द्वितीयकाण्डे त्रयोदशः प्रपाठकः
द्वितीयकाण्डे त्रयोदशः प्रपाठकः
दिवि श्रयस्वान्तरिक्षे यतस्व पृथिव्याः सम्भव भ्राजं गछ
॥२.१३.१॥तपो योनिर् असि विश्वाभिस् त्वा धीभिर् अछिद्राम् उपदधाम्य् ऋतं योनिः सत्यं योनिर् ब्रह्म योनिः क्षत्रं योनिः पृथिवी योनिर् अन्तरिक्षं योनिर् द्यौर् योनिर् दिशो योनिः
॥२.१३.२॥प्राणाद् अपानं सन्तन्व् अपानाद् व्यानं सन्तनु व्यानाच् चक्षुः सन्तनु चक्षुषः श्रोत्रं सन्तनु श्रोत्रात् पृथिवीं सन्तनु पृथिव्या अन्तरिक्षं सन्तन्व् अन्तरिक्षाद् दिवं सन्तनु दिवो दिशः सन्तनु दिग्भ्यः स्वर्गं लोकम् अनुसन्तनु
॥२.१३.३॥ऋचा त्वा छन्दसा सादयामि वषट्कारेण त्वा छन्दसा सादयामि हिङ्कारेण त्वा छन्दसा सादयामि प्रस्तावेन त्वा छन्दसा सादयाम्य् उद्गीथेन त्वा छन्दसा सादयामि प्रतिहारेण त्वा छन्दसा सादयामि स्तुतेन त्वा छन्दसा सादयामि निधनेन त्वा छन्दसा सादयामि
॥२.१३.४॥दूतं वो विश्वदेवसं हव्यवाहम् अमर्त्यम् ।
यजिष्ठम् ऋञ्जसे गिरा ॥
अगन्म महा नमसा यविष्ठं यो दीदाय समिद्धः स्वे दुरोणे ।
चित्रभानुं रोदसी अन्तर् उर्वी स्वाहुतं विश्वतः प्रत्यञ्चम् ॥
अयम् इह ॥
दधन्वे वा यद् ईम् अनु वोचद् ब्रह्माणि वेर् उ तत् ।
परि विश्वानि काव्या नेमिश् चक्रम् इवाभुवत् ॥
ओभे सुश्चन्द्र विश्पते दर्वी श्रीणीष आसनि ।
उतो ना उत् पुपूर्या उक्थेषु शवसस्पत इषं स्तोतृभ्या आभर
॥२.१३.५॥इन्द्रो दधीचो अस्थभिर् वृत्राण्य् अप्रतिष्कुतः ।
जघान नवतीर् नव ॥
अत्राह गोर् अमन्वत नाम त्वष्टुर् अपीच्यम् ।
इत्था चन्द्रमसो गृहे ॥
इछन्न् अश्वस्य यञ् शिरः पर्वतेष्व् अपश्रितम् ।
अविन्दञ् शर्यणावति ॥
इन्द्रम् इद् गाथिनो बृहद् इन्द्रम् अर्केभिर् अर्किणः ।
इन्द्रं वाणीर् अनूषत ॥
इन्द्रो दीर्घाय चक्षसा आ सूर्यं रोहयद् दिवि ।
वि गोभिर् अद्रिम् ऐरयत् ॥
इन्द्रा इद् धर्योः सचा सम्मिश्ला आ वचोयुजा ।
इन्द्रो वर्जी हिरण्ययः ॥
इन्द्र वाजेषु नो ऽव सहस्रप्रधनेषु च ।
उग्र उग्राभिर् ऊतिभिः ॥
तम् इन्द्रं वाजयामसि महे वृत्राय हन्तवे ।
स वृषा वृषभो भुवत् ॥
इन्द्रः स दामने कृत ओजिष्ठः स बले हितः ।
द्युम्नी श्लोकी स सोम्यः ॥
गिरा वज्रो न सम्भृतः सबलो अनपच्युतः ।
ववक्ष उग्रो अस्तृतः
॥२.१३.६॥अयम् अग्निः सहस्रिणो ऽग्निर् मूर्धा त्वाम् अग्ने पुष्कराद् अधि ॥
अबोध्य् अग्निः समिधा जनानां प्रति धेनुम् इवायतीम् उषासम् ।
यह्वा इव प्र वयाम् उज्जिहानाः प्र भानवः सिस्रते नाकम् अछ ॥
अवोचाम कवये मेध्याय वचो वन्दारु वृषभाय वृष्णे ।
