मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

आश्वलायन औपासनम्

Āśvalāyana aupāsanam (aupasanam, aupasana homa) — the daily gṛhya fire offering.

3
आचमनं
ओं अच्युताय नम​:ओं अनन्ताय नम​:ओं गोविन्दाय नम​:
केशवनारायणमाधव
गोविन्दविष्णुमधुसूदन
त्रिविक्रमवामनश्रीधर
हृषीकेश​पद्मनाभ​दामोदरा
श्री गणपति ध्यानं

शुक्लां बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।

प्रसन्न वदनं ध्यायेत् सर्व विध्नोप शांतये ॥

प्राणायाम​:

ऒं भू: ऒं भुव: ऒं स्व: ऒं मह: ऒं जन​: ऒं तप: ऒं सत्यं । ऒं तत्स॑वि॒तुर्वरे॑ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ योन॑: प्रचो॒दया॑त् ॥

ऒं आपो॒ ज्योती॒रसो॒मृतं॒ ब्रह्म॒ भूर्भुव॒स्वरोम् ।

सङ्कल्पम्
heading.anchorLabel

ममोपात्त समस्त दुरित क्षयद्वारा श्री परमेश्वर प्रीत्यर्थं पूर्वेद्युः (कर्तव्येन) सायमौपासनेन सह अद्यप्रातरौपासनं व्रीहिभिः तण्डुलैर्वा तन्त्रेण होष्यामि ।

इति संकल्प्य सात्त्विकत्यागं कृत्वा अप उपस्पृश्य

अन्वाधानम्
heading.anchorLabel

तदङ्गमन्वाधानं करिष्ये ।

समिद्द्वयमादाय

पूर्वेद्युः सायमौपासनदेवते अग्निं प्रजापतिम्, अद्यप्रातरौपासनदेवते सूर्यं प्रजापतिं च तण्डुलद्रव्येण यक्ष्ये ।

(प्रजापतिं मनसि ध्यात्वा)

स्वाहा — प्रजापतये इदम् । (एकां समिधमाधाय) स्वाहा — प्रजापतये इदम् । (अपरां समिधमाधाय)

अग्निं त्रिः परिसमुह्य, परिस्तीर्य, त्रिः पर्युक्ष्य

हविः संस्कारः
heading.anchorLabel

पत्नीहस्ताञ्जलिं ‘भूर्भुवः स्वः’ इति त्रिः प्रोक्ष्य, जलेनार्द्रीकृतं तण्डुलं दत्वा, होमद्रव्यं ज्वलता दर्भेण अवज्वाल्य गायत्र्या प्रोक्ष्य, तेनैव ज्वलता दर्भेण त्रिः पर्यग्नि कृत्वा, उल्मुकं निर्ऋत्यां निरस्य अथवा अग्नौ प्रास्य, अपः उपस्पृश्य

अग्न्यलङ्करणम्
heading.anchorLabel

विश्वा॑नि नो दु॒र्गहा॑ जातवेद॒: सिन्धुं॒ न ना॒वा दु॑रि॒ताति॑ पर्षि । अग्ने॑ अत्रि॒वन्नम॑सा गृणा॒नो॒३ऽस्माकं॑ बोध्यवि॒ता त॒नूना॑म् ॥ यस्त्वा॑ हृ॒दा की॒रिणा॒ मन्य॑मा॒नोऽम॑र्त्यं॒ मर्त्यो॒ जोह॑वीमि । जात॑वेदो॒ यशो॑ अ॒स्मासु॑ धेहि प्र॒जाभि॑रग्ने अमृत॒त्वम॑श्याम् ॥ यस्मै॒ त्वं सु॒कृते॑ जातवेद उ लो॒कम॑ग्ने कृ॒णव॑: स्यो॒नम् । अ॒श्विनं॒ स पु॒त्रिणं॑ वी॒रव॑न्तं॒ गोम॑न्तं र॒यिं न॑शते स्व॒स्ति ॥ [ऋ. ५.४.९-११]

इति अग्निमलङ्कृत्य

होष्यामि ।

तूष्णीं एकां समिधं अग्नौ आधाय — स्वाहा — प्रजापतये इदं, इति मनसि ध्यात्वा

अथ आदीप्तायां समिधि, पत्नीहस्तात् अर्धांशं होमद्रव्यं स्वहस्ते आदाय, द्वेधा विभज्य एकं भागमादाय

सायमाहुतिद्वयम्
heading.anchorLabel

अग्नये स्वाहा — अग्नय इदं, न मम । (अग्निमध्ये)

