skipLink.label

नीळा सूक्तम्

ॐ गृ॒णा॒हि॒ । घृ॒तव॑ती सवित॒राधि॑पत्यैः॒ पय॑स्वती॒रन्ति॒राशा॑नो अस्तु ।
ध्रु॒वा दि॒शां विष्णु॑प॒त्न्यघो॑रा॒ऽस्येशा॑ना॒सह॑सो॒या म॒नोता᳚ ।
बृह॒स्पति॑-र्मात॒रिश्वो॒त वा॒युस्स॑न्धुवा॒नावाता॑ अ॒भि नो॑ गृणन्तु ।
वि॒ष्ट॒म्भो दि॒वोध॒रुणः॑ पृथि॒व्या अ॒स्येश्या॑ना॒ जग॑तो॒ विष्णु॑पत्नी ॥