूपाणि प्रति पुरुषस्येव श्मश्रूण्य् अश्वस्येव शिरो गर्दभस्येव कर्णौ शुन इव लोमानि गोर् इव पूर्वौ पादव् अवेर् इवापरव् अजः खलु वै सर्वाण्य् एव पशूनां रूपाण्य् आप्त्वावरुन्द्धे सर्वाण्य् एनं पशूनां रूपाण्य् उपतिष्ठन्ते हिरण्यगर्भवत्याघारो याः प्रजापतेः सामिधेनीस् ताः सामिधेनीर् याः प्रजापतेर् आप्रियस् ता आप्रियो हिरण्यं देयं सशुक्रत्वाय तार्प्यं देयं सयोनित्वायाधीवासो देयो यज्ञस्य तेन रूपाण्य् आप्त्वावरुन्द्ध एतेन वा उपकेरू रराध ऋध्नोति य एतेन यजते द्वादशधा ह त्वै स प्रतिशित्रं परिजहार तत्र द्वादशद्वादश वरान् ददौ यद् द्वादश दीयन्ते तस्यैषा प्रतिमा श्वेतं वायवा आलभेत भूतिकामं याजयेद् वायुर् वै देवानाम् ओजिष्ठः क्षेपिष्ठः स एनं भूत्यै निनयति तद् आहुर् अधृता देवतेश्वरा निर्मृज ईश्वरैनम् आर्तिं निनेतोर् इति तद् अति सैवैनं भूत्यै निनयति श्वेतं वायवे नियुत्वता आलभेत ग्रामकामं याजयेद् वायुर् वा इमाः प्रजा नस्योता इत्थं चेत्थं च नेनीयते यद् वायवे वायुर् एवास्मै नस्योतां विशं निनयति नियुत्वती याज्यानुवाक्ये भवतो ग्रामम् अस्मिन् दाधार श्वेतो भवति ब्रह्मणो रूपं समृद्ध्यै श्वेतं वायवे नियुत्वता आलभेतामयाविनं याजयेत् प्राणो वै वायुः प्राणो हि वा एतस्यापक्रान्तो ऽथैतस्यामयति यद् वायवे वायुर् एवास्मै प्राणं निनयति नियुत्वती याज्यानुवाक्ये भवतः प्राणम् अस्मिन् दाधार श्वेतो भवति ब्रह्मणो रूपं समृद्ध्यै श्वेतं वायवे नियुत्वता आलभेत पशुकामं याजयेत् प्राणो वै वायुः प्राणं वा एतत् पशवः प्रतिधावन्ति यद् वर्षेषु वातं प्रतिजिघ्रति यद् वायवे वायुर् एवास्मै पशून् निनयति नियुत्वती याज्यानुवाक्ये भवतः पशून् अस्मिन् दाधार श्वेतो भवति ब्रह्मणो रूपं समृद्ध्यै

॥२.५.१॥

वै : फ़्न् एमेन्देद्। एद्।: खलु। ब्: खलु वै। म्३: खलु वा

स्वर्भानुर् वा आसुरः सूर्यं तमसाविध्यत् तस्य देवास् तमो ऽपाघ्नन् यत् प्रथमं तमो ऽपाघ्नन्त् साविः कृष्णाभवद् यद् द्वितीयं सा लोहिनी यत् तृतीयं सा बलक्षी यद् अध्यस्ताद् अपाकृन्तत् साविर् वशाभवत् ते ऽब्रुवन् देवपशुम् इमं कामायालभामहा इत्य् अथ वा इयं तर्ह्य् ऋक्षासीद् अलोमिका ते ऽब्रुवंस् तस्मै कामायालभामहै यथास्याम् ओषधयश् च वनस्पतयश् च जायन्ता इति तां वै तस्मै कामायालभन्त ततो ऽस्याम् ओषधयश् च वनस्पतयश् चाजायन्त यः प्रजाकामो वा पशुकामो वा स्यात् स एताम् अविं वशाम् आलभेत प्र प्रजया च पशुभिश् च जायते ऽथो आहुर् यः प्रथमस् तमस्य् अपहते सूर्यस्य रश्मिर् यूपस्य चषाले ऽवातनोत् साविर् वशाभवद् इति तद् उभयेनैव देवपशुर् आलभ्यते यद्य् अस्यास् तज् जन्म यदि वेतरं तत् कामायकामायैवाविर् वशालभ्यते आग्नेयम् अजम् आलभेत वारुणं पेत्वं भूतिकामं याजयेद् आग्नेयानि वै पुरुषस्यास्थानि वारुणं मांसम् आग्नेयेनैवास्याग्नेयं निष्क्रीणाति वारुणेन वारुणं भवत्य् एव सारस्वतीं मेषीम् आलभेत यो वाचो गृहीत वाग् वै सरस्वती वाचैवास्य वाचं भिषज्यत्य् अपन्नदती भवति सर्वत्वायानधिस्कन्ना समृद्ध्यै श्वेता मल्हा आलभेत ब्रह्मवर्चसकाम आग्नेयीं बार्हस्पत्यां सौरीं वसन्ताग्नेयीं प्रावृषि बार्हस्पत्यां शिशिरे सौरीं यद् आग्नेयी तेजस् तयावरुन्न्धे यद् बार्हस्पत्या ब्रह्मवर्चसं तया यत् सौरी रुचं तया त्रिवृद् वावास्मा एतत् समृद्धं ब्रह्मवर्चसं दधाति संवत्सरं पर्यालभ्यन्ते संवत्सरेण वा अनाप्तम् आप्यते संवत्सरेणैवास्मा आप्त्वा तेजो ब्रह्मवर्चसं दधाति श्वेता भवति ब्रह्मणो रूपं समृद्ध्यै वायव्याम् अजाम् आलभेत सारस्वतीं मेषीम् अदित्या अजाम् अभिशस्यमानं याजयेद् वायुर् वा एतस्याश्लीलं गन्धं जनता अनुविहरति यम् अभिशंसन्त्य् एष हीदं सर्वम् उपगछति यद् वायवे वायुर् एवास्य तं गन्धं सुरभिम् अकः सो ऽस्य सुरभिर् गन्धो जनता अनुवितिष्ठते वाचा वा एतम् अभिशंसन्ति यम् अभिशंसन्ति वाक् सरस्वती यत् सारस्वती वाचैवैषां वाचं शमयत्य् अप्रतिष्ठितो वा एष यम् अभिशंसन्तीयं वा अदितिर् इयं प्रतिष्ठा यद् आदित्यास्याम् एव प्रतितिष्ठतीन्द्रियेण वा एष वीर्येण व्यृध्यते यम् अभिशंसन्तीन्द्रियं वीर्यं गर्भो यद् गर्भिणीर् भवन्तीन्द्रियेणैवैनं वीर्येण समर्धयन्ति

॥२.५.२॥

ऽवातनोत् : फ़्न् एमेन्देद्। एद्।: वातनोत्

देवाश् च वा असुराश् चास्पर्धन्त ते वै समावद् एव यज्ञे कुर्वाणा आयन् यद् एव देवा अकुर्वत तद् असुरा अकुर्वत ते न व्यावृतम् अगछंस् ते देवा एतं वामनं पशुम् अपश्यंस् तं वैष्णवम् आलभन्त ततो विष्णुर् इमांल् लोकान् उदजयत् ततो देवा असुरान् एभ्यो लोकेभ्यः प्राणुदन्त ततो देवा अभवन् परासुरा यः सपत्नवान् भ्रातृव्यवान् वा स्यात् स एतं वामनं वैष्णवम् आलभेतातो वै विष्णुर् इमांल् लोकान् उदजयद् विष्णोर् एवोज्जितिम् अन्व् इमांल् लोकान् उज्जयति प्रैभ्यो लोकेभ्यो भ्रातृव्यं नुदते विषम इवालभेत विषमान् इव हीमांल् लोकान् देवा उदजयन् निमान् एव लोकान् उज्जयतीन्द्रो वै वृत्रम् अहन् स प्राङ् अपद्यत स पद्यमाना इन्द्रं सप्तभिर् भोगैः पर्यगृह्णात् तस्माद् विष्वञ्चः पशवो व्युदायन् मूर्धतो वैदेहीर् उदायंस् तस्मात् तासां पुरो जन्म पुर ओकस् तासां जघनत ऋषभो वैदेहो ऽनूदैत् तम् अचायद् अयं वाव मास्माद् अंहसो मुञ्चेद् इति तम् ऐन्द्रम् आलभेताग्नेयं तु पूर्वम् अजम् आलभत स वा अग्निनैव वृत्रस्य भोगान् अपिदह्याथैन्द्रेणेन्द्रियं वीर्यम् आत्मन्न् अधत्त यः पाप्मना तमसा गृहीतो मन्येत स एतम् ऐन्द्रम् ऋषभम् आलभेताग्नेयं तु पूर्वम् अजम् आलभेताग्निनैव पाप्मनो भोगान् अपिदह्याथैन्द्रेणेन्द्रियं वीर्यम् आत्मन् धत्त इन्द्रो वै वलम् अपावृणोत् ततः सहस्रम् उदैत् तस्य सहस्रस्याग्रतः कुभ्र उदैत् तस्माद् एतं साहस्री लक्ष्मीर् इत्य् आहुर् यश् च वेद यश् च नाथो आहुर् इमं वा एष लोकं पश्यन्न् अभ्युदैत् स समैषत् स एष समीषितः कुभ्र इति तम् ऐन्द्रम् आलभेत पशुकाम ऐन्द्रा वै पशव इन्द्रः पशूनां प्रजनयिता तम् एव भागधेयेनोपासरत् सो ऽस्मै पशून् प्रजनयति स यदा सहस्रं पशून् गछेद् अथैतं वामनं वैष्णवम् आलभेतैतस्मिन् वै तत् सहस्रं प्रत्यतिष्ठत् स तिर्यङ् व्यैषत् तस्माद् एष तिर्यङ्ङ् इव वीषित एतेन वै स तत् सहस्रं पर्यगृह्णात् तत् सहस्रस्य वा एष परिगृहीत्या अविक्षोभाय देवाश् च वै पितरश् चास्मिंल् लोक आसंस् तद् यत् किञ्च देवानां स्वम् आसीत् तद् यमो ऽयुवत ते देवाः प्रजापतिम् एवोपाधावन् स प्रजापतिर् एतौ मिथुनौ पशू अपश्यद् ऋषभं च वशां च ता आलभत वैष्णववारुणीं तु पूर्वां वशाम् आलभत तान् वै वरुणेनैव ग्राहयित्वा विष्णुना यज्ञेन प्राणुदताथैन्द्रं देवेष्व् आलभत तेनैष्व् इन्द्रियाणि वीर्याण्य् आप्त्वादधाद् यः सपत्नवान् भ्रातृव्यवान् वा स्यात् स एतौ मिथुनौ पशू आलभेत ऋषभं च वशां च वैष्णववारुणीं तु पूर्वां वशाम् आलभेत वरुणेनैवैनान् ग्राहयित्वा विष्णुना यज्ञेन प्रणुदते ऽथैन्द्रेणेन्द्रियं वीर्यम् आत्मन् धत्ते

॥२.५.३॥

सावित्रं पुनरुत्सृष्टम् आलभेत यः पुरा पुण्यः सन् पश्चा पापत्वं गछेत् सविता वै श्रियः प्रसविता तम् एव भागधेयेनोपासरत् स एनं श्रियै प्रसुवति पापो वा एष पुरा सन् पश्चा श्रियम् अश्नुते यः पुरानड्वान्त् सन् पश्चोक्षत्वं गछति यथैष श्रियम् अश्नुत एवम् एवैनं श्रियं गमयत्य् ओषधीभ्यो वेहतम् आलभेत प्रजाकाम ओषधीनां वा एषा प्रियैता वा एतां सूतोः परिबाधन्त ओषधयः खलु वा एतस्य प्रजाम् अपगूहन्ति यो ऽलं प्रजायै सन् प्रजां न विन्दते ता एव भागधेयेनोपासरत् ता अस्मै प्रजां पुनर् ददत्य् आपो वा ओषधय आपो ह त्व् एवासत् खनन्ति ता अस्मै प्रजां खनन्ति द्यावापृथिवीये धेनू सम्मातरा आलभेतान्नकामो यद् ध्य् असौ वर्षति तद् अस्यां प्रतितिष्ठति द्यावापृथिवी वा अन्नस्येशाते ते एव भागधेयेनोपासरत् ते अस्मा अन्नाद्यं प्रयछतः स वत्सं वायवा आलभेत वायुर् वा अनयोर् वत्सो वायुर् इमे प्रदापयति प्रत्ते ह वा इमे दुहे य एवं वेदैन्द्रीं सूतवशाम् आलभेत राजन्यं भूतिकामं याजयेद् एतस्या वा अधीन्द्रो ऽजायत स जायमान एतं योनिं निरवर्तयत् सा सूतवशाभवद् अथो आहुर् एतद् एव सकृद् इन्द्रियं वीर्यं तेजो जनयित्वा नापरं सूता आशंसत सा सूतवशाभवद् इतीन्द्रियेण वा एष वीर्येण व्यृध्यते यो ऽलं भूत्यै सन् न भवत्य् ऐन्द्री भवतीन्द्रियम् अस्मिन् दधात्य् अथ यस् तं विन्देद् यं सूत्वा सूतवशा भवति तम् ऐन्द्रम् आलभेत तेजस्कामस् तद् एवेन्द्रियं वीर्यं तेज आप्नोति सारस्वतीं धेनुष्टरीम् आलभेत यः क्षेत्रे पशुषु वा विवदेत वाग् वै सरस्वती वाचैवैषां वाचं वृङ्क्ते धेनुर् वा एषा सती न दुहे तर्यम् एवैषां वाचं करोति द्यावापृथिवीयां धेनुं पर्यारिणीम् आलभेत यो राजन्यो ऽभ्यर्धो विशश् चरेद् द्यावापृथिवीभ्यां हि वा एष निर्भक्तो ऽथैषो ऽभ्यर्धो विशश् चरति द्यावापृथिवी एवैनं विशि प्रतिष्ठापयतः पर्यारिणी भवति पर्यारीव ह्य् एतद् राष्ट्रं यद् अभ्यर्धो विशश् चरति द्यावापृथिवी एवैनं विशि प्रतिष्ठाप्य स श्वो भूते वत्सं वायवा आलभेत वायुर् वा अनयोर् वत्सो वायुर् इमौ क्षयौ विशं च प्रदापयति प्रत्तौ ह वा इमौ क्षयौ विशं च दुहे य एवं वेद

॥२.५.४॥

अग्नेयम् अजम् आलभेत सौम्यं बभ्रुम् ऋषभं पिङ्गलं भूतिकामं याजयेद् ऋद्ध्या एवाग्नेय इन्द्रियेण वा एष वीर्येण व्यृध्यते यो ऽलं भूत्यै सन् न भवति यत् सौम्यः स्वयैवास्मै देवतयेन्द्रियं वीर्यम् आप्त्वावरुन्द्धे भवत्य् एव बभ्रुः पिङ्गलो भवति सोमस्य रूपं समृद्ध्यै गोमृगं वायवा आलभेताभिशस्यमानं याजयेद् अपूतो वा एष यम् अभिशंसन्ति वायुर् वै देवानां पवित्रं वायुनैवैनं पवित्रेण पुनाति नेव वा एष ग्रामे नारण्ये यम् अभिशंसन्ति नेव खलु वा एष ग्राम्यः पशुर् नेवारण्यस् तस्माद् अस्यैष देवतया पशूनां समृद्ध ऐन्द्राग्नम् अनुसृष्टम् आलभेत यस्य पिता पितामहः सोमं न पिबेद् इन्द्रियेण वा एष वीर्येण व्यृध्यते यस्य पिता पितामहः सोमं न पिबति यद् ऐन्द्र इन्द्रियेणैवैनं वीर्येण समर्धयति देवताभिर् वा एष व्यृध्यते यस्य पिता पितामहः सोमं न पिबति यद् आग्नेयो ऽग्निर् वै सर्वा देवता देवताभिर् एवैनं समर्धयत्य् अनुसृष्टो भवत्य् अनुसृष्ट इव ह्य् एतस्य सोमपीथो यस्य पिता पितामहः सोमं न पिबति तस्माद् अस्यैष देवतया पशूनां समृद्धस् त्वाष्ट्रम् अवलिप्तम् आलभेत पशुकामस् त्वाष्ट्रा वै पशवस् त्वष्टा पशूनां प्रजनयिता तम् एव भागधेयेनोपासरत् सो ऽस्मै पशून् प्रजनयति सौमापौष्णं नपुंसकम् आलभेत पण्डकं याजयेद् यत्र तू भूमेर् जायेत तत् प्रजिज्ञासेतात्र वा एतस्य जायमानस्येन्द्रियं वीर्यम् अपाक्रामत् तद् एवास्मा इन्द्रियं वीर्यम् आप्त्वा दधाति सोमश् च वा एतस्य पूषा च जायमानस्येन्द्रियं वीर्यम् अयुवेताम् इयं वै पूषौषधयः सोमो यत् सौमापौष्णः स्वयैवास्मै देवतयेन्द्रियं वीर्यम् आप्त्वावरुन्द्धे भवत्य् एव यान्य् अनवदानीयानि तैर् नैरृतैः पूर्वैः प्रचरन्ति निरृतिगृहीता वा एषा स्त्री या पुंरूपा निरृतिगृहीत एष पुमान् यः स्त्रीरूपो निरृत्या एवैनं तेन मुञ्चति न वै नैरृत्याहुतिर् अग्निम् आनशे यद् अङ्गारेषु जुहोति तत् स्विद् अग्नौ जुहोति तद् उ न यत्र वा अद इन्द्रो वृषणश्वस्य मेनासीत् तद् एनं निरृतिः पाप्मागृह्णात् स यं पाप्मानम् अपाहत स नपुंसको ऽभवद् यः पाप्मना तमसा गृहीतो मन्येत स एतम् ऐन्द्रं नपुंसकम् आलभेत येनैवेन्द्रः पाप्मानम् अपाहत तेन पाप्मानम् अपहते ऽथैन्द्रेणेन्द्रियं वीर्यम् आत्मन् धत्ते प्रजापतिः पशून् असृजत स वा एतम् एवाग्रे नपुंसकम् असृजत तं पशवो ऽन्वसृज्यन्ताथो आहुर् एतम् एवाग्रे सृष्टं त्वष्ट्रे च पत्नीभ्यश् च नपुंसकम् आलभत तेन प्रजा असृजतेति यः प्रजाकामो वा पशुकामो वा स्यात् स एतं त्वष्ट्रे च पत्नीभ्यश् च नपुंसकम् आलभेत मिथुनं वै त्वष्टा च पत्नीश् च त्वष्टारं वा एतन् मिथुने ऽप्यस्राट् प्रजननाय तन् मिथुनं तस्माद् एव मिथुनाद् यजमानः प्रजया च पशुभिश् च प्रजायते

॥२.५.५॥

वायुनैवैनं : फ़्न् एमेन्देद्। एद्।: वायुनवैनम्।

त्वष्टारं : फ़्न् एमेन्देद्। एद्।: त्वष्ठारम्।

प्रजापतिः प्रजा असृजत ता एनं सृष्टा अत्यमन्यन्त ता अतिमन्यमाना वरुणेनाग्राहयत् ता वरुणगृहीताः कृष्णः पेत्वो ऽध्यस्कन्दत् तस्यानुहाय पादम् अगृह्णात् तस्य शफः प्रावृह्यत स एकशितिपाद् अभवत् तम् अचायद् अयं वावासां प्रजानाम् अवरुणगृहीतो ऽनेनेमाः प्रजा वरुणान् मुञ्चानीति तं वारुणम् आलभत तत इमाः प्रजा वरुणात् प्रामुच्यन्त तद् वरुणप्रमोचनीय एवैष यो ज्योगामयावी स्यात् तम् एतेन याजयेद् वरुणेन हि वा एष पाप्मना गृहीतो ऽथैतस्य ज्योग् आमयति यद् वारुणो वरुणाद् एवैनं तेन मुञ्चत्य् एकशितिपाद् भवत्य् एवम् इव हि तस्य रूपम् आसीत् समृद्ध्यै द्वीपे याजयेद् एता वै प्रत्यक्षं वारुणीर् यद् आपः स्वे वा एतद् योनौ प्रत्यक्षं वरुणम् अवयजति समन्तम् आपः परिवहन्ति रक्षसाम् अनन्ववायाय वारुणं कृष्णं पेत्वम् आलभेताभिचरन् यद् वारुणो वरुणेनैवैनं ग्राहयित्वा स्तृणुते कृष्णो भवति तमो वै कृष्णं मृत्युस् तमो मृत्युनैवैनं ग्राहयत्य् एतद् वै पाप्मनो रूपं यत् कृष्णं कृष्ण इव हि पाप्मा पाप्मनैवैनम् अभिषुवति तं नियुञ्ज्यात् ॥

पशुं बध्नामि वरुणाय राज्ञा इन्द्राय भागम् ऋषभं केवलो हि ।

गात्राणि देवा अभिसंविशन्तु यमो गृह्णातु निरृतिः सपत्नान् ॥

इत्य् एताभ्य एवैनं देवताभ्यो निर्याच्य मृत्युर् वै यमो मृत्युनैवैनं ग्राहयत्य् अग्नये वैश्वानराय कृष्णं पेत्वम् आलभेत समान्तम् अभिध्रोक्ष्यन् संवत्सरो वा अग्निर् वैश्वानरः संवत्सराय समम्यते संवत्सरम् एवाप्त्वावरुणं कामम् अभिद्रुह्यत्य् आश्विनं कृष्णललामम् आलभेतानुजावरं याजयेद् अश्विनौ वै देवानाम् आनुजावरव् अश्विना एतस्य देवते य आनुजावरस् ता एव भागधेयेनोपासरत् ता एनम् अग्रं परिणयतः कृष्णो भवति पाप्मानम् एवापहते ललामो भवति मुखतो ऽस्मिंस् तेजो दधात्य् आश्विनं कृष्णललामम् आलभेतामयाविनं याजयेद् अश्विनौ वै देवानां भिषजव् अश्विना एतस्य देवते य आमयावी ता एव भागधेयेनोपासरत् ता एनं भिषज्यतः कृष्णो भवति पाप्मानम् एवापहते ललामो भवति मुखतो ऽस्मिंस् तेजो दधाति

॥२.५.६॥

छन्दांसि वै यज्ञाय नातिष्ठन्त स वषट्कारो ऽभिहृत्य गायत्र्याः शिरो ऽछिनत् तस्माञ् शीर्ष्णश् छिन्नाद् यो रसो ऽक्षरत् ता वशा अभवंस् तद् वशानां वशात्वम् अथो आहुर् वशं वै ता अक्षरंस् ता वशा अभवन् तद् वशानां वशात्वम् इत्य् अथो आहुर् वसा वै सासीत् तद् वसा वा एता इति ततो यः प्रथमो रसः प्राक्षरत् तं बृहस्पतिर् उपागृह्णात् सा रोहिणी बार्हस्पत्या ततो यो ऽत्यक्षरत् तं मित्रावरुणौ सा द्विरूपा मैत्रावरुणी ततो यो ऽत्यक्षरत् तं विश्वे देवाः सा बहुरूपा वैश्वदेवी ततो यो ऽत्यक्षरत् तम् अग्निश् च मरुतश् च सा पृश्निर् आग्निमारुत्य् अथो आहुः कृष्णशबलीत्य् अथ या विप्रुषा आसंस् तानीमान्य् अन्यानि रूपाणि ततो यः प्रथमो द्रप्सः परापतत् तं बृहस्पतिर् अभिहायाभ्यगृह्णात् स उक्षाभवत् तद् उक्ष्ण उक्षत्वम् अथो आहुर् यद् देवता अनुव्यौक्षत स उक्षाभवत् तद् उक्ष्ण उक्षत्वम् इति तं ब्राह्मणस्पत्यम् आलभेत ब्राह्मणं भूतिकामं याजयेद् ब्रह्म वै ब्रह्मणस्पतिर् ब्राह्मणस्पत्यो ब्राह्मणो देवतया स्वयैवास्मै देवतयेन्द्रियं वीर्यम् आप्त्वावरुन्द्धे भवत्य् एव रोहिणीं बार्हस्पत्याम् आलभेत ब्रह्मवर्चसकामो ब्रह्म वै बृहस्पतिर् बार्हस्पत्यो ब्राह्मणो देवतया स्वयैवास्मै देवतयाप्त्वा तेजो ब्रह्मवर्चसं दधाति रोहिणी भवति ब्रह्मणो रूपं समृद्ध्यै मैत्रावरुणीं द्विरूपाम् आलभेत पशुकामो ऽहोरात्रे वै मित्रावरुणव् अहोरात्रे अनु पशवः प्रजायन्ते ता एव भागधेयेनोपासरत् ता अस्मै पशून् प्रजनयतश् छन्दसां वा एष रसश् छन्दसाम् एवास्मै रसेन पशून् धत्तो द्विरूपा भवति समृद्ध्यै वैश्वदेवीं बहुरूपाम् आलभेत यस्मै कामाय कामयेत सर्वा वा एता देवताः सर्वा वा एतद् देवताः कामाय भागधेयेनोपासरत् ता अस्मै कामं समर्धयन्ति यत्कामो भवति छन्दसां वा एष रसश् छन्दसाम् एवास्मै रसेन दधति बहुरूपा भवति समृद्ध्यय् आग्निमारुतीं पृश्निम् आलभेत वृष्टिकामो ऽग्निर् वा इतो वृष्टिम् ईट्टे मरुतो ऽमुतश् च्यावयन्त्य् एते वै वृष्ट्याः प्रदातारस् तान् एव भागधेयेनोपासरत् ते ऽस्मै वृष्टिं प्रयछन्ति छन्दसां वा एष रसो रसो वृष्टिश् छन्दसाम् एवास्मै रसेन रसं वृष्टिं निनयन्ति पृश्निर् भवति पृश्निमातरो हि मरुतो भौमीं कृष्णशबलीम् आलभेतान्नकाम इयं वा अन्नस्य प्रदात्रिका ताम् एव भागधेयेनोपासरत् सास्मा अन्नाद्यं प्रयछति न चर्माप्य् आहरेयुर् अनन्नं वै चर्मानन्नं कृष्णम् अनन्नेनैवानन्नम् अपहत्यान्नाद्यम् आत्मन् धत्ते यद् वै तञ् शीर्ष्णश् छिन्नात् तेज इन्द्रियं वीर्यं परापतत् सा बभ्रुर् वशाभवत् तद् एषा वशान्नम् एवेतरास् तां ब्राह्मणस्पत्याम् आलभेताभिचरन् ब्रह्म वै ब्रह्मणस्पतिर् ब्राह्मणस्पत्यो ब्राह्मणो देवतया यावद् एव ब्रह्म तेनैनं सर्वेणाभिचरति तेजसैनं प्रछिनत्ति स्तृणुत एव बभ्रुर् भवति ब्रह्मणो रूपं समृद्ध्यै सौरीं श्वेताम् आलभेत ब्रह्मवर्चसकामो ऽसौ वा आदित्यो ब्रह्मवर्चसस्य प्रदाता तम् एव भागधेयेनोपासरत् सो ऽस्मै ब्रह्मवर्चसं प्रयछति श्वेता भवति ब्रह्मणो रूपं समृद्ध्यै मैत्रावरुणीं कृष्णकर्णीम् आलभेत वृष्टिकामो ऽहोरात्रे वै मित्रावरुणव् अहोरात्रे अनुवर्षत्य् एतद् वा अह्नो रूपं यञ् शुक्लं यत् कृष्णं तद् रात्रेर् द्विरूपा भवति समृद्ध्यै

