आश्वलायन — माध्यान्हिकम्
आचमनं
| ओं अच्युताय नम: | ओं अनन्ताय नम: | ओं गोविन्दाय नम: |
| केशव | नारायण | माधव |
| गोविन्द | विष्णु | मधुसूदन |
| त्रिविक्रम | वामन | श्रीधर |
| हृषीकेश | पद्मनाभ | दामोदरा |
श्री गणपति ध्यानं
शुक्लां बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।
प्रसन्न वदनं ध्यायेत् सर्व विध्नोप शांतये ॥
प्राणायाम:
ऒं भू: ऒं भुव: ऒं स्व: ऒं मह: ऒं जन: ऒं तप: ऒं सत्यं । ऒं तत्स॑वि॒तुर्वरे॑ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ योन॑: प्रचो॒दया॑त् ॥
ऒं आपो॒ ज्योती॒रसो॒मृतं॒ ब्रह्म॒ भूर्भुव॒स्वरोम् ।
इति त्रि: उक्त्वा - प्राणायामान्ते दक्षिण कर्णं स्पृष्ट्वा
सङ्कल्पम्
ममोपात्त समस्त दुरित क्षयद्वारा श्री परमेश्वर प्रीत्यर्थं माध्यान्हिकं करिष्ये ।
इति सङ्कल्प्य
मार्जनम्
आपो॒हिष्ठा म॑यो॒भुव॒स्तान॑ ऊ॒र्जे द॑धात न । म॒हेरना॑य॒ चक्ष॑से ॥ योव॑श्शि॒वत॑मो॒ रस॒स्तस्य॑ भाजय ते॒ह न॑: । उ॒श॒तीरि॑व मा॒तर॑: ॥ तस्मा॒ अर॑ङ्गमामवो॒ यस्य॒क्षया॑य॒ जिन्व॑थ । आपो॑ ज॒नय॑था च न: ॥
इति शिरसि प्रोक्ष्य
ओं भूर्भुव॒स्व॑: ।
इति आत्मानं परिषिच्य
प्राशनम्
आप॑: पुनंतु प्रुथि॒वीम् प्रु॑थि॒वी पू॒ता पु॑नातु॒माम् । पु॒नंतु॒ ब्रह्म॑ण॒स्पति॒र्ब्रह्म॑ पू॒ता पु॑नातु॒मां ॥ यदुच्छि॑ष्ट॒म भो॑ज्यम्॒ यद्वा॑ दु॒श्चरि॑तं॒ मम॑ । सर्वं॑ पुनंतु॒॑ मामापो स॒तांच॑ प्रति॒ग्रहं॒ स्वाहा ॥
इति अप: प्राश्य
आचमनं — पुनः
आचमनं
| ओं अच्युताय नम: | ओं अनन्ताय नम: | ओं गोविन्दाय नम: |
| केशव | नारायण | माधव |
| गोविन्द | विष्णु | मधुसूदन |
| त्रिविक्रम | वामन | श्रीधर |
| हृषीकेश | पद्मनाभ | दामोदरा |
पुनर्माजनम्
द॒धिक्राव्णो॑ अकार्षं जि॒ष्णो रश्व॑स्य वा॒जि न॑: । सु॒र॒भिनो॒ मुका॑कर॒त् प्रण॒ आयूं॑षि तारिषत् ॥
आपो॒हिष्ठा म॑यो॒भुव॒स्तान॑ ऊ॒र्जे द॑धात न । म॒हेरना॑य॒ चक्ष॑से ॥ योव॑श्शि॒वत॑मो॒ रस॒स्तस्य॑ भाजय ते॒ह न॑: । उ॒श॒तीरि॑व मा॒तर॑: ॥ तस्मा॒ अर॑ङ्गमामवो॒ यस्य॒क्षया॑य॒ जिन्व॑थ । आपो॑ ज॒नय॑था च न: ॥
इति शिरसि प्रोक्ष्य
ओं भूर्भुव॒स्व॑: ।
इति आत्मानं परिषिच्य
अर्घ्य प्रदानं
ऒं तत्स॑वि॒तुर्वरे॑ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ योन॑: प्रचो॒दया॑॑त् ॥
