कौथुम औपासनम्
Kauthuma śākhā aupāsanam (aupasanam, aupasana homa) — the daily gṛhya fire offering for Sāmavedins.
1. औपासनसङ्कल्पः
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥
ॐ भू: — ॐ भुव: — ॐ सुव: — ॐ मह: —
ॐ जन: — ॐ तप: — ॐ सत्यम् —
ॐ तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो न: प्रचोदयात् —
ॐ आपो ज्योती रसोऽमृतं ब्रह्म भूर्भुवस्सुवरोम् ॥
पूर्वेद्युः सायमौपासनं प्रातरौपासनेन सह तन्त्रेण होष्यन् सङ्कल्पयेत् ।
ममोपात्त समस्त दुरितक्षयद्वारा श्रीपरमेश्वर प्रीत्यर्थं पूर्वेद्युः सायमौपासनेन सह अद्य प्रातरौपासनं तण्डुलैर्होष्यामि ॥
2. परिषेचनम्
देव सवितः प्रसुव यज्ञं प्रसुव यज्ञपतिं भगाय ।
दिव्यो गन्धर्वः केतपूः केतं नः पुनातु ।
वाचस्पतिर्वाचं नः स्वदतु ॥
होमद्रव्यभूतान् प्रक्षालिताक्षतान् अपि अन्तर्भाव्य परिषेचनं कुर्यात् ।
3. अर्चनम्
अधोनिर्दिष्टेषु स्थानेषु नाममन्त्रेण अक्षतान् निक्षिपेत् ।
| इन्द्राय नमः | अग्नेः पूर्वस्याम् |
| यमाय नमः | अग्नेः दक्षिणस्याम् |
| वरुणाय नमः | अग्नेः पश्चिमायाम् |
| सोमाय नमः | अग्नेः उत्तरस्याम् |
| अग्नये नमः | अग्नेः आग्नेय्याम् (दक्षिणपूर्वे) |
| निर्ऋतये नमः | अग्नेः नैर्ऋत्याम् (दक्षिणपश्चिमे) |
| वायवे नमः | अग्नेः वायव्याम् (उत्तरपश्चिमे) |
| ईशानाय नमः | अग्नेः ऐशान्याम् (उत्तरपूर्वे) |
| अग्नये नमः | अग्निमध्ये |
| आत्मने नमः | स्वशिरसि |
| सर्वेभ्यो ब्राह्मणेभ्यो नमः | सर्वेषु ब्राह्मणेषु |
4. होमः
होष्यामि ॥
कर्ता "होष्यामि" इति वदेत् ।
जुहुधि ॥
तत्रस्थः कश्चन "जुहुधि" इति प्रतिवदेत् । कस्यचिदभावे कर्ता स्वयमेव वदेत् ।
चतस्रः आहुतयः । होमार्थं स्थापितेषु प्रक्षालिताक्षतेषु अर्धं गृहीत्वा द्वेधा विभज्य, एकं भागं वामहस्ते अपरं दक्षिणहस्ते धारयेत् । दक्षिणहस्तस्थं भागम् अग्निमध्ये —
अग्नये स्वाहा ॥
इति अङ्गुल्यग्रैः (देवतीर्थेन) जुहुयात् ।
अग्नये इदं न मम ॥
इति वदेत् ।
वामहस्तस्थम् अक्षतं दक्षिणहस्ते गृहीत्वा, अग्नेः ऐशान्यां कनिष्ठिकामूलेन (ऋषितीर्थेन) —