गविष्ठिरो नमसा स्तोमम् अग्नौ दिवीव रुक्मम् उरुव्यञ्चम् अश्रेत् ॥
अबोधि होता यजथाय देवान् ऊर्ध्वो अग्निः सुमनाः प्रातर् अस्थात् ।
समिद्धस्य रुशद् अदर्शि पाजो महान् देवस् तमसो निरमोचि ॥
जनस्य गोपा अजनिष्ट जागृविर् अग्निः सुदक्षः सुविताय नव्यसे ।
घृतप्रतीको बृहता दिविस्पृशा द्युमद् विभाति भरतेभ्यः शुचिः ॥
त्वाम् अग्ने अङ्गिरसो गुहा हितम् अन्वविन्दञ् शिश्रियाणं वनेवने ।
स जायसे मथ्यमानः सहो महत् त्वाम् आहुः सहसस् पुत्रम् अङ्गिरः ॥
तुभ्येदम् अग्ने मधुमत्तमं वचस् तुभ्यं मनीषा इयम् अस्तु शं हृदे ।
त्वां गिरः सिन्धुम् इवावनीर् महीर् आपृणन्ति शवसा वर्धयन्ति च ॥
संसम् इद् युवसे वृषन्न् अग्ने विश्वान्य् अर्य आ ।
इडस्पदे समिध्यसे स नो वसून्य् आभर ॥
अग्निं वः पूर्व्यं गिरा देवम् ईडे वसूनाम् ।
सपर्यवः पुरुप्रियं मित्रं न क्षेत्रसाधसम् ॥
त्वां चित्रश्रवस्तम हवन्ते विक्षु जन्तवः ।
शोचिष्केशं पुरुप्रियाग्ने हव्याय वोढवे ॥
आ ते अग्न इधीमहि द्युमन्तं देवाजरम् ।
यद् ध स्या ते पनीयसी समिद् दीदयति द्यवीषं स्तोतृभ्या आभर ॥
अग्निं तं मन्ये यो वसुर् अस्तं यं यन्ति धेनवः ।
अस्तम् अर्वन्त आशवो ऽस्तं नित्यासो वाजिन इषं स्तोतृभ्या आभार ॥
सो अग्निर् यो वसुर् गृणे सं यम् आयन्ति धेनवः ।
सम् अर्वन्तो रघुद्रुवः सं सुजातासः सूरय इषं स्तोतृभ्या आभर
॥२.१३.७॥एना वो अग्निं नमसोर्जो नपातम् आहुवे ।
प्रियं चेतिष्ठम् अरतिं स्वध्वरं विश्वस्य दूतम् अमृतम् ॥
त्वम् अग्ने गृहपतिस् त्वं होता नो अध्वरे ।
त्वं पोता विश्ववार प्रचेता यक्षि वेषि च वार्यम् ॥
देवो वो द्रविणोदाः पूर्णां विवष्ट्य् आसिचम् ।
उद् वा सिञ्चध्वम् उप वा पृणध्वम् आद् इद् वो देव ओहते ।
अग्ने वाजस्य गोमता ईशानः सहसो यहो ।
अस्मे धेहि जातवेदो महि श्रवः ॥
स इधानो वसुः कविर् अग्निर् ईडेन्यो गिरा ।
रेवद् अस्मभ्यं पुर्वणीक दीदिहि ॥
क्षपो राजन्न् उत त्मनाग्ने वस्तोर् उतोषसः ।
स तिग्मजम्भ रक्षसो दह प्रति ॥
अग्ने तम् अद्याश्वं न स्तोमैः क्रतुं न भद्रं हृदिस्पृशम् ।
ऋध्यामा ता ओहैः ॥
अधा ह्य् अग्ने क्रतोर् भद्रस्य
दक्षस्य साधोः ।
रथीर् ऋतस्य बृहतो बभूथ ॥
आभिष् टे अद्य गीर्भिर् गृणन्तो ऽग्ने दाशेम । प्र ते दिवो न स्तनयन्त शुष्मैः ।
अग्निं होतारं मन्ये दास्वन्तं वसुं सूनुं सहसो जातवेदसं विप्रं न जातवेदसम् । य ऊर्ध्वया स्वध्वरो देवाच्या कृपा ।
घृतस्य विभ्राष्टिम् अनु शुक्रशोचिषः ॥
आजुह्वानस्य सर्पिषः ॥
