आश्वलायन — प्रातः सन्ध्या
आचमनं
| ओं अच्युताय नम: | ओं अनन्ताय नम: | ओं गोविन्दाय नम: |
| केशव | नारायण | माधव |
| गोविन्द | विष्णु | मधुसूदन |
| त्रिविक्रम | वामन | श्रीधर |
| हृषीकेश | पद्मनाभ | दामोदरा |
श्री गणपति ध्यानं
शुक्लां बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।
प्रसन्न वदनं ध्यायेत् सर्व विध्नोप शांतये ॥
प्राणायाम:
ऒं भू: ऒं भुव: ऒं स्व: ऒं मह: ऒं जन: ऒं तप: ऒं सत्यं । ऒं तत्स॑वि॒तुर्वरे॑ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ योन॑: प्रचो॒दया॑त् ॥
ऒं आपो॒ ज्योती॒रसो॒मृतं॒ ब्रह्म॒ भूर्भुव॒स्वरोम् ।
इति त्रि: उक्त्वा - प्राणायामान्ते दक्षिण कर्णं स्पृष्ट्वा
सङ्कल्पम्
ममोपात्त समस्त दुरित क्षयद्वारा श्री परमेश्वर प्रीत्यर्थं प्रात: सन्ध्यां उपासिष्ये ।
इति सङ्कल्प्य
मार्जनम्
आपो॒हिष्ठा म॑यो॒भुव॒स्तान॑ ऊ॒र्जे द॑धात न । म॒हेरना॑य॒ चक्ष॑से ॥ योव॑श्शि॒वत॑मो॒ रस॒स्तस्य॑ भाजय ते॒ह न॑: । उ॒श॒तीरि॑व मा॒तर॑: ॥ तस्मा॒ अर॑ङ्गमामवो॒ यस्य॒क्षया॑य॒ जिन्व॑थ । आपो॑ ज॒नय॑था च न: ॥
इति शिरसि प्रोक्ष्य
ओं भूर्भुव॒स्व॑: ।
इति आत्मानं परिषिच्य
प्राशनम्
सूर्यश्च मा मऩ्युश्च मन्युपतयश्च मन्यु॑कृते॒भ्य: । पापेभ्यो॑ रक्ष॒न्ताम् । यद्रात्र्या पाप॑मका॒र्षम् । मनसावाचा॑ हस्ता॒भ्यां । पद्भ्यामुदरे॑णशि॒ष्न । रात्रि॒स्तद॑व लु॒म्पतु । यत्किंच॑ दुरि॒तम् मयि॑ । इदमहं माममृ॑त यो॒नौ । सूर्ये ज्योतिषि जुहो॑मि स्वा॒हा।
इति अप: प्राश्य
आचमनं — पुनः
आचमनं
| ओं अच्युताय नम: | ओं अनन्ताय नम: | ओं गोविन्दाय नम: |
| केशव | नारायण | माधव |
| गोविन्द | विष्णु | मधुसूदन |
| त्रिविक्रम | वामन | श्रीधर |
| हृषीकेश | पद्मनाभ | दामोदरा |
पुनर्माजनम्
द॒धिक्राव्णो॑ अकार्षं जि॒ष्णो रश्व॑स्य वा॒जि न॑: । सु॒र॒भिनो॒ मुका॑कर॒त् प्रण॒ आयूं॑षि तारिषत् ॥
आपो॒हिष्ठा म॑यो॒भुव॒स्तान॑ ऊ॒र्जे द॑धात न । म॒हेरना॑य॒ चक्ष॑से ॥ योव॑श्शि॒वत॑मो॒ रस॒स्तस्य॑ भाजय ते॒ह न॑: । उ॒श॒तीरि॑व मा॒तर॑: ॥ तस्मा॒ अर॑ङ्गमामवो॒ यस्य॒क्षया॑य॒ जिन्व॑थ । आपो॑ ज॒नय॑था च न: ॥
इति शिरसि प्रोक्ष्य
ओं भूर्भुव॒स्व॑: ।
इति आत्मानं परिषिच्य
अर्घ्य प्रदानं
ऒं तत्स॑वि॒तुर्वरे॑ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ योन॑: प्रचो॒दया॑॑त् ॥
इति अर्घ्यं त्रिवारं समन्त्रकं दद्यात्