प्रजापतये स्वाहा ॥
इति जुहुयात् ।
प्रजापतये इदं न मम ॥
इति वदेत् ।
अवशिष्टान् अक्षतान् द्वेधा विभज्य, एकं भागं दक्षिणहस्ते अपरं वामहस्ते धारयेत् । दक्षिणहस्तस्थं भागम् —
सूर्याय स्वाहा ॥
इति पूर्ववत् अग्निमध्ये जुहुयात् ।
सूर्याय इदं न मम ॥
इति वदेत् ।
वामहस्तस्थम् अक्षतं दक्षिणहस्ते गृहीत्वा, पूर्ववत् अग्नेः ऐशान्यां कनिष्ठिकामूलेन —
प्रजापतये स्वाहा ॥
इति जुहुयात् ।
प्रजापतये इदं न मम ॥
इति वदेत् ।
5. उत्तरपरिषेचनम्
देव सवितः प्रासावीः यज्ञं प्रासावीः यज्ञपतिं भगाय ।
दिव्यो गन्धर्वः केतपूः केतं नः अपावीत् ।
वाचस्पतिर्वाचं नः अस्वादीत् ॥
इति परिषेचनं कुर्यात् ।
6. गौषूक्तसाम (सायम्)
गौषूक्तस्य साम्नः गौषूक्त ऋषिः । गायत्री छन्दः । इन्द्रो देवता ।
सायमौपासनहोमसिध्यर्थे जपे विनियोगः ।
अस्यामृचि साम गीयते —
य꣡दि꣢न्द्रा꣣हं꣢꣫ यथा꣣ त्वमीशी꣢꣯य꣣ व꣢स्व꣣ ए꣢क꣣ इ꣢त् ।
स्तो꣣ता꣢ मे꣣ गो꣡स꣢खा स्यात् ॥
गानम् —
यदिन्द्राहँयथौ । हौहोवाहाइ । तुवाम् । ईशीयवस्व औऽ2 ।
हुवाइ । हुवाये । काइऽ2त् ।
स्तोतामेगोसखौऽ2 । हुवाइ । हुवाये । सायाऽ23त् । होऽ2 वाऽ234 ।
औहोवा । अग्निराहुताऽ2345ः ॥
स्वरसङ्ख्याः मुद्रितग्रन्थानुसारम् अक्षराणामुपरि दर्शिताः । क्वचित् स्थानं मुद्रितग्रन्थेन परीक्षणीयम् ।
7. आश्वसूक्तसाम (प्रातः)
आश्वसूक्तस्य साम्नः आश्वसूक्त ऋषिः । गायत्री छन्दः । इन्द्रो देवता ।
प्रातरौपासनहोमसिध्यर्थे जपे विनियोगः ।
अस्यामृचि साम गीयते —
य꣡दि꣢न्द्रा꣣हं꣢꣫ यथा꣣ त्वमीशी꣢꣯य꣣ व꣢स्व꣣ ए꣢क꣣ इ꣢त् ।
स्तो꣣ता꣢ मे꣣ गो꣡स꣢खा स्यात् ॥
गानम् —
आऔ । होवाहाइ । यदिन्द्राहाम् । यथा । त्वं । ऐहीयैहीऽ । आइशीयवस्व ।
आइकइत् । ऐहीयैहीऽ1 । आऽ2इ । स्तोताऽ2माइगोऽ2 ।
सखाऽ23 । साऽ2याऽ234औहोवा । शुक्रआहुताऽ2345ः ॥
8. वामदेव्यसाम — समिदाधानम्
ततः "कया नश्चित्र" इति तृचे वामदेव्यं साम ("ॐ शान्तिः शान्तिः शान्तिः" पर्यन्तम्) गायेत् । (गानं ग्रन्थे पृ. ३२ द्रष्टव्यम् ।)
क꣡या꣢ नश्चि꣣त्र꣡ आ भुव꣢꣯दू꣣ती꣢ स꣣दा꣡वृ꣢धः꣣ स꣡खा꣢ ।