हंसः शुचिषद् अभि त्यं देवं सवितारम् अग्ने त्वं नो अन्तमः ॥
अधा ह्य् अग्न एवा ह्य् अग्ने
॥२.१३.८॥आयाहि सुषुमा हि ता इन्द्र सोमं पिबा इमम् ।
एदं बर्हिः सदो मम ॥
आ त्वा ब्रह्मयुजा हरी वहताम् इन्द्र केशिना ।
उप ब्रह्माणि नः शृणु ॥
ब्रह्माणस् त्वा वयं युजा सोमपाम् इन्द्र सोमिनः ।
सुतावन्तो हवामहे ॥
अभि त्वा शूर नोनुमो ऽदुग्धा इव धेनवः ।
ईशानम् अस्य जगतः स्वर्दृशम् ईशानम् इन्द्र तस्थुषः ।
न त्वावं अन्यो दिव्यो न पार्थिवो न जातो न जनिष्यते ।
अश्वायन्तो मघवन्न् इन्द्र वाजिनो गव्यन्तस् त्वा हवामहे ॥
त्वाम् इद् धि हवामहे साता वाजस्य कारवः ।
त्वां वृत्रेष्व् इन्द्र सत्पतिं नरस् त्वां काष्ठास्व् अर्वतः ॥
स त्वं नश् चित्र वज्रहस्त धृष्णुया महः स्तवानो अद्रिवः ।
गाम् अश्वं रथ्यम् इन्द्र सङ्किर सत्रा वाजं न जिग्युषे ॥
कया नश् चित्र आभुवद् ऊती सदावृधः सखा ।
कया शचिष्ठया वृता ॥
कस् त्वा सत्यो मदानां मंहिष्ठो मत्सद् अन्धसः ।
दृढा चिद् आरुजे वसु ॥
अभी षु णः सखीनाम् अविता जरित्πणाम् ।
शतं भवास्य् ऊतिभिः ॥
यज्ञायज्ञा वो अग्नये गिरागिरा च दक्षसे ।
प्रप्र वयम् अमृतं जातवेदसं प्रियं मित्रं न शंसिषम् ॥
ऊर्जो नपातं स हिनायम् अस्मयुर् दाशेम हव्यदातये ।
भुवद् वाजेष्व् अविता भुवद् वृध उत त्राता तनूनाम्
॥२.१३.९॥ऋतूनां पत्नी प्रथमेयम् आगाद् अह्नां नेत्री जनित्र्य् उत प्रजानाम् ।
एका सती बहुधोषो व्युछाजीर्णा त्वं जरय सर्वम् अन्यत् ॥
को विराजो मिथुनत्वं प्रवेद ऋतून् को अस्याः क उ वेद रूपम् ।
दोहान् को वेद कतिधा विदुग्धाः कति धामानि कति ये विवासाः ॥
इयम् एव सा या प्रथमा व्यौछत् साप्स्व् अन्तश् चरति प्रविष्टा ।
वधूर् मिमाय नवगज् जनित्री त्रय एनां महिमानः सचन्ते ॥
छन्दस्वती उषसौ पेपिशाने समानं योनिम् अनुसञ्चरेते ।
सूर्यपत्नी विचरतः प्रजानती केतुमती अजरे भूरिरेतसौ ॥
ऋतस्य पन्थाम् अनु तिस्र आगुस् त्रयो घर्मासो अनु रेतसागुः ।
प्रजाम् एका जिन्वत्य् ऊर्जम् एका क्षत्रम् एका रक्षति देवयूनाम् ॥
चतुष्टोमम् अदधाद् या तुरीया यज्ञस्य पक्षा ऋषयो भवन्ती ।
गायत्रीं त्रिष्टुभं जगतीं विराजम् अर्कं युञ्जानाः स्वर् आभरन्न् इदम् ॥
पञ्चभिर् धाता विदधा इदं तासां स्वर् अजनन् पञ्चपञ्च ।
तासाम् उ यन्ति प्रयवेण पञ्च नाना रूपाणि क्रतवो वसानाः ॥
ऋतस्य धामन् प्रथमा व्यूषुष्य् अपाम् एका महिमानं बिभर्ति ।
सूर्यस्यैका चरति निष्कृतानि घर्मस्यैका सवितैकां नियछते ॥