॥२.५.७॥

इन्द्राय मन्युमते मनस्वते ललामम् आलभेत सङ्ग्रामे मन्युना वै वीर्यं क्रियत इन्द्रियेण जयति वीर्यं चैवैष्व् इन्द्रियं च जित्यै दधाति ललामो भवति पुरस्ताद् ध्य् अयं मन्युर् अथो ब्रह्मणैवैनान् पुरस्तान् मुखतो जित्यै संश्यतीन्द्रायाभिमातिघ्न ऋषभम् आलभेत भ्रातृव्यवान् अभिमातिर् वै पाप्मा भ्रातृव्य इन्द्रियेणैवाभिमातिं पाप्मानं भ्रातृव्यम् अपहते स इन्द्राय वृत्रतुरा आलभेताभिमातिर् वै पाप्मा भ्रातृव्य इन्द्रियेणैवाभिमातिं पाप्मानं भ्रातृव्यम् अपहत्य वृत्रतूर् एवाभूत् स्वाराज्यम् एव गछति वृत्रतूर् इति ह्य् एतम् आहुर् यः स्वाराज्यं गछत्य् ऐन्द्रामारुतं पृश्निसक्थम् आलभेत राजन्यं ग्रामकामं याजयेद् ऐन्द्रो वै राजन्यो देवतया मारुती विड् इन्द्रियेणैवास्मै विशम् उपयुनक्ति पृश्निसक्थो भवति पश्चाद् एवास्मै विशम् उपदधात्य् अनुकाम् अस्मै विशम् अविवादिनीं करोतीन्द्राय वज्रिण ऋषभम् आलभेत राजन्यं भूतिकामं याजयेद् यदा वै राजन्यो वज्री भवत्य् अथ भूतिं गछति यद् वजिणे वज्रम् एवास्मा आधात् तेन विजितिं भूतिं गछति स एनं भूत्यै श्रेम्ण इन्द्धे यद् वज्रिणा इति तद् अस्याभिचरणीयं यं द्विष्यात् तं तर्हि मनसा ध्यायेद् वज्रम् एवास्मै प्रहरति स्तृणुत एव सौम्यं बभ्रुम् ऋषभं पिङ्गलम् आलभेत यो ऽलं राज्याय सन् राज्यं न प्राप्नुयात् सोमो वै राजैतस्य देवता सोमो हि राजा स्वाम् एव देवतां राज्यायोपासरत् स्वैनं देवता राज्यं गमयति बभ्रुः पिङ्गलो भवति सोमस्य रूपं समृद्ध्यै

॥२.५.८॥

यः प्रथम एकाष्टकायां जायेत यस् तम् आलप्स्यमानः स्यात् स आग्नेयम् अष्टाकपालं निर्वपेद् अग्निर् वै पशूनां योनिः स्वाद् एवैनान् योनेर् निष्क्रीणात्य् आ मेध्याद् भवितोर् अग्नये वैश्वानराय द्वादशकपालं मासिमासि निर्वपेत् संवत्सरो वा अग्निर् वैश्वानरः संवत्सराद् एवैनं निष्क्रीणाति स यदा मेधं गछेद् अथेन्द्रायाभिमातिघ्न आलभेताभिमातिर् वै पाप्मा भ्रातृव्य इन्द्रियेणैवाभिमातिं पाप्मानं भ्रातृव्यम् अपहते ऽश्वो ऽव्युप्तवहो दक्षिणैष वै व्यावृत्तः पाप्मना पाप्मनैवैनं व्यावर्तयत्य् अथ यो ऽपरस्याम् एकाष्टकायां जायेत तम् एवम् एवोत्सृज्याथेन्द्राय वृत्रतुरा आलभेताभिमातिर् वै पाप्मा भ्रातृव्य इन्द्रियेणैवाभिमातिं पाप्मानं भ्रातृव्यम् अपहत्य वृत्रतूर् एवाभूत् स्वाराज्यम् एव गछति वृत्रतूर् इति ह्य् एतम् आहुर् यः स्वाराज्यं गछति शतम् अव्युप्तवहा दक्षिणैते वै व्यावृत्ताः पाप्मना पाप्मनैवैनं व्यावर्तयति शतं भवन्ति शतायुर् वै पुरुषः शतवीर्य आयुर् एव वीर्यम् आप्नोति देवाश् च वा असुराश् चास्पर्धन्त ते ऽब्रुवन् ब्रह्मणि नो ऽस्मिन् विजयेथाम् इत्य् अरुणस् तूपरश् चैत्रेयो देवानाम् आसीञ् श्येतो ऽयःशृङ्गः श्यैनेयो ऽसुराणां ते ऽसुरा उत्क्रोदिनो ऽचरन्न् अराडो ऽस्माकं तूपरो ऽमीषाम् इति तौ वै समलभेतां तस्य देवाः क्षुरपवि शिरो ऽकुर्वंस् तस्यान्तरा शृङ्गे शिरो व्यवधाय विष्वञ्चं व्यरुजद् यासुरी वाग् अवदत् सेमां प्राविशद् योदजयत् सा वनस्पतींस् तस्माद् ब्राह्मणो मृन्मयेन न पिबेद् असुर्या वाचात्मानं नेत् संसृजा इति तद् य एवं विद्वान् अमृत्पात्रपो भवत्य् उज्जितम् एव वाच उपैति तं ब्राह्मणस्पत्यम् आलभेताभिचरन् ब्रह्म वै ब्रह्मणस्पतिर् ब्राह्मणस्पत्यो ब्राह्मणो देवतया यावद् एव ब्रह्म तेनैनं सर्वेणाभिचरति तेजसैनं प्रछिनत्ति स्तृणुत एवारुणस् तूपरो भवत्य् एवम् इव हि तस्य रूपम् आसीत् समृद्ध्यै देवा असुरान् हत्वैभ्यो लोकेभ्यः प्राणुदन्त ते रात्रीं प्राविशंस् तान् अश्विना अनुप्राविशतां तौ तमः पर्यगृह्णात् ता एतम् आश्विनम् अञ्जिम् आलभेतां तेन तमो ऽपाघ्नाताम् असा एना आदित्यः पुरस्ताज् ज्योतिषा प्रत्यागछत् स आभ्यां तमो ऽध्यपाहन् यः पाप्मना तमसा गृहीतो मन्येत स एतम् आश्विनम् अञ्जिम् आलभेत येनैवाश्विनौ तमो ऽपाघ्नातां तेन पाप्मानम् अपहते ऽसा एनम् आदित्यः पुरस्ताज् ज्योतिषा प्रत्यागछति सो ऽस्मात् तमो ऽध्यपहन्ति

॥२.५.९॥

श्यैनेयो : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।

असौ वा आदित्यस् तेजोभिर् व्यार्ध्यत तत इदं सर्वं तमो ऽभवत् स प्रजापतिर् एतान् दश ऋषभान् अपश्यद् अथो आहुर् इन्द्रो ऽपश्यद् इति तान् ऐन्द्रान् आलभत तैर् अस्मिन्न् इन्द्रियाणि वीर्याण्य् आप्त्वादधाद् यल् ललामा आलभ्यन्त मुखतो ऽस्मिंस् तैस् तेजो ऽदधाद् यञ् शितिककुद उपरिष्टात् तैर् यञ् श्वेतानूकाशाः पश्चात् तैस् ततो वा असा आदित्यः सर्वतस् तेजस्व्य् अभवद् यस् तेजस्कामः स्यात् स एतान् ऐन्द्रान् ऋषभान् आलभेत यल् ललामा आलभ्यन्ते मुखतो ऽस्मिंस् तैस् तेजो दधाति यञ् शितिककुद उपरिष्टात् तैर् यञ् श्वेतानूकाशाः पश्चात् तैः सर्वत एवैनं तेजस्विनं करोत्य् अमुष्यैनम् आदित्यस्य मात्रां गमयति परजापत्यं दशमं द्वादशे मासा आलभेत द्वादश मासाः संवत्सरः संवत्सरम् एवाप्त्वावरुन्द्धे नवालभ्यन्ते नव वै प्राणाः प्राणाः खलु वै पुरुषे वीर्यं प्राणान् अस्मिन् वीर्यं दधाति दशालभ्यन्ते दशाक्षरा विराड् विराड् एतान्य् एवेन्द्रियाणि वीर्याण्य् आत्मन् धित्वेयं विराड् अस्याम् एव प्रतितिष्ठति ॥

नमो महिम्ने चक्षुषे मरुतां पितस् तद् अहं गृणे ते ।

हुतो याहि पथिभिर् देवयानैर् ओषधीषु प्रतितिष्ठा शरीरैः ॥

देवानाम् एष उपनाह आसीद् अपां पतिर् वृषभ ओषधीनाम् ।

सोमस्य द्रप्सम् अवृणीत पूषा बृहन्न् अद्रिर् अभवद् यत् तद् आसीत् ॥

द्रप्सश् चस्कन्द पृथिवीम् अनु द्याम् इमं च योनिम् अनु यश् च पूर्वः ।

समानं योनिम् अनु सञ्चरन्तं द्रप्सं जुहोम्य् अनु सप्त होत्राः ॥

पिता वत्सानां पतिर् अघ्न्यानाम् उतायं पिता महतां गर्गराणाम् ।

वत्सो जरायु प्रतिधुक् पीयूष आमिक्षा मस्तु घृतम् अस्य योनिः ॥

त्वां गावो ऽवृणत राज्याय त्वां वर्धन्ति मरुतः स्वर्काः ।

वर्ष्मन् क्षत्रस्य ककुब्भिः शिश्रियाणस् ततो न उग्रो विभजा वसूनि

॥२.५.१०॥

वायव्यम् अजम् आलभेतैन्द्रं वृष्णं वृषभं वा वारुणं पेत्वं भूतिकामं याजयेद् यद् वायवे वायुर् एवैनं भूत्यै निनयतीन्द्रियेण वा एष वीर्येण व्यृध्यते यो ऽलं भूत्यै सन् न भवति यद् ऐन्द्र इन्द्रियेणैवैनं वीर्येण समर्धयति वरुणगृहीतो वा एष यो ऽलं भूत्यै सन् न भवति यद् वारुणो वरुणाद् एवैनं तेन मुञ्चत्य् एतान् एवाभिचरन्न् आलभेत यद् वायवे वायुर् एवास्मै वज्रं संश्यत्य् ऐन्द्रो वै वज्र इन्द्रियेण खलु वै वज्रः प्रह्रियते यद् ऐन्द्रो वज्रम् एवास्मै प्रहरति यद् वारुणो वरुणेनैवैनं ग्राहयित्वा स्तृणुते सौर्यं बलक्षं पेत्वम् आलभेत ब्रह्मवर्चसकामो ऽसौ वा आदित्यो ब्रह्मवर्चसस्य प्रदाता तम् एव भागधेयेनोपासरत् सो ऽस्मै ब्रह्मवर्चसं प्रयछति यद् बलक्षः समृद्धस् तेन यद् अलूनः समृद्धस् तेन यत् पीवा समृद्धस् तेन त्रिवृद् वावास्मा एतत् समृद्धं ब्रह्मवर्चसं दधात्य् आदित्यं बहुरूपम् आलभेत यस्याश्विने शस्यमाने सूर्यो नोदियात् पराचीर् वा एतस्मै व्युछन्ति यस्याश्विने शस्यमाने सूर्यो नोदेति यद् आदित्यो ऽमुम् एवास्मा उन्नयति बहुरूपो भवति बहूनि वै रश्मीनां रूपाणि रश्मीनाम् एवास्मै रूपाण्य् आप्त्वोन्नयत्य् अग्निर् वै सृष्टो न व्यरोचत सो ऽग्नये तेजस्विने ऽजं कृष्णग्रीवम् आलभत तेन तेजस्व्य् अभवत् सो ऽकामयत सर्वत्र विभवेयम् इति सो ऽग्नये विभूतिमते ऽजं कृष्णग्रीवम् आलभत तेन सर्वत्र व्यभवत् सो ऽकामयत सर्वत्रापिभागः स्याम् इति सो ऽग्नये भागिने ऽजं कृष्णग्रीवम् आलभत तेन सर्वत्रापिभागो ऽभवत् सो ऽकामयत दानकामा मे प्रजाः स्युर् इति सो ऽग्नये दात्रे ऽजं कृष्णग्रीवम् आलभत तेनास्मै दानकामाः प्रजा अभवन् यः कमयेत तेजस्वी स्यां सर्वत्र विभवेयं सर्वत्रापिभागः स्यां दानकामा मे प्रजाः स्युर् इति स एतान् अजान् कृष्णग्रीवान् आलभेत तेजस्वी भवति सर्वत्र विभवति सर्वत्रापिभागो भवति दानकामा अस्मै प्रजा भवन्ति प्राजापत्यं बहुरूपम् आलभेत पशुकामः प्राजापत्या वै पशवः प्रजापतिः पशूनां प्रजनयिता तम् एव भागधेयेनोपासरत् सो ऽस्मै पशून् प्रजनयति बहुरूपो भवति बहूनि वै पशूनां रूपाणि पशूनाम् एवासमि रूपाण्य् आप्त्वावरुन्द्धे यामं शुकहरिम् आलभेत शुण्ठं वा यः कामयेत यमलोक ऋध्नुयाम् इत्य् एतेन वै यमो ऽमुष्मिंल् लोक आर्ध्नोद् यमो ऽमुष्य लोकस्याधिपत्यम् आनशे तम् एव भागधेयेनोपासरत् स एनम् अमुष्य लोकस्याधिपत्यं गमयत्य् एकधा वा एतेन यमलोक ऋध्नोति परे वयसि यष्टव्यं ताजग् घि प्रमीयते शुण्ठो वा भवति शुकहरिर् वैष ह्य् एतस्य देवतया पशूनां समृद्धः

॥२.५.११॥
प्रपाठक 6

द्वितीयकाण्डे षष्ठः प्रपाठकः

द्वितीयकाण्डे षष्ठः प्रपाठकः

श्वो भूत आदित्येभ्यो भुवद्वद्भ्यो घृते चरुर् वरो दक्षिणा श्वो भूत आग्नावैष्णव एकादशकपालो ऽनड्वान् वामनो दक्षिणा श्वो भूते ऽग्नीषोमीया एकादशकपालो हिरण्यं दक्षिणा श्वो भूत ऐन्द्राग्न एकादशकपालो ऽनड्वान् ऋषभो दक्षिणा श्वो भूत आग्नेयो ऽष्टाकपालो माहेन्द्रं दधि वासः क्षौमं दक्षिणा

॥२.६.१॥

ऐन्द्राग्नम् एकादशकपालं निर्वपेद् आग्नेन्द्रं वा वैश्वदेवश् चरुः सौम्यः श्यामाकश् चरुर् द्यावापृथिवीया एककपालो वत्सः प्रथमजो दक्षिणा सीरं द्वादशायोगं दक्षिणोष्टारो वानड्वान्

॥२.६.२॥

आग्नेयो ऽष्टाकपालो वारुणो यवमयश् चरुर् रौद्रो गावीधुकश् चरुर् ऐन्द्रं दधि धेनुर् अनड्वाही दक्षिणापां न्ययनाद् अपामार्गान् आहरन्ति तान्त् सक्तून् कृत्वा दक्षिणा परेत्य स्वकृता इरिण एकोल्मुकं निधाय पर्णमयेन स्रुवेण जुहोति ॥

देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् इन्द्रस्यौजसा रक्षोहासि स्वाहा हतं रक्षो ऽवधिष्म रक्षः ॥

वरो दक्षिणा ॥

ये देवाः पुरःसदो अग्निनेत्रा रक्षोहणस् ते नो ऽवन्तु ते नः पान्तु तेभ्यः स्वाहा ये देवा दक्षिणात्सदो यमनेत्रा रक्षोहणस् ते नो ऽवन्तु ते नः पान्तु तेभ्यः स्वाहा ये देवाः पश्चात्सदो मरुन्नेत्रा रक्षोहणस् ते नो ऽवन्तु ते नः पान्तु तेभ्यः स्वाहा ये देवा उत्तरात्सदो मित्रावरुणनेत्रा रक्षोहणस् ते नो ऽवन्तु ते नः पान्तु तेभ्यः स्वाहा ये देवा उपरिषदो ऽवस्वद्वन्तः सोमनेत्रा रक्षोहणस् ते नो ऽवन्तु ते नः पान्तु तेभ्यः स्वाहेदम् अहं रक्षो ऽभिसमूहाम्य् अग्ने सन्दह रक्षः सन्दग्धं रक्षो ऽग्नये पुरःसदे स्वाहा यमाय दक्षिणात्सदे स्वाहा मरुद्भ्यः पश्चात्सद्भ्यः स्वाहा मित्रावरुणाभ्याम् उत्तरात्सद्भ्यां स्वाहा सोमायोपरिषदे ऽवस्वद्वते रक्षोघ्ने स्वाहा रथः पञ्चवाही दक्षिणा

॥२.६.३॥

अनुमत्यै चरुर् राकायै चरुः सिनीवाल्यै चरुः कुह्वै चरुर् धात्रे द्वादशकपालः पष्ठौही दक्षिणाग्नावैष्णव एकादशकपाल ऐन्द्रावैष्णावश् चरुर् वैष्णवस् त्रिकपालो वामनो दक्षिणा सौमापौष्ण एकादशकपाल ऐन्द्रापौष्णश् चरुः पौष्णश् चरुः श्यामो दक्षिणाग्नये वैश्वानराय द्वादशकपालो वारुणो यवमयश् चरुर् हिरण्यं चाश्वश् च दक्षिणा

॥२.६.४॥

बार्हस्पत्यश् चरुर् ब्रह्मणो गृहे शितिपृष्ठो दक्षिणैन्द्र एकादशकपालो राज्ञो गृह ऋषभो दक्षिणादित्यश् चरुर् महिष्या गृहे धेनुर् दक्षिणा नैरृतश् चरुर् नखावपूतानां परिवृक्त्या गृहे श्येनी वण्डापस्फुरा दक्षिणाग्नेयो ऽष्टाकपालः सेनान्यो गृहे हिरण्यं दक्षिणाश्विनो द्विकपालः सङ्ग्रहीतुर् गृहे सवत्यौ दक्षिणा सावित्रो ऽष्टाकपालः क्षत्तुर् गृहे श्येतो दक्षिणा वारुणो यवमयो दशकपालः सूतस्य गृहे बभ्रुर् महानिरष्टो दक्षिणा मारुतः सप्तकपालो वैश्यस्य ग्रामण्यो गृहे पृश्निः पष्ठौही दक्षिणा पौष्णश् चरुर् भागदुघस्य गृहे श्यामो दक्षिणा वैष्णवस् त्रिकपालस् तक्षरथकारयोर् गृहे सर्वायसानि दक्षिणा रौद्रो गावीधुकश् चरुर् अक्षावापस्य गृहे गोविकर्तस्य चासिर् वालापितस्थो दक्षिणा शबलो वा त्रिवत्सो ऽभिधानी वा केसरपाशा

॥२.६.५॥

इन्द्रायांहोमुचा एकादशकपालं निर्वपेद् इन्द्राय सुत्राम्णा एकादशकपालम् ऋषभो दक्षिणा स्वयंरुग्णाया अश्वत्थशाखायाः पात्रं भवत्य् अथ श्वेतां श्वेतवत्सां दुहन्ति तत् स्वयं मूर्छति स्वयं मथ्यते स्वयंविलीनम् आज्यं भवत्य् अथ मैत्राबार्हस्पत्यं हविर् निर्वपन्ति ये क्षोदिष्ठास् तण्डुलास् तं बार्हस्पत्यं चरुं शृतं कुर्वन्ति तत्र तत् पात्रम् अपिधायाज्यम् आसिच्य ये स्थविष्ठास् तण्डुलास् तान् आवपन्त्य् उभौ सह शृतौ कुर्वन्ति मैत्रेण पूर्वेण प्रचरन्त्य् अश्वो मैत्रस्य दक्षिणा शितिपृष्ठो बार्हस्पत्यस्याग्नये गृहपतय आपतन्तानाम् अष्टाकपालं निर्वपेत् सोमाय वनस्पतये श्यामाकं चरुं सवित्रे प्रसवित्रे सतीनानाम् अष्टाकपालं बृहस्पतये वाचस्पतये नैवारं चरुम् इन्द्राय ज्येष्ठाय हायनानाम् एकादशकपालं मित्राय सत्यस्य पतये नाम्बानां चरुं वरुणाय धर्मस्य पतये यवमयं चरुं रुद्राय पशुपतये गावीधुकं चरुम् ॥

सविता त्वा प्रसवानां सुवताम् अग्निर् गार्हपत्यानां सोमो वनस्पतीनां बृहस्पतिर् वाचाम् इन्द्रो ज्यैष्ठ्यानां मित्रः सत्यानां वरुणो धर्मणां रुद्रः पशूनां ते देवा असपत्नम् इमं सुवध्वम् अमुम् आमुष्यायणम् अमुष्याः पुत्रम् अमुष्यां विशि महते क्षत्राय महते जानराज्याय शुक्रज्योतिश् च चित्रज्योतिश् च सत्यज्योतिश् च ज्योतिष्मांश् च सत्यश् च ऋतपाश् चात्यंहा ऋतजिच् च स्त्यजिच् च सेनजिच् च सुषेणश् चान्तिमित्रश् च दूरेऽमित्रश् च गण ऋतश् च सत्यश् च ध्रुवश् च धरुणश् च धर्ता च विधर्ता च विधारयः

॥२.६.६॥

देवीर् आपो अपां नपाद् राष्ट्रदाः स्थ राष्ट्रं दत्त स्वाहा देवीर् आपो अपां नपाद् राष्ट्रदाः स्थ राष्ट्रम् अमुष्मै दत्त वृषोर्मिर् असि वृषसेनो ऽस्य् अपां पतिर् अस्य् अप्रहावरीः स्थ परिवाहिणीः स्थौजस्विनीः स्थ मान्दाः स्थ व्रजक्षितः स्थ सूर्यवर्चसः स्थ सूर्यत्वचसः स्थ मरुताम् ओजः स्थ वशाः स्थ शक्वरीः स्थ विश्वभृतः स्थ जनभृतो ऽपाम् ओषधीनां रसः श्रविष्ठाः स्थ राष्ट्रदाः स्थ राष्ट्रम् अमुष्मै दत्त

॥२.६.७॥

देवीर् आपो मधुमतीः संसृज्यध्वं महि क्षत्रं क्षत्रियाय वन्वानाः ।

अनाधृष्टाः सीदतोर्जस्वतीर् महि वर्चः क्षत्रियाय दधतीः ॥

अपो देवीर् मधुमतीर् अगृभ्णाम् ऊर्जस्वती राजसूयाश् चितानाः ।

याभिर् मित्रावरुणा अभ्यषिञ्चंस् ताभिर् इन्द्रम् अनयन्न् अत्य् अरातीः ।

अनिभृष्टम् असि वाचो बन्धुस् तपोजाः सोमस्य दात्रम् ॥

शुक्रा वः शुक्रेण पुनामि चन्द्रा वश् चन्द्रेण पुनामि ॥

देवो वः सविता पुनात्व् अछिद्रेण पवित्रेण ।

वसोः सूर्यस्य रश्मिभिः ॥

स्वाहा राजसूयाः ॥

सधमादो द्युम्न्या ऊर्जा एका अनाधृष्टा अपस्यो वसानाः ।

पस्त्यासु चक्रे वरुणः सधस्थम् अपां शिशुर् मातृतमास्व् अन्तः ॥

रुद्र यत् ते गिरिपरं नाम तस्मिन् हुतम् असि यमेष्टम् असि स्वाहा सोमा इन्द्रो वरुणो मित्रो अग्निस् ते देवा धर्मधृतो धर्मं धारयन्तु

॥२.६.८॥

क्षत्रस्य योनिर् असि क्षत्रस्योल्बम् असि क्षत्रस्य नाभिर् अस्य् आवित्तो अग्निर् गृहपतिर् आवित्ता इन्द्रो वृद्धश्रवा आवित्तौ मित्रावरुणौ धृतव्रतव् आवित्ते द्यावापृथिवी ऋतावृधव् आवित्तः पूषा विश्ववेदा आवित्ता देव्य् अदितिर् आवित्तो ऽयम् असा आमुष्यायणो ऽमुष्याः पुत्रो ऽमुष्यां विशि महते क्षत्राय महते जानराज्यायैष ते जनते राजा सोमो ऽस्माकं ब्राह्मणानां राजेन्द्रस्य वज्रो ऽसि वार्त्रघ्नस् त्वयायं वृत्रं वध्याच् छत्रुबाधनाः स्थ पात प्राञ्चं पात प्रत्यञ्चं पात तिर्यञ्चं पातान्वञ्चं पातोर्ध्वं दिग्भ्य एनं पात मित्रो ऽसि वरुणो ऽसि ॥

हिरण्यवर्णम् उषसो व्युष्टा अयःस्थूणम् उदितौ सूर्यस्य ।

आरोहथो वरुण मित्र गर्तं ततश् चक्राथे अदितिं दितिं च

॥२.६.९॥

समिधम् आतिष्ठ गायत्री त्वा छन्दसाम् अवतु त्रिवृत् स्तोमो रथन्तरं सामाग्निर् देवता ब्रह्म द्रविणम् उग्राम् आतिष्ठ त्रिष्टुप् त्वा छन्दसाम् अवतु पञ्चदशः स्तोमो बृहत् सामेन्द्रो देवता क्षत्रं द्रविणं प्राचीम् आतिष्ठ जगती त्वा छन्दसाम् अवतु सप्तदशः स्तोमो वैरूपं साम विश्वे देवा देवता विड् द्रविणम् उदीचीम् आतिष्ठानुष्टुप् त्वा छन्दसाम् अवत्व् एकविंशः स्तोमो वैराजं साम मित्रावरुणौ देवता पुष्टं द्रविणम् ऊर्ध्वाम् आतिष्ठ पङ्क्तिस् त्वा छन्दसाम् अवतु त्रिणवत्रयस्त्रिंशौ स्तोमौ शाक्वररैवते सामनी बृहस्पतिर् देवता फलं द्रविणं सोमस्य त्विषिर् असि त्विषिमत् तवेव मे त्विषिर् भूयात् ॥

प्रत्यस्तं नमुचेः शिरो ऽवेष्टा दन्दशूकाः ।

मृत्योः पाहि दिदिवः पाहि

॥२.६.१०॥

अग्नये स्वाहा सोमाय स्वाहा सवित्रे स्वाहा सरस्वत्यै स्वाहा पूष्णे स्वाहा बृहस्पतये स्वाहेन्द्राय स्वाहा घोषाय स्वाहा श्लोकाय स्वाहांशाय स्वाहा भगाय स्वाहा क्षेत्रस्य पतये स्वाहा सोमस्य त्वा द्युम्नेनाग्नेस् तेजसेन्द्रस्येन्द्रियेण विश्वेषां त्वा देवानां क्रतुनाभिषिञ्चामीन्द्रस्य योनिर् असि जनयाति द्यून् पाहि ॥

समाववृत्रन्न् अधराग् उदक् ता अहिं बुध्न्यम् अन्वीयमानाः ।

ताः पर्वतस्य वृषभस्य पृष्ठान् नावो वियन्ति सुसिचो न वाणीः ॥

इन्द्रस्य वज्रो ऽसि वाजसनिस् त्वयायं वाजं सेन् मित्रावरुणयोस् त्वा प्रशास्त्रोः प्रशिषा युनज्मि विष्णोः क्रमो ऽसि सपत्नहा मरुतां प्रसवे जयाप्तं मनः सम् इन्द्रियेणैष वज्रो वाजसातमस् तेन नौ पुत्रो वाजं सेत्

॥२.६.११॥

इयद् अस्य् आयुर् अस्य् आयुर् मे धेहि युङ्ङ् असि वर्चो ऽसि वर्चो मे धेह्य् ऊर्ग् अस्य् ऊर्जं मयि धेहि मित्रो ऽसि वरुणो ऽसि सद् असि सम् अहं विश्वैर् देवैर् नमो मात्रे पृथिव्यै मा मां माता पृथिवी हिंसीत् ॥