क꣢या꣣ श꣡चि꣢ष्ठया वृ꣣ता꣢ ॥
क꣡स्त्वा꣢ स꣣त्यो꣡ मदा꣢꣯नां꣣ म꣡ꣳहि꣢ष्ठो मत्स꣣द꣡न्ध꣢सः ।
दृ꣣ढा꣡ चि꣢दा꣣रु꣢जे꣣ व꣡सु꣢ ॥
अ꣣भी꣢꣫ षु णः꣣ स꣡खी꣢नामवि꣣ता꣡ ज꣢रितॄ꣣णा꣢म् ।
श꣣तं꣡ भ꣢वास्यू꣣त꣡ये꣢ ॥
अग्नये नमः ॥
इति एकां समिधम् अग्नौ निदध्यात् ।
9. नमस्तौ साम
ततः "नमस्तौ" इति साम गायेत् ।
अस्यामृचि साम गीयते —
न꣡म꣢स्ते अग्न꣣ ओ꣡ज꣢से गृ꣣ण꣡न्ति꣢ देव कृ꣣ष्ट꣡यः꣢ ।
अ꣡मै꣢र꣣मि꣡त्र꣢मर्दय ॥
गानम् —
नमस्तौ । होग्नाइ । ओजसाऽ3इ । गृणाऽ2न्ताऽ234इदे ।
वाकृष्टयाऽ2ः । अमायेऽ3ः । आऽ2माऽ234औहोवा । त्रमर्दयाऽ2345 ॥
10. समर्पणम्
मन्त्रहीनं क्रियाहीनं भक्तिहीनं हुताशन ।
यद्धुतं तु मया देव परिपूर्णं तदस्तु ते ॥
प्रायश्चित्तान्यशेषाणि तपःकर्मात्मकानि वै ।
यानि तेषामशेषाणां कृष्णानुस्मरणं परम् ॥
नमस्ते गार्हपत्याय नमस्ते दक्षिणाग्नये ।
नम आहवनीयाय महावेद्यै नमो नमः ॥
काण्डद्वयोपपाद्याय कर्मब्रह्मस्वरूपिणे ।
स्वर्गापवर्गरूपाय यज्ञेशाय नमो नमः ॥
11. अभिवादनम्
अग्निं प्रणम्य, स्वगोत्रप्रवरसूत्रशाखानामानि उक्त्वा अभिवादयेत् ।
अभिवादये ___ त्रयार्षेय/पञ्चार्षेय प्रवरान्वित ___ गोत्रः ___ सूत्रः
कौथुमशाखाध्यायी ___ शर्मा नाम अहं अस्मि भोः ॥
12. आचमनम्
दक्षिणहस्ते किञ्चिज्जलं गृहीत्वा अधोनिर्दिष्टैर्मन्त्रैस्त्रिराचामेत् ।
ॐ अच्युताय नमः
ॐ अनन्ताय नमः
ॐ गोविन्दाय नमः
जलेन द्विः ओष्ठौ परिमृज्य निर्दिष्टया अङ्गुल्या तत्तदङ्गं स्पृशेत् ।
| नाम | अङ्गुलि | स्पर्श |
|---|---|---|
| ॐ केशव | अङ्गुष्ठ | दक्षिण कपोलम् |
| ॐ नारायण | अङ्गुष्ठ | वाम कपोलम् |
| ॐ माधव | अनामिका | दक्षिण नेत्रम् |
| ॐ गोविन्द | अनामिका | वाम नेत्रम् |
| ॐ विष्णो | तर्जनी | दक्षिण नासिका |
| ॐ मधुसूदन | तर्जनी | वाम नासिका |
| ॐ त्रिविक्रम | कनिष्ठिका | दक्षिण कर्णम् |
| ॐ वामन | कनिष्ठिका | वाम कर्णम् |
| ॐ श्रीधर | मध्यमा | दक्षिण स्कन्धम् |
| ॐ हृषीकेश | मध्यमा | वाम स्कन्धम् |
| ॐ पद्मनाभ | सर्वाङ्गुलि | हृदयम् |
| ॐ दामोदर | सर्वाङ्गुलि | शिर: |
इति औपासनं समाप्तम् ।