इदं श्रेयो मन्यमानो वा आगाम् अहं वो अस्मि सख्याय शेवः ।
समानजन्मा क्रतुर् अस्त्य् एकः सर्वः सर्वा विचरतु प्रजानन् ॥
भूयास्म ते सुमतौ विश्ववेदा आष्ठाः प्रतिष्ठाम् अविदो हि गाधम् ।
सत्यं वदन्तीर् महिमानम् आपान्या वो अन्याम् अति मा प्रयुक्त ॥
रुशद्विधाना समना पुरस्तात् प्रजानती यामम् उषा अयासीत् ।
ब्रह्मद्विषस् तमसा देवशत्रून् अभिवहन्ती विश्ववारा व्यवाट् ॥
पञ्च व्युष्टीर् अनु पञ्च दोहा गां पञ्चनाम्नीम् ऋतवो ऽनु पञ्च ।
पञ्च दिशः पञ्चदशेन कॢप्ताः समानमूर्ध्नीर् अभि लोकम् एकम् ॥
त्रिंशत् स्वसारा उपयन्ति निष्कृतं समानं केतुं प्रतिमुञ्चमानाः ।
ऋतूंस् तन्वते कवयः प्रजानतीर् मध्ये छन्दसः परियन्ति भास्वतीः ॥
ज्योतिष्मतीः प्रतिमुञ्चते नभो देवी रात्री सूर्यस्य व्रतानि ।
विपश्यन्ति पशवो जायमाना नानारूपा मातुर् अस्या उपस्थे ॥
प्रथमा ह व्युवास सा धेनुर् अभवद् यमे ।
सा नः पयस्वती दुहा उत्तरामुत्तरां समाम्
॥२.१३.१०॥पृष्टो दिवि पृष्टो अग्निः पृथिव्यां पृष्टो विश्वा ओषधीर् आविवेश ।
वैश्वानरः सहसा पृष्टो अग्निः स नो दिवा स रिषस् पातु नक्तम् ॥
त्वं यविष्ठ दाशुषो नॄंष् पाहि शृणुधी गिरः ।
रक्षा तोकम् उत त्मना ॥
अग्ने धामानि तव जातवेदो देव स्वधावो ऽमृतस्य नाम ।
याश् च माया मायिनां विश्वमिन्व त्वे पूर्वीः सन्दधुः पृष्टबन्धो
॥२.१३.११॥यवा अयवा ऊमा एवा अब्दः सगरः सुमेको ऽग्ने कह्याग्ने किंशिलाग्ने दुध्राग्ने वन्याग्ने कक्ष्य या ता इषुर् युवा नाम तया विधेम तस्यै ते नमस् तस्यास् ता उप पत्सुतो जीवा भूयास्म ते यं द्विष्मो यश् च नो द्वेष्टि तम् अस्या जम्भे दध्मः
॥२.१३.१२॥यो अप्स्व् अन्तर् अग्निर् यो वृत्रे यः पुरुषे यो अश्मनि ।
य आविवेशौषधीर् यो वनस्पतींस् तेभ्यो अग्निभ्यो हुतम् अस्त्व् एतत् ॥
यः सोमे अन्तर् यो गोष्व् अन्तर् वयांसि य आविवेश यो मृगेषु ।
य आविवेश द्विपदो यश् चतुष्पदस् तेभ्यो अग्निभ्यो हुतम् अस्त्व् एतत् ॥
येनेन्द्रस्य रथं सम्बभूवुर् यो वैश्वानर उत विश्वदाव्यः ।
धीरो यः शक्रः परिभूर् अदाभ्यस् तेभ्यो अग्निभ्यो हुतम् अस्त्व् एतत् ॥
विश्वादम् अग्निं यम् उ कामम् आहुर् यं दातारं प्रतिग्रहीतारम् आहुः ।
यं जोहवीमि पृतनासु सासहिं तेभ्यो अग्निभ्यो हुतम् अस्त्व् एतत् ॥
उक्षान्नाय वशान्नाय सोमपृष्ठाय वेधसे ।
स्तोमैर् विधेमाग्नये ॥
वैश्वानरज्येष्ठेभ्यस् तेभ्यो अग्निभ्यो हुतम् अस्त्व् एतत्
॥२.१३.१३॥मा छन्दस् तत् पृथिव्य् अग्निर् देवता तेन छन्दसा तेन ब्रह्मणा तया देवतयाङ्गिरस्वद् ध्रुवा सीद ॥