प्रति त्यन् नाम राज्यम् अधायि स्वां तन्वं वरुणो ऽसुषोत् ।

शुचेर् मित्रस्य व्रत्या अभूमामन्महि महद् ऋतस्य नाम ॥

सर्वे व्राता वरुणस्याभूम नि मित्रयुर् अरतीन् अतारीत् ।

अशूशुभन्त यज्ञिया ऋतेन नि त्रितो जरिमाणं न आनट् ॥

स्योनासि सुषदा स्योनाम् आसीद सुषदाम् आसीद ॥

निषसाद धृतव्रतो वरुणः पस्त्यास्व् आ ।

साम्राज्याय सुक्रतुः ॥

अग्नये स्वाहा सोमाय स्वाहेन्द्रस्यौजसे स्वाहा मरुतां बलाय स्वाहा ॥

हंसः शुचिषद् वसुर् अन्तरिक्षसद् धोता वेदिषद् अतिथिर् दुरोणसत् ।

नृषद् वरसद् ऋतसद् व्योमसद् अब्जा गोजा ऋतजा अद्रिजा ऋतम् ॥

ब्रह्मा३ंस् त्वं ब्रह्मासि सवितासि सत्यसवो ब्रह्मा३ंस् त्वं ब्रह्मासि मित्रो ऽसि सुशेवो ब्रह्मासीन्द्रो ऽसि सत्यौजा ब्रह्मा३ंस् त्वं ब्रह्मासि वरुणो ऽसि विश्वौजाः ॥

एष वज्रस् तेन मे रध्य दिशो अभ्यभूद् अयम् ॥

प्रजापते न त्वद् एतान्य् अन्यो विश्वा जातानि परि ता बभूव ।

यस्मै कं जुहुमस् तन् नो अस्तु ॥

असा अमुष्य पुत्रो ऽमुष्यासौ पुत्रः ॥

वयं स्याम पतयो रयीणाम्

॥२.६.१२॥

अपां नप्त्रे स्वाहोर्जो नप्त्रे स्वाहाग्नये गृहपतये स्वाहा ॥

सावित्रो ऽष्टाकपालः श्येतो दक्षिणा सारस्वतश् चरुर् धेनुर् दक्षिणा पौष्णश् चरुः श्यामो दक्षिणा बार्हस्पत्यश् चरुः शितिपृष्ठो दक्षिणैन्द्र एकादशकपाल ऋषभो दक्षिणा वारुणो यवमयो दशकपालो बभ्रुर् महानिरष्टो दक्षिणा त्वाष्ट्रो ऽष्टाकपालो ऽंसेपाञ् शुण्ठो ऽधिरूढाकर्णो वा दक्षिणाग्नेयो ऽष्टाकपालो हिरण्यम् अष्टापृडं दक्षिणा सौम्यश् चरुर् बभ्रुर् दक्षिणा वैष्णवस् त्रिकपालो वामनो दक्षिणाग्नेयो ऽष्टाकपालो हिरण्यं दक्षिणा बार्हस्पत्यश् चरुः शितिपृष्ठो दक्षिणैन्द्र एकादशकपाल ऋषभो दक्षिणा वैश्वदेवश् चरुः पिशङ्गो दक्षिणा मैत्रावरुण्य् आमिक्षा वशा दक्षिणाग्नेयो ऽष्टाकपालः सौम्यश् चरुः सावित्रो द्वादशकपालो बार्हस्पत्यश् चरुर् अग्नये वैश्वानराय द्वादशकपालस् त्वाष्ट्रो ऽष्टाकपालो दक्षिणो रथवाहनवाहो दक्षिणा सारस्वतस् चरुः पौष्णश् चरुर् मैत्रश् चरुर् वारुणश् चरुर् अदित्यै चरुः क्षेत्रस्य पतये चरुः सव्यो रथवाहनवाहो दक्षिणा मारुती पृश्निः पष्ठौही गर्भिण्य् आदित्याजा मलिहा गर्भिणी सवित्रे प्रसवित्रे सतीनानाम् अष्टाकपालो ऽश्विभ्यां पूष्ण एकादशकपालः सरस्वत्यै सत्यवाचे चरुर् दण्ड उपानहौ शुष्कदृतिः सा दक्षिणा

॥२.६.१३॥
प्रपाठक 7

द्वितीयकाण्डे सप्तमः प्रपाठकः

द्वितीयकाण्डे सप्तमः प्रपाठकः

आनुष्टुभेन छन्दसा

॥२.७.१॥

प्रतूर्तं वाजिन्न् आद्रव वरिष्ठाम् अनु संवतम् ।

दिवि ते जन्म परमम् अन्तरिक्षे तव नाभिः पृथिव्याम् अधि योनिर् इत् ॥

युञ्जाथां रासभं युवम् अस्मिन् यामे वृषण्वसू ।

अग्निं भरन्ता अस्मयुम् ॥

योगेयोगे तवस्तरं वाजेवाजे हवामहे ।

सखाया इन्द्रम् ऊतये ॥

प्रतूर्वन्न् एह्य् अवक्रामन्न् अशस्तीर् रुद्रस्य गाणपत्यान् मयोभूर् एहि ॥

उर्व् अन्तरिक्षं वीहि ॥

स्वस्तिगव्यूतिर् अभयानि कृण्वन् पूष्णा सयुजा सह ॥

अग्निं पुरीष्यम् अङ्गिरस्वद् आभराग्निं पुरीष्यम् अङ्गिरस्वद् अच्छेमो ऽग्निं पुरीष्यम् अङ्गिरस्वद् भरिष्यामः ॥

अन्व् अग्निः ॥

आगत्य वाज्य् अध्वानं सर्वा मृधो विधूनुते ।

अग्निं सधस्थे महति चक्षुषा निचिकीषति ॥

आक्रम्य वाजिन् पृथिवीम् अग्निम् इछ रुचा त्वम् ।

भूम्या वृत्वाय नो ब्रूहि यतः खनेम तं वयम् ॥

द्यौस् ते पृष्ठं पृथिवी सधस्थम् आत्मानतरिक्षं समुद्रो योनिः ।

विक्शाय चक्षुषा त्वम् अभितिष्ठ पृतन्यतः ॥

उत्क्राम महते सौभगायास्माद् आस्थानाद् द्रविणोदा वाजिन् ।

वयं स्याम सुमतौ पृथिव्या अग्निं खनन्त उपस्थे अस्याः ॥

उदक्रमीद् द्रविणोदा वाज्य् अर्वाकः सु लोकं सुकृतं पृथिव्याः ।

ततः खनेम सुप्रतीकम् अग्निं स्वो रुहाणा अधि नाक उत्तमे ॥

आ त्वा जिघर्मि मनसा घृतेन प्रतिक्षियन्तं भुवनानि विश्वा ।

पृथुं तिरश्चा वयसा बृहन्तं व्यचिष्ठम् अन्नं रभसं दृशानम् ॥

आ विश्वतः प्रत्यञ्चं जिघर्म्य् अरक्षसा मनसा तज् जुषस्व ।

मर्यश्रीः स्पृहयद्वर्णो अग्निर् नाभिधृषे तन्वा जर्हृषाणः ॥

परि वाजपतिः ॥

परि त्वाग्ने पुरं वयं विप्रं सहस्य धीमहि ।

धृषद्वर्णं दिवेदिवे हन्तारं भङ्गुरावताम् ॥

त्वम् अग्ने द्युभिस् त्वम् आशुशुक्षणिस् त्वम् अद्भ्यस् त्वम् अश्मनस् परि ।

त्वं वनेभ्यस् त्वम् ओषधीभ्यस् त्वं नृणां नृपते जायसे शुचिः ॥

देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्यां पृथिव्याः सधस्थे अग्निं पुरीष्यम् अङ्गिरस्वत् खनामि ज्योतिष्मन्तं त्वाग्ने सुप्रतीकम् अजस्रेण भानुना दीद्यतं शिवं प्रजाभ्यो ऽहिंसन्तं पृथिव्याः सधस्थे अग्निं पुरीष्यम् अङ्गिरस्वत् खनामः

॥२.७.२॥

अपां पृष्ठम् असि योनिर् अग्नेः समुद्रम् अभितः पिन्वमानम् ।

वर्धमानो मह आ च पुष्करे दिवो मात्रया वरिणा प्रथस्व ॥

शर्म च स्थो वर्म च स्थो अछिद्रे बहुले उभे ।

व्यचस्वती संवसेथां भर्तम् अग्निं पुरीष्यम् ॥

संवसेथां स्वर्विदा समीची उरसा त्मना ।

अग्निं भरिष्यन्ती अन्ता रोचमानम् अजस्रम् इत् ॥

पुरीष्यो ऽसि विश्वभरा अथर्वा त्वा प्रथमो निरमन्थद् अग्ने ॥

त्वाम् अग्ने पुष्कराद् अध्य् अथर्वा निरमन्थत ।

मूर्ध्नो विश्वस्य वाघतः ॥

तम् उ त्वा दध्यङ्ङ् ऋषिः पुत्र ईधे अथर्वणः ।

वृत्रहणं पुरन्दरम् ॥

तम् उ त्वा पाथ्यो वृषा समीधे दस्युहन्तमम् ।

धनञ्जयं रणेरणे ।

सीद होतः स्व उलोके चिकित्वान्त् सादया यज्ञं सुकृतस्य योनौ ।

देवावीर् देवान् हविषा यजास्य् अग्ने बृहद् यजमाने वयो धाः ॥

नि होता होतृषदने विदानस् त्वेषो दीदिवं असदत् सुदक्षः ।

अदब्धव्रतप्रमतिर् वसिष्ठः सहस्रम्भरः शुचिजिह्वो अग्निः ॥

संसीदस्व महं असि शोचस्व देववीतमः ।

वि धूमम् अग्ने अरुषं मेध्य सृज प्रशस्त दर्शतम् ॥

जनिष्व हि जेन्यो अग्रे अह्नां हितो हितेष्व् अरुषो वनेषु ।

दमेदमे सप्त रत्ना दधानो ऽग्निर् होता निषसाद यजीयान् ॥

अयम् इह ॥

इमं स्तोमम् अर्हते जातवेदसे रथम् इव सम्महेमा मनीषया ।

भद्रा हि नः प्रमतिर् अस्य संसद्य् अग्ने सख्ये मा रिषामा वयं तव ॥

अयं ते

॥२.७.३॥

अपो देवीर् उपसृजा मधुमतीर् अयक्ष्माय प्रजाभ्यः ।

तासाम् आस्थानाद् उज्जिहताम् ओषधयः सुपिप्पलाः ॥

सं ते वायुर् मातरिश्वा दधातूत्तानाया हृदयं यद् विकस्तम् ।

यो देवानां चरसि प्राणथेन कस्मै देव वषड् अस्तु तुभ्यम् ॥

सुजातो ज्योतिषा शर्म वरूथम् आसदत् स्वः ।

वासो अग्ने विश्वरूपं संव्ययस्व विभावसो ॥

उद् उ तिष्ठ स्वध्वर स्तवानो देव्या कृपा ।

दृशा च भासा बृहता सुशिक्मनाग्ने याहि सुशस्तिभिः ॥

ऊर्ध्व ऊ षु ण ऊतये तिष्ठा देवो न सविता ।

ऊर्ध्वो वाजस्य सनिता यद् अञ्जिभिर् वाघाद्भिर् विह्वयामहे ॥

सजातो गर्भो असि रोदस्योर् अग्ने चारुर् विभृता ओषधीषु ।

चित्रः शिशुष् परि तमांस्य् अक्तः प्र मातृभ्यो अधि कनिक्रदद् गाः ॥

स्थिरो भव वीड्वङ्ग आशुर् भव वाज्य् अर्वन् ।

पृथुर् भव सुषदस् त्वम् अग्नेः पुरीष्यवाहनः ॥

शिवो भव प्रजाभ्यो मानुषीभ्यस् त्वम् अङ्गिरः ।

मा द्यावापृथिवीं हिंसीर् मान्तरिक्षं मा वनस्पतीन् ॥

प्रैतु वाजी कनिक्रदन् नानदद् रासभः पत्वा ।

भरन्न् अग्निं पुरीष्यं मा पाद्य् आयुषः पुरा ॥

वृषाग्निं वृषणं भरन्न् अपां गर्भं समुद्रियम् ।

अग्ना आयाहि वीतये ॥

ऋतं सत्यम् ऋतं सत्यम् अग्निं पुरीष्यम् अङ्गिरस्वद् भरामः

॥२.७.४॥

ओषधयः प्रतिगृभ्णीताग्निम् एतं शिवम् आयन्तम् अभ्य् अत्र युष्मान् ।

व्यस्यन् विश्वा अनिरा अमीवा निषीदन् नो अप दुर्मतिं जहि ॥

ओषधयः प्रतिमोदध्वम् एनं पुष्पवतीः सुपिप्पलाः ।

अयं वो गर्भ ऋत्वियः प्रत्नं सधस्थम् आसदत् ॥

वि पाजसा पृथुना शोशुचानो बाधस्व रिपून् रक्षसो अमीवाः ।

सुशर्मणो बृहतः शर्मणि स्याम् अग्नेर् अहं सुहवस्य प्रणीतौ ॥

आपो हि ष्ठा मयोभुवस् ता न ऊर्जे दधातन ।

महे रणाय चक्षसे ॥

यो वः शिवतमो रसस् तस्य भाजयतेह नः ।

उशतीर् इव मातरः ॥

तस्मा अरं गमाम वो यस्य क्षयाय जिन्वथ ।

आपो जनयथा च नः ॥

मित्रः संसृज्या पृथिवीं भूमिं च ज्योतिषा स्वः ।

सुजातं जातवेदसम् अयक्ष्माय त्वा संसृजामि प्रजाभ्यः ॥

रुद्राः संसृज्या पृथिवीं बृहज् ज्योतिः समीधिरे ।

तेषां भानुर् अजस्रा इञ् शुक्रो देवेषु रोचते ॥

संसृष्टां वसुभी रुद्रैर् धीरैः कर्मण्यां मृदम् ।

हस्ताभ्यां मृद्वीं कृत्वा सिनीवाली कृणोतु ताम् ॥

सिनीवाली सुकपर्दा सुकरीरा स्वोपशा ।

सा तुभ्यम् अदिते मह्य् ओखां ददातु हस्तयोः ॥

उखां कृणोतु शक्त्या बाहुभ्याम् अदितिर् धिया ।

माता पुत्रं यथोपस्थे साग्निं बिभर्तु गर्भा आ

॥२.७.५॥

मखस्य शिरो ऽसि वसवस् त्वा कृण्वन्तु गायत्रेण् छन्दसाङ्गिरस्वद् उखे ध्रुवासि पृथिव्य् असि धारया मयि प्रजां रायश्पोषं गौपत्यं सुवीर्यं सजातान् अस्मै यजमानाय रुद्रास् त्वा कृण्वन्तु त्रैष्टुभेन छन्दसाङ्गिरस्वद् उखे ध्रुवास्य् अन्तरिक्षम् असि धारया मयि प्रजां रायस्पोषं गौपत्यं सुवीर्यं सजातान् अस्मै यजमानायादित्यास् त्वा कृण्वन्तु जागतेन छन्दसाग्ङ्गिरस्वद् उखे ध्रुवासि द्यौर् असि धारया मयि प्रजां रायस्पोषं गौपत्यं सुवीर्यं सजातान् अस्मै यजमानाय विश्वे त्वा देवा वैश्वानराः कृण्वन्त्व् आनुष्टुभेन छन्दसाङ्गिरस्वद् उखे ध्रुवासि दिशो ऽसि धारया मयि प्रजां रायस्पोषं गौपत्यं सुवीर्यं सजातान् अस्मै यजमानायादित्या रास्नास्य् अदितिष् टे बिलं गृभ्णातु ॥

कृत्वाय सा महीम् उखां मृन्मयीं योनिम् अग्नये ।

तां पुत्रेभ्यः प्रायछद् अदितिः श्रपयान् इति ॥

वसवस् त्वा धूपयन्त्व् अङ्गिरस्वद् रुद्रास् त्वा धूपयन्त्व् अङ्गिरस्वद् आदित्यास् त्वा धूपयन्त्व् अङ्गिरस्वद् इन्द्रस् त्वा धूपयत्व् अङ्गिरस्वद् वरुणस् त्वा धूपयत्व् अङ्गिरस्वद् विष्णुस् त्वा धूपयत्व् अङ्गिरस्वद् बृहस्पतिष् ट्वा धूपयत्व् अङ्गिरस्वद् अदितिष् ट्वा देवी विश्वदेव्यवती पृथिव्याः सधस्थे अङ्गिरस्वत् खनत्व् अवट देवानां त्वा पत्नीर् देवीर् विश्वदेव्यवतीः पृथिव्याः सधस्थे अङ्गिरस्वद् दधतूखे धिषणा त्वा देवी विश्वदेव्यवती पृथिव्याः सधस्थे अङ्गिरस्वद् अभीन्द्धाम् उखे ग्नास् त्वा देवीर् विश्वदेव्यवतीः पृथिव्याः सधस्थे अङ्गिरस्वञ् श्रपयन्तूखे वरुत्री त्वा देवी विश्वदेव्यवती पृथिव्याः सधस्थे अङ्गिरस्वत् पचताम् उखे जनयस् त्वाछिन्नपत्रा देवीर् विश्वदेव्यवतीः पृथिव्याः सधस्थे अङ्गिरस्वत् पचन्तूखे ॥

मित्रस्य चर्षणीधृतः श्रवो देवस्य सानसि ।

द्युम्नं चित्रश्रवस्तमम् ॥

देवस् त्वा सवितोद्वपतु सुपाणिः स्वङ्गुरिः ।

सुबाहुर् उत शक्त्या ॥

उत्तिष्ठ बृहती भवोर्ध्वा तिष्ठ ध्रुवा त्वम् ।

अव्यथमाना पृथिव्य् आशा दिशा आपृण ॥

मित्रैतां त उखां परिददाम्य् अभित्त्यय् एषा मा भेदि ॥

वसवस् त्वाछृन्दन्तु गायत्रेण छन्दसाङ्गिरस्वद् उखे रुद्रास् त्वाछृन्दन्तु त्रैष्टुभेन छन्दसाङ्गिरस्वद् उख आदित्यास् त्वाछृन्दन्तु जागतेन छन्दसाङ्गिरस्वद् उखे विश्वे त्वा देवा वैश्वानरा आछृन्दन्त्व् आनुष्टुभेन छन्दसाङ्गिरस्वद् उखे

॥२.७.६॥

आकूतम् अग्निं प्रयुजं स्वाहा मनो मेधाम् अग्निं प्रयुजं स्वाहा चित्तं विज्ञातम् अग्निं प्रयुजं स्वाहा वाचो विधृतम् अग्निं प्रयुजं स्वाहा प्रजापतये मनवे स्वाहाग्नये वैश्वानराय स्वाहा ॥

विश्वो देवस्य नेतुर् मर्तो वुरीत सख्यम् ।

विश्वो राय इषुध्यति द्युम्नं वृणीत पुष्यसे ॥ स्वाहा ॥

मा सु भित्था मा सु रिषो दृंहस्व वीरयस्व सु ।

अम्ब धृष्णु वीरयस्वाग्निश् चेदं करिष्यथः ॥

दृंहस्व देवि पृथिवि स्वस्तये आसुरी माया स्वधया कृतासि ।

जुष्टं देवेभ्य इदम् अस्तु हव्यम् अरिष्टा त्वम् उदिहि यज्ञे अस्मिन् ॥

द्र्वन्नः सर्पिरासुतिः प्रत्नो होता वरेण्यः ।

सहसस् पुत्रो अद्भुतः ॥

परस्या अधि संवतो ऽवरं अभ्यातर ।

यत्राहम् अस्मि तं अव ॥

परमस्याः परावतो रोहिदश्व इहागहि ।

पुरीष्यः पुरुप्रियो अग्ने त्वं तरा मृधः ॥

यद् अग्ने यानि कानि चा ते दारूणि दध्मसि ।

सर्वं तद् अस्तु ते घृतं तज् जुषस्व यविष्ठ्य ॥

यद् अत्त्य् उपजिह्विका यद् वम्रो अतिसर्पति ।

सर्वं तद् अस्तु ते घृतं तज् जुषस्व यविष्ठ्य ॥

रात्रींरात्रीम् अप्रयावं भरन्तो ऽश्वायेव तिष्ठते घासम् अस्मै ।

रायस्पोषेण सम् इषा मदन्तो ऽग्ने मा ते प्रतिवेशा रिषाम ॥

नाभा पृथिव्याः समिधानो अग्निं रायस्पोषाय बृहते हवामहे ।

इरम्मदं बृहदुक्थं यजत्रं जेतारम् अग्निं पृतनासु सासहिम् ॥

याः सेना अभीत्वरीर् आव्याधिनीर् उगणा उत ।

ये स्तेना ये च तस्करास् तांस् ते अग्ने अपिदधाम्य् आस्ये ॥

ये जनेषु मलिम्लवः स्तेनासस् तस्करा वने ।

ये कक्षेष्व् अघायवस् तांस् ते दधामि जम्भयोः ॥

दंष्ट्राभ्यां मलिम्लून् अग्ने जम्भाभ्यां तस्करं उत ।

हनुभ्यां स्तेनान् भगवस् तांस् त्वं खाद मुखादितम् ॥

यो अस्मभ्यम् अरातीयाद् यश् च नो द्वेषते जनः ।

निन्दाद् यो अस्मान् दिप्साच् च सर्वांस् तान् मृस्मृसा कुरु ॥

उद् एषां बाहून् अतिरम् उद् वर्चो अथो बलम् ।

क्षिणोमि ब्रह्मणामित्रान् उन्नयामि स्वं अहम् ॥

संशितं मे ब्रह्म संशितं वीर्यं बलम् ।

संशितं क्षत्रं मे जिष्णु यस्याहम् अस्मि पुरोहितः ॥

ब्रह्म क्षत्रं सयुजा न व्यथेते ब्रह्माह क्षत्रं जिन्वति क्षत्रियस्य ।

क्षत्रं ब्रह्म जिन्वति ब्राह्मणस्य यत् समीची कृणुतो वीर्याणि

॥२.७.७॥

दृशानो रुक्म उरुया विभाति दुर्मर्षम् आयुः श्रिये रुचानः ।

अग्निर् अजरो ऽभवत् सहोभिर् यद् एनं द्यौर् अजनयत् सुरेताः ॥

नक्तोषासा समनसा विरूपे धापयेते शिशुम् एकं समीची ।

द्यावाक्षामा रुक्मो अन्तर् विभाति देवा अग्निं धारयन् द्रविणोदाः ॥

विश्वा रूपाणि प्रतिमुञ्चते कविः प्रासावीद् भद्रं द्विपदे चतुष्पदे ।

वि नाकम् अक्शत् सविता वरेण्यो ऽनु प्रयाणम् उषसो विराजति ॥

सुपर्णो ऽसि गरुत्मांस् त्रिवृत् ते शिरो गायत्रं चक्षुर् बृहद्रथन्तरे पक्षौ स्तोम आत्मा छन्दांस्य् अङ्गानि यजूंषि नाम साम ते तनूर् वामदेव्यं यज्ञायज्ञियं पुच्छं धिष्ण्याः शफाः ॥

सुपर्णो ऽसि गरुत्मान् दिवं गछ स्वः पत ॥

विष्णोः क्रमो ऽसि सपत्नहा गायत्रं छन्दा आरोह पृथिवीम् अनुविक्रमस्व विष्णोः क्रमो ऽस्य् अभिमातिहा त्रैष्टुभं छन्दा आरोहान्तरिक्षम् अनुविक्रमस्व विष्णोः क्रमो ऽस्य् अरातीयतो हन्ता जागतं छन्दा आरोह दिवम् अनुविक्रमस्व विष्णोः क्रमो ऽसि शत्रूयत्ऽ हन्तानुष्टुभं छन्दा आरोह दिशो ऽनुविक्रमस्व ॥

अक्रन्दद् अग्निः स्तनयन्न् इव द्यौः क्षमा रेरिहद् वीरुधः समञ्जन् ।

सद्यो जज्ञानो वि हीम् इद्धो अक्शद् आ रोदसी भानुना भात्य् अन्तः ॥

अग्ने ऽभ्यावर्तिन्न् अग्ने अङ्गिरः पुनर् ऊर्जा सह रय्या ॥

आ त्वाहार्षम् अन्तर् अभूर् ध्रुवस् तिष्ठाविचाचलत् ।

विशस् त्वा सर्वा वान्छन्त्व् अस्मे राष्ट्राणि धारय ॥

उद् उत्तमं वरुण पाशम् अस्मत् ॥

अग्रे बृहन्न् उषसाम् ऊर्ध्वो अस्थान् निर्जगन्वान् तमसो ज्योतिषागात् ।

अग्निर् भानुना रुशता स्वङ्गा आ जातो विश्वा सद्मान्य् अप्राः ॥

हंसः शुचिषत् ॥

सीद त्वं मातुर् अस्या उपस्थे विश्वान्य् अग्ने वयुनानि विद्वान् ।

मैनाम् अर्चिषा मा तपसाभिशोचीर् अन्तर् अस्यां शुक्रज्योतिर् विभाहि ॥

अन्तर् अग्ने रुचा त्वम् उखायां सदने स्वे ।

तस्यै त्वं हरसा तपन् जातवेदः शिवो भव ॥

शिवो भूत्वा मह्यम् अग्ने अथा सीद शिवस् त्वम् ।

शिवाः कृत्वा दिशः सर्वाः स्वं योनिम् इहासदः

॥२.७.८॥

दिवस् परि प्रथमं जज्ञे अग्निर् अस्मद् द्वितीयं परि जातवेदाः ।

तृतीयम् अप्सु नृमणा अजस्रम् इन्धान एनं जनते स्वाधीः ॥

विद्मा ते अग्ने त्रेधा त्रयाणि विद्मा ते सद्म विभृतं पुरुत्रा ।

विद्मा ते नाम परमं गुहा यद् विद्मा तम् उत्सं यत आबभूथ ॥

समुद्रे त्वा नृमणा अप्स्व् अन्तर् नृचक्षा ईधे दिवो अग्ना ऊधन् ।

तृतीये त्वा रजसि तस्थितांसम् ऋतस्य योनौ महिषा अगृभ्णन् ॥

श्रीणाम् उदारो धरुणो रयीणां मनीषाणां प्रार्पणः सोमगोपाः ।

वसुः सूनुः सहसो अप्सु राजा विभात्य् अग्र उषसाम् इधानः ॥

उशिक् पावको अरतिः सुमेधा मर्त्येष्व् अग्निर् अमृतो निधायि ।

इयर्ति धूमम् अरुषो भरिभ्रद् उञ् शुक्रेण शोचिषा द्याम् इनक्षन् ॥

अक्रन्दद् अग्निः ॥

विश्वस्य जज्ञे भुवनस्य राजा रोदसी अपृणाज् जायमानः ।

वीडुं चिद् अद्रिम् अभिनत् परायन् जना यद् अग्निम् अयजन्त पञ्च ॥

नक्तोषासा ॥

यस् ते अद्य कृणवद् भद्रशोचे ऽपूपं देव घृतवन्तम् अग्ने ।

प्र तं नय प्रतरं वस्यो अछाभि द्युम्नं देवहितं यविष्ठ्य ॥

आ तं भज सौश्रवसेष्व् अग्न उक्थौक्था आभज शस्यमाने ।

प्रियः सूर्ये प्रियो अग्ना भवात्य् उज् जातेन भिनदद् उज् जनित्वैः ॥

त्वाम् अग्ने यजमाना अनु द्यून् दूतं कृण्वाना अयजन्त हव्यैः ।

त्वया सह द्रविणम् इछमाना व्रजं गोमन्तम् उशिजो विवव्रुः ॥

अस्ताव्य् अग्निर् नृणां सुशेवो वैश्वानर ऋषिभिः सोमगोपाः ।

अद्वेष्ये द्यावापृथिवी हुवे देवा धत्त रयिम् अस्मे सुवीरम्

॥२.७.९॥

उद् उ त्वा विश्वे देवा अग्ने भरन्तु चित्तिभिः ।

स नो भव शिवस् त्वं सुप्रतीको विभावसुः ॥

प्रेद् अग्ने ज्योतिष्मान् याहि शिवेभिर् अर्चिभिष् ट्वम् ।

बृहद्भिर् भानुभिर् भासन् मा हिंसीस् तन्वा प्रजाः ॥

अक्रन्दद् अग्निः ॥

समिधाग्निं दुवस्यत घृतैर् बोधयतातिथिम् ।

आस्मिन् हव्या जुहोतन ॥

प्रप्रायम् अग्निर् भरतस्य शृण्वे वि यत् सूर्यो न रोचते बृहद् भाः ।

अभि यः पूरुं पृतनासु तस्थौ दीदाय दैव्यो अतिथिः शिवो नः ॥

आपो देवीः प्रतिगृभ्णीत भस्मैतत् स्योने कृणुध्वं सुरभा उलोके ।

तस्मै नमन्तां जनयः सनीडा मातेव पुत्रं बिभृता स्व् एनत् ॥

अप्स्व् अग्ने सधिष् टव सौषधीर् अनुरुध्यसे ।

गर्भः सञ्जायसे पुनः ॥

गर्भो ऽस्य् ओषधीनां गर्भो वनस्पतीनाम् ।

गर्भो विश्वस्य भूतस्याग्ने गर्भो अपाम् असि ॥

प्रसद्य भस्मना योनिम् अपश् च पृथिवीम् अग्ने ।

सङ्गत्य मातृभिष् ट्वं ज्योतिष्मान् पुनर् आसदः ॥

पुनर् आसद्य सदनम् अपश् च पृथिवीम् अग्ने ।

शेषे मातुर् यथोपस्थे अन्तर् अस्यां शिवतमः ॥

पुनर् ऊर्जा सह रय्या ॥

बोधा मे अस्य वचसो यविष्ठ मंहिष्ठस्य प्रभृतस्य स्वधावः ।

निन्दति त्वो अनु त्वो ववन्द वन्दारुं ते तन्वं वन्दे अग्ने ॥

स बोधि सूरिर् मघवा वसुदावा वसुपतिः ।

युयोध्य् अस्मद् द्वेषांसि यानि कानि च चकृम

॥२.७.१०॥

अपेत वीत वि च सर्पतातो ये ऽत्र स्थं पुराणा ये च नूतनाः ।

अदाद् इदं यमो ऽवसानं पृथिव्या अक्रन्न् इमं पितरो लोकम् अस्मै ॥

अग्नेर् भस्मास्य् अग्नेः पुरीषम् असि सञ्ज्ञानम् असि कामधरणं मयि ते कामधरणं भूयात् ॥