इति अर्घ्यं द्विवारं समन्त्रकं दद्यात्
प्राणायाम:
ऒं भू: ऒं भुव: ऒं स्व: ऒं मह: ऒं जन: ऒं तप: ऒं सत्यं । ऒं तत्स॑वि॒तुर्वरे॑ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ योन॑: प्रचो॒दया॑त् ॥
ऒं आपो॒ ज्योती॒रसो॒मृतं॒ ब्रह्म॒ भूर्भुव॒स्वरोम् ।
प्रायश्चित्त अर्घ्यं
ममोपात्त समस्त दुरित क्षयद्वारा श्री परमेश्वर प्रीत्यर्थं माध्यान्हिक कालातीत प्रायश्चित्त अर्घ्यप्रदानं करिष्ये ॥
उद्धेद॒भि श्रु॒ताम॑घं वृष॒भं नर्या॑पसम् । अस्ता॑रमेषि सूर्य ॥
इति एकं अर्घ्यं दत्वा
ओं भूर्भुव॒स्व॑: असावादित्यो ब्रह्मा
इति आत्मानं परिषिच्य
केशवादि तर्पणं
| १. आदित्यं तर्पयामि | २.सोमम् तर्पयामि | ३.अङ्गारकम् तर्पयामि |
| ४.बुधं तर्पयामि | ५.बृहस्पतिं तर्पयामि | ६.शुक्रं तर्पयामि |
| ७.शनैश्चरं तर्पयामि | ८.राहुं तर्पयामि | ९.केतुं तर्पयामि |
| १०.केशवं तर्पयामि | ११.नारायणं तर्पयामि | १२.माधवं तर्पयामि |
| १३.गोविन्दं तर्पयामि | १४.विष्णुं तर्पयामि | १५.मधुसूदनं तर्पयामि |
| १६.त्रिविक्रमं तर्पयामि | १७.वामनं तर्पयामि | १८.श्रीधरं तर्पयामि |
| १९.हृषीकेशं तर्पयामि | २०.पद्मनाभं तर्पयामि | २१.दामोदरं तर्पयामि |
इति जलेन नव - द्वादश च तर्पणानि कृत्वा
आचमनं — पुनः
आचमनं
| ओं अच्युताय नम: | ओं अनन्ताय नम: | ओं गोविन्दाय नम: |
| केशव | नारायण | माधव |
| गोविन्द | विष्णु | मधुसूदन |
| त्रिविक्रम | वामन | श्रीधर |
| हृषीकेश | पद्मनाभ | दामोदरा |
प्राणायाम - न्यासं
- प्रणवस्य ऋषि: ब्रह्मा, देवी गायत्री छंद:, परमात्मा देवता
- भूरादि सप्त व्याह्रुतीनाम् अत्रि - भ्रुगु - कुत्स - वसिष्ठ - गौतम - काष्यप - आङ्गीरस ऋषय:
- गायत्रि - उष्णिक् - अनुष्टुप् - ब्रुहती - पङ्ती - त्रिष्टुप् - जगत्यश्छ्न्दांसि
- अग्नि - वायु - अर्क - वागीश - वरुण - इन्द्र - विश्वेदेवा देवता: प्राणायामे विनियोग:
प्राणायाम:
ऒं भू: ऒं भुव: ऒं स्व: ऒं मह: ऒं जन: ऒं तप: ऒं सत्यं । ऒं तत्स॑वि॒तुर्वरे॑ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ योन॑: प्रचो॒दया॑त् ॥
ऒं आपो॒ ज्योती॒रसो॒मृतं॒ ब्रह्म॒ भूर्भुव॒स्वरोम् ।
इति त्रि: उक्त्वा - प्राणायामान्ते दक्षिण कर्णं स्पृष्ट्वा