प्रमा छन्दस् तद् अन्तरिक्षं वायुर् देवता प्रतिमा छन्दस् तद् द्यौः सूर्यो देवतास्रीवीश् छन्दस् तद् दिशः सोमो देवता गायत्री छन्दस् तद् अजा बृहस्पतिर् देवता त्रिष्टुप् छन्दस् तद् धिरण्यम् इन्द्रो देवता जगती छन्दस् तद् गौः प्रजापतिर् देवतानुष्टुप् छन्दस् तद् आयुर् मित्रो देवतोष्णिक् छन्दस् तच् चक्षुः पूषा देवता विराट् छन्दस् तद् अश्वो वरुणो देवता बृहती छन्दस् तत् कृषिः पर्जन्यो देवता पङ्क्तिश् छन्दस् तत् पुरुषः परमेष्ठी देवता तेन छन्दसा तेन ब्रह्मणा तया देवतयाङ्गिरस्वद् ध्रुवा सीद
॥२.१३.१४॥पृथिव्य् असि जन्मना वशा साग्निं गर्भम् अधत्थाः सा मया सम्भवान्तरिक्षम् असि जन्मना वशा सा वायुं गर्भम् अधत्थाः सा मया सम्भव द्यौर् असि जन्मना वशा सादित्यं गर्भम् अधत्थाः सा मया सम्भव नक्षत्राण्य् असि जन्मना वशा सा चन्द्रमसं गर्भम् अधत्थाः सा मया सम्भव ऋग् असि जन्मना वशा सा साम गर्भम् अधत्थाः सा मया सम्भव विड् असि जन्मना वशा सा राजानं गर्भम् अधत्थाः सा मया सम्भव वाग् असि जन्मना वशा सा प्राणं गर्भम् अधत्थाः सा मया सम्भवापो ऽसि जन्मना वशा सा यज्ञं गर्भम् अधत्थाः सा मया सम्भव
॥२.१३.१५॥या देव्य् असीष्टके कुमार्य् उपशीवरी सा मोपशेष्व जायेव सदम् इत् पतिं या देव्य् असीष्टके प्रफर्व्य् उपशीवरी सा मोपशेष्व जायेव सदम् इत् पतिं या देव्य् असीष्टके युवतिर् उपशीवरी सा मोपशेष्व जायेव सदम् इत् पतिं या देव्य् असीष्टक आयुर्दाः प्राणदा अपानदा व्यानदाश् चक्षुर्दाः श्रोत्रदाः पृथिव्याम् अन्तरिक्षे दिवः पृष्ठ उपशीवरी सा मोपशेष्व जायेव सदम् इत् पतिं या देवीः स्थेष्टकाः सुशेवा उपशीवरीस् ता मोपशेध्वं जाया इव सदम् इत् पतिम्
॥२.१३.१६॥सवयसे त्वाभिवयसे त्वोर्ध्ववयसे त्वा बृहद्वयसे त्वा सहीयसे त्वा सहमानाय त्वा सासहये त्वा सहस्वते त्वाभीषाहे त्वाभिभ्वे त्वाभिमातिषाहे त्वाभिमातिघ्ने त्वा
॥२.१३.१७॥भूयस्कृद् असि वरिवस्कृद् असि प्राच्य् अस्य् ऊर्ध्वास्य् अन्तरिक्षम् अस्य् ओजोदां त्वौजसि सादयामि पयोदां त्वा पयसि सादयामि तेजोदां त्वा तेजसि सादयामि यशोदां त्वा यशसि सादयामि वर्चोदां त्वा वर्चसि सादयामि पृथिव्यास् त्वा द्रविणे सादयाम्य् अन्तरिक्षस्य त्वा द्रविणे सादयामि दिवस् त्वा द्रविणे सादयामि दिशां त्वा द्रविणे सादयामि द्रविणोदां त्वा द्रविणे सादयाम्य् अप्सुषद् असि गृध्रसद् असि श्येनसद् असि सुपर्णसद् असि नाकसद् असि