अयं सो अग्निर् यस्मिन्त् सोमम् इन्द्रः सुतं दधे जठरे वावशानः ।

सहस्रियं वाजम् अत्यं न सप्तिं ससवान्त् संस्तूयसे जातवेदः ॥

अग्ने दिवो अर्णम् अछा जिगास्य् अछा देवं ऊचिषे धिष्ण्या ये ।

याः परस्ताद् रोचनाः सूर्यस्य याश् चावस्ताद् उपतिष्ठन्ता आपः ॥

अग्ने यत् ते दिवि वर्चः पृथिव्यां यत् पर्वतेष्व् ओषधीष्व् अप्सु ।

येनान्तरिक्षम् उर्व् आततन्थ त्वेषः स भानुर् अर्णवो नृचक्षः ॥

पुरीष्यासो अग्नयः प्रवणेन सजोषसः ।

जुषन्तां हव्यम् आहुतम् अनमीवा इषो महीः ॥

इडाम् अग्ने पुरुडंसं सनिं गोः शश्वत्तमं हवमानाय साध ।

स्यान् नः सूनुस् तनयो विजावाग्ने सा ते सुमतिर् भूत्व् अस्मे ॥

अयं ते ॥

चिद् असि तया देवतयाङ्गिरस्वद् ध्रुवा सीद परिचिद् असि तया देवतयाङ्गिरस्वद् ध्रुवा सीद चितः स्थ परिचितः स्थोर्ध्वश्रितः श्रयध्वम् ॥

समितं सङ्कल्पेथां सम्प्रियौ रोचिष्णू सुमनस्यमानौ ।

इषम् ऊर्जम् अभि संवसानौ ॥

सं वां मनांसि सं व्रता सम् उ चित्तान्य् आकरम् ।

अग्ने पुरीष्याधिपा भव त्वं ना इषम् ऊर्जं यजमानाय धेहि ॥

त्वम् अग्ने पुरीष्यो रयिमान् पुष्टिमं असि ।

शिवाः कृत्वा दिशः सर्वाः स्वं योनिम् इहासदः ॥

भवतं नः ॥

मातेव पुत्रं पृथिवी पुरीष्यम् अग्निं स्वे योना अभार् उखा ।

तां विश्वैर् देवैर् ऋतुभिः संविदानः प्रजापतिर् विश्वकर्मा विमुञ्चतु

॥२.७.११॥

असुन्वन्तम् अयजमानम् इछ स्तेनस्येत्याम् अन्विहि तस्करस्य ।

अन्यम् अस्मद् इछ सा त इत्या नमो देवि निरृते तुभ्यम् अस्तु ॥

नमः सु ते निरृते तिग्मतेजो ऽयस्मयं विचृता बन्धम् एतम् ।

यमेन त्वं यम्या संविदानोत्तमे नाके अधि रोहयैनम् ॥

यद् अद्य ते ॥

यं ते देवी निरृतिर् आबबन्ध पाशं ग्रीवास्व् अविचर्त्यम् ।

तं ते विष्याम्य् आयुषो नु मध्ये ऽथा जीवः पितुम् अद्धि प्रमुक्तः ॥

यद् अस्य पारे रजसो महश् चित्रं ज्योतिर् अजायत ।

तन् नः पर्षद् अति द्विषो ऽग्ने वैश्वानर ॥ स्वाहा भूत्यै नमः ॥

निवेशनः सङ्गमनो वसूनां विश्वा रूपाण्य् अभिचष्टे शचीभिः ।

देव इव सविता सत्यधर्मेन्द्रो न तस्थौ समरे पथीनाम् ॥

येन देवा ज्योतिषोर्ध्वा उदायन् येनादित्या वसवो येन रुद्राः ।

येनाङ्गिरसो महिमानम् आनशुस् तेन यन्तु यजमानाः स्वस्ति ॥

पूषा युनक्तु सविता युनक्तु बृहस्पतिर् वो युनक्तु ।

अग्नेस् तेजसा सूर्यस्य वर्चसा ॥

सीरा युञ्जन्ति कवयो युगा वि तन्वते पृथक् ।

धीरा देवेषु सुम्नया ॥

युनक्त सीरा वि युगा तनोत कृते योनौ वपतेह बीजम् ।

गिरा च श्रुष्टिः सभरा असन् नो नेदीया इत् सृण्यः पक्वम् आयत् ॥

लाङ्गलं पवीरवं सुशेवं सोमपित्सरु ।

उद् इद् वपतु गाम् अविं प्रस्थावद् रथवाहनं प्रफर्व्यं च पीवरीम् ॥

शुनं सुफाला वितुदन्तु भूमिं शुनं कीनाशो अभ्येतु वाहैः ।

शुनासीरा हविषा तोशमाना सुपिप्पला ओषधीः कर्तनास्मे ॥

शुनासीरा : फ़्न् एमेन्देद्। एद्।: शनासीरा

शुनं नरो लाङ्गलेनानडुद्भिर् भगः फालैः सीरपतिर् मरुद्भिः ।

पर्जन्यो बिजम् ईरयानो धिनोतु शुनासीरा कृणुतं धान्यं नः ॥

शुनासीरा प्रकृषतं कृणुतं धान्यं बहु ।

भूमिर् इयम् ऋत्वियवती तां फाला उपजिघ्नतु ॥

घृतेन सीता मधुना समज्यतां विश्वैर् देवैर् अनुमता मरुद्भिः ।

ऊर्जो भागं मधुमत् पिन्वमानास्मान्त् सीते पयसाभ्याववृत्स्व ॥

उद् योजनम् अन्तर्यामम् ईषां खृगल्यं शवम् ।

अष्ट्रां ताडं प्रतीनाहा उभे मण्डूक्यौ युजे ॥

उदस्थाद् गोजिद् अश्वजिद् धिरण्यजित् सूनृतया परीवृतः ।

एकचक्रेण सविता रथेनोर्जो भागं पृथिव्या यात्य् आपृणन् ॥

इमाम् इन्द्र हस्तच्युतिं सच्युतिं जघनच्युतिम् ।

ससूतिम् इन्द्र सग्धितिम् ऊर्जं सपीतिम् उत्कृषे ॥

उष्टारयोः पील्वयोर् अथो आबन्धनीययोः ।

सर्वेषां विद्म वो नाम वाहाः कीलालपेशसः ॥

विमुच्यध्वम् अघ्न्या देवयाना अतारिष्ट तमसस् पारम् अस्य ।

ज्योतिर् आपाम

॥२.७.१२॥

या ओषधयः प्रथमजा देवेभ्यस् त्रियुगं पुरा ।

मन्वे नु बभ्रूणाम् अहं शतं धामानि सप्त च ॥

शतं वो अम्ब धामानि सहस्रम् उत वो रुहः ।

अथा शतक्रतो यूयम् इमं मे अगदं कृत ॥

पुष्पवतीः प्रसूवरीः फलिनीर् अफला उत ।

अश्वा इव सजित्वरीर् वीरुधः पारयिष्णवः ॥

ओषधीर् इति मातरस् तद् वो देवीर् उपब्रुवे ।

रपांसि विघ्नतीर् इत रपश् चातयमानाः ॥

अश्वत्थे वो निवेशनं पर्णे वो वसतिः कृता ।

गोभाजा इत् किलासथ यत् सनवाथ पूरुषम् ॥

यद् ओषधयः सङ्गछन्ते राजानः समिता इव ।

विप्रः स उच्यते कवी रक्षोहामीवचातनः ॥

निष्कृतिर् नाम वो माताथा त्वम् असि सङ्कृतिः ।

सराः पतत्रिणीः स्थन यद् आमयति निष्कृत ॥

अश्वावतीं सोमवतीम् ऊर्जयन्तीम् उदोजसम् ।

आयुक्षि सर्वा ओषधीर् अस्मा अरिष्टतातये ॥

यद् इमा वाजयन्न् अहम् ओषधीर् हस्त आदधे ।

आत्मा यक्ष्मस्य नश्यति पुरा जीवगृभो यथा ॥

उञ् शुष्मा ओषधीनां गावो गोष्ठाद् इवेरते ।

धनं सनिष्यन्तीनाम् आत्मानं तव पूरुष ॥

अति विश्वाः परिष्ठाः स्तेन इव व्रजम् अक्रमुः ॥

ओषधयः प्राचुच्यवुर् यत् किञ्च तन्वो रपः ॥

यास् त आविविशुर् आत्मानं या आतस्थुः परुःपरुः ।

तास् ते यक्ष्मं विबाधन्ताम् उग्रो मध्यमशीर् इव ॥

साकं यक्ष्म प्रपत चाषेण किकिदीव्या ।

साकं वातस्य ध्राज्या साकं नश्य निहाकया ॥

अन्या वो अन्याम् अवत्व् अन्यान्यस्या उपावत ।

ताः सर्वाः संविदाना ओषधयः प्रावत वाचं मे ॥

याः फलिनीर् या अफला अकोशा याश् च कोशिनीः ।

बृहस्पतिप्रसूतास् ता नो मुञ्चन्त्व् अंहसः ॥

अवपतन्तीर् अवदन् दिव ओषधयस् परि ।

यं जीवम् अश्नवामहे न स रिष्याति पूरुषः ॥

दिवं ब्रूमो नक्षत्राणि भूमिं यक्षाणि पर्वतान् ।

समुद्रान् नद्यो वेशन्तांस् ते नो मुञ्चन्त्व् अंहसः ॥

ब्रूमो राजानं वरुणं धातारम् उत पूषणम् ।

त्वष्टारम् अग्रीयं ब्रूमस् ते नो मुञ्चन्त्व् अंहसः

॥२.७.१३॥

मा नो हिंसीज् जनिता यः पृथिव्या यो दिवं सत्यधर्मा व्यानट् ।

यश् चापश् चन्द्राः प्रथमो जजान कस्मै देवाय हविषा विधेम ॥

अभ्यावर्तस्व पृथिवि यज्ञेन पयसा सह ।

वपां ते अग्निर् इषितो अरोहत् ॥

अग्ने यञ् शुक्रं यच् चन्द्रं यत् पूतं यच् च यज्ञियम् ।

तद् देवेभ्यो भरामसि ॥

इषम् ऊर्जम् अहम् इत आदि घृतस्य धारां महिषस्य योनिम् ।

आ नो गोषु विशत्व् ओषधीषु जहामि सेदिम् अनिराम् अमीवाम् ॥

कामं कामदुघे धुक्ष्व प्रजाभ्या ओषधीभ्यः ।

इन्द्रायाग्नये पूष्णे मित्राय वरुणाय च ॥

अग्ने तव श्रवो वयो महि भ्राजन्त्य् अर्चयो विभावसो ।

बृहद्भानो शवसा वाजम् उक्थ्यं दधासि दाशुषे कवे ॥

पावकवर्चाः शुक्रवर्चा अनूनवर्चा उदियर्षि भानुना ।

पुत्रो मातरा विचरन्न् उपावस्य् ओभे पृणासि रोदसी ॥

इरज्यन्न् अग्ने प्रथयस्व जन्तुभिर् अस्मे रायो अमर्त्य ।

स दर्शतस्य वपुषो विराजसि पृणक्षि सानसिं रयिम् ॥

ऊर्जो नपाज् जातवेदः सुशस्तिभिर् मन्दस्व धीतिभिर् हितः ।

त्व एषः सन्दधुर् भूरिवर्पसश् चित्रोतयो वामजाताः ॥

ऋतावानं महिषं विश्वदर्शतम् अग्निं सुम्नाय दधिरे पुरो जनाः ।

श्रुत्कर्णं सप्रथस्तमं त्वा गिरा दैवं मानुषा युजा ॥

इष्कर्तारम् अध्वरस्य प्रचेतसं क्षयन्तं राधसो महः ।

रातिं वामस्य सुभगां महीम् इषं दधासि सानसिं क्रतुम् ॥

आप्यायस्व समेतु ते विश्वतः सोम वृष्ण्यम् ।

भवा वाजस्य सङ्गथे ॥

सं ते पयांसि सम् उ यन्तु वाजाः सं वृष्ण्यान्य् अभिमातिषाहः ।

आप्यायमानो आमृताय सोम दिवि श्रवांस्य् उत्तमानि धिष्व

॥२.७.१४॥

ब्रह्म जज्ञानं प्रथमं पुरस्ताद् वि सीमतः सुरुचो वेन आवः ।

स बुध्न्या उपमा अस्य विष्ठाः सतश् च योनिम् असतश् च विवः ॥

हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिर् एक आसीत् ।

स दाधार पृथिवीं द्याम् उतेमां कस्मै देवाय हविषा विधेम ॥

अद्भ्यः सम्भृतः पृथिव्या रसाच् च विश्वकर्मणः समवर्तताधि ।

तस्य त्वष्टा विदधद् रूपम् एति तत् पुरुषस्य देवम् आजानम् अग्रे ॥

द्रप्सश् चस्कन्द ॥

नमो अस्तु सर्पेभ्यो ये केच पृथिवीम् अनु ।

ये अन्तरिक्षे ये दिवि तेभ्यः सर्पेभ्यो नमः ॥

य इषवो यातुधानानां ये वनस्पतीनाम् ।

ये ऽवटेषु शेरते तेभ्यः सर्पेभ्यो नमः ॥

ये अमी रोचने दिवो ये वा सूर्यस्य रश्मिषु ।

ये अप्सु षदांसि चक्रिरे तेभ्यः सर्पेभ्यो नमः ॥

कृणुष्व पाजः प्रसितिं न पृथ्वीं याहि राजेवामवं इभेन ।

तृष्वीम् अनु प्रसितिं द्रूणानो ऽस्तासि विध्य रक्षसस् तपिष्ठैः ॥

तव भ्रमास आशुया पतन्त्य् अनुस्पृश धृषता शोशुचानः ।

तपोभिर् अग्ने जुह्वा पतङ्गान् असन्दितो विसृज विष्वग् उल्काः ॥

प्रति स्पशो विसृजा तूर्णितमो भवा पायुर् विशो अस्या अदब्धः ।

यो नो दूरे अघशंसो यो अन्त्य् अग्ने माकिष् टे व्यथिर् आदधर्षीत् ॥

उद् अग्ने तिष्ठ प्रत्य् आ तनुष्व न्य् अमित्रं ओषतात् तिग्महेते ।

यो नो अरातिं समिधान चक्रे नीचा तं धक्ष्य् अतसं न शुष्कम् ॥

ऊर्ध्वो भव प्रतिविध्याध्य् अस्मद् आविः कृणुष्व दैव्यान्य् अग्ने ।

अव स्थिरा तनुहि यातुजूनां जामिम् अजामिं प्रमृणीहि शत्रून् ॥

अयम् अग्निः सहस्रिणो वाजस्य शतिनस् पतिः ।

मूर्धा कवी रयीणाम् ॥

अग्नेष् ट्वा तेजसा सादयामि तया देवतयाङ्गिरस्वद् ध्रुवा सीद ॥

भुवो यज्ञस्य रजसश् च नेता यत्रा नियुद्भिः सचसे शिवाभिः ।

दिवि मूर्धानं दधिषे स्वर्षां जिह्वाम् अग्ने चकृषे हव्यवाहम् ॥

इन्द्रस्य त्वौजसा सादयामि तया देवतयाङ्गिरस्वद् ध्रुवा सीद ध्रुवासि धरुणास्तृता विश्वकर्मणा सुधृता मा त्वा समुद्र उद् वधीन् मा सुपर्णो ऽव्यथमाना पृथिवीं दृम्ह तेजो ऽसि तेजो मे यछ पृथिवीं यछ पृथिवीं दृम्ह पृथिवीं मा हिंसीः पृथिव्या मा पाहि ज्योतिर् असि ज्योतिर् मे यछान्तरिक्षं यछान्तरिक्षं दृंहान्तरिक्षं मा हिंसीर् अन्तरिक्षान् मा पाहि स्वर् असि स्वर् मे यछ दिवं यछ दिवं दृम्ह दिवं मा हिंसीर् दिवो मा पाहि ॥

यास् ते अग्न आर्द्रा योनयो याः कुलायिनीर् ये ते अग्ना इन्दवो या उ नाभयः ।

ताभिष् ट्वम् उभयीभिः संविदानः प्रजानंस् तन्वेह निषीद ॥

काण्डात्काण्डात् प्ररोहन्ती परुषःपरुषस् परि ।

एवा नो दूर्वे प्रतनु सहस्रेण शतेन च ॥

या शतेन प्रतनोषि सहस्रेण विरोहसि ।

तस्यै ते देवीष्टके विधेम हविषा वयम्

॥२.७.१५॥

यास् ते अग्ने सूर्ये रुचो दिवम् आतन्वन्ति रश्मिभिः ।

ताभिर् नो अद्य सर्वाभी रुचे जनाय नस् कृधि ॥

या वो देवाः सूर्ये रुचो गोष्व् अश्वेषु या रुचः ।

इन्द्राग्नी ताभिः सर्वाभी रुचं नो धेहि बृहस्पते ॥

विराड् ज्योतिर् अधारयत् स्वराड् ज्योतिर् अधारयत् सम्राड् ज्योतिर् अधारयद् भूर् असि भुवनस्य रेता इष्टका स्वर्गो लोको मनसा त्वान्वारोहाम्य् अग्निर् ज्योतिर् ज्योतिर् अग्निस् तया देवतयाङ्गिरस्वद् ध्रुवा सीद सूर् असि सुवनस्य रेता इष्टका स्वर्गो लोको वाचा त्वान्वारोहामि सूर्यो ज्योतिर् ज्योतिः सूर्यस् तया देवतयाङ्गिरस्वद् ध्रुवा सीद बृहस्पतिष् ट्वा सादयतु पृथिव्याः पृष्ठे ज्योतिष्मतीं विश्वस्मै प्राणायापानाय व्यानायोदानाय प्रतिष्ठायै चरित्राय विश्वं ज्योतिर् यछाग्निष् टे ऽधिपतिस् तया देवतयाङ्गिरस्वद् ध्रुवा सीद विश्वकर्मा त्वा सादयत्व् अन्तरिक्षस्य पृष्ठे ज्योतिष्मतीं विश्वस्मै प्राणायापानाय व्यानायोदानाय प्रतिष्ठायै चरित्राय विश्वं ज्योतिर् यछ वायुष् टे ऽधिपतिस् तया देवतयाङ्गिरस्वद् ध्रुवा सीद परमेष्ठी त्वा सादयतु दिवः पृष्ठे ज्योतिष्मतीं विश्वस्मै प्राणायापानाय व्यानायोदानाय प्रतिष्ठायै चरित्राय विश्वं ज्योतिर् यछ सूर्यस् ते ऽधिपतिस् तया देवतयाङ्गिरस्वद् ध्रुवा सीद ॥

अषाढासि सहमाना सहस्वारातिं सहस्व पृतनायतः ।

सहस्रवीर्यासि सा मा जिन्व ॥

मधु वाता ऋतायते मधु क्षरन्ति सिन्धवः ।

माध्वीर् नः सन्त्व् ओषधीः ॥

मधु नक्तम् उतोषसो मधुमत् पार्थिवं रजः ।

मधु द्यौर् अस्तु नः पिता ॥

मधुमान् नो वनस्पतिर् मधुमं अस्तु सूर्यः ।

माध्वीर् गावो भवन्तु नः ॥

अपां त्वा गह्मन्त् सादयामि समुद्रस्योद्मन्न् अवतश् छायायां नमः समुद्राय नमः समुद्रस्य चक्षसे ऽनु त्वा दिव्या वृष्टिः सचतां मा त्वा सूर्यो ऽभिताप्सीन् माग्निर् वैश्वानरो ऽछिन्नपत्रः प्रजा अनुवीक्षस्व ॥

त्रीन्त् समुद्रान्त् समसृपत् स्वर्गो ऽपां पतिर् वृषभ इष्टकानाम् ।

तत्र गछ यत्र पूर्वे परेताः पुरीषं वसानः सुकृतस्य लोकम् ॥

मही द्यौः पृथिवी च न इमं यज्ञं मिमिक्षताम् ।

पिपृतां नो भरीमभिः ॥

इदं विष्णुः ॥

अध स्मा ते वनस्पते वातो विवात्य् अग्रम् इत् ।

उतो न्व् इन्द्राय पातवे सुनु सोमम् उलूखल ॥

नक्तोषासा ॥

स्यूता देवेभिर् अमृतेनागाद् उखा स्वसारम् अधि वेदिम् अस्थात् ।

सत्यं पूर्वैर् ऋषिभिः संविदानो अग्निः प्रविद्वं इह तत् कृणोतु ।

पृथिवि पृथिव्यां सीद मातुर् मातरि माता ।

स्योनासि सुषदा स्योनाम् आसीद सुषदाम् आसीद ॥

निषसाद धृतव्रतो वरुणः पस्त्यास्व् आ ।

साम्राज्याय सुक्रतुः ॥

क्रतुं देवानां महिमानम् ईमहे अग्निं सधस्थे सदनेष्व् अद्भुतम् ।

वैश्वानरं ब्रह्मणा विश्वव्यचसं स्तोमस्य धामन् निदधे पुरीष्यम् ॥

न्यधुर् मात्रायां कवयो वयोधसो अग्निं सधस्थे सदनेष्व् अच्युतम् ।

वैश्वानरं ब्रह्मणा विश्वव्यचसं स्तोमस्य धामन् निहितं पुरीष्यम् ॥

समिध्यमानं समिधा समिन्धते अग्निं सधस्थे सदनेषु सुक्रतुम् ।

वैश्वानरं ब्रह्मणा विश्वव्यचसं स्तोमस्य धामन् पवमानम् आभृतम्

॥२.७.१६॥

अग्ने युक्ष्वा हि ये तवाश्वासो देव साधवः ।

अरं वहन्त्य् आशवः ॥

युक्ष्वा हि देवहूतमं अश्वं अग्ने रथीर् इव ।

नि होता पूर्व्यः सदः ॥

सम् इत् स्रवन्ति सरितो न धेना अन्तर् हृदा मनसा पूयमानाः ।

घृतस्य धारा अभिचाकशीमि हिरण्ययो वेतसो मध्ये अग्नेः ॥

ऋचे त्वा रुचे त्वा भासे त्वा ज्योतिषे त्वाभूद् इदं विश्वस्य भुवनस्य वाजिनम् अग्नेर् वैश्वानरस्य चाग्निस् तेजसा तेजस्वान् रुक्मो वर्चसा वर्चस्वान् सहस्रदा असि सहस्राय त्वा ॥

आदित्यं गर्भं पयसा समङ्ग्धि सहस्रस्य प्रतिमां विश्वरूपम् ।

परिवृङ्ग्धि हरसा माभिशोचीः शतायुषं कृणुहि चीयमानः ॥

वातस्य जूतिं वरुणस्य नाभिम् अश्वं जज्ञानं सलिलस्य मध्ये ।

शिशुं नदीनां हरिम् अद्रिबुध्नम् अग्ने मा हिंसीः परमे व्योमन् ॥

अजस्रम् इन्दुम् अरुषं भुरण्युम् अग्निम् ईडे पूर्वचित्तिं नमोभिः ।

स पर्वभिर् ऋतुशः कल्पमानो गां मा हिंसीर् अदितिं विराजम् ॥

त्वष्टुर् वरुत्रीं वरुणस्य नाभिम् अविं जज्ञानां रजसः परस्मात् ।

महीं साहस्रीम् असुरस्य मायाम् अग्ने मा हिंसीः परमे व्योमन् ॥

यो अग्निर् अग्नेस् तपसो ऽधि जातः शोकात् पृथिव्या उत वा दिवस् परि ।

य इमाः प्रजा विश्वकर्मा जजान तम् अग्ने हेडः परि ते वृणक्तु ॥

इमं मा हिंसीर् द्विपादं पशुं सहस्राक्षो मेधाय चीयमानो मयुम् आरण्यम् अनु ते दिशामि तेन चिन्वानस् तन्वं निषीद मयुं ते शुग् ऋछतु यं द्विष्मस् तं ते शुग् ऋछत्व् इमं मा हिंसीर् एकशफं पशुं कनिक्रदं वाजिनं वाजिनेषु गौरम् आरण्यम् अनु ते दिशामि तेन चिन्वानस् तन्वं निषीद गौरं ते शुग् ऋछतु यं द्विष्मस् तं ते शुग् ऋछत्व् इमं साहस्रं शतधारम् उत्सं व्यच्यमानं सलिलस्य मधे घृतं दुहानाम् अदितिं जनायाग्ने मा हिंसीः परमे व्योमन् ॥