गायत्री आवाहनम्
आया॑तु॒ वर॑दा दे॒वि॒ अ॒क्षरं॑ ब्रह्म॒ सम्मि॑तम् । गा॒य॒त्री॑म् छंद॑सांमा॒तेतम् ब्र॑ह्म जु॒षस्व॑मे ॥
ओजो॑सि॒ - सहो॑सि॒ - बल॑मसि॒ - भ्राजो॑सि - दे॒वाना॒म् धाम॒नामा॑सि॒ - विश्व॑मसि वि॒श्वायु॒: सर्व॑मसि स॒र्वायुरभिभूरोम्
- गायत्रीं आवाहयामि
- सावित्रीं आवाहयामि
- सरस्वतीं आवाहयामि
इति गायत्रीं सूर्य मण्डले स्वहृदये वा आवाह्य
ध्यानम्
मुक्ता - विद्रुम - हेम - नील - धवलच्छायैर्मुखैस्त्रीक्षणै: युक्तामिंदुकला-निबद्धरत्ऩमकुटाम् तत्त्वार्थ - वर्णात्मिकाम् । गायत्रीं वरदाभयांकुश - कशा:शुभ्रम्गपालं गदां शंखं - चक्र - मथारविंदयुगलं हस्तैर्वहंतीं भजे ॥
यो देवस्सवितास्माकं धियो धर्मादि गोचराः । प्रेरयेत्तस्य यद्भर्गस्तद्वरेण्य उपास्महे ॥
इति सावित्रीमूर्तिध्यानं कृत्वा
गायत्री जपम्
ऒं तत्स॑वि॒तुर्वरे॑ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ योन॑: प्रचो॒दया॑॑त् ॥
कणिष्ठिकामूलमारभ्य प्रादक्षिण्येन गणयन् यथासङ्कल्पं पन्चावसानं गायत्री मन्त्रं जपेत्
प्राणायाम:
ऒं भू: ऒं भुव: ऒं स्व: ऒं मह: ऒं जन: ऒं तप: ऒं सत्यं । ऒं तत्स॑वि॒तुर्वरे॑ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ योन॑: प्रचो॒दया॑त् ॥
ऒं आपो॒ ज्योती॒रसो॒मृतं॒ ब्रह्म॒ भूर्भुव॒स्वरोम् ।
गायत्र्युद्वासनम्
उ॒त्तमे॑ शिख॑रे दे॒वी॒ भू॒म्यां प॑र्वत॒ मूर्ध॑नि ।
ब्रा॒ह्मणेभ्यो ह्य॑नुज्ञा॒नं ग॒च्छ दे॑वि य॒थासु॑खम् ॥
इति गायत्रीं उद्यास्य
सङ्कल्पम् - उपस्थानं
ममोपात्त समस्त दुरित क्षयद्वारा श्री परमेश्वर प्रीत्यर्थं माध्यान्हिक उपस्थानं करिष्ये ॥
उपस्थानं
उदु॒त्यं जा॒तवे॑दसं दे॒वं व॑हंति के॒तव॑: । द्रु॒शे विश्वा॒॑य सूर्यम्॑ ॥
उदुत्यमिति प्रथममन्त्र कथन काले व्योम मुद्रया दक्षिणेन नेत्रेण सूर्यं सकृत् विलोक्य
अप॒त्ये ता॒यवो॑ यथा॒ नक्ष॑त्रा यंत्य॒क्तुभि॑: । सूरा॑य वि॒श्व च॑क्षसे ॥
अद्रु॑श्यमस्य के॒तवो॒ विर॒श्मयो॒ जनाँ॒ अनु॑ । भ्राजं॑तो अ॒ग्नयो॑ यथा ॥
त॒रणि॑र्वि॒श्वद॑र्शतो॒ ज्योति॒ष्कृद॑सि सूर्य । विष्व॒मा भा॑सि रोच॒नम् ॥
प्र॒त्यङ् दे॒वानां॒ विश॑: प्र॒त्यङ्ङु दे॑षि॒ मानु॑षान् ॥ प्र॒त्यङ् विश्वं॒ स्व॑र्दृ॒शे ॥
येना॑ पावक॒ चक्ष॑सा भुर॒ण्यंतं॒ जनाँ॒ अनु॑ । त्वं व॑रुण॒ पश्य॑सि ॥