प्राणायाम:
ऒं भू: ऒं भुव: ऒं स्व: ऒं मह: ऒं जन: ऒं तप: ऒं सत्यं । ऒं तत्स॑वि॒तुर्वरे॑ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ योन॑: प्रचो॒दया॑त् ॥
ऒं आपो॒ ज्योती॒रसो॒मृतं॒ ब्रह्म॒ भूर्भुव॒स्वरोम् ।
प्रायश्चित्त अर्घ्यं
ममोपात्त समस्त दुरित क्षयद्वारा श्री परमेश्वर प्रीत्यर्थं प्रात: सन्ध्या कालातीत प्रायश्चित्त अर्घ्यप्रदानं करिष्ये ॥
यद॒द्य कच्च॑ व्रुत्रहन्नु॒दगा॑ अ॒भि सू॑र्य । सर्वं॒ तदि॑न्द्र ते॒वषे॑ ॥
इति एकं अर्घ्यं दत्वा
ओं भूर्भुव॒स्व॑: असावादित्यो ब्रह्मा
इति आत्मानं परिषिच्य
केशवादि तर्पणं
| १. आदित्यं तर्पयामि | २.सोमम् तर्पयामि | ३.अङ्गारकम् तर्पयामि |
| ४.बुधं तर्पयामि | ५.बृहस्पतिं तर्पयामि | ६.शुक्रं तर्पयामि |
| ७.शनैश्चरं तर्पयामि | ८.राहुं तर्पयामि | ९.केतुं तर्पयामि |
| १०.केशवं तर्पयामि | ११.नारायणं तर्पयामि | १२.माधवं तर्पयामि |
| १३.गोविन्दं तर्पयामि | १४.विष्णुं तर्पयामि | १५.मधुसूदनं तर्पयामि |
| १६.त्रिविक्रमं तर्पयामि | १७.वामनं तर्पयामि | १८.श्रीधरं तर्पयामि |
| १९.हृषीकेशं तर्पयामि | २०.पद्मनाभं तर्पयामि | २१.दामोदरं तर्पयामि |
इति जलेन नव - द्वादश च तर्पणानि कृत्वा
आचमनं — पुनः
आचमनं
| ओं अच्युताय नम: | ओं अनन्ताय नम: | ओं गोविन्दाय नम: |
| केशव | नारायण | माधव |
| गोविन्द | विष्णु | मधुसूदन |
| त्रिविक्रम | वामन | श्रीधर |
| हृषीकेश | पद्मनाभ | दामोदरा |
प्राणायाम - न्यासं
- प्रणवस्य ऋषि: ब्रह्मा, देवी गायत्री छंद:, परमात्मा देवता
- भूरादि सप्त व्याह्रुतीनाम् अत्रि - भ्रुगु - कुत्स - वसिष्ठ - गौतम - काष्यप - आङ्गीरस ऋषय:
- गायत्रि - उष्णिक् - अनुष्टुप् - ब्रुहती - पङ्ती - त्रिष्टुप् - जगत्यश्छ्न्दांसि
- अग्नि - वायु - अर्क - वागीश - वरुण - इन्द्र - विश्वेदेवा देवता: प्राणायामे विनियोग:
प्राणायाम:
ऒं भू: ऒं भुव: ऒं स्व: ऒं मह: ऒं जन: ऒं तप: ऒं सत्यं । ऒं तत्स॑वि॒तुर्वरे॑ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ योन॑: प्रचो॒दया॑त् ॥
ऒं आपो॒ ज्योती॒रसो॒मृतं॒ ब्रह्म॒ भूर्भुव॒स्वरोम् ।
इति त्रि: उक्त्वा - प्राणायामान्ते दक्षिण कर्णं स्पृष्ट्वा
गायत्री आवाहनम्
आया॑तु॒ वर॑दा दे॒वि॒ अ॒क्षरं॑ ब्रह्म॒ सम्मि॑तम् । गा॒य॒त्री॑म् छंद॑सांमा॒तेतम् ब्र॑ह्म जु॒षस्व॑मे ॥