गवयम् आरण्यम् अनु ते दिशामि तेन चिन्वानस् तन्वं निषीद गवयं ते शुग् ऋछतु यं द्विष्मस् तं ते शुग् ऋछत्व् इमम् ऊर्णायुं वरुणस्य नाभिं त्वचं पशूनां द्विपदां चतुष्पदां त्वष्टुर् देवानां प्रथमं जनित्रम् अग्ने मा हिंसीः परमे व्योमन् ॥

मेषम् आरण्यम् अनु ते दिशामि तेन चिन्वानस् तन्वं निषीद मेषं ते शुग् ऋछतु यं द्विष्मस् तं ते शुग् ऋछत्व् अजो ह्य् अग्नेर् अजनिष्ट शोकात् सो अपश्यज् जनितारम् अग्रे तेन देवा देवताम् अग्रम् आयंस् तेन रोहम् आयन्न् उप मेध्यासः शरभम् आरण्यम् अनु ते दिशामि तेन चिन्वानस् तन्वं निषीद शरभं ते शुग् ऋछतु यं द्विष्मस् तं ते शुग् ऋछतु

॥२.७.१७॥

अपां त्वेमन्त् सादयाम्य् अपां त्वोद्मन्त् सादयाम्य् अपां त्वायने सादयाम्य् अपां त्वा ज्योतिषि सादयाम्य् अपां त्वा भस्मनि सादयामि समुद्रे त्वा सदने सादयाम्य् अर्णवे त्वा सदने सादयामि सलिले त्वा सदने सादयाम्य् अपां त्वा क्षये सादयाम्य् अपां त्वा सध्रिषु सादयाम्य् अपां त्वा सदने सादयाम्य् अपां त्वा सधस्थे सादयाम्य् अपां त्वा योनौ सादयाम्य् अपां त्वा पुरीषे सादयाम्य् अपां त्वा पाथसि सादयामि गायत्रेण त्वा छन्दसा सादयामि त्रैष्टुभेन त्वा छन्दसा सादयामि जागतेन त्वा छन्दसा सादयाम्य् आनुष्टुभेन त्वा छन्दसा सादयामि पाङ्क्तेन त्वा छन्दसा सादयामि

॥२.७.१८॥

अयं पुरो भूस् तस्य प्राणो भौवायनो वसन्तः प्राणायनो गायत्री वासन्ती गायत्र्या गायत्रं गायत्राद् उपांशुर् उपांशोस् त्रिवृत् त्रिवृतो रथन्तरं वसिष्ठा ऋषिः प्रजापतिगृहीतया त्वया प्राणं गृह्णामि प्रजाभ्यो ऽयं दक्षिणा विश्वकर्मा तस्य मनो वैश्वकर्मणं ग्रीष्मो मानसस् त्रिष्टुब् ग्रैष्मी त्रिष्टुभः स्वारं स्वाराद् अन्तर्यामो ऽन्तर्यामात् पञ्चदशः पञ्चदशाद् बृहद् भरद्वाजा ऋषिः प्रजापतिगृहीतया त्वया मनो गृह्णामि प्रजाभ्यो ऽयं पश्चा विश्वव्यचास् तस्य चक्षुर् वैश्वव्यचसं वर्षाणि चाक्षुषाणि जगती वार्षी जगत्या ऋक्समम् ऋक्समाञ् शुक्रः शुक्रात् सप्तदशः सप्तदशाद् वैरूपं जमदग्निर् ऋषिः प्रजापतिगृहीतया त्वया चक्षुर् गृह्णामि प्रजाभ्य इदम् उत्तरात् स्वस् तस्य श्रोत्रं सौवं शरञ् श्रौत्र्य् अनुष्टुप् शारद्य् अनुष्टुभ ऐडम् ऐडान् मन्थी मन्थिन एकविम्श एकविंशाद् वैराजं विश्वामित्रा ऋषिः प्रजापतिगृहीतया त्वया श्रोत्रं गृह्णामि प्रजाभ्य इयम् उपरि मतिस् तस्या वाङ् मात्या हेमन्तो वाच्यः पङ्क्तिर् हैमन्ती पङ्क्त्या निधनवन् निधनवत आग्रायण आग्रयणात् त्रिणवत्रयस्त्रिंशौ त्रिणवत्रयस्त्रिंशाभ्यां शाक्वररैवते विश्वकर्मा ऋषिः प्रजापतिगृहीतया त्वया वाचं गृह्णामि प्रजाभ्यः

॥२.७.१९॥

प्राची दिग् वसन्त ऋतुर् अग्निर् देवता ब्रह्म द्रविणं गायत्री छन्दो रथन्तरं साम त्रिवृत् स्तोमः स उ पञ्चदशवर्तनिः सानगा ऋषिस् त्र्यविर् वयः कृतम् अयानां पुरोवातो वातः पितरः पितामहाः परे ऽवरे ते नो ऽवन्तु ते नः पान्त्व् अस्मिन् ब्रह्मण्य् अस्यां पुरोधायाम् अस्मिन् कर्मण्य् अस्याम् आशिष्य् अस्यां देवहूतौ ॥

दक्षिणा दिग् ग्रीष्म ऋतुर् इन्द्रो देवता क्षत्रं द्रविणं त्रिष्टुप् छन्दो बृहत् साम पञ्चदशः स्तोमः स उ सप्तदशवर्तनिः सनातना ऋषिर् दित्यवाड् वयस् त्रेतायानां दक्षिणाद्वातो वातः पितरः पितामहाः परे ऽवरे ते नो ऽवन्तु ते नः पान्त्व् अस्मिन् ब्रह्मण्य् अस्यां पुरोधायाम् अस्मिन् कर्मण्य् अस्याम् आशिष्य् अस्यां देवहूतौ ॥

प्रतीची दिग् वर्षा ऋतुर् विश्वे देवा देवता विड् द्रविणं जगती छन्दो वैरूपं साम सप्तदशः स्तोमः स उ एकविंशवर्तनिर् अहभूना ऋषिस् त्रिवत्सो वयो द्वापरो ऽयानां पश्चाद्वातो वातः पितरः पितामहाः परे ऽवरे ते नो ऽवन्तु ते नः पान्त्व् अस्मिन् ब्रह्मण्य् अस्यां पुरोधायाम् अस्मिन् कर्मण्य् अस्याम् आशिष्य् अस्यां देवहूतौ ॥

उदीची दिक् शरद् ऋतुर् मित्रावरुणौ देवता पुष्टं द्रविणम् अनुष्टुप् छन्दो वैराजं सामैकविंशः स्तोमः स उ त्रिणववर्तनिः पुराणा ऋषिस् तुर्यवाड् वयो ऽभिभवो ऽयानाम् उत्तराद्वातो वातः पितरः पितामहाः परे ऽवरे ते नो ऽवन्तु ते नः पान्त्व् अस्मिन् ब्रह्मण्य् अस्यां पुरोधायाम् अस्मिन् कर्मण्य् अस्याम् आशिष्य् अस्यां देवहूतौ ॥

ऊर्ध्वा दिग् घेमन्तशिशिरा ऋतू बृहस्पतिर् देवता फलं द्रविणं पङ्क्तिश् छन्दः शाक्वररैवते सामनी त्रिणवः स्तोमः स उ त्रयस्त्रिंशवर्तनिः सुपर्णा ऋषिः पष्ठवाड् वय आस्कन्दो ऽयानाम् उपरिष्टाद्वातो वातः पितरः पितामहाः परे ऽवरे ते नो ऽवन्तु ते नः पान्त्व् अस्मिन् ब्रह्मण्य् अस्यां पुरोधायाम् अस्मिन् कर्मण्य् अस्याम् आशिष्य् अस्यां देवहूतौ

॥२.७.२०॥
प्रपाठक 8

द्वितीयकाण्डे अष्टमः प्रपाठकः

द्वितीयकाण्डे अष्टमः प्रपाठकः

सजूर् ऋतुभिः सजूर् विधाभिः सजूर् देवैः सजूर् देवैर् वयुनाधैर् अग्नये त्वा वैश्वानरायाश्विनाध्वर्यू सादयताम् इह त्वा सजूर् ऋतुभिः सजूर् विधाभिः सजूर् वसुभिः सजूर् ऋतुभिः सजूर् विधाभिः सजू रुद्रैः सजूर् ऋतुभिः सजूर् विधाभिः सजूर् आदित्यैः सजूर् ऋतुभिः सजूर् विधाभिः सजूर् विश्वैर् देवैर् वैश्वानरैः सजूर् देवैर् वयुनाधैर् अग्नये त्वा वैश्वानरायाश्विनाध्वर्यू सादयताम् इह त्वा

॥२.८.१॥

प्राणं मे पाह्य् अपानं मे पाहि व्यानं मे पाहि चक्षुर् म उरुया विभाहि श्रोत्रं मे श्लोकयापः पिन्वौषधीर् जिन्व द्विपाद् अव चतुष्पात् पाहि दिवो वा वृष्टिम् एरय क्षत्रं वयो मयन्तं छन्दो विष्टम्भो वयो ऽधिपतिश् छन्दो मूर्धा वयः प्रजापतिश् छन्दो विश्वकर्मा वयः परमेष्ठी छन्दस् त्र्यविर् वयस् त्रिष्टुप् छन्दो दित्यवाड् वयो विराट् छन्दः पञ्चाविर् वयो गायत्री छन्दस् त्रिवत्सो वय उष्णिहा छन्दस् तुर्यवाड् वयो ऽनुष्टुप् छन्दः पष्ठवाड् वयो बृहती छन्द उक्षा वयः ककुप् छन्द ऋषभो वयः सतोबृहती छन्दो ऽनड्वान् वयः पङ्क्तिश् छन्दो धेनुर् वयो जगती छन्दो बस्तो वयो युवलं छन्दो वृष्णिर् वयो विशालं छन्दः पुरुषो वयस् तन्द्रं छन्दः सिंहो वयश् छदिश् छन्दो व्याघ्रो वयो ऽनाधृष्यं छन्दः

॥२.८.२॥

इन्द्राग्नी अव्यथमानाम् इष्टकां दृंहतं युवम् ।

पृष्ठेन द्यावापृथिवी आपृणान्तरिक्षं च विबाधस्व ॥

राज्ञ्य् असि प्राची दिग् विराड् असि दक्षिणा दिक् सम्राड् असि प्रतीची दिक् स्वराड् अस्य् उदीची दिग् अधिपत्न्य् अस्य् ऊर्ध्वा दिग् आयुर् मे पाहि प्राणं मे पाह्य् अपानं मे पाहि व्यानं मे पाहि चक्षुर् मे पाहि श्रोत्रं मे पाहि मनो मे पिन्व वाचं मे जिन्वात्मानं मे पाहि ज्योतिर् मे यछ मा छन्दः प्रमा छन्दः प्रतिमा छन्दो ऽस्रीवीश् छन्दः पङ्क्तिश् छन्द उष्णिहा छन्दो गायत्री छन्दस् त्रिष्टुप् छन्दो जगती छन्दो ऽनुष्टुप् छन्दो विराट् छन्दो बृहती छन्दः पृथिवी छन्दो ऽन्तरिक्षं छन्दो द्यौश् छन्दो नक्षत्राणि छन्दः समा छन्दः कृषिश् छन्दो वाक् छन्दो मनश् छन्दो गौश् छन्दो ऽश्वश् छन्दो ऽजा छन्दो हिरण्यं छन्दो ऽग्निर् देवता वातो देवता सूर्यो देवता चन्द्रमा देवता वसवो देवता रुद्रा देवतादित्या देवता मरुतो देवतेन्द्रो देवता वरुणो देवता बृहस्पतिर् देवता विश्वे देवा देवता मूर्धासि राड् ध्रुवासि धरुणा धर्त्र्य् असि धरण्य् आयुषे त्वा वर्चसे त्वा कृष्यै त्वा क्षेमाय त्वा यन्त्री राड् यन्त्र्य् असि यमनी धर्त्र्य् असि धरित्रीषे त्वोर्जे त्वा रय्यै त्वा पोषाय त्वा

॥२.८.३॥

इन्द्रो : फ़्न् एमेन्देद्। एद्।: इन्दो

ध्रुवासि : फ़्न् एमेन्देद्। एद्।: ध्रवासि।

आशुस् त्रिवृद् भान्तः पञ्चदशो व्योमा सप्तदशः प्रतूर्तिर् अष्टादशस् तपो नवदशो ऽभीवर्तः सविंशो धरुण एकविंशो वर्चो द्वाविंशः सम्भरणस् त्रयोविंशो योनिश् चतुर्विंशो गर्भाः पञ्चविम्श ओजस् त्रिणवो विराट् त्रिंशः क्रतुर् एकत्रिंशो विधृतिर् द्वात्रिंशः प्रतिष्ठा त्रयस्त्रिंशो ब्रध्नस्य विष्टपं चतुस्त्रिंशो नाकः षट्त्रिंशो वीवर्तो ऽष्टाचत्वारिंशो धर्त्रं चतुष्टोमः

॥२.८.४॥

अग्नेर् भागो ऽसि दीक्षाया आधिपत्यं ब्रह्म स्पृतं त्रिवृत् स्तोम इन्द्रस्य भागो ऽसि विष्णोर् आधिपत्यं क्षत्रं स्पृतं पञ्चदशः स्तोमो नृचक्षसां भागो ऽसि धातुर् आधिपत्यं जनित्रं स्पृतं सप्तदशः स्तोमो मित्रस्य भागो ऽसि वरुणस्याधिपत्यं दिवो वृष्टिर् वातः स्पृत एकविंशः स्तोमो ऽदित्या भागो ऽसि पूष्ण आधिपत्यम् ओजः स्पृतं त्रिणवः स्तोमो वसूनां भागो ऽसि रुद्राणाम् आधिपत्यं चतुष्पात् स्पृतं चतुर्विंशः स्तोम आदित्यानां भागो ऽसि मरुताम् आधिपत्यं गर्भाः स्पृताः पञ्चविंशः स्तोमः सवितुर् भागो सि बृहस्पतेर् आधिपत्यं समीचीर् दिशः स्पृताश् चतुष्टोमः स्तोमो यवानां भागो ऽस्य् अयवानाम् आधिपत्यं प्रजाः स्पृताश् चतुश्चत्वारिंशः स्तोम ऋभूणां भागो ऽसि विश्वेषां देवानाम् आधिपत्यं भूतं निशान्तं स्पृतं त्रयस्त्रिंशः स्तोमः

॥२.८.५॥

एकयास्तुवत प्रजा अधीयन्त प्रजानां पतिर् अधिपतिर् आसीत् तिसृभिर् अस्तुवत ब्रह्मासृज्यत ब्रह्मणस्पतिर् अधिपतिर् आसीत् पञ्चभिर् अस्तुवत भूतान्य् असृज्यन्त भूतानां पतिर् अधिपतिर् आसीत् सप्तभिर् अस्तुवत सप्तऋषयो ऽसृज्यन्त धाताधिपतिर् आसीन् नवभिर् अस्तुवत पितरो ऽसृज्यन्तादितिर् अधिपतिर् आसीद् एकादशभिर् अस्तुवतार्तवा असृज्यन्त ऋतवो ऽधिपतय आसंस् त्रयोदशभिर् अस्तुवत मासा असृज्यन्त संवत्सरो ऽधिपतिर् आसीत् पञदशभिर् अस्तुवत क्षत्रम् असृज्यतेन्द्रो ऽधिपतिर् आसीत् सप्तदशभिर् अस्तुवत ग्राम्याः पशवो ऽसृज्यन्त बृहस्पतिर् अधिपतिर् आसीन् नवदशभिर् अस्तुवत शूद्रार्या असृज्येताम् अहोरात्रे अधिपत्नी आस्ताम् एकविंशत्यास्तुवतैकशफम् असृज्यत वरुणो ऽधिपतिर् आसीत् त्रयोविंशत्यास्तुवत क्षुद्राः पशवो ऽसृज्यन्त पूषाधिपतिर् आसीत् पञ्चविंशत्यास्तुवतारण्याः पशवो ऽसृज्यन्त वायुर् अधिपतिर् आसीत् सप्तविंशत्यास्तुवत वनस्पतयो ऽसृज्यन्त सोमो ऽधिपतिर् आसीन् नवविंशत्यास्तुवत द्यावापृथिवी व्यैतां वसवो रुद्रा अनुव्यायंस् त उ एवाधिपतय आसन्न् एकत्रिंशतास्तुवत प्रजा असृज्यन्त यवाश् चायवाश् चाधिपतय आसंस् त्रयस्त्रिंशतास्तुवत भूतान्य् अशाम्यन् प्रजापतिः परमेष्ठ्य् अधिपतिर् आसीत्

॥२.८.६॥

अग्ने जातान् प्रणुदा नः सपत्नान् प्रत्य् अजातान् जातवेदो नुदस्व ।

अधि नो ब्रूहि सुमना अहेडञ् शर्मंस् ते स्याम त्रिवरूथा उद्भौ ॥

सहसा जातान् प्रणुदा नः सपत्नान् प्रत्य् अजातान् जातवेदो नुदस्व ।

अधि नो ब्रूहि सुमनस्यमानो वयं स्याम प्रणुदा नः सपत्नान् ॥

चतुश्चत्वारिंशी स्तोमो वर्चो द्रविणं षोडशी स्तोम ओजो द्रविणम् ॥

अग्नेः पुरीषम् अस्य् अप्सो नाम तां त्वा विश्वे अभिगृणन्तु देवाः ।

स्तोमपृष्ठा घृतवतीह सीद प्रजावद् अस्मे द्रविणायजस्व ॥

तया देवतयाङ्गिरस्वद् द्रुवा सीदैवश् छन्दो वरिवश् छन्द आछच् छन्दो मनश् छन्दः शम्भूश् छन्दः परिभूश् छन्दः सिन्धुश् छन्दो व्यचश् छन्दः समुद्रं छन्दः सलिलं छन्दः ककुप् छन्दस् त्रिककुप् छन्दः काव्यं छन्दो ऽङ्कुपं छन्दो ऽक्षरपङ्क्तिश् छन्दः पदपङ्क्तिश् छन्दो विष्टारपङ्क्तिश् छन्दः क्षुरो भृजश् छन्दः पक्षश् छन्दः प्रछच् छन्दः संयच् छन्दो वियच् छन्दो बृहच् छन्दो रथन्तरं छन्दो निकायं छन्दो वीवधं छन्दो गिरश् छन्दो भृजश् छन्दः संस्तुप् छन्दो ऽनुष्टुप् छन्द एवश् छन्दो वरिवश् छन्दो वयश् छन्दो वयस्कृच् छन्दो विशालं छन्दो विष्पर्धाश् छन्दश् छदिश् छन्दो दूरोहणं छन्दस् तन्द्रं छन्दो ऽङ्कावङ्कं छन्दः

॥२.८.७॥

रश्मिना क्षयाय क्षयं जिन्व प्रेत्या धर्मणे धर्म जिन्वान्वित्या दिवे दिवं जिन्व सन्धिनान्तरिक्षायान्तरिक्षं जिन्व प्रतिधिना पृथियै पृथिवीं जिन्व विष्टम्भेन वृष्ट्यै वृष्टिं जिन्व प्रवायाह्ने ऽहर् जिन्वानुवाय रात्र्यै रात्रीं जिन्वोशिजा वसुभ्यो वसून् जिन्व प्रकेतेन रुद्रेभ्यो रुद्रान् जिन्व सुदितिनादित्येभ्य आदित्यान् जिन्व तन्तुना प्रजाभ्यः प्रजा जिन्वौजसा पितृभ्यः पितॄन् जिन्व पृतनाषाहा पशुभ्यः पशून् जिन्व रेवतौषधीभ्या ओषधीर् जिन्वाभिजिता युक्तग्राव्णेन्द्रायेन्द्रं जिन्वाधिपतिना प्राणाय प्राणं जिन्व धरुणेनापानायापानं जिन्व संसर्पेण चक्षुषे चक्षुर् जिन्व वयोधसाधीतायाधीतं जिन्व त्रिवृता त्रिवृते त्रिवृज् जिन्व प्रवृता प्रवृते प्रवृज् जिन्व सवृता सवृते सवृज् जिन्वानूवृतानुवृते ऽनूवृज् जिन्व विरोहेण विरोहाय विरोहं जिन्व प्ररोहेण प्ररोहाय प्ररोहं जिन्व संरोहेण संरोहाय संरोहं जिन्वानूरोहेणानूरोहायानूरोहं जिन्व वसुकेन वसुकाय वसुकं जिन्व वेषश्रिया वेषश्रियै वेषश्रीं जिन्व वस्यष्ट्या वस्यष्ट्यै वस्यष्टिं जिन्वाक्रान्त्याक्रान्त्या उत्क्रान्तिं जिन्वोक्त्रान्त्योत्क्रान्त्या आक्रान्तिं जिन्व

॥२.८.८॥

राज्ञ्य् असि प्राची दिग् वसवस् ते देवा अधिपतयो ऽग्निर् हेतीनां प्रतिधर्ता त्रिवृत् त्वा स्तोमः पृथिव्यां श्रयत्व् आज्यम् उक्थम् अव्यथायै स्तभ्नोतु रथन्तरं साम प्रतिष्ठित्या अन्तरिक्ष ऋषयस् त्वा प्रथमजा देवेषु दिवो मात्रया वरिणा प्रथन्तु विधर्ता चायम् अधिपतिश् च ते त्वा सर्वे संविदाना नाकस्य पृष्ठे स्वर्गे लोके यजमानं चा सादयन्तु विराड् असि दक्षिणा दिग् रुद्रास् ते देवा अधिपतय इन्द्रो हेतीनां प्रतिधर्ता पञ्चदशस् त्वा स्तोमः पृथिव्यां श्रयतु प्रौगम् उक्थम् अव्यथायै स्तभ्नोतु बृहत् साम प्रतिष्ठित्या अन्तरिक्ष ऋषयस् त्वा प्रथमजा देवेषु दिवो मात्रया वरिणा प्रथन्तु विधर्ता चायम् अधिपतिश् च ते त्वा सर्वे संविदाना नाकस्य पृष्ठे स्वर्गे लोके यजमानं च सादयन्तु सम्राड् असि प्रतीची दिग् आदित्यास् ते देवा अधिपतयः सोमो हेतीनां प्रतिधर्ता सप्तदशस् त्वा स्तोमः पृथिव्यां श्रयतु मरुत्वतीयम् उक्थम् अव्यथायै स्तभ्नोतु वैरूपं साम प्रतिष्ठित्या अन्तरिक्ष ऋषयस् त्वा प्रथमजा देवेषु दिवो मात्रया वरिणा प्रथन्तु विधर्ता चायम् अधिपतिश् च ते त्वा सर्वे संविदाना नाकस्य पृष्ठे स्वर्गे लोके यजमानं च सादयन्तु स्वराड् अस्य् उदीची दिङ् मरुतस् ते देवा अधिपतयो वरुणो हेतीनां प्रतिधर्तैकविंशस् त्वा स्तोमः पृथिव्यां श्रयतु निष्केवल्यम् उक्थम् अव्यथायै स्तभ्नोतु वैराजं साम प्रतिष्ठित्या अन्तरिक्ष ऋषयस् त्वा प्रथमजा देवेषु दिवो मात्रया वरिणा प्रथन्तु विधर्ता चायम् अधिपतिश् च ते त्वा सर्वे संविदाना नाकस्य पृष्ठे स्वर्गे लोके यजमानं च सादयन्त्व् अधिपत्न्य् अस्य् ऊर्ध्वा दिग् विश्वे ते देवा अधिपतयो बृहस्पतिर् हेतीनां प्रतिधर्ता त्रिणवत्रयस्त्रिंशौ त्वा स्तोमौ पृथिव्यां श्रयतां वैश्वदेवाग्निमारुते उक्थे अव्यथायै स्तभ्नुतां शाक्वररैवते सामनी प्रतिष्ठित्या अन्तरिक्ष ऋषयस् त्वा प्रथमजा देवेषु दिवो मात्रया वरिणा प्रथन्तु विधर्ता चायम् अधिपतिश् च ते त्वा सर्वे संविदाना नाकस्य पृष्ठे स्वर्गे लोके यजमानं च सादयन्तु

॥२.८.९॥

दिङ् : फ़्न् ⟨ दिश्

अयं पुरो हरिकेशः सूर्यरश्मिस् तस्य रथकृत्स्नश् च रथौजाश्च सेनानीग्रामण्यौ पुञ्जिकस्थला च कृतस्थला चाप्सरसौ यातुधाना हेती रक्षांसि प्रहेतिस् तेभ्यो नमो अस्तु ते नो मृडन्तु ते यं द्विष्मो यश् च नो द्वेष्टि तम् एषां जम्भे दध्मो ऽयं दक्षिणा विश्वकर्मा तस्य रथस्वनश् च रथेचित्रश् च सेनानीग्रामण्यौ मेनका च सहजन्या चाप्सरसौ दङ्क्ष्णवः पशवो हेतिः पौरुषेयो वधः प्रहेतिस् तेभ्यो नमो अस्तु ते नो मृडन्तु ते यं द्विष्मो यश् च नो द्वेष्टि तम् एषां जम्भे दध्मो ऽयं पश्चा विदद्वसुस् तस्य रथप्रोतश् चासमरथश् च सेनानीग्रामण्यव् आम्लोचन्ती च प्रम्लोचन्ती चाप्सरसौ व्याघ्रा हेतिः सर्पाः प्रहेतिस् तेभ्यो नमो अस्तु ते नो मृडन्तु ते यं द्विष्मो यश् च नो द्वेष्टि तम् एषां जम्भे दध्मो ऽयम् उत्तरात् संयद्वसुस् तस्य सेनजिच् च सुषेणश् च सेनानीग्रामण्यौ विश्वाची च घृताची चाप्सरसव् आपो हेतिर् वातः प्रहेतिस् तेभ्यो नमो अस्तु ते नो मृडन्तु ते यं द्विष्मो यश् च नो द्वेष्टि तम् एषां जम्भे दध्मो ऽयम् उपर्य् अर्वाग्वसुस् तस्य तार्क्ष्यश् चारिष्टनेमिश् च सेनानीग्रामण्यऊर्वशी च पूर्वचित्तिश् चाप्सरसव् अवस्फूर्जद् धेतिर् विद्युत् प्रहेतिस् तेभ्यो नमो अस्तु ते नो मृडन्तु ते यं द्विष्मो यश् च नो द्वेष्टि तम् एषां जम्भे दध्मः

॥२.८.१०॥

प्राच्या त्वा दिशा सादयाम्य् अग्निना देवेन देवतया गायत्रेण छन्दसाग्नेः शिरा उपदधामि गायत्रस्य छन्दसो ऽग्नेः शीर्ष्णाग्नेः शिरा उपदधामि दक्षिणया त्वा दिशा सादयामीन्द्रेण देवेन देवतया त्रैष्टुभेन छन्दसाग्नेः पक्षम् उपदधामि त्रैष्टुभस्य छन्दसो ऽग्नेः पक्षेणाग्नेः पक्षम् उपदधामि प्रतीच्या त्वा दिशा सादयामि विश्वेभिर् देवेभिर् देवतया जागतेन छन्दसाग्नेः पुछम् उपदधामि जागतस्य छन्दसो ऽग्नेः पुछेनाग्नेः पुछम् उपदधाम्य् उदीच्या त्वा दिशा सादयामि मित्रावरुणाभ्यां देवाभ्यां देवतयानुष्टुभेन छन्दसाग्नेः पक्षम् उपदधाम्य् आनुष्टुभस्य छन्दसो ऽग्नेः पक्षेणागेः पक्षम् उपदधाम्य् ऊर्ध्वया त्वा दिशा सादयामि बृहस्पतिना देवेन देवतया पाङ्क्तेन छन्दसाग्नेः पृष्ठम् उपदधामि पाङ्क्तस्य छन्दसो ऽग्नेः पृष्ठेनाग्नेः पृष्ठम् उपदधामि

