मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

श्री कृष्ण जन्माष्टमी पूजा

श्रीकृष्णजन्माष्टमीपूजा. Also called krishna jayanti, krishna janmashtami, janmashtami, gokulashtami.

3

श्रावणकृष्णाष्टम्यां (आवणिमासे) आचर्यते। दिवा उपोष्य सूर्यास्तमये, केचन अर्धरात्रे वा पूजयन्ति।

पूर्वाङ्गपूजा. इदं पूर्वाङ्गं सर्वासु पूजासु समानम् — आदौ आचर्य पश्चात् प्रधानपूजां कुर्यात्। पूर्वाङ्गपूजा

पूर्वाङ्गपूजा

संवृणु
आचमनम्
ध्यानम्

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम्।

प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥

प्राणायामः — सङ्कल्पः

अप उपस्पृश्य

ममोपात्तसमस्तदुरितक्षयद्वारा श्रीपरमेश्वरप्रीत्यर्थं करिष्यमाणस्य कर्मणः निर्विघ्नेन परिसमाप्त्यर्थं आदौ विघ्नेश्वरपूजां करिष्ये।

महद्भन्दनम्

आब्रह्मलोकादारोहात् आलोकात् लोकपर्वतात्।

ये वसन्ति द्विजा देवास्तेभ्यो नित्यं नमो नमः ॥

आसनपूजा

पृथिव्या मेरुपृष्ठ ऋषिः। सुतलं छन्दः। कूर्मो देवता। आसने विनियोगः।

पृथिवि त्वया धृता लोका देवि त्वं विष्णुना धृता।

त्वं च धारय मां देवि पवित्रं चासनं कुरु ॥

घण्टापूजा

घण्टानादं कृत्वा।

आगमार्थं तु देवानां गमनार्थं तु रक्षसाम्।

घण्टारवं करोम्यादौ देवताह्वानकारणम् ॥

विघ्नेश्वरपूजा

अस्मिन् हरिद्राबिम्बे श्रीविघ्नेश्वरं ध्यायामि।

आवाहयामि। आसनं समर्पयामि। पादयोः पाद्यं समर्पयामि। अर्घ्यं समर्पयामि। आचमनीयं समर्पयामि। मधुपर्कं समर्पयामि। स्नानं समर्पयामि। आचमनीयं समर्पयामि। वस्त्रं समर्पयामि। उपवीतं समर्पयामि। दिव्यपरिमलगन्धान् धारयामि। अक्षतान् समर्पयामि। पुष्पैः पूजयामि।

सुमुखाय नमः
एकदन्ताय नमः
कपिलाय नमः
गजकर्णिकाय नमः
लम्बोदराय नमः
विकटाय नमः
विघ्नराजाय नमः
विनायकाय नमः
धूमकेतवे नमः
गणाध्यक्षाय नमः
फालचन्द्राय नमः
गजाननाय नमः
वक्रतुण्डाय नमः
शूर्पकर्णाय नमः
हेरम्बाय नमः
स्कन्दपूर्वजाय नमः
सिद्धिविनायकाय नमः
श्रीमहागणपतये नमः
उपचाराः

धूपमाघ्रापयामि। दीपं दर्शयामि। निवेदयामि। कर्पूरनीराजनं दर्शयामि। समस्तोपचारपूजां समर्पयामि।

प्रार्थना

वक्रतुण्ड महाकाय सूर्यकोटिसमप्रभ।

निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥

इति प्रार्थ्य। प्राणायामः।

सङ्कल्पः

शुभे शोभने मुहूर्ते आद्यब्रह्मणः द्वितीयपराधे श्वेतवराहकल्पे वैवस्वतमन्वन्तरे अष्टाविंशतितमे कलियुगे प्रथमे पादे जम्बूद्वीपे भारतवर्षे भरतखण्डे मेरोर्दक्षिणे पार्श्वे शकाब्दे अस्मिन् वर्तमाने व्यावहारिके प्रभवादिषष्टिसंवत्सराणां मध्ये …… नाम संवत्सरे …… अयने …… ऋतौ …… मासे …… पक्षे …… शुभतिथौ …… वासरयुक्तायां …… नक्षत्रयुक्तायां शुभयोगशुभकरणसकलविशेषणविशिष्टायामस्यां शुभतिथौ ममोपात्तसमस्तदुरितक्षयद्वारा श्रीपरमेश्वरप्रीत्यर्थं श्रीबालकृष्णप्रीत्यर्थं जन्माष्टम्यां श्रीबालकृष्णपूजां करिष्ये।

अप उपस्पृश्य। श्रीविघ्नेश्वराय नमः यथास्थानं प्रतिष्ठापयामि। शोभनार्थे क्षेमाय पुनरागमनाय च। इति विघ्नेश्वरमुद्राम्।

कलशपूजा

कलशं गन्धपुष्पाक्षतैरभ्यर्च्य। कलशजलेन तत्तद्देवतानाम योजयेत्। पूजाद्रव्याणि आत्मानं च प्रोक्ष्य।