वि॒द्यामे॑षि॒ रज॑स्पृ॒थ्वहा॒ मिमा॑नो अ॒क्तुभि॑: । प॒श्यन् जन्मा॑नि सूर्य ॥
स॒प्त त्वा॑ ह॒रितो॒रथे॒ वहं॑ति देव सूर्य । शो॒चिष्के॑शं विचक्षण ॥
अयु॑क्त स॒प्त शुं॒ध्युव॒: सूरो॒ रथ॑स्य न॒प्त्य॑: । ताभि॑र्याति॒ स्वयु॑क्तिभि: ॥
उद्व॒यं तम॑स॒स्परि॒ ज्योति॒ष्पश्यं॑त॒ उत्त॑रम् । दे॒वं दे॑व॒त्रा सूर्य॒मग॑न्म॒ ज्योति॒रुत्त॑मम् ॥ उ॒द्यन्न॒द्य मि॑त्रमह आ॒रोह॒न्नुत्त॑रां॒ दिवम्॑ । हृ॒द्रो॒गं मम॑ सूर्य हरि॒माणं॑ च नाशय ॥
शुके॑षुमे हरि॒माणं॑ रोप॒णाका॑सु दध्मसि ॥ अथो॑ हारिद्र॒वेषु॑ मे हरि॒माणं॒ नि द॑ध्मसि ॥
उद॑गाद॒यमा॑दि॒त्यो विश्वे॑न॒ सह॑सा स॒ह ॥ द्वि॒षन्तं॒ मह्यं॑ रं॒धय॒न् मो अ॒हं द्वि॑ष॒ते र॑धम् ॥
चि॒त्रं दे॒वाना॒मुद॑गा॒दनी॑कं॒ चक्षु॑र्मि॒त्रस्य॒ वरु॑णस्या॒ग्नेः । आप्रा॒ द्यावा॑ पृथि॒वी अ॒न्तरि॑क्षं॒ सूर्य॑ आ॒त्मा जग॑तस्त॒स्थुष॑श्च ॥
सूर्यो॑ दे॒वीमु॒षसं॒ रोच॑मानां॒ मर्यो॒ न योषा॑म॒भ्ये॑ति प॒श्चात् । यत्रा॒ नरो॑ देव॒यन्तो॑ यु॒गानि॑ वितन्व॒ते प्रति॑ भ॒द्राय॑ भ॒द्रम् ॥
भ॒द्रा अश्वा॑ ह॒रितः॒ सूर्य॑स्य चि॒त्रा एत॑ग्वा अनु॒माद्या॑सः । न॒म॒स्यन्तो॑ दि॒व आ पृ॒ष्ठम॑स्थुः परि॒ द्यावा॑पृथि॒वी य॑न्ति स॒द्यः ॥
तत्सूर्य॑स्य देव॒त्वं तन्म॑हि॒त्वं म॒ध्या कर्तो॒र्वित॑त॒ सं ज॑भार । य॒देदयु॑क्त ह॒रितः॑ स॒धस्था॒द् आद्रात्री॒ वास॑स्तनुते सि॒मिस्मै॑ ॥
तन्मि॒त्रस्य॒ वरु॑णस्याभि॒चक्षे॒ सूर्यो॑ रू॑पं कृ॑णुते द्योरु॒पस्थे॑ । अ॒न॒न्तम॒न्यद् रुश॑दस्य॒ पाजः॑ कृ॒ष्णम॒न्यद् ह॒रितः॒ सं भ॑रन्ति ॥
अ॒द्या दे॑वा॒ उदि॑ता॒ सूर्य॑स्य॒ निरंह॑सः पिपृ॒ता निर॑व॒द्यात् । तन्नो॑ मि॒त्रो वरु॑णो मामहन्तां॒ अदि॑तिः॒ सिन्धुः॑ पृथि॒वी उ॒त द्यौः ॥
जा॒तवे॑दसे सुनवाम॒ सोम॑ मरातीय॒तो निद॑हाति॒ वेद॑: । स न॑: पर्ष॒दति॑ दु॒र्गानि॒विश्वा॑ ना॒वेव॒ सिंधुं॑ दुरि॒तान्य॒ग्नi:॥
पि॒शंग॑भ्रुष्टि॒मम् भ्रु॒नम् पि॒शाचि॑मिंद्र॒सं मृ॑न । सर्वं॒ रक्षो॒ निब॑र्हय ॥
भ॒द्रं कर्णे॑भि: श्रुनुयाम देवा भ॒द्रं प॑श्येमा॒क्षभि॑र्यजत्रा: । स्थि॒रैरङ्गै॑: तुष्टु॒वाम्स॑: त॒नूभि॒र्व्य॑शेम दे॒वहि॑त॒म् यदायु॑: ॥
के॒श्य १॒॑ ग्निं के॒शी वि॒षं के॒शी बि॑भर्ति॒ रोद॑सि । के॒शी विश्वं॒ स्व॑र्द्रु॒शे के॒शीदं ज्योति॑रुच्यते ॥