॥२.८.११॥

मधुश् च माधवश् च वासन्तिका ऋतू अग्नेर् अन्तःश्लेषो ऽसि ॥

कल्पेतां द्यावापृथिवी कल्पन्ताम् आपा ओषधयः ।

कल्पन्ताम् अग्नयः पृथङ् मम ज्यैष्ठ्याय सव्रताः ॥

ये अग्नयः समनसो ऽन्तरा द्यावापृथिवी ।

वासन्तिका ऋतू अभिकल्पमाना इन्द्रम् इव देवा अभिसंविशन्तु ॥

शुक्रश् च शुचिश् च ग्रैष्मा ऋतू नभश् च नभस्यश् च वार्षिका ऋतू इषश् चोर्जश् च शारदा ऋतू सहश् च सहस्यश् च हैमन्तिका ऋतू तपश् च तपस्यश् च शैशिरा ऋतू अग्नेर् अन्तःश्लेषो ऽसि ॥

कल्पेतां द्यावापृथिवी कल्पन्ताम् आपा ओषधयः ।

कल्पन्ताम् अग्नयः पृथङ् मम ज्यैष्ठ्याय सव्रताः ॥

ये अग्नयः समनसो ऽन्तरा द्यावापृथिवी ।

शैशिरा ऋतू अभिकलमाना इन्द्रम् इव देवा अभिसंविशन्तु

॥२.८.१२॥

पुरोवातसनिर् अस्य् अभ्रसनिर् असि विद्युत्सनिर् असि स्तनयित्नुसनिर् असि वृष्टिसनिर् अस्य् अग्नेर् यान्य् अस्य् अग्नेर् अग्नेयान्य् असि वायोर् यान्य् असि वायोर् वायोयान्य् असि देवानां यान्य् असि देवानां देवयान्य् असि विश्वेषां देवानां यान्य् असि विश्वेषां देवानां देवयान्य् असि संयान्य् अस्य् अन्तरिक्षसद् अस्य् अन्तरिक्षे सीदाम्बा च बुला च नितत्नी च स्तनयन्ती चाभ्रयन्ती च मेघयन्ती च चुपुणीका सलिलाय त्वा मृदीकाय त्वा सतीकाय त्वा केताय त्वा सुकेताय त्वा सकेताय त्वा विवस्वते त्वा दिवे त्वा ज्योतिष आदित्येभ्यस् त्वा

॥२.८.१३॥

उदपुरा नामास्य् अन्नेन विष्ठा तां त्वा प्रैम्य् आत्मना पुरुषैर् गोभिर् अश्वैर् आयुषा वर्चसा प्रजया धनेन सन्या मेधया रय्या पोषेण मनुष्यास् ते गोप्तारो ऽग्निर् अधिपतिस् तया देवतयाङ्गिरस्वद् ध्रुवा सीदापराजिता नामासि ब्रह्मणा विष्टा तां त्वा प्रैम्य् आत्मना पुरुषैर् गोभिर् अश्वैर् आयुषा वर्चसा प्रजया धनेन सन्या मेधया रय्या पोषेण मरुतस् ते गोप्तारो वायुर् अधिपतिस् तया देवतयाङ्गिरस्वद् ध्रुवा सीदाधिद्यौर् नामास्य् अमृतेन विष्टा तां त्वा प्रैम्य् आत्मना पुरुषैर् गोभिर् अश्वैर् आयुषा वर्चसा प्रजया धनेन सन्या मेधया रय्या पोषेण विश्वे ते देवा गोप्तारः सूर्यो ऽधिपतिस् तया देवतयाङ्गिरस्वद् ध्रुवा सीद प्रजापतिष् ट्वा सादयतु पृथिव्याः पृष्ठे भूर् असि भूमिर् असि प्रथो ऽसि पृथिव्य् अस्य् अदितिर् असि विश्वधाया विश्वस्य भुवनस्य धर्त्री पृथिवीं यछ पृथिवीं दृम्ह पृथिवीं मा हिंसीः पृथिव्या मा पाहि विश्वस्मै प्राणायापानाय व्यानायोदानाय प्रतिष्ठायै चरित्रायाग्निष् ट्वाभिपातु मह्या स्वस्त्या छर्दिषा शन्तमेन विश्वकर्मा सादयत्व् अन्तरिक्षस्य पृष्ठे ऽन्तरिक्षं यछान्तरिक्षं दृंहान्तरिक्षं मा हिंसीर् अन्तरिक्षान् मा पाहि विश्वस्मै प्राणायापानाय व्यानायोदानाय प्रतिष्ठायै चरित्राय वायुष् ट्वाभिपातु मह्या स्वस्त्या छर्दिषा शन्तमेन परमेष्ठी त्वा सादयतु दिवः पृष्ठे व्यचस्वतीं प्रथस्वतीं भास्वतीं रश्मीवतीम् आ या दिवं भास्या पृथिवीम् ओर्व् अन्तरिक्सं दिवं यछ दिवं दृम्ह दिवं मा हिंसीर् दिवो मा पाहि विश्वस्मै प्राणायापानाय व्यानायोदानाय प्रतिष्ठायै चरित्राय सूर्यस् त्वाभिपातु मह्या स्वस्त्या छर्दिषा शन्तमेन ॥

प्रोथद् अश्वो न यवसे ऽविष्यन् यदा महः संवरणाद् व्यस्थात् ।

आद् अस्य वातो अनुवाति शोचिर् अध स्मा ते व्रजनं कृष्णम् अस्तु ॥

आयोष् ट्वा सदने सादयामि समुद्रस्योद्मन्न् अवतश् छायायां नमः समुद्राय नमः समुद्रस्य चक्षसे सहस्रस्य मासि सहस्रस्य प्रमासि सहस्रस्य प्रतिमासि सहस्रस्य सम्मासि सहस्रस्योन्मासि साहस्रो ऽसि सहस्राय त्वेमा मे अग्ना इष्टका धेनवः सन्त्व् एका च शतं च शतं च सहस्रं च सहस्रं चायुतं चायुतं च प्रयुतं च प्रयुतं चायुतं च ओ अर्बुदं च न्यर्बुदं च समुद्रश् च मध्यं चान्तश् च परार्धश् चेमा मे अग्ना इष्टका धेनवः सन्तु षष्टिः सहस्रम् अयुतम् अक्षीयमाणा ऋतुष्ठाः स्थ ऋतावृधो घृतश्चुतो मधुश्चुता ऊर्जस्वतीः पयस्वतीः स्वधायिनीः कुलायिनीस् ता मे अग्ना इष्टका धेनवः सन्तु विराजो नाम कामदुघा अमुत्रामुष्मिंल् लोके

॥२.८.१४॥
प्रपाठक 9

द्वितीयकाण्डे नवमः प्रपाठकः

द्वितीयकाण्डे नवमः प्रपाठकः

तन् नः सृष्टिः प्रचोदयात्

॥२.९.१॥

नमस् ते रुद्र मन्यव उतो ता इषवे नमः ।

नमस् ते अस्तु धन्वने बाहुभ्याम् उत ते नमः ॥

या ते रुद्र शिवा तनूर् अघोरापापकाशिनी ।

तया नस् तन्वा शन्तमया गिरिशन्ताभिचाकशीहि ॥

याम् इषुं गिरिशन्त हस्ते बिभर्ष्य् अस्तवे ।

शिवां गिरिश तां कुरु मा हिंसीः पुरुषं जगत् ॥

शिवेन वचसा त्वा गिरिशाछा वदामसि ।

यथा नः सर्वा इज् जनः सङ्गमे सुमना असत् ॥

अध्यवोचद् अधिवक्ता प्रथमो दैव्यो भिषक् ।

अहींश् च सर्वान् जम्भयन्त् सर्वाश् च यातुधान्यो ऽधराचीः परासुव ॥

असौ यस् ताम्रो अरुण उत बभ्रुः सुमङ्गलः ।

ये चेमे अभितो रुद्रा दिक्षु श्रिताः सहस्रशो ऽवैषां हेड ईमहे ॥

असौ यो ऽवसर्पति नीलग्रीवो विलोहितः ।

उतैनं गोपा अदृश्रन्न् उतैनम् उदहार्यः ।

उतैनं विश्वा भूतानि स दृष्टो मृडयातु नः ॥

नमो नीलकपर्दाय सहस्राक्षाय मीढुषे ।

अथो ये अस्य सत्वान इदं तेभ्यो ऽकरं नमः ॥

नमस् ता आयुधायानातताय धृष्णवे ।

उभाभ्याम् उत ते नमो बाहुभ्यां तव धन्वने ॥

प्रमुञ्च धन्वनस् त्वम् उभयोर् आर्त्न्योर् ज्याम् ।

याश् च ते हस्ता इषवः परा ता भगवो वप ॥

अवतत्य धनुष् ट्वं सहस्राक्ष शतेषुधे ।

प्रशीर्य शल्यानां मुखं शिवो नः सुमना भव ॥

विज्यं धनुः कपर्दिनो विशल्यो बाणवं उत ।

अनेशन्न् अस्य या इषव आभूर् अस्य निषङ्गथिः ॥

परि ते धन्वनो हेतिर् अस्मान् वृणक्तु विश्वतः ।

अथो य इषुधिस् तवारे अस्मिन् निधेहि तम् ॥

या ते हेतिर् मीढुष्टम शिवं बभूव ते धनुः ।

तयास्मान् विश्वतस् त्वम् अयक्ष्मया परिभुज

॥२.९.२॥

नमो हिरण्यबाहवे सेनान्ये दिशां च पतये नमो नमो वृक्षेभ्यो हरिकेशेभ्यः पशूनां पतये नमो नमो हरिकेशायोपवीतिने पुष्टानां पतये नमो नमः शष्पिञ्जराय त्विषीमते पथीनां पतये नमो नमो बभ्लुशाय व्याधिने ऽन्नस्य पतये नमो नमो रुद्रायाततायिने क्षेत्रस्य पतये नमो नमो भवस्य हेत्यै जगतस् पतये नमो नमः सूतायाहन्त्वाय वनानां पतये नमो नमो रोहिताय स्थपतये वृक्षाणां पतये नमो नमो मन्त्रिणे वाणिजाय कक्षाणां पतये नमो नमो भुवन्तये वारिवस्कृतायौषधीनां पतये नमो नमः सहमानाय निव्याधिन आव्याधिनीनां पतये नमो नम आक्रन्दयत उच्चैर्घोषाय सत्वानां पतये नमो नमः कृत्स्नवीताय धावते पत्तीनां पतये नमो नमो निषङ्गिणे ककुभाय स्तेनानां पतये नमो नमो वञ्चते परिवञ्चते स्तायूनां पतये नमो नमो निचेरवे परिचरायारण्यानां पतये नमो नमो निषङ्गिण इषुधिमते तस्कराणां पतये नमो नमः सृगायिभ्यो जिघांसद्भ्यो मुष्णतां पतये नमो नमो ऽसिमद्भ्यो नक्तं चरद्भ्यः प्रकृन्तानां पतये नमो नम उष्णीषिणे गिरिचराय कुलुञ्चानां पतये नमो नमः

॥२.९.३॥

नम इषुकृद्भ्यो धनुष्कृद्भ्यश् च वो नमो नमा इषुमद्भ्यो धन्वायिभ्यश् च वो नमो नम आतन्वानेभ्यः प्रतिदधानेभ्यश् च वो नमो नम आयछद्भ्यो विसृजद्भ्यश् च वो नमो नमो ऽस्यद्भ्यो विध्यद्भ्यश् च वो नमो नमः स्वपद्भ्यो जाग्रद्भ्यश् च वो नमो नमः शयानेभ्या आसीनेभ्यश् च वो नमो नमस् तिष्ठद्भ्यो धावद्भ्यश् च वो नमो नमः सभाभ्यः सभापतिभ्यश् च वो नमो नमो ऽश्वेभ्यो ऽश्वपतिभ्यश् च वो नमो नम आव्याधिनीभ्यो विविध्यन्तीभ्यश् च वो नमो नमा उगणाभ्यस् तृंहतीभ्यश् च वो नमो नमो गणेभ्यो गणपतिभ्यश् च वो नमो नमो व्रातेभ्यो व्रातपतिभ्यश् च वो नमो नमः कृछ्रेभ्यः कृछ्रपतिभ्यश् च वो नमो नमो विरूपेभ्यो विश्वरूपेभ्यश् च वो नमो नमः सेनाभ्यः सेनानीभ्यश् च वो नमो नमो रथिभ्यो वरूथिभ्यश् च वो नमो नमः क्षत्तृभ्यः सङ्ग्रहीतृभ्यश् च वो नमो नमो बृहद्भ्यो ऽर्भकेभ्यश् च वो नमो नमो युवभ्य आशीनेभ्यश् च वो नमो नमः

॥२.९.४॥

नमो ब्राह्मणेभ्यो राजन्येभ्यश् च वो नमो नमः सूतेभ्यो विश्येभ्यश् च वो नमो नमस् तक्षभ्यो रथकारेभ्यश् च वो नमो नमः कुलालेभ्यः कर्मारेभ्यश् च वो नमो नमो निषादेभ्यः पुञ्जिष्टेभ्यश् च वो नमो नमः श्वनीभ्यो मृगयुभ्यश् च वो नमो नमः श्वभ्यः श्वपतिभ्यश् च वो नमो नमो भवाय च शर्वाय च नमो रुद्राय च पशुपतये च नमो व्युप्तकेशाय च कपर्दिने च नमो नीलग्रीवाय च शितिकण्ठाय च नमः सहस्राक्षाय च शतधन्वने च नमो गिरिशाय च शिपिविष्टाय च नमो मीढुष्टराय चेषुमते च नमो ह्रस्वाय च वामनाय च नमो बृहते च वर्षीयसे च नमो वृद्धाय च सुवृध्वने च नमो ऽग्रीयाय च प्रथमाय च नम आशवे चाजिराय च नमः शीभाय च शीघ्राय च नमा ऊर्म्याय चावस्वन्याय च नमो द्वीप्याय च स्रोत्रस्याय च

॥२.९.५॥

नम आशुषेणाय चाशुरथाय च नमो बिल्मिने च कवचिने च नमो वर्मिणे च वरूथिने च नमः शूराय चावभिन्दते च नमः श्रुताय च श्रुतसेनाय च नमो ज्यायसे च कनीयसे च नमः पूर्वजाय चापरजाय च नमो मध्यमाय चापगल्भाय च नमो जघन्याय च बुध्न्याय च नमः सोभ्याय च प्रतिसराय च नमो याम्याय च क्षेम्याय च नमो ऽवसान्याय च श्लोक्याय च नम उर्वर्याय च खल्याय च नमो वन्याय च कक्ष्याय च नमः श्रवाय च प्रतिश्रवाय च नमः पथ्याय च स्रुत्याय च नमो नाद्याय च वैशन्ताय च नमो नीप्याय च भिद्याय च नमो ऽवट्याय च कूप्याय च नमः सूद्याय च सरस्याय च

॥२.९.६॥

नमो दुन्दुभये चाहननीयाय च नमो धृष्णवे च प्रमृशाय च नमो निषङ्गिणे चेषुधिमते च नमस् तिग्मेषवे चायुधिने च नमः स्वायुधाय च सुधन्वने च नमो मेघ्याय च विद्युत्याय च नमो वर्ष्याय चावर्ष्याय च नमो वीध्रियाय चातप्याय च नमो वात्याय च रेष्मण्याय च नमो वास्तव्याय च वास्तुपाय च नमः सोमाय च रुद्राय च नमस् ताम्राय चारुणाय च नमः शङ्गवे च पशुपतये च नम उग्राय च भीमाय च नमो ऽग्रेवधाय च दूरेवधाय च नमो हन्त्रे च हनीयसे च नमो वृक्षेभ्यो हरिकेशेभ्यो नमस् ताराय नमः शम्भवे च मयोभवे च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च

॥२.९.७॥

नमः शिखण्डिने च पुलस्तिने च नमः किंशिलाय च क्षेणाय च नम इरिण्याय च प्रपथ्याय च नमो गृह्याय च गोष्ठ्याय च नमो गेह्याय च तल्प्याय च नमः कूल्याय च तीर्थ्याय च नमः पार्याय चावार्याय च नमः प्रतरणाय चोत्तरणाय च नमः प्रवाह्याय च सिकत्याय च नमः फेन्याय च शष्प्याय च नमो नीवेष्याय च हृद्याय च नमः काट्याय च गह्वरेष्ठ्याय च नमः शुष्याय च हरित्याय च नमः पांसव्याय च रजस्याय च नमो लोप्याय चोलपाय च नमा ऊर्म्याय च सूर्म्याय च नमः पर्णाय च पर्णशादाय च नमो ऽपगुरसाणाय चाभिघ्नते च नम आखिदते च प्रखिदते च नम आखिदाय च प्रखिदाय च

॥२.९.८॥

नमो गिरिकेभ्यो देवानां हृदयेभ्यो नमो विचिन्वत्केभ्यो नम आक्षिणकेभ्यो नम आनृहतेभ्यः ॥

द्रापे अन्धसस्पते दरिद्र नीललोहित ।

एषां पशूनाम् आसां प्रजानां मा भैर् मा रुङ् मो च नः किं चनाममत् ॥

इमा रुद्राय तवसे कपर्दिने क्षयद्वीराय प्रभरामहे मतीः ।

यथा नः शम् असद् द्विपदे चतुष्पदे विश्वं पुष्टं ग्रामे अस्मिन्न् अनातुरम् ॥

या ते रुद्र शिवा तनूः शिवा विश्वाह भेषजा ।

शिवा रुतस्य भेषजा तया नो मृड जीवसे ॥

परि नो रुद्रस्य हेतिर् वृणक्तु परि त्वेषस्य दुर्मतिर् अघायोः ।

अव स्थिरा मघवद्भ्यस् तनुष्व मीढ्वस् तोकाय तनयाय मृड ॥

मीढुष्टम शिवतम शिवो न एधि सुमना भव ।

अवतत्य धनुष् ट्वम् अक्रुद्धः सुमना भव ।

पिनाकं बिभ्रद् आगहि कृत्तिं वसाना उच्चर ॥

व्यकृड विलोहित नमस् ते अस्तु भगवः ।

यास् ते सहस्रं हेतयो ऽन्यांस् ते अस्मन् निवपन्तु ताः ॥

सहस्राणि सहस्रशो हेतयस् तव बाह्वोः ।

तासाम् ईशानो मघवन् पराचीना मुखा कृधि ॥

असङ्ख्याता सहस्राणि ये रुद्रा अधि भूम्याम् ।

तेषां सहस्रयोजने ऽव धन्वानि तन्मसि ॥

ये अस्मिन् महत्य् अर्णवे अन्तरिक्षे भवा अधि ।

तेषां सहस्रयोजने ऽव धन्वानि तन्मसि ॥

ये नीलग्रीवाः शितिकण्ठा दिवं रुद्रा उपश्रिताः ।

तेषां सहस्रयोजने ऽव धन्वानि तन्मसि ॥

ये नीलग्रीवाः शितिकण्ठाः शर्वा अधः क्षामाचराः ।

तेषां सहस्रयोजने ऽव धन्वानि तन्मसि ॥

ये वृक्षेषु शष्पिञ्जरा नीलग्रीवा विलोहिताः ।

तेषां सहस्रयोजने ऽव धन्वानि तन्मसि ॥

ये भूतानाम् अधिपतयो विशिखासः कपर्दिनः ।

तेषां सहस्रयोजने ऽव धन्वानि तन्मसि ॥

ये पथां पथिरक्षय ऐलमृडा वो युधः ।

तेषां सहस्रयोजने ऽव धन्वानि तन्मसि ॥

ये तीर्थानि प्रचरन्ति सृगवन्तो निषङ्गिणः ॥

तेषां सहस्रयोजने ऽव धन्वानि तन्मसि ॥

ये अन्नेषु विविध्यन्ति पात्रेषु पिबतो जनान् ।

तेषां सहस्रयोजने ऽव धन्वानि तन्मसि ॥

य एतावन्तो वा भूयांसो वा दिशो रुद्रा वितस्थिरे ।

तेषां सहस्रयोजने ऽव धन्वानि तन्मसि ॥

नमो अस्तु रुद्रेभ्यो ये दिवि येषां वर्षम् इषवस् तेभ्यो दश प्राचीर् दश दक्षिणा दश प्रतीचीर् दशोदीचीर् दशोर्ध्वास् तेभ्यो नमो अस्तु ते नो मृडन्तु ते यं द्विष्मो यश् च नो द्वेष्टि तम् एषां जम्भे दध्मो नमो अस्तु रुद्रेभ्यो ये अन्तरिक्षे येषां वाता इषवस् तेभ्यो दश प्राचीर्दश दक्षिणा दश प्रतीचीर् दशोदीचीर् दशोर्ध्वास् तेभ्यो नमो अस्तु ते नो मृडन्तु ते यं द्विष्मो यश् च नो द्वेष्टि तम् एषां जम्भे दध्मो नमो अस्तु रुद्रेभ्यो ये पृथिव्यां येषाम् अन्नम् इषवस् तेभ्यो दश प्राचीर् दश दक्षिणा दश प्रतीचीर् दशोदीचीर् दशोर्ध्वास् तेभ्यो नमो अस्तु ते नो मृडन्तु ते यं द्विष्मो यश् च नो द्वेष्टि तम् एषां जम्भे दध्मः

॥२.९.९॥

अघोरेभ्यो अथ घोरेभ्यो अघोरघोरतरेभ्यश् च ।

सर्वतः शर्वशर्वेभ्यो नमस् ते रुद्र रूपेभ्यो नमः ॥

यः पथः समनुयाति स्वर्गं लोकं गाम् इव सुप्रणीतौ ।

तेन त्वं भगवान् याहि पथा ॥

इमे हिरण्यवर्णाः स्वं योनिम् आविशन्तौ ॥

गछ त्वं भगवान् पुनरागमनाय पुनर्दर्शनाय सहदेव्याय सहवृषाय सहगणाय सहपार्षदाय यथाहुताय नमोनमाय नमःशिवाय नमस् ते अस्तु मा मा हिंसीः ॥

आवाहितम् आवाहित नमस्कृतं नमस्कृत विसर्जितं विसर्जित पथं गछ पथं गछ दिवं गछ दिवं गछ स्वर् गछ स्वर् गछ ज्योतिर् गछ ज्योतिर् गछ नमस् ते अस्तु मा मा हिंसीः