अथ अपरं भागमादाय

प्रजापतये स्वाहा — प्रजापतये इदं, न मम । (असंसृष्टं अग्नेः ऐशानभागे पाणितलपार्श्वेन)

अथ पत्नीहस्तात् अवशिष्टमर्धांशं आदाय द्वेधा विभज्य एकं भागमादाय

प्रातराहुतिद्वयम्
heading.anchorLabel

सूर्याय स्वाहा — सूर्याय इदं, न मम । (अग्निमध्ये) प्रजापतये स्वाहा — प्रजापतये इदं, न मम । (ऐशानभागे)

हुत्वा, त्रिः परिसमुह्य, त्रिः पर्युक्ष्य

आहुतिसंसर्गप्रायश्चित्तहोमः
heading.anchorLabel

आहुतिसंसर्गे सति

आहुतिसंसर्गप्रायश्चित्तार्थं वनस्पतिहोमं करिष्ये ।

यत्र वेत्थ इत्यस्य विश्वामित्रः ऋषिः । गायत्रीच्छन्दः । वनस्पतिर्देवता । आहुतिसंसर्गप्रायश्चित्तार्थे होमे विनियोगः ।

यत्र॒ वेत्थ॑ वनस्पते दे॒वानां॒ गुह्या॒ नामा॑नि । तत्र॑ ह॒व्यानि॑ गामय ॥ [ऋ. ५.५.१०] स्वाहा — वनस्पतये इदं, न मम ।

इति एकां समिधमग्नौ निधाय

विष्णुस्मरणहोमः
heading.anchorLabel

एकां समिधं दर्भद्वयं वा आदाय

श्रीविष्णवे स्वाहा — श्रीविष्णवे परमात्मने इदं, न मम ।

इति अग्नौ निधाय, परिस्तरणं प्रागादि आदायोत्तरतो विसृज्य, त्रिः परिसमुह्य, त्रिः पर्युक्ष्य

अग्न्युपस्थानम् (संस्थाजपः)
heading.anchorLabel

ओम्, अग्न्युपस्थानं करिष्ये ।

ओश्च मे इत्यस्य सारस्वतः ऋषिः । त्रिष्टुप् छन्दः । अग्निः देवता । अग्न्युपस्थाने विनियोगः ।

ओं च मे स्वरश्च मे यज्ञोप च ते नमश्च । यत् ते न्यूनं तस्मै ते उप यत्ते अतिरिक्तं तस्मै ते नमः ॥ [आश्व. श्रौ. सू. १.११.१५]

अग्ने॒ नय॑ सु॒पथा॑ रा॒ये अ॒स्मान् विश्वा॑नि देव व॒युना॑नि वि॒द्वान् । यु॒यो॒ध्य१स्मज्जु॑हुरा॒णमेनो॒ भूयि॑ष्ठां ते॒ नम॑उक्तिं विधेम ॥ [ऋ. १.१८९.१]

मन्त्रहीनं क्रियाहीनं भक्तिहीनं हुताशन । यद्धुतं तु मया देव परिपूर्णं तदस्तु ते ॥

प्रायश्चित्तान्यशेषाणि तपःकर्मात्मकानि वै । यानि तेषामशेषाणां कृष्णानुस्मरणं परम् ॥ [विष्णुपुराणम्, २.६.३७]

कृष्ण कृष्ण कृष्ण । (x 4)

अभिवाद नमस्कारः
heading.anchorLabel

इति प्रणम्य, अभिवाद्य

अभिवादये ___ त्रयार्षेय/पञ्चार्षेय प्रवरान्वित ___ गोत्रः ___ आश्वलायन सूत्रः ___ ऋक्शाखाध्यायी ___ शर्मा नाम अहं अस्मि भोः ।

पवित्रं कर्णे निधाय आचम्य, पवित्रग्रन्थिं विस्रस्य विसृज्य सात्त्विकत्यागं कुर्यात्

आचमनं
ओं अच्युताय नम​:ओं अनन्ताय नम​:ओं गोविन्दाय नम​:
केशवनारायणमाधव
गोविन्दविष्णुमधुसूदन
त्रिविक्रमवामनश्रीधर
हृषीकेश​पद्मनाभ​दामोदरा

कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्यात्मना वा प्रकृतेः स्वभावात् । करोमि यद्यत्सकलं परस्मै नारायणायेति समर्पयामि ॥

॥ ओं तत्सत् ब्रह्मार्पणमस्तु ॥