इति ताम् ताम् दिशं प्रति अन्जलिं कृत्वा
| १. सन्ध्यायै नम: | २. सावित्र्यै नम: |
| ३. गायत्र्यै नम: | ४. सरस्वत्यै नम: |
| ५. सर्वाभ्यो देवताभ्यो नम: | ६. प्राच्यै नम: |
| ७. दक्षिणायै नम: | ८. प्रतीच्यै नम: |
| ९. उदीच्यै नम: | १०. ऊर्ध्वाय नम: |
| ११. अधराय नम: | १२. अन्तरिक्षाय नम: |
| १३. भूम्यै नम: | १४. ब्रह्मणे नम: |
| १५. विष्णवे नम: | १६. यमाय नम: |
यमाय धर्मराजाय मृत्यवे चांतकाय च । वैवस्वताय कालाय सर्वभूतक्षयाय च ।
औदुंबराय तध्नाय नीलाय परमेष्ठिने । व्रुकोधराय चित्राय चित्रगुप्ताय वै नम: ॥
चित्रगुप्ताय वै नमो नम इति ।
ऋतं सत्यं परं ब्रह्म पुरुषं क्रुष्ण पिंगलम् । ऊर्ध्वरेतं विरूपाक्षं विश्वरूपायवै नम: ॥ विश्वरूपायवै नमो नम इति ।
नर्मदायै नम: प्रातर्नर्मदायै नमो निशि । नमोस्तु नर्मदे तुभ्यं पाहिमां विषसर्पत: ॥ अपसर्प सर्प भत्रं ते दूरं गच्छ महायश: । जनमेजयस्य यञांते आस्तीक वचनं स्मरन् ॥ जरत्कारो जरत्कार्वां समुत्पन्नो महायशा: । आस्तीक: सत्य संधोमां पन्नगेभ्योभिरक्षतु ॥
नमस्सवित्रे जगदेक चक्षुषे जगत्प्रसूति-स्थिति नाशहेतवे । त्रयीमयाय त्रिगुणात्म धारिणे विरिंचि नारायण शंकरात्मने ॥ध्येयस्स्दा सवित्रुमंडल मध्यवर्ती नारायण: सरसिजासन सन्निविष्ट: ।केयूरवान् मकरकुंडलवान् किरीटिहारि हिराण्मय वपुर्ध्रुत शंख चक्र: ॥
शंखचक्र गदापाणे द्वारका निलयाच्युत । गोविंद पुंडरीकाक्ष रक्षमां शरणागतम् ॥
आकशात्पतितम्तोयं यथा गच्छति सागरम् । सर्व देव नमस्कार: केशवं प्रतिगच्छति ॥
केशवं प्रतिगच्छत्योम् नम इति ।
अभिवाद नमस्कार:
अभिवादये ___ त्रयार्षेय/पञ्चार्षेय प्रवरान्वित ___ गोत्र: ___ आश्वलायन सूत्र: ___ ऋक्शाखाध्यायी ___ शर्मा नाम अहं अस्मि भो:।
आचमनं — पुनः
आचमनं
| ओं अच्युताय नम: | ओं अनन्ताय नम: | ओं गोविन्दाय नम: |
| केशव | नारायण | माधव |
| गोविन्द | विष्णु | मधुसूदन |
| त्रिविक्रम | वामन | श्रीधर |
| हृषीकेश | पद्मनाभ | दामोदरा |
रक्षा धारणम्
अ॒द्यानो देवसवितः प्र॒जाव॑त्सावी॒स्सौभ॑गम् । परा॑ दु॒ष्वप्नि॑यं सुव ॥
विश्वा॑नि देव सवितर्दुरि॒तानि॒ परा॑सुव । यद्भ॒द्रं तन्म॒ आसु॑व ॥
जप स्थलं प्रोक्ष्य तन्मृदं हृदि धारयेत्