॥२.९.१०॥
प्रपाठक 10

द्वितीयकाण्डे दशमः प्रपाठकः

द्वितीयकाण्डे दशमः प्रपाठकः

अन्यांस् ते अस्मत् तपन्तु हेतयः पावको अस्मभ्यं शिवो भव

॥२.१०.१॥

अग्निस् तिग्मेन शोचिषा यासद् विश्वं न्य् अत्रिणम् ।

अग्निर् नो वनते रयिम् ॥

य इमा विश्वा भुवनानि जुह्वद् ऋषिर् होता न्यसीदत् पिता नः ।

स आशिषा द्रविणम् इछमानः प्रथमछद् अवरं आविवेश ॥

किं स्विद् वनं क उ स वृक्ष आसीद् यतो द्यावापृथिवी निष्टतक्षुः ।

मनीषिणो मनसा पृछतेद् उ तद् यद् अध्यतिष्ठद् भुवनानि धारयन् ॥

किं स्विद् आसीद् अधिष्ठानम् आरम्भणं कतमत् स्वित् कथासीत् ।

यतो भूमिं जनयन् विश्वकर्मा वि द्याम् और्णोन् महिना विश्वचक्षाः ।

यो विश्वचक्षुर् उत विश्वतोमुखो विश्वतोहस्त उत विश्वतस्पात् ।

सं बाहुभ्याम् अधमत् सं पतत्रैर् द्यावाभूमी जनयन् देव एकः ॥

या ते धामानि परमाणि यावमा या मध्यमा विश्वकर्मन्न् उतेमा ।

शिक्षा सखिभ्यो हविषा स्वधावः स्वयं यजस्व तन्वं जुषाणः ॥

विश्वकर्मन् हविषा वर्धनेन त्रातारम् इन्द्रम् अकृणोर् अवध्यम् ।

तस्मै विशः समनमन्त दैवीर् अयम् उग्रो विहव्यो यथासत् ॥

विश्वकर्मन् हविषा वावृधानः स्वयं यजस्व पृथिवीम् उत द्याम् ।

मुह्यन्त्व् अन्ये अभितो जनास इहास्माकं मघवा सूरिर् अस्तु ॥

वाचस्पतिं विश्वकर्माणम् ऊतये मनोयुजं वाजे अद्याहुवेम ।

स नो नेदिष्ठा हवना जुजोष विश्वशम्भूर् अवसे साधुकर्मा

॥२.१०.२॥

चक्षुषः पिता मनसा हि धीरो घृतम् एने अजनन् नम्नमाने ।

यदेद् अन्ता अददृहन्त पूर्वा आद् इद् द्यावापृथिवी अप्रथेताम् ॥

विश्वकर्मा विममे यो विहाया धर्ता विधर्ता परमोत सन्दृक् ।

तेषाम् इष्टानि सम् इषा मदन्ति यत्रा सप्तऋषीन् पर एकम् आहुः ।

त आयजन्त द्रविणा सम् अस्मिन्न् ऋषयः पूर्वे जरितारो न भूना ।

असूर्ता सूर्ते रजसि निषत्ता ये भूतानि समकृण्वन्न् इमानि ॥

यो नः पिता जनिता यो विधर्ता यो नः सतो अभ्य् आ सज् जजान ।

यो देवानां नामधा एक एव तं सम्प्रश्नं भुवना यन्त्य् अन्या ॥

परो दिवः पर एना पृथिव्याः परो देवेभ्यो असुरं यद् अस्ति ।

कं स्विद् गर्भं प्रथमं दध्रा आपो यत्र देवाः समगछन्त सर्वे ।

तम् इद् गर्भं प्रथमं दध्रा आपो यत्र देवाः समपश्यन्त विश्वे ।

अजस्य नाभा अध्य् एकम् अर्पितं यस्मिन् विश्वा भुवनाधि तस्थुः ॥

विश्वकर्मा चेद् अजनिष्ट देव आद् इद् गन्धर्वो अभवद् द्वितीयः ।

तृतीयः पिता जनितौषधीनाम् अपां गर्भं व्यदधुः पुरुत्रा ॥

न तं विदाथ य इमा जजानान्यद् युष्माकम् अन्तरं बभूव ।

नीहारेण प्रावृता जल्प्या चासुतृप उक्थशासश् चरन्ति

॥२.१०.३॥

उद् एनम् उत्तरं नयाग्ने घृतेनाहुत ।

सम् एनं वर्चसा सृज प्रजया च बहुं कृधि ॥

इन्द्रेमं प्रतरं नय सजातानाम् असद् वशी ॥

रायस्पोषेण संसृज देवेभ्यो भागदा असत् ॥

यस्य कुर्मो गृहे हविस् तम् अग्ने वर्धया त्वम् ।

तस्मै देवा अधिब्रुवन्न् अयं च ब्रह्मणस्पतिः ॥

आशुः शिशानो वृषभो न युध्मो घनाघनः क्षोभनश् चर्षणीनाम् ।

सङ्क्रन्दनो ऽनिमिष एकवीरः शतं सेना अजयत् साकम् इन्द्रः ॥

सङ्क्रन्दनेनानिमिषेण जिष्णुना युत्कारेण दुश्च्यवनेन धृष्णुना ।

तद् इन्द्रेण जयत तत् सहध्वं युधो नरा इषुहस्तेन वृष्णा ॥

स इषुहस्तैः स निषङ्गिभिर् वशी संसृष्टासु युत्स्व् इन्द्रो गणेषु ।

संसृष्ठजित् सोमपा बाहुशर्ध्य् ·र्ध्वधन्वा प्रतिहिताभिर् अस्ता ॥

बृहस्पते परिदीया रथेन रक्षोहामित्रं अपबाधमानः ।

प्रभञ्जन्त् सेनाः प्रमृणो युधा जयन्न् अस्माकम् एध्य् अविता रथानाम् ॥

अभि गोत्राणि सहसा गाहमान आदायो वीरः शतमन्युर् इन्द्रः ।

दुश्च्यवनः पृतनाषाड् अयोध्यो ऽस्माकं सेना अवतु प्र युत्सु ॥

बलविज्ञायः स्थविरः प्रवीरः सहस्वान् वाजी सहमान उग्रः ।

अभिवीरो अभिसत्वा सहोजिज् जैत्रम् इन्द्र रथम् आतिष्ठ गोवित् ॥

गोत्रभिदं गोविदं वज्रबाहुं जयन्तम् अज्म प्रमृणन्तम् ओजसा ।

इमं सजाता अनुवीरयध्वम् इन्द्रं सखायो अनु संरभध्वम् ॥

इन्द्र एषां नेता बृहस्पतिर् दक्षिणा यज्ञः पुर एतु सोमः ।

देवसेनानाम् अभिभञ्जतीनां जयन्तीनां मरुतो यन्तु मध्ये ॥

इन्द्रस्य वृष्णो वरुणस्य राज्ञ आदित्यानां मरुतां शर्ध उग्रम् ।

महामनसां भुवनच्यवानां घोषो देवानां जयताम् उदस्थात् ॥

अस्माकम् इन्द्रः समृतेषु ध्वजेष्व् अस्माकं या इषवस् ता जयन्तु ।

अस्माकं वीरा उत्तरे भवन्त्व् अस्मान् उ देवा अवता भरेष्व् आ

॥२.१०.४॥

उद् उ त्वा ॥

पञ्च दिशो दैवीर् यज्ञम् अवन्तु देवीर् अपामतिं दुर्मतिं बाधमानाः ।

रायश्पोषे यज्ञपतिम् आभजन्ती रायस्पोषे अधि यज्ञो अस्थात् ॥

समिद्धे अग्ना अधि मामहान उक्थपत्रा ईड्यो गृभीतः ।

तप्तं घर्मं परिगृह्यायजन्तोर्जा यद् यज्ञम् अशमन्त देवाः ॥

दैव्याय धात्रे देष्ट्रे देवश्रीः श्रीमनाः शतपात् ।

परिगृह्य यज्ञम् आयन् ॥

हरिकेशः सूर्यरश्मिः पुरस्तात् सविता ज्योतिर् उदयं अजस्रम् ।

तस्य पूषा प्रसवे याति विद्वान्त् सम्पश्यन् विश्वा भुवनानि गोपाः ॥

देवा देवेष्व् अध्वर्यन्तो अस्थुर् वीतं शमित्रा शमितं यजध्यै ।

तुरीयो यज्ञो यत्र हव्यम् एति ततो वाका आशिषो नो जुषन्ताम् ॥

इन्द्रं विश्वा अवीवृधन्त् समुद्रव्यचसं गिरः ।

रथीतमं रथीनां वाजानां सत्पतिं पतिम् ॥

विमान एष दिवो मध्य आस्त आपपृवान् रोदसी अन्तरिक्षम् ।

स विश्वाचीर् अभिचष्टे घृताचीर् अन्तरा पूर्वम् अपरं च केतुम् ॥

उक्षा समुद्रे अरुणः सुपर्णः पूर्वस्य योनिं पितुर् आविवेश ।

मध्ये दिवो निहितः पृश्निर् अश्मा विचक्रमे रजसस् पात्य् अन्तौ ॥

सुम्नहूर् यज्ञ आ च वक्षद् यक्षद् अग्निर् देवो देवं आ च वक्षत् ।

देवहूर् यज्ञ आ च वक्षद् यक्षद् अग्निर् देवो देवं आ च वक्षत् ॥

वाजस्य मा प्रसवेनेति द्वे

॥२.१०.५॥

क्रमध्वम् अग्निना नाकम् उख्यं हस्तेषु बिभ्रतः ।

दिवः पृष्ठं स्वर् गत्वा मिश्रा देवेभिर् आध्वम् ॥

प्राचीम् अनु ॥

अग्ने प्रेहि प्रथमो देवायतां चक्षुर् देवानाम् उत मर्त्यानाम् ।

इयक्षमाणा भृगुभिः सह स्वर् यन्तु यजमानाः स्वस्ति ॥

स्वर् : फ़्न् एमेन्देद्। एद्।: स्वर्।

पृथिव्या अहम् उद् अन्तरिक्षम् आरुहम् अन्तरिक्षाद् दिवम् आरुहम् ।

दिवो नाकस्य पृष्ठात् स्वर् ज्योतिर् अगाम् अहम् ॥

उद् : फ़्न् एमेन्देद्। एद्।: उद्।

स्वर् यन्तो नापेक्षन्ता आ द्यां रोहन्ति रोदसी ।

यज्ञं ये विश्वतोधारं सुविद्वांसो वितेनिरे ॥

स्वर् : फ़्न् एमेन्देद्। एद्।: स्वर्।

नक्तोषासाग्ने सहस्राक्ष ॥

सुपर्णो ऽसि गरुत्मान् पृष्ठे पृथिव्याः सीद ।

भासान्तरिक्षम् आपृण ज्योतिषा दिवम् उत्तभान तेजसा दिशा उद्दृम्ह ॥

आजुह्वानः सुप्रतीकः पुरस्ताद् अग्ने स्वं योनिम् आसीद साध्या ।

अस्मिन्त् सधस्थे अध्य् उत्तरस्मिन् विश्वे देवा यजमानश् च सीदत ॥

तां सवितुर् वरेण्यस्य चित्राम् आहं वृणे सुमतिं विश्वजन्याम् ।

याम् अस्य कण्वो अदुहत् प्रपीनां सहस्रधारां पयसा महीं गाम् ॥

विधेम ते परमे जन्मन्न् अग्ने विधेम स्तोमैर् अवरे सधस्थे ।

यस्माद् योनेर् उदारिथा यजा तं प्र त्वे समिद्धे जुहुरे हवींषि ॥

प्रेद्धो अग्ने दीदिहि पुरो नो ऽजस्रया सूर्म्या यविष्ठ ।

तां शश्वन्ता उपयन्ति वाजाः ॥

अग्ने तम् अद्य सप्त ते अग्ने ॥

चितिं जुहोमि मनसा यथा देवा इहागमन् ।

वीतिहोत्रा ऋतावृधः ॥

समुद्रस्य वो वयुनस्य पत्मन् जुहोमि विश्वकर्मणे ।

विश्वाहादाभ्यं हविः

॥२.१०.६॥
प्रपाठक 11

द्वितीयकाण्डे एकादशः प्रपाठकः

द्वितीयकाण्डे एकादशः प्रपाठकः

शुक्रज्योतिश् च चित्रज्योतिश् च सत्यज्योतिश् च ज्योतिष्मांश् च सत्यश् च ऋतपाश् चात्यंहा ऋतजिच् च सत्यजिच् च सेनजिच् च सुषेणश् चान्तिमित्रश् च दूरेऽमित्रश् च गण ऋतश् च सत्यश् च ध्रुवश् च धरुणश् च धर्ता च विधर्ता च विधारय ईडृङ् चैतादृङ् च सदृङ् च प्रतिसदृङ् च मितश् च सम्मितश् च सभरा ईदृक्षास एतादृक्षास ऊ षु णः सदृक्षासः प्रतिसदृक्षासा एतन मितासश् च सम्मितासो न ऊतये सभरसो मरुतो यज्ञे अस्मिन्न् इन्द्रं दैवीर् विशो मरुतो ऽनुवर्त्मानो यथेन्द्रं दैवीर् विशो मरुतो ऽनुवर्त्मानो ऽभवन्न् एवम् इमं यजमानं दैवीश् च विशो मानुषीश् चानुवर्त्मानो भवन्तु

॥२.११.१॥

वाजश् च मे प्रसवश् च मे प्रयतिश् च मे प्रसृतिश् च मे धीतिश् च मे क्रतुश् च मे स्वरश् च मे श्लोकश् च मे श्रावश् च मे श्रुतिश् च मे ज्योतिश् च मे स्वश् च मे प्राणश् च मे ऽपानश् च मे व्यानश् च मे ऽसुश् च मे चित्तं च मा आधीतं च मे वाक् च मे मनश् च मे चक्षुश् च मे श्रोत्रं च मे दक्षश् च मे बलं च म ओजश् च मे सहश् च म आयुश् च मे जरा च म आत्मा च मे तनूश् च मे शर्म च मे वर्म च मे ऽङ्गानि च मे ऽस्थानि च मे परूंषि च मे शरीराणि च मे ज्यैष्ठ्यं च मा आधिपत्यं च मे मन्युश् च मे भामश् च मे ऽमश् च मे ऽम्भश् च मे जेमा च मे महिमा च मे वरिमा च मे प्रथिमा च मे वर्ष्मा च मे द्राघ्मा च मे वृद्धं च मे वृद्धिश् च मे

॥२.११.२॥

सत्यं च मे श्रद्धा च मे जगच् च मे धनं च मे वशश् च मे त्विषिश् च मे क्रीडा च मे मोदश् च मे सूक्तं च मे सुकृतं च मे जातं च मे जनिष्यमाणं च मे वित्तं च मे वेद्यं च मे भूतं च मे भव्यं च म ऋद्धं च मा ऋद्धिश् च मे सुगं च मे सुपथं च मे कॢप्तं च मे क्रॢप्तिश् च मे मतिश् च मे सुमतिश् च मे शं च मे मयश् च मे प्रियं च मे ऽनुकामश् च मे कामश् च मे सौमनसश् च मे भगश् च मे द्रविणं च मे भद्रं च मे श्रेयश् च मे वसीयश् च मे यशश् च म ऋतं च मे ऽमृतं च मे ऽयक्ष्मं च मे ऽनामयच् च मे जीवातुश् च मे दीर्घायुत्वं च मे ऽनमित्रं च मे ऽभयं च मे सुखं च मे शयनं च मे सूषाश् च मे सुदिनं च मे

॥२.११.३॥

यन्ता च मे धर्ता च मे क्षेमश्च मे धृतिश् च मे विश्वं च मे महश् च मे संविच् च मे ज्ञात्रं च मे सूश् च मे प्रसूश् च मे सीरं च मे लयुश् च म ऊर्क् च मे सूनृता च मे पयश् च मे रसश् च मे घृतं च मे मधु च मे सग्धिश् च मे सपीतिश् च मे कृषिश् च मे वृष्टिश् च मे जैत्रं च मा औद्भेत्रं च मे रयिश् च मे रायश् च मे पुष्टं च मे पुष्टिश् च मे विभु च मे प्रभु च मे पूर्णं च मे पूर्णतरं च मे कुयवं च मे ऽक्षितिश् च मे ऽक्षुच् च मे ऽन्नं च मे व्रीहयश् च मे यवाश् च मे माषाश् च मे तिलाश् च मे ऽणवश् च मे प्रियङ्गवश् च मे श्यामाकाश् च मे नीवाराश् च मे गोधूमाश् च मे मसूराश् च मे मुद्गाश् च मे खर्वाश् च मे

॥२.११.४॥

पर्वताश् च मे गिरयश् च मे सिकताश् च मे वनस्पतयश् च मे ऽश्मा च मे अमृत्तिका च मे हिरण्यं च मे ऽयश् च मे सीसं च मे त्रपु च मे श्यामं च मे लोहितायसं च मे ऽग्निश् च मा आपश् च म ओषधयश् च मे वीरुधश् च मे कृष्टपच्याश् च मे ऽकृष्टपच्याश् च मे ग्राम्याश् च मे पशव आरण्याश् च यज्ञेन कल्पन्तां वित्तं च मे वित्तिश् च मे भूतं च मे भूतिश् च मे ऽर्थश् च मा एम च म इत्या च मे गतिश् च मे कर्म च मे शक्तिश् च मे वसु च मे वसतिश् च मे ऽग्निश् च मा इन्द्रश् च मे सोमश् च मा इन्द्रश् च मे सविता च मा इन्द्रश् च मे सरस्वती च मा इन्द्रश् च मे पूषा च मा इन्द्रश् च मे ऽदितिश् च मा इन्द्रश् च मे धाता च मा इन्द्रश् च मे त्वष्टा च मा इन्द्रश् च मे मित्रश् च मा इन्द्रश् च मे वरुणश् च मा इन्द्रश् च मे विष्णुश् च मा इन्द्रश् च मे बृहस्पतिश् च मा इन्द्रश् च मे वसवश् च मा इन्द्रश् च मे रुद्राश् च मा इन्द्रश् च म आदित्याश् च मा इन्द्रश् च मे मरुतश् च मा इन्द्रश् च मे पृथिवी च मा इन्द्रश् च मे ऽन्तरिक्षं च मा इन्द्रश् च मे द्यौश् च मा इन्द्रश् च मे नक्षत्राणि च मा इन्द्रश् च मे समा च मा इन्द्रश् च मे कृषिश् च मा इन्द्रश् च मे वृष्टिश् च मा इन्द्रश् च मे दिशश् च मा इन्द्रश् च मे विश्वे च मे देवा इन्द्रश् च मे ऽंशुश् च मे रश्मिश् च मे ऽधिपतिश् च मे ऽदाभ्यश् च म उपांशुश् च मे ऽन्तर्यामश् च म ऐन्द्रवायवश् च मे मैत्रावरुणश् च म आश्विनश् च मे प्रतिप्रस्थानश् च मे शुक्रश् च मे मन्थी च म आग्रायणश् च मे वैश्वदेवश् च म ऐन्द्राग्नश् च मे क्षुल्लकवैश्वदेवश् च मे ध्रुवश् च मे वैश्वानरश् च मे मरुत्वतीयाश् च मे निष्केवल्यश् च मे सावित्रश् च मे सारस्वतश् च मे पात्नीवतश् च मे हारियोजनश् च मे स्रुचश् च मे चमसाश् च मे वायव्यानि च मे द्रोणकलशश् च मे ऽधिषवणे च मे ग्रावाणश् च मे पूतभृच् च मे ऽपूतभृच् च मे बर्हिश् च मे वेदिश् च मे ऽवभृथश् च मे स्वगाकारश् च मे

॥२.११.५॥

अग्निश् च घर्मश् चार्कश् च सूर्यश् च प्राणश् चाश्वमेधश् चादितिश् च पृथिवी च दितिश् च द्यौश् च शक्वरीर् अङ्गुलयो दिशश् च मे यज्ञेन कल्पन्ताम् ऋतुश् च व्रतं च संवत्सरश् च तपश् चाहोरात्रे ऊर्वष्टीवे बृहद्रथन्तरे च मे यज्ञेन कल्पेताम् एका च तिस्रश् चा त्रयस्त्रिंशतश् चतस्रश् चाष्टौ चाष्टाचत्वारिंशतस् त्र्यविश् च त्र्यवी च दित्यवाट् च दित्यौही च पञ्चाविश् च पञ्चवी च त्रिवत्सश् च त्रिवत्सा च तुर्यवाट् च तुर्यौही च पष्ठवाट् च पष्ठौही चोक्षा च वशा च ऋषभश् च वेहच् च धेनुश् चानड्वांश् च स्तोमश् च यजुश् च ऋक् च साम च दीक्षा च तपश् च बृहच् च रथन्तरं चौषधयो वनस्पतयो दिशश् च मे यज्ञेन कल्पन्ताम् अन्नाय त्वा वाजाय त्वा वाजजित्यायै त्वेषे त्वोर्जे त्वा रय्यै त्वा पोषाय त्वा

॥२.११.६॥
प्रपाठक 12

द्वितीयकाण्डे द्वादशः प्रपाठकः

द्वितीयकाण्डे द्वादशः प्रपाठकः

पयस्वतीः प्रदिशः सन्तु मह्यम्

॥२.१२.१॥

ऋताषाड् ऋतधामाग्निर् गन्धर्वस् तस्यौषधयो ऽप्सरसो मुदा नाम स न इदं ब्रह्म क्षत्रं पातु ता न इदं ब्रह्म क्षत्रं पान्तु तस्मै स्वाहा वट् ताभ्यः स्वाहा वट् संहितो विश्वसामा सूर्यो गन्धर्वस् तस्य मरीचयो ऽप्सरस आयुवो नाम सुषुम्णः सूर्यरश्मिश् चन्द्रमा गन्धर्वस् तस्य नक्षत्राण्य् अप्सरसो बेकुरयो नामेषिरो विश्वव्यचा वातो गन्धर्वस् तस्यापो ऽप्सरसा ऊर्जो नाम भुजी सुपर्णो यज्ञो गन्धर्वस् तस्य दक्षिणा अप्सरसा एष्टयो नाम बृहस्पतिर् विश्वकर्मेन्द्रो गन्धर्वस् तस्य मरुतो ऽप्सरसा ओजो नाम प्रजापतिः परमेष्ठी मनो गन्धर्वस् तस्य ऋक्सामाण्य् अप्सरसः स्तवा नामामृडयो दूरेहेतिर् मृत्युर् गन्धर्वस् तस्य प्रजा अप्सरसो भीरवो नाम स नो भुवनस्य पते यस्य त उपरि गृहा विराट्पते ऽस्मै ब्रह्मणे ऽस्मै क्षत्राय महि शर्म यछ यस्य ते विश्वा आशा अप्सरसः प्लीया नाम स न इदं ब्रह्म क्षत्रं पातु ता न इदं ब्रह्म क्षत्रं पान्तु तस्मै स्वाहा वट् ताभ्यः स्वाहा वट्

॥२.१२.२॥

समुद्रो ऽसि नभस्वान् आर्द्रदानुः शम्भूर् मयोभूर् अभि मा वाहि स्वाहावस्युर् असि दुवस्वाञ् छम्भूर् मयोभूर् अभि मा वाहि स्वाहा मारुतो ऽसि मरुतां गणः शम्भूर् मयोभूर् अभि मा वाहि स्वाहा सजूर् अब्दा आयवभिः सजूर् उषा आरुणीभिः सजोषा अश्विना दंसोभिः सजूः सूरा एतशेन सजूर् वैश्वानर इडया घृतेन स्वाहा ॥

इडया : फ़्न् एमेन्देद्। एद्।: ईडया। च्फ़्। ३।४।४:४९।११

अग्निं युनज्मि शवसा घृतेन दिव्यं सुपर्णं वयसं बृहन्तम् ।

तेन वयं पतेम ब्रध्नस्य विष्टपं स्वो रुहाणा अधि नाक उत्तमे ॥

इमौ ते पक्षा अजरौ पतत्रिणौ याभ्यां रक्षांस्य् अपहंस्य् अग्ने ।

ताभ्यां वयं पतेम सुकृताम् उलोकं यत्रा ऋषयो जग्मुः प्रथमा ये पुराणाः ॥

इन्दुर् दक्षः श्येन ऋतावा हिरण्यपक्षः शकुनो भुरण्युः ।

महान्त् सधस्थे ध्रुव आ निषत्तो नमस् ते अस्तु मा मा हिंसीः ॥

दिवो मूर्धासि नाभिः पृथिव्या ऊर्ग् अपाम् ओषधीनाम् ।

विश्वायुः शर्म सप्रथा नमस् पथे विश्वस्य मूर्धन्न् अधितिष्ठसि श्रितः ॥

समुद्रे ते हृदयम् अन्तर् आयुर् अपो दत्तोदधिं भिन्त ।

दिवः पर्जन्याद् अन्तरिक्षात् पृथिव्यास् ततो नो वृष्ट्यावत ॥

वि ते मुञ्चामि रशनां वि रश्मीन् वि योक्त्राणि परिचर्तनानि ।

धत्ताद् अस्मभ्यं द्रविणेह भद्रं प्र मा ब्रूताद् भागदां देवतासु ॥

इष्टो यज्ञो भृगुभिर् द्रविणोदा यत्तिभिर् आशीर्दा वसुभिः ।

इष्टो अग्निर् आहुतः पिपर्तु न इष्टं हविः स्वगेदं देवेभ्यो नमः

॥२.१२.३॥

यत्तिभिर् : फ़्न् १।४।१:४८।४: यतिभिर्

येना ऋषयस् तपसा सत्रम् आसतेन्धाना अग्निं स्वर् आभरन्तः ।

यम् आहुर् मनवः स्तीर्णबर्हिषं तस्मिन्न् अहं निदधे नाके अग्निम् ॥

स्वर् : फ़्न् एमेन्देद्। एद्।: स्वर्।

तं पत्नीभिर् अनुगछेम देवाः पुत्रैर् भ्रातृभिर् उत वा हिरण्यैः ।

नाकं गृभ्णानाः सुकृतस्य लोके तृतीये पृष्ठे अधि रोचने दिवः ॥

आ वाचो मध्यम् अरुहद् भुरण्युर् अयम् अग्निः सत्पतिश् चेकितानः ।

पृष्ठे पृथिव्या निहितो दविद्युतद् अधस्पदं कृणुतां ये पृतन्यवः ॥

अयम् अग्निर् वीरतमो वयोधाः सहस्रीयो ज्योतताम् अप्रयुछन् ।

विभ्राजमानः सलिलस्य मध्या उप प्रयाहि दिव्यानि धामन् ॥

अग्ने च्यवस्व सम् अनु प्रयाह्य् आविष् पथो देवयानान् कृणुष्व ।

इदमिदं सुकृतम् आरभस्व यत्रा ऋषयो जग्मुः प्रथमा ये पुराणाः ॥

सम्प्रच्यवध्वम् उप सं प्रयाताविष् पथो देवयानान् कृणुध्वम् ।

एभिः सुकृतैर् अनुगछेम देवा यत्र नः पूर्वे पितरः परेताः ॥

उद्बुध्यस्वाग्ने प्रतिजागृह्य् एनम् इष्टापूर्ते संसृजेथाम् अयं च ।

पुनः कृण्वन्तः पितरो युवानो ऽन्वातांसुस् तव तन्तुम् एतम् ॥

येन वहसि सहस्रं येनाग्ने सर्ववेदसम् ।

तेनेमं यज्ञं नो वह स्वर् देवेषु गन्तवे ॥

अयं ते

॥२.१२.४॥

समास् त्वाग्न ऋतवो वर्धयन्तु संवत्सरा ऋषयो यानि सत्या ।

सं दिव्येन दीदिहि रोचनेन विश्वा आभाहि प्रदिशश् चतस्रः ॥

सं चेध्यस्वाग्ने प्र च बोधयैनम् उच् च तिष्ठ महते सौभगाय ।

मा च रिषद् उपसत्ता ते अग्ने ब्रह्माणस् ते यशसः सन्तु मान्ये ॥

त्वाम् अग्ने वृणते ब्राह्मणा इमे शिवो अग्ने संवरणे भवा नः ।

सपत्नहाग्ने अभिमातिजिद् भव स्वे गये जागृह्य् अप्रयुछन् ॥

इहैवाग्ने अधिधारया रयिं मा त्वा निक्रन् पूर्वचित्तौ निकारिणः ।

क्षत्रम् अग्ने सुयमम् अस्तु तुभ्यम् उपसत्ता वर्धतां ते अनिष्टृतः ॥

क्षत्रेणाग्ने स्वेन संरभस्व मित्रेणाग्ने मित्रधेये यतस्व ।

सजातानां मध्यमेष्ठेयाय राज्ञाम् अग्ने विहष्यो दीदिहीह ॥

अति निहो अति सृधो अत्य् अचित्तिम् अति निरृतिम् अद्य ।

विश्वा ह्य् अग्ने दुरिता तर त्वम् अथास्मभ्यं सहवीरं रयिं दाः ॥

अनाधृष्यो जातवेदा अनिष्टृतो विराड् अग्ने क्षत्रभृद् दीदिहीह ।

व्य् अमीवाः प्रमुञ्चन् मानुषाणां शिवेभिर् अद्य परिपाहि नो वृधे ॥

बृहस्पते सवितर् बोधयैनं संशितं चित् सन्तरं संशिशाधि ।

वर्धयैनं महते सौभगाय विश्वे चैनम् अनुमदन्तु देवाः ॥

अमुत्रभूयाद् अध यद् यमस्य बृहस्पते अभिशस्तेर् अमुञ्चः ।

प्रत्यूहताम् अश्विना मृत्युम् अस्माद् देवानाम् अग्ने भिषजा शचीभिः ॥

उद् वयं तमसस् परि ज्योतिः पश्यन्ता उत्तरम् ।

देवं देवत्रा सूर्यम् अगन्म ज्योतिर् उत्तमम्

॥२.१२.५॥

ऊर्ध्वा अस्य समिधो भवन्त्य् ऊर्ध्वा शुक्रा शोचींष्य् अग्नेः ।

द्युमत्तमा सुप्रतीकस्य सूनोः ॥

तनूनपाद् असुरो विश्ववेदा देवो देवेभ्यो देवयानान्

पथो अनक्तु मध्वा घृतेन ।

मध्वा यज्ञं नक्षति प्रीणानः ॥

नराशंसो अग्निः सुकृद् देवः सविता विश्ववारः ।

अछायम् एति शवसा घृतेन ॥

ईडानो वह्निर् नमसाग्निं स्रुचो अध्वरेषु प्रयत्सु ।

स यक्षद् अस्य महिमानम् अग्नेः ।

स ईं मन्द्रा सुप्रयसा स्तरीमन् । बर्हिषो मित्रमहाः ।

वसुश् चेतिष्ठो वसुधातमश् च ॥

द्वारो देवीर् अन्व् अस्य विश्वा व्रता ददन्ते अग्नेः ।

उरुव्यचसो धाम्ना पत्यमानाः ॥

ते अस्य योषणे दिव्ये न योना उषासानक्ता ।

इमं यज्ञम् अवताम् अध्वरं नः ॥

दैव्या होतारा ऊर्ध्वम् इमम् अध्वरं नो ऽग्नेर् जिह्वाभिगृणीतम् ।

कृणुतं नः स्विष्टम् ॥

तिस्रो देवीर् बर्हिर् एदं स्योनम् इडा सरस्वती मही ।

भारती गृणाना ॥

तन् नस् तुरीपम् अद्भुतं पुरुक्षु त्वष्टः सुवीर्यम् ।

रायस्पोषं विष्य नाभिम् अस्मे ॥

वनस्पते ऽवसृजा रराणस् त्मना देवेभ्यः ।

अग्निर् हव्यं शमिता सूदयाति ॥

अग्ने स्वाहा कृणुहि जातवेदा इन्द्राय देवेभ्यः ।

विश्वे देवा हविर् इदं जुषन्ताम्

॥२.१२.६॥
प्रपाठक 13

द्वितीयकाण्डे त्रयोदशः प्रपाठकः

द्वितीयकाण्डे त्रयोदशः प्रपाठकः

दिवि श्रयस्वान्तरिक्षे यतस्व पृथिव्याः सम्भव भ्राजं गछ

॥२.१३.१॥

तपो योनिर् असि विश्वाभिस् त्वा धीभिर् अछिद्राम् उपदधाम्य् ऋतं योनिः सत्यं योनिर् ब्रह्म योनिः क्षत्रं योनिः पृथिवी योनिर् अन्तरिक्षं योनिर् द्यौर् योनिर् दिशो योनिः

॥२.१३.२॥

प्राणाद् अपानं सन्तन्व् अपानाद् व्यानं सन्तनु व्यानाच् चक्षुः सन्तनु चक्षुषः श्रोत्रं सन्तनु श्रोत्रात् पृथिवीं सन्तनु पृथिव्या अन्तरिक्षं सन्तन्व् अन्तरिक्षाद् दिवं सन्तनु दिवो दिशः सन्तनु दिग्भ्यः स्वर्गं लोकम् अनुसन्तनु