ओजो॑सि॒ - सहो॑सि॒ - बल॑मसि॒ - भ्राजो॑सि - दे॒वाना॒म् धाम॒नामा॑सि॒ - विश्व॑मसि वि॒श्वायु॒: सर्व॑मसि स॒र्वायुरभिभूरोम्
- गायत्रीं आवाहयामि
- सावित्रीं आवाहयामि
- सरस्वतीं आवाहयामि
इति गायत्रीं सूर्य मण्डले स्वहृदये वा आवाह्य
ध्यानम्
मुक्ता - विद्रुम - हेम - नील - धवलच्छायैर्मुखैस्त्रीक्षणै: युक्तामिंदुकला-निबद्धरत्ऩमकुटाम् तत्त्वार्थ - वर्णात्मिकाम् । गायत्रीं वरदाभयांकुश - कशा:शुभ्रम्गपालं गदां शंखं - चक्र - मथारविंदयुगलं हस्तैर्वहंतीं भजे ॥
यो देवस्सवितास्माकं धियो धर्मादि गोचराः । प्रेरयेत्तस्य यद्भर्गस्तद्वरेण्य उपास्महे ॥
इति सावित्रीमूर्तिध्यानं कृत्वा
गायत्री जपम्
ऒं तत्स॑वि॒तुर्वरे॑ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ योन॑: प्रचो॒दया॑॑त् ॥
कणिष्ठिकामूलमारभ्य प्रादक्षिण्येन गणयन् यथासङ्कल्पं पन्चावसानं गायत्री मन्त्रं जपेत्
प्राणायाम:
ऒं भू: ऒं भुव: ऒं स्व: ऒं मह: ऒं जन: ऒं तप: ऒं सत्यं । ऒं तत्स॑वि॒तुर्वरे॑ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ योन॑: प्रचो॒दया॑त् ॥
ऒं आपो॒ ज्योती॒रसो॒मृतं॒ ब्रह्म॒ भूर्भुव॒स्वरोम् ।
गायत्र्युद्वासनम्
उ॒त्तमे॑ शिख॑रे दे॒वी॒ भू॒म्यां प॑र्वत॒ मूर्ध॑नि ।
ब्रा॒ह्मणेभ्यो ह्य॑नुज्ञा॒नं ग॒च्छ दे॑वि य॒थासु॑खम् ॥
इति गायत्रीं उद्यास्य
सङ्कल्पम् - उपस्थानं
ममोपात्त समस्त दुरित क्षयद्वारा श्री परमेश्वर प्रीत्यर्थं प्रात: सन्ध्या उपस्थानं करिष्ये ॥
उपस्थानं
ॐ मि॒त्रस्य॑ चर्षनीध्रु॒तोवो॑ दे॒वस्य॑ सान॒सि । द्यु॒म्नं चि॒रत्रश्र॑वस्तमम् ॥ मि॒त्रो जना॑न् यातयतिब्रुवा॒नो मि॒त्रो दा॑धार प्रुथि॒वीमु॒त द्याम् । मि॒त्र: कृष्टीरनि॑मिषा॒भि च॑ष्टे मि॒त्राय॑ ह॒व्यम् घ्रु॒तव॑त् जुहोत ॥ प्रसमि॑त्र॒ मर्तो॑ अस्तु॒ प्रय॑स्वा॒न् यस्त॑ आदित्य॒ शिक्ष॑ति व्र॒तेन॑ । नह॑न्यते॒ नजी॑यते॒ त्वोतो॒ नैन॒मम्हो॑ अश्नो॒त्यंति॑ तो॒न दू॒रात् ॥
जा॒तवे॑दसे सुनवाम॒ सोम॑ मरातीय॒तो निद॑हाति॒ वेद॑: । स न॑: पर्ष॒दति॑ दु॒र्गानि॒विश्वा॑ ना॒वेव॒ सिंधुं॑ दुरि॒तान्य॒ग्नi:॥
पि॒शंग॑भ्रुष्टि॒मम् भ्रु॒नम् पि॒शाचि॑मिंद्र॒सं मृ॑न । सर्वं॒ रक्षो॒ निब॑र्हय ॥
भ॒द्रं कर्णे॑भि: श्रुनुयाम देवा भ॒द्रं प॑श्येमा॒क्षभि॑र्यजत्रा: । स्थि॒रैरङ्गै॑: तुष्टु॒वाम्स॑: त॒नूभि॒र्व्य॑शेम दे॒वहि॑त॒म् यदायु॑: ॥