॥२.१३.१८॥ज्योतिष्मतीं त्वा सादयामि ज्योतिष्कृतं त्वा सादयामि ज्योतिर्विदं त्वा सादयाम्य् ऊर्ध्वज्योतिषं त्वा सादयामि बृहज्ज्योतिषं त्वा सादयामि विश्वज्योतिषं त्वा सादयाम्य् अजस्रां त्वा सादयामि भास्वतीं त्वा सादयामि दीप्यमानां त्वा सादयामि रोचमानां त्वा सादयामि ज्वलन्तीं त्वा सादयामि मल्मलाभवन्तीं त्वा सादयामि जाग्रतीं त्वा सादयामि बोधयन्तीं त्वा सादयामि
॥२.१३.१९॥कृत्तिका नक्षत्रम् अग्निर् देवताग्ने रुचः स्थ प्रजापतेः सोमस्य धातुर् ऋचे त्वा रुचे त्वा भासे त्वा ज्योतिषे त्वा तेन छन्दसा तेन ब्रह्मणा तया देवतयाङ्गिरस्वद् ध्रुवा सीद रोहिणी नक्षत्रं प्रजापतिर् देवतेन्वगा नक्षत्रं मरुतो देवता बाहुर् नक्षत्रं रुद्रो देवता पुनर्वसुर् नक्षत्रम् अदितिर् देवता तिष्यो नक्षत्रं बृहस्पतिर् देवताश्लेषा नक्षत्रं सर्पा देवता मघा नक्षत्रं पितरो देवता फल्गुनीर् नक्षत्रं भगो देवता फल्गुनीर् नक्षत्रम् अर्यमा देवता हस्तो नक्षत्रं सविता देवता चित्रा नक्षत्रं त्वष्टा देवता निष्ट्यं नक्षत्रं वायुर् देवता विशाखं नक्षत्रम् इन्द्राग्नी देवतानूराधा नक्षत्रं मित्रो देवता ज्येष्ठा नक्षत्रं वरुणो देवता मूलं नक्षत्रं निरृतिर् देवताषाढा नक्षत्रम् आपो देवताषाढा नक्षत्रं विश्वे देवा देवताभिजिन् नक्षत्रं ब्रह्मा देवता श्रोणा नक्षत्रं विष्णुर् देवता श्रविष्ठा नक्षत्रं वसवो देवता शतभिषं नक्षत्रम् इन्द्रो देवता प्रोष्ठपदा नक्षत्रम् अहिर् बुध्न्यो देवता प्रोष्ठपदा नक्षत्रम् अज एकपाद् देवता रेवती नक्षत्रं पूषा देवताश्वयुजौ नक्षत्रम् अश्विनौ देवता भरणीर् नक्षत्रं यमो देवता ब्राह्मणो नक्षत्रं सोमो देवताग्ने रुचः स्थ प्रजापतेः सोमस्य धातुर् ऋचे त्वा रुचे त्वा भासे त्वा ज्योतिषे त्वा तेन छन्दसा तेन ब्रह्मणा तया देवतयाङ्गिरस्वद् ध्रुवा सीद
॥२.१३.२०॥शतभिषं : ⟨ शतभिषज्
समीची नामासि प्राची दिक् तस्यास् ते ऽग्निर् अधिपतिर् असितो रक्षिता यश् च ते ऽधिपतिर् यश् च रक्षिता ताभ्यां नमो अस्तु तौ नो मृडतां ते यं द्विष्मो यश् च नो द्वेष्टि तम् एनयोर् जम्भे दध्म ओजस्या नामासि दक्षिणा दिक् तस्यास् ता इन्द्रो ऽधिपतिस् तिरश्चीनराजी रक्षिता यश् च ते ऽधिपतिर् यश् च रक्षिता ताभ्यां नमो अस्तु तौ नो मृडतां ते यं द्विष्मो यश् च नो द्वेष्टि तम् एनयोर् जम्भे दध्मः प्राची नामासि प्रतीची दिक् तस्यास् ते सोमो ऽधिपतिः स्वजो रक्षिता यश् च ते ऽधिपतिर् यश् च रक्षिता ताभ्यां नमो अस्तु तौ नो मृडतां ते यं द्विष्मो यश् च नो द्वेष्टि तम् एनयोर् जम्भे