॥२.१३.३॥

ऋचा त्वा छन्दसा सादयामि वषट्कारेण त्वा छन्दसा सादयामि हिङ्कारेण त्वा छन्दसा सादयामि प्रस्तावेन त्वा छन्दसा सादयाम्य् उद्गीथेन त्वा छन्दसा सादयामि प्रतिहारेण त्वा छन्दसा सादयामि स्तुतेन त्वा छन्दसा सादयामि निधनेन त्वा छन्दसा सादयामि

॥२.१३.४॥

दूतं वो विश्वदेवसं हव्यवाहम् अमर्त्यम् ।

यजिष्ठम् ऋञ्जसे गिरा ॥

अगन्म महा नमसा यविष्ठं यो दीदाय समिद्धः स्वे दुरोणे ।

चित्रभानुं रोदसी अन्तर् उर्वी स्वाहुतं विश्वतः प्रत्यञ्चम् ॥

अयम् इह ॥

दधन्वे वा यद् ईम् अनु वोचद् ब्रह्माणि वेर् उ तत् ।

परि विश्वानि काव्या नेमिश् चक्रम् इवाभुवत् ॥

ओभे सुश्चन्द्र विश्पते दर्वी श्रीणीष आसनि ।

उतो ना उत् पुपूर्या उक्थेषु शवसस्पत इषं स्तोतृभ्या आभर

॥२.१३.५॥

इन्द्रो दधीचो अस्थभिर् वृत्राण्य् अप्रतिष्कुतः ।

जघान नवतीर् नव ॥

अत्राह गोर् अमन्वत नाम त्वष्टुर् अपीच्यम् ।

इत्था चन्द्रमसो गृहे ॥

इछन्न् अश्वस्य यञ् शिरः पर्वतेष्व् अपश्रितम् ।

अविन्दञ् शर्यणावति ॥

इन्द्रम् इद् गाथिनो बृहद् इन्द्रम् अर्केभिर् अर्किणः ।

इन्द्रं वाणीर् अनूषत ॥

इन्द्रो दीर्घाय चक्षसा आ सूर्यं रोहयद् दिवि ।

वि गोभिर् अद्रिम् ऐरयत् ॥

इन्द्रा इद् धर्योः सचा सम्मिश्ला आ वचोयुजा ।

इन्द्रो वर्जी हिरण्ययः ॥

इन्द्र वाजेषु नो ऽव सहस्रप्रधनेषु च ।

उग्र उग्राभिर् ऊतिभिः ॥

तम् इन्द्रं वाजयामसि महे वृत्राय हन्तवे ।

स वृषा वृषभो भुवत् ॥

इन्द्रः स दामने कृत ओजिष्ठः स बले हितः ।

द्युम्नी श्लोकी स सोम्यः ॥

गिरा वज्रो न सम्भृतः सबलो अनपच्युतः ।

ववक्ष उग्रो अस्तृतः

॥२.१३.६॥

अयम् अग्निः सहस्रिणो ऽग्निर् मूर्धा त्वाम् अग्ने पुष्कराद् अधि ॥

अबोध्य् अग्निः समिधा जनानां प्रति धेनुम् इवायतीम् उषासम् ।

यह्वा इव प्र वयाम् उज्जिहानाः प्र भानवः सिस्रते नाकम् अछ ॥

अवोचाम कवये मेध्याय वचो वन्दारु वृषभाय वृष्णे ।

गविष्ठिरो नमसा स्तोमम् अग्नौ दिवीव रुक्मम् उरुव्यञ्चम् अश्रेत् ॥

अबोधि होता यजथाय देवान् ऊर्ध्वो अग्निः सुमनाः प्रातर् अस्थात् ।

समिद्धस्य रुशद् अदर्शि पाजो महान् देवस् तमसो निरमोचि ॥

जनस्य गोपा अजनिष्ट जागृविर् अग्निः सुदक्षः सुविताय नव्यसे ।

घृतप्रतीको बृहता दिविस्पृशा द्युमद् विभाति भरतेभ्यः शुचिः ॥

त्वाम् अग्ने अङ्गिरसो गुहा हितम् अन्वविन्दञ् शिश्रियाणं वनेवने ।

स जायसे मथ्यमानः सहो महत् त्वाम् आहुः सहसस् पुत्रम् अङ्गिरः ॥

तुभ्येदम् अग्ने मधुमत्तमं वचस् तुभ्यं मनीषा इयम् अस्तु शं हृदे ।

त्वां गिरः सिन्धुम् इवावनीर् महीर् आपृणन्ति शवसा वर्धयन्ति च ॥

संसम् इद् युवसे वृषन्न् अग्ने विश्वान्य् अर्य आ ।

इडस्पदे समिध्यसे स नो वसून्य् आभर ॥

अग्निं वः पूर्व्यं गिरा देवम् ईडे वसूनाम् ।

सपर्यवः पुरुप्रियं मित्रं न क्षेत्रसाधसम् ॥

त्वां चित्रश्रवस्तम हवन्ते विक्षु जन्तवः ।

शोचिष्केशं पुरुप्रियाग्ने हव्याय वोढवे ॥

आ ते अग्न इधीमहि द्युमन्तं देवाजरम् ।

यद् ध स्या ते पनीयसी समिद् दीदयति द्यवीषं स्तोतृभ्या आभर ॥

अग्निं तं मन्ये यो वसुर् अस्तं यं यन्ति धेनवः ।

अस्तम् अर्वन्त आशवो ऽस्तं नित्यासो वाजिन इषं स्तोतृभ्या आभार ॥

सो अग्निर् यो वसुर् गृणे सं यम् आयन्ति धेनवः ।

सम् अर्वन्तो रघुद्रुवः सं सुजातासः सूरय इषं स्तोतृभ्या आभर

॥२.१३.७॥

एना वो अग्निं नमसोर्जो नपातम् आहुवे ।

प्रियं चेतिष्ठम् अरतिं स्वध्वरं विश्वस्य दूतम् अमृतम् ॥

त्वम् अग्ने गृहपतिस् त्वं होता नो अध्वरे ।

त्वं पोता विश्ववार प्रचेता यक्षि वेषि च वार्यम् ॥

देवो वो द्रविणोदाः पूर्णां विवष्ट्य् आसिचम् ।

उद् वा सिञ्चध्वम् उप वा पृणध्वम् आद् इद् वो देव ओहते ।

अग्ने वाजस्य गोमता ईशानः सहसो यहो ।

अस्मे धेहि जातवेदो महि श्रवः ॥

स इधानो वसुः कविर् अग्निर् ईडेन्यो गिरा ।

रेवद् अस्मभ्यं पुर्वणीक दीदिहि ॥

क्षपो राजन्न् उत त्मनाग्ने वस्तोर् उतोषसः ।

स तिग्मजम्भ रक्षसो दह प्रति ॥

अग्ने तम् अद्याश्वं न स्तोमैः क्रतुं न भद्रं हृदिस्पृशम् ।

ऋध्यामा ता ओहैः ॥

अधा ह्य् अग्ने क्रतोर् भद्रस्य

दक्षस्य साधोः ।

रथीर् ऋतस्य बृहतो बभूथ ॥

आभिष् टे अद्य गीर्भिर् गृणन्तो ऽग्ने दाशेम । प्र ते दिवो न स्तनयन्त शुष्मैः ।

अग्निं होतारं मन्ये दास्वन्तं वसुं सूनुं सहसो जातवेदसं विप्रं न जातवेदसम् । य ऊर्ध्वया स्वध्वरो देवाच्या कृपा ।

घृतस्य विभ्राष्टिम् अनु शुक्रशोचिषः ॥

आजुह्वानस्य सर्पिषः ॥

हंसः शुचिषद् अभि त्यं देवं सवितारम् अग्ने त्वं नो अन्तमः ॥

अधा ह्य् अग्न एवा ह्य् अग्ने

॥२.१३.८॥

आयाहि सुषुमा हि ता इन्द्र सोमं पिबा इमम् ।

एदं बर्हिः सदो मम ॥

आ त्वा ब्रह्मयुजा हरी वहताम् इन्द्र केशिना ।

उप ब्रह्माणि नः शृणु ॥

ब्रह्माणस् त्वा वयं युजा सोमपाम् इन्द्र सोमिनः ।

सुतावन्तो हवामहे ॥

अभि त्वा शूर नोनुमो ऽदुग्धा इव धेनवः ।

ईशानम् अस्य जगतः स्वर्दृशम् ईशानम् इन्द्र तस्थुषः ।

न त्वावं अन्यो दिव्यो न पार्थिवो न जातो न जनिष्यते ।

अश्वायन्तो मघवन्न् इन्द्र वाजिनो गव्यन्तस् त्वा हवामहे ॥

त्वाम् इद् धि हवामहे साता वाजस्य कारवः ।

त्वां वृत्रेष्व् इन्द्र सत्पतिं नरस् त्वां काष्ठास्व् अर्वतः ॥

स त्वं नश् चित्र वज्रहस्त धृष्णुया महः स्तवानो अद्रिवः ।

गाम् अश्वं रथ्यम् इन्द्र सङ्किर सत्रा वाजं न जिग्युषे ॥

कया नश् चित्र आभुवद् ऊती सदावृधः सखा ।

कया शचिष्ठया वृता ॥

कस् त्वा सत्यो मदानां मंहिष्ठो मत्सद् अन्धसः ।

दृढा चिद् आरुजे वसु ॥

अभी षु णः सखीनाम् अविता जरित्πणाम् ।

शतं भवास्य् ऊतिभिः ॥

यज्ञायज्ञा वो अग्नये गिरागिरा च दक्षसे ।

प्रप्र वयम् अमृतं जातवेदसं प्रियं मित्रं न शंसिषम् ॥

ऊर्जो नपातं स हिनायम् अस्मयुर् दाशेम हव्यदातये ।

भुवद् वाजेष्व् अविता भुवद् वृध उत त्राता तनूनाम्

॥२.१३.९॥

ऋतूनां पत्नी प्रथमेयम् आगाद् अह्नां नेत्री जनित्र्य् उत प्रजानाम् ।

एका सती बहुधोषो व्युछाजीर्णा त्वं जरय सर्वम् अन्यत् ॥

को विराजो मिथुनत्वं प्रवेद ऋतून् को अस्याः क उ वेद रूपम् ।

दोहान् को वेद कतिधा विदुग्धाः कति धामानि कति ये विवासाः ॥

इयम् एव सा या प्रथमा व्यौछत् साप्स्व् अन्तश् चरति प्रविष्टा ।

वधूर् मिमाय नवगज् जनित्री त्रय एनां महिमानः सचन्ते ॥

छन्दस्वती उषसौ पेपिशाने समानं योनिम् अनुसञ्चरेते ।

सूर्यपत्नी विचरतः प्रजानती केतुमती अजरे भूरिरेतसौ ॥

ऋतस्य पन्थाम् अनु तिस्र आगुस् त्रयो घर्मासो अनु रेतसागुः ।

प्रजाम् एका जिन्वत्य् ऊर्जम् एका क्षत्रम् एका रक्षति देवयूनाम् ॥

चतुष्टोमम् अदधाद् या तुरीया यज्ञस्य पक्षा ऋषयो भवन्ती ।

गायत्रीं त्रिष्टुभं जगतीं विराजम् अर्कं युञ्जानाः स्वर् आभरन्न् इदम् ॥

पञ्चभिर् धाता विदधा इदं तासां स्वर् अजनन् पञ्चपञ्च ।

तासाम् उ यन्ति प्रयवेण पञ्च नाना रूपाणि क्रतवो वसानाः ॥

ऋतस्य धामन् प्रथमा व्यूषुष्य् अपाम् एका महिमानं बिभर्ति ।

सूर्यस्यैका चरति निष्कृतानि घर्मस्यैका सवितैकां नियछते ॥

इदं श्रेयो मन्यमानो वा आगाम् अहं वो अस्मि सख्याय शेवः ।

समानजन्मा क्रतुर् अस्त्य् एकः सर्वः सर्वा विचरतु प्रजानन् ॥

भूयास्म ते सुमतौ विश्ववेदा आष्ठाः प्रतिष्ठाम् अविदो हि गाधम् ।

सत्यं वदन्तीर् महिमानम् आपान्या वो अन्याम् अति मा प्रयुक्त ॥

रुशद्विधाना समना पुरस्तात् प्रजानती यामम् उषा अयासीत् ।

ब्रह्मद्विषस् तमसा देवशत्रून् अभिवहन्ती विश्ववारा व्यवाट् ॥

पञ्च व्युष्टीर् अनु पञ्च दोहा गां पञ्चनाम्नीम् ऋतवो ऽनु पञ्च ।

पञ्च दिशः पञ्चदशेन कॢप्ताः समानमूर्ध्नीर् अभि लोकम् एकम् ॥

त्रिंशत् स्वसारा उपयन्ति निष्कृतं समानं केतुं प्रतिमुञ्चमानाः ।

ऋतूंस् तन्वते कवयः प्रजानतीर् मध्ये छन्दसः परियन्ति भास्वतीः ॥

ज्योतिष्मतीः प्रतिमुञ्चते नभो देवी रात्री सूर्यस्य व्रतानि ।

विपश्यन्ति पशवो जायमाना नानारूपा मातुर् अस्या उपस्थे ॥

प्रथमा ह व्युवास सा धेनुर् अभवद् यमे ।

सा नः पयस्वती दुहा उत्तरामुत्तरां समाम्

॥२.१३.१०॥

पृष्टो दिवि पृष्टो अग्निः पृथिव्यां पृष्टो विश्वा ओषधीर् आविवेश ।

वैश्वानरः सहसा पृष्टो अग्निः स नो दिवा स रिषस् पातु नक्तम् ॥

त्वं यविष्ठ दाशुषो नॄंष् पाहि शृणुधी गिरः ।

रक्षा तोकम् उत त्मना ॥

अग्ने धामानि तव जातवेदो देव स्वधावो ऽमृतस्य नाम ।

याश् च माया मायिनां विश्वमिन्व त्वे पूर्वीः सन्दधुः पृष्टबन्धो

॥२.१३.११॥

यवा अयवा ऊमा एवा अब्दः सगरः सुमेको ऽग्ने कह्याग्ने किंशिलाग्ने दुध्राग्ने वन्याग्ने कक्ष्य या ता इषुर् युवा नाम तया विधेम तस्यै ते नमस् तस्यास् ता उप पत्सुतो जीवा भूयास्म ते यं द्विष्मो यश् च नो द्वेष्टि तम् अस्या जम्भे दध्मः

॥२.१३.१२॥

यो अप्स्व् अन्तर् अग्निर् यो वृत्रे यः पुरुषे यो अश्मनि ।

य आविवेशौषधीर् यो वनस्पतींस् तेभ्यो अग्निभ्यो हुतम् अस्त्व् एतत् ॥

यः सोमे अन्तर् यो गोष्व् अन्तर् वयांसि य आविवेश यो मृगेषु ।

य आविवेश द्विपदो यश् चतुष्पदस् तेभ्यो अग्निभ्यो हुतम् अस्त्व् एतत् ॥

येनेन्द्रस्य रथं सम्बभूवुर् यो वैश्वानर उत विश्वदाव्यः ।

धीरो यः शक्रः परिभूर् अदाभ्यस् तेभ्यो अग्निभ्यो हुतम् अस्त्व् एतत् ॥

विश्वादम् अग्निं यम् उ कामम् आहुर् यं दातारं प्रतिग्रहीतारम् आहुः ।

यं जोहवीमि पृतनासु सासहिं तेभ्यो अग्निभ्यो हुतम् अस्त्व् एतत् ॥

उक्षान्नाय वशान्नाय सोमपृष्ठाय वेधसे ।

स्तोमैर् विधेमाग्नये ॥

वैश्वानरज्येष्ठेभ्यस् तेभ्यो अग्निभ्यो हुतम् अस्त्व् एतत्

॥२.१३.१३॥

मा छन्दस् तत् पृथिव्य् अग्निर् देवता तेन छन्दसा तेन ब्रह्मणा तया देवतयाङ्गिरस्वद् ध्रुवा सीद ॥

प्रमा छन्दस् तद् अन्तरिक्षं वायुर् देवता प्रतिमा छन्दस् तद् द्यौः सूर्यो देवतास्रीवीश् छन्दस् तद् दिशः सोमो देवता गायत्री छन्दस् तद् अजा बृहस्पतिर् देवता त्रिष्टुप् छन्दस् तद् धिरण्यम् इन्द्रो देवता जगती छन्दस् तद् गौः प्रजापतिर् देवतानुष्टुप् छन्दस् तद् आयुर् मित्रो देवतोष्णिक् छन्दस् तच् चक्षुः पूषा देवता विराट् छन्दस् तद् अश्वो वरुणो देवता बृहती छन्दस् तत् कृषिः पर्जन्यो देवता पङ्क्तिश् छन्दस् तत् पुरुषः परमेष्ठी देवता तेन छन्दसा तेन ब्रह्मणा तया देवतयाङ्गिरस्वद् ध्रुवा सीद

॥२.१३.१४॥

पृथिव्य् असि जन्मना वशा साग्निं गर्भम् अधत्थाः सा मया सम्भवान्तरिक्षम् असि जन्मना वशा सा वायुं गर्भम् अधत्थाः सा मया सम्भव द्यौर् असि जन्मना वशा सादित्यं गर्भम् अधत्थाः सा मया सम्भव नक्षत्राण्य् असि जन्मना वशा सा चन्द्रमसं गर्भम् अधत्थाः सा मया सम्भव ऋग् असि जन्मना वशा सा साम गर्भम् अधत्थाः सा मया सम्भव विड् असि जन्मना वशा सा राजानं गर्भम् अधत्थाः सा मया सम्भव वाग् असि जन्मना वशा सा प्राणं गर्भम् अधत्थाः सा मया सम्भवापो ऽसि जन्मना वशा सा यज्ञं गर्भम् अधत्थाः सा मया सम्भव

॥२.१३.१५॥

या देव्य् असीष्टके कुमार्य् उपशीवरी सा मोपशेष्व जायेव सदम् इत् पतिं या देव्य् असीष्टके प्रफर्व्य् उपशीवरी सा मोपशेष्व जायेव सदम् इत् पतिं या देव्य् असीष्टके युवतिर् उपशीवरी सा मोपशेष्व जायेव सदम् इत् पतिं या देव्य् असीष्टक आयुर्दाः प्राणदा अपानदा व्यानदाश् चक्षुर्दाः श्रोत्रदाः पृथिव्याम् अन्तरिक्षे दिवः पृष्ठ उपशीवरी सा मोपशेष्व जायेव सदम् इत् पतिं या देवीः स्थेष्टकाः सुशेवा उपशीवरीस् ता मोपशेध्वं जाया इव सदम् इत् पतिम्

॥२.१३.१६॥

सवयसे त्वाभिवयसे त्वोर्ध्ववयसे त्वा बृहद्वयसे त्वा सहीयसे त्वा सहमानाय त्वा सासहये त्वा सहस्वते त्वाभीषाहे त्वाभिभ्वे त्वाभिमातिषाहे त्वाभिमातिघ्ने त्वा

॥२.१३.१७॥

भूयस्कृद् असि वरिवस्कृद् असि प्राच्य् अस्य् ऊर्ध्वास्य् अन्तरिक्षम् अस्य् ओजोदां त्वौजसि सादयामि पयोदां त्वा पयसि सादयामि तेजोदां त्वा तेजसि सादयामि यशोदां त्वा यशसि सादयामि वर्चोदां त्वा वर्चसि सादयामि पृथिव्यास् त्वा द्रविणे सादयाम्य् अन्तरिक्षस्य त्वा द्रविणे सादयामि दिवस् त्वा द्रविणे सादयामि दिशां त्वा द्रविणे सादयामि द्रविणोदां त्वा द्रविणे सादयाम्य् अप्सुषद् असि गृध्रसद् असि श्येनसद् असि सुपर्णसद् असि नाकसद् असि

॥२.१३.१८॥

ज्योतिष्मतीं त्वा सादयामि ज्योतिष्कृतं त्वा सादयामि ज्योतिर्विदं त्वा सादयाम्य् ऊर्ध्वज्योतिषं त्वा सादयामि बृहज्ज्योतिषं त्वा सादयामि विश्वज्योतिषं त्वा सादयाम्य् अजस्रां त्वा सादयामि भास्वतीं त्वा सादयामि दीप्यमानां त्वा सादयामि रोचमानां त्वा सादयामि ज्वलन्तीं त्वा सादयामि मल्मलाभवन्तीं त्वा सादयामि जाग्रतीं त्वा सादयामि बोधयन्तीं त्वा सादयामि

॥२.१३.१९॥

कृत्तिका नक्षत्रम् अग्निर् देवताग्ने रुचः स्थ प्रजापतेः सोमस्य धातुर् ऋचे त्वा रुचे त्वा भासे त्वा ज्योतिषे त्वा तेन छन्दसा तेन ब्रह्मणा तया देवतयाङ्गिरस्वद् ध्रुवा सीद रोहिणी नक्षत्रं प्रजापतिर् देवतेन्वगा नक्षत्रं मरुतो देवता बाहुर् नक्षत्रं रुद्रो देवता पुनर्वसुर् नक्षत्रम् अदितिर् देवता तिष्यो नक्षत्रं बृहस्पतिर् देवताश्लेषा नक्षत्रं सर्पा देवता मघा नक्षत्रं पितरो देवता फल्गुनीर् नक्षत्रं भगो देवता फल्गुनीर् नक्षत्रम् अर्यमा देवता हस्तो नक्षत्रं सविता देवता चित्रा नक्षत्रं त्वष्टा देवता निष्ट्यं नक्षत्रं वायुर् देवता विशाखं नक्षत्रम् इन्द्राग्नी देवतानूराधा नक्षत्रं मित्रो देवता ज्येष्ठा नक्षत्रं वरुणो देवता मूलं नक्षत्रं निरृतिर् देवताषाढा नक्षत्रम् आपो देवताषाढा नक्षत्रं विश्वे देवा देवताभिजिन् नक्षत्रं ब्रह्मा देवता श्रोणा नक्षत्रं विष्णुर् देवता श्रविष्ठा नक्षत्रं वसवो देवता शतभिषं नक्षत्रम् इन्द्रो देवता प्रोष्ठपदा नक्षत्रम् अहिर् बुध्न्यो देवता प्रोष्ठपदा नक्षत्रम् अज एकपाद् देवता रेवती नक्षत्रं पूषा देवताश्वयुजौ नक्षत्रम् अश्विनौ देवता भरणीर् नक्षत्रं यमो देवता ब्राह्मणो नक्षत्रं सोमो देवताग्ने रुचः स्थ प्रजापतेः सोमस्य धातुर् ऋचे त्वा रुचे त्वा भासे त्वा ज्योतिषे त्वा तेन छन्दसा तेन ब्रह्मणा तया देवतयाङ्गिरस्वद् ध्रुवा सीद

॥२.१३.२०॥

शतभिषं : ⟨ शतभिषज्

समीची नामासि प्राची दिक् तस्यास् ते ऽग्निर् अधिपतिर् असितो रक्षिता यश् च ते ऽधिपतिर् यश् च रक्षिता ताभ्यां नमो अस्तु तौ नो मृडतां ते यं द्विष्मो यश् च नो द्वेष्टि तम् एनयोर् जम्भे दध्म ओजस्या नामासि दक्षिणा दिक् तस्यास् ता इन्द्रो ऽधिपतिस् तिरश्चीनराजी रक्षिता यश् च ते ऽधिपतिर् यश् च रक्षिता ताभ्यां नमो अस्तु तौ नो मृडतां ते यं द्विष्मो यश् च नो द्वेष्टि तम् एनयोर् जम्भे दध्मः प्राची नामासि प्रतीची दिक् तस्यास् ते सोमो ऽधिपतिः स्वजो रक्षिता यश् च ते ऽधिपतिर् यश् च रक्षिता ताभ्यां नमो अस्तु तौ नो मृडतां ते यं द्विष्मो यश् च नो द्वेष्टि तम् एनयोर् जम्भे दध्मः सुषदा नामास्य् उदीची दिक् तस्यास् ते वरुणो ऽधिपतिः सृदागू रक्षिता यश् च ते ऽधिपतिर् यश् च रक्षिता ताभ्यां नमो अस्तु तौ नो मृडतां ते यं द्विष्मो यश् च नो द्वेष्टि तम् एनयोर् जम्भे दध्मो ऽवस्था नामास्य् अवाची दिक् तस्यास् ते विष्णुर् अधिपतिः कल्माषग्रीवो रक्षिता यश् च ते ऽधिपतिर् यश् च रक्षिता ताभ्यां नमो अस्तु तौ नो मृडतां ते यं द्विष्मो यश् च नो द्वेष्टि तम् एनयोर् जम्भे दध्मो ऽधिपत्नी नामास्य् ऊर्ध्वा दिक् तस्यास्ते बृहस्पतिर् अधिपतिश् चित्रो रक्षिता यश् च ते ऽधिपतिर् यश् च रक्षिता ताभ्यां नमो अस्तु तौ नो मृडतां ते यं द्विष्मो यश् च नो द्वेष्टि तम् एनयोर् जम्भे दध्मः

॥२.१३.२१॥

स्वयं कृण्वानः सुगम् अप्रयावं तिग्मशृङ्गो वृषभः शोशुचानः ।

प्रत्नं सधस्थम् अनुपश्यमाना आ तन्तुम् अग्निर् दिव्यं ततान ॥

त्वं तन्तुर् उत सेतुर् अग्ने त्वं पन्था भवसि देवयानः ।

त्वयाग्ने पृष्ठं वयम् आरुहेम यत्र देवैः सधमादं मदेम ॥

अतिसर्गं ददतो मानवायोर्ध्वं पन्थाम् अनुपश्यमानाः ।

अजुषन्त मरुतो यज्ञम् एतं वृष्टिद्यावानम् अमृतं स्वर्विदम् ॥

आवर्तमानो भुवनस्य मध्ये प्रजाः कृण्वन् जनयन् विरूपाः ।

संवत्सरः परमेष्ठी धृतव्रतो यज्ञं नः पातु रजसः परस्मात् ॥

प्रजां ददातु परिवत्सरो नो धाता दधातु सुमनस्यमानः ।

बह्वीः साकं बहुधा विश्वरूपा एकव्रता माम् अभिसंविशन्तु

॥२.१३.२२॥

हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिर् एक आसीत् ।

स दाधार पृथिवीं द्याम् उतेमां कस्मै देवाय हविषा विधेम ॥

यः प्राणतो निमिषतश् च राजा पतिर् विश्वस्य जगतो बभूव ।

ईशे यो अस्य द्विपदश् चतुष्पदः कस्मै देवाय हविषा विधेम ॥

य ओजोदा बलदा यस्य विश्व उपासते प्रशिषं यस्य देवाः ।

यस्य छायामृतं यस्य मृत्युः कस्मै देवाय हविषा विधेम ॥

यस्येमे विश्वे गिरयो महित्वा समुद्रं यस्य रसया सहाहुः ।

दिशो यस्य प्रदिशः पञ्च देवीः कस्मै देवाय हविषा विधेम ॥

येन द्यौर् उग्रा पृथिवी च दृढा येन स्वः स्तभितं येन नाकः ।

यो अन्तरिक्षं विममे वरीयः कस्मै देवाय हविषा विधेम ॥

य इमे द्यावापृथिवी तस्तभाने अधारयद् रोदसी रेजमाने ।

यस्मिन्न् अधि विततः सूरा एति कस्मै देवाय हविषा विधेम ।

आपो ह यन् महतीर् विश्वम् आयन् गर्भं दधाना जनयन्तीर् अग्निम् ।

ततो देवानां निरवर्ततासुः कस्मै देवाय हविषा विधेम ॥

आ नः प्रजां जनयतु प्रजापतिर् धाता दधातु सुमनस्यमानः ।

संवत्सर ऋतुभिः संविदानो मयि पुष्टिं पुष्टिपतिर् दधातु

॥२.१३.२३॥