के॒श्य १॒॑ ग्निं के॒शी वि॒षं के॒शी बि॑भर्ति॒ रोद॑सि । के॒शी विश्वं॒ स्व॑र्द्रु॒शे के॒शीदं ज्योति॑रुच्यते ॥
इति ताम् ताम् दिशं प्रति अन्जलिं कृत्वा
| १. सन्ध्यायै नम: | २. सावित्र्यै नम: |
| ३. गायत्र्यै नम: | ४. सरस्वत्यै नम: |
| ५. सर्वाभ्यो देवताभ्यो नम: | ६. प्राच्यै नम: |
| ७. दक्षिणायै नम: | ८. प्रतीच्यै नम: |
| ९. उदीच्यै नम: | १०. ऊर्ध्वाय नम: |
| ११. अधराय नम: | १२. अन्तरिक्षाय नम: |
| १३. भूम्यै नम: | १४. ब्रह्मणे नम: |
| १५. विष्णवे नम: | १६. यमाय नम: |
यमाय धर्मराजाय मृत्यवे चांतकाय च । वैवस्वताय कालाय सर्वभूतक्षयाय च ।
औदुंबराय तध्नाय नीलाय परमेष्ठिने । व्रुकोधराय चित्राय चित्रगुप्ताय वै नम: ॥
चित्रगुप्ताय वै नमो नम इति ।
ऋतं सत्यं परं ब्रह्म पुरुषं क्रुष्ण पिंगलम् । ऊर्ध्वरेतं विरूपाक्षं विश्वरूपायवै नम: ॥ विश्वरूपायवै नमो नम इति ।
नर्मदायै नम: प्रातर्नर्मदायै नमो निशि । नमोस्तु नर्मदे तुभ्यं पाहिमां विषसर्पत: ॥ अपसर्प सर्प भत्रं ते दूरं गच्छ महायश: । जनमेजयस्य यञांते आस्तीक वचनं स्मरन् ॥ जरत्कारो जरत्कार्वां समुत्पन्नो महायशा: । आस्तीक: सत्य संधोमां पन्नगेभ्योभिरक्षतु ॥
नमस्सवित्रे जगदेक चक्षुषे जगत्प्रसूति-स्थिति नाशहेतवे । त्रयीमयाय त्रिगुणात्म धारिणे विरिंचि नारायण शंकरात्मने ॥ध्येयस्स्दा सवित्रुमंडल मध्यवर्ती नारायण: सरसिजासन सन्निविष्ट: ।केयूरवान् मकरकुंडलवान् किरीटिहारि हिराण्मय वपुर्ध्रुत शंख चक्र: ॥
शंखचक्र गदापाणे द्वारका निलयाच्युत । गोविंद पुंडरीकाक्ष रक्षमां शरणागतम् ॥
आकशात्पतितम्तोयं यथा गच्छति सागरम् । सर्व देव नमस्कार: केशवं प्रतिगच्छति ॥
केशवं प्रतिगच्छत्योम् नम इति ।
अभिवाद नमस्कार:
अभिवादये ___ त्रयार्षेय/पञ्चार्षेय प्रवरान्वित ___ गोत्र: ___ आश्वलायन सूत्र: ___ ऋक्शाखाध्यायी ___ शर्मा नाम अहं अस्मि भो:।
आचमनं — पुनः
आचमनं
| ओं अच्युताय नम: | ओं अनन्ताय नम: | ओं गोविन्दाय नम: |
| केशव | नारायण | माधव |
| गोविन्द | विष्णु | मधुसूदन |
| त्रिविक्रम | वामन | श्रीधर |
| हृषीकेश | पद्मनाभ | दामोदरा |
रक्षा धारणम्
अ॒द्यानो देवसवितः प्र॒जाव॑त्सावी॒स्सौभ॑गम् । परा॑ दु॒ष्वप्नि॑यं सुव ॥
विश्वा॑नि देव सवितर्दुरि॒तानि॒ परा॑सुव । यद्भ॒द्रं तन्म॒ आसु॑व ॥
जप स्थलं प्रोक्ष्य तन्मृदं हृदि धारयेत्