दध्मः सुषदा नामास्य् उदीची दिक् तस्यास् ते वरुणो ऽधिपतिः सृदागू रक्षिता यश् च ते ऽधिपतिर् यश् च रक्षिता ताभ्यां नमो अस्तु तौ नो मृडतां ते यं द्विष्मो यश् च नो द्वेष्टि तम् एनयोर् जम्भे दध्मो ऽवस्था नामास्य् अवाची दिक् तस्यास् ते विष्णुर् अधिपतिः कल्माषग्रीवो रक्षिता यश् च ते ऽधिपतिर् यश् च रक्षिता ताभ्यां नमो अस्तु तौ नो मृडतां ते यं द्विष्मो यश् च नो द्वेष्टि तम् एनयोर् जम्भे दध्मो ऽधिपत्नी नामास्य् ऊर्ध्वा दिक् तस्यास्ते बृहस्पतिर् अधिपतिश् चित्रो रक्षिता यश् च ते ऽधिपतिर् यश् च रक्षिता ताभ्यां नमो अस्तु तौ नो मृडतां ते यं द्विष्मो यश् च नो द्वेष्टि तम् एनयोर् जम्भे दध्मः
॥२.१३.२१॥स्वयं कृण्वानः सुगम् अप्रयावं तिग्मशृङ्गो वृषभः शोशुचानः ।
प्रत्नं सधस्थम् अनुपश्यमाना आ तन्तुम् अग्निर् दिव्यं ततान ॥
त्वं तन्तुर् उत सेतुर् अग्ने त्वं पन्था भवसि देवयानः ।
त्वयाग्ने पृष्ठं वयम् आरुहेम यत्र देवैः सधमादं मदेम ॥
अतिसर्गं ददतो मानवायोर्ध्वं पन्थाम् अनुपश्यमानाः ।
अजुषन्त मरुतो यज्ञम् एतं वृष्टिद्यावानम् अमृतं स्वर्विदम् ॥
आवर्तमानो भुवनस्य मध्ये प्रजाः कृण्वन् जनयन् विरूपाः ।
संवत्सरः परमेष्ठी धृतव्रतो यज्ञं नः पातु रजसः परस्मात् ॥
प्रजां ददातु परिवत्सरो नो धाता दधातु सुमनस्यमानः ।
बह्वीः साकं बहुधा विश्वरूपा एकव्रता माम् अभिसंविशन्तु
॥२.१३.२२॥हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिर् एक आसीत् ।
स दाधार पृथिवीं द्याम् उतेमां कस्मै देवाय हविषा विधेम ॥
यः प्राणतो निमिषतश् च राजा पतिर् विश्वस्य जगतो बभूव ।
ईशे यो अस्य द्विपदश् चतुष्पदः कस्मै देवाय हविषा विधेम ॥
य ओजोदा बलदा यस्य विश्व उपासते प्रशिषं यस्य देवाः ।
यस्य छायामृतं यस्य मृत्युः कस्मै देवाय हविषा विधेम ॥
यस्येमे विश्वे गिरयो महित्वा समुद्रं यस्य रसया सहाहुः ।
दिशो यस्य प्रदिशः पञ्च देवीः कस्मै देवाय हविषा विधेम ॥
येन द्यौर् उग्रा पृथिवी च दृढा येन स्वः स्तभितं येन नाकः ।
यो अन्तरिक्षं विममे वरीयः कस्मै देवाय हविषा विधेम ॥
य इमे द्यावापृथिवी तस्तभाने अधारयद् रोदसी रेजमाने ।
यस्मिन्न् अधि विततः सूरा एति कस्मै देवाय हविषा विधेम ।
आपो ह यन् महतीर् विश्वम् आयन् गर्भं दधाना जनयन्तीर् अग्निम् ।
ततो देवानां निरवर्ततासुः कस्मै देवाय हविषा विधेम ॥
आ नः प्रजां जनयतु प्रजापतिर् धाता दधातु सुमनस्यमानः ।
संवत्सर ऋतुभिः संविदानो मयि पुष्टिं पुष्टिपतिर् दधातु
॥२.१३.२३॥