गङ्गे च यमुने चैव गोदावरि सरस्वति।

नर्मदे सिन्धु कावेरि जलेऽस्मिन् सन्निधिं कुरु ॥

गङ्गायै नमः
यमुनायै नमः
गोदावर्यै नमः
सरस्वत्यै नमः
नर्मदायै नमः
सिन्धवे नमः
कावेर्यै नमःपुष्पैः पूजयामि।
शङ्खपूजा

कलशोदकेन शङ्खं पूरयेत्। शङ्खजलेन पूजोपकरणानि द्रव्याणि आत्मानं च त्रिः प्रोक्ष्य, पुनः शङ्खं पूरयेत्।

त्वं पुरा सागरोत्पन्नो विष्णुना विधृतः करे।

देवैश्च पूजितः सर्वैः पाञ्चजन्य नमोऽस्तु ते ॥

आत्मपूजा

देहो देवालयः प्रोक्तो जीवो देवः सनातनः।

त्यजाम्यज्ञाननिर्मूल्यं सोऽहंभावेन पूजये ॥

पीठपूजा
ओं सकलगुणात्मशक्तियुक्ताय योगपीठाय नमः
आधारशक्त्यै नमः
मूलप्रकृत्यै नमः
आदिवराहाय नमः
आदिकूर्माय नमः
अनन्ताय नमः
पृथिव्यै नमः
आदित्यादिनवग्रहदेवताभ्यो नमः
दशदिक्पालेभ्यो नमः
गुरुध्यानम्

गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः।

गुरुः साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः ॥

श्रीगुरुं ध्यायामि।

प्रधानपूजा

ध्यानम्

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम्।

प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥

बालकृष्णध्यानम्

ध्यायामि बालकं कृष्णं मात्रङ्के स्तन्यपायिनम्।

श्रीवत्सवक्षसं कान्तं नीलोत्पलदलच्छविम् ॥

देवकीवसुदेवयशोदानन्दगोपबलभद्रादिसहितं श्रीबालकृष्णं ध्यायामि।

आवाहनम्

आवाहयामि देवेशं श्रीपतिं श्रीधरं हरिम्।

बालरूपधरं विष्णुं सच्चिदानन्दविग्रहम् ॥

बालकृष्णं आवाहयामि।

आसनम्

दामोदर नमस्तेऽस्तु देवकीगर्भसम्भव।

रत्नसिंहासनं चारु गृह्यतां गोकुलप्रिय ॥

बालकृष्णाय नमः। आसनं समर्पयामि।

पाद्यम्

पुष्पाक्षतसमायुक्तं पुरुषोत्तम पूर्वज।

पाद्यं गृहाण देवेश पूर्णरूप नमोऽस्तु ते ॥

बालकृष्णाय नमः। पाद्यं समर्पयामि।

अर्घ्यम्

गन्धपुष्पाक्षतोपेतं फलेन च समन्वितम्।

अर्घ्यं गृहाण भगवन् वसुदेवप्रियात्मज ॥

बालकृष्णाय नमः। अर्घ्यं समर्पयामि।

आचमनीयम्

नानानदीसमानीतं सुवर्णकलशस्थितम्।

गृहाणाचमनीयं च विमलं जलमच्युत ॥

बालकृष्णाय नमः। आचमनीयं समर्पयामि।

मधुपर्कः

मधुदध्याज्यसंयुक्तं महनीयगुणार्णव।

मधुसूदन देवेश मधुपर्कं गृहाण मे ॥

बालकृष्णाय नमः। मधुपर्कं समर्पयामि।

पञ्चामृतम्

पञ्चामृतं गृहाणेश पयो दधि घृतं मधु।

शर्करामपि गोविन्द शकटासुरभञ्जन ॥

बालकृष्णाय नमः। पञ्चामृतं समर्पयामि।

स्नानम्

गङ्गागोदावरीकृष्णायमुनाभ्यः समाहृतम्।

सलिलं विमलं देव स्नानार्थं प्रतिगृह्यताम् ॥

बालकृष्णाय नमः। स्नानं समर्पयामि। आचमनीयं समर्पयामि।

वस्त्रम्

पीताम्बरयुगं देव गृहाण सुमनोहरम्।

देहि मे सकलानर्थान् देवकीप्रियनन्दन ॥

बालकृष्णाय नमः। वस्त्रं समर्पयामि।

उपवीतम्

उपवीतं गृहाणेदं काञ्चनं कमलापते।

पवित्रं कुरु मां देव नमः परमपूरुष ॥

बालकृष्णाय नमः। उपवीतं समर्पयामि।

आभरणानि

हारनूपुरकेयूरकिङ्किणीदामपूर्वकम्।

गृहाणाभरणं सर्वं शरणागतवत्सल ॥

बालकृष्णाय नमः। आभरणानि समर्पयामि।

गन्धः

गन्धं कुङ्कुमकस्तूरीघनसारसमन्वितम्।

गृहाण ते नमो देव कुब्जानुग्रहकारिणे ॥

बालकृष्णाय नमः। गन्धं समर्पयामि।

अक्षताः

अक्षतान् धवळान् दिव्यान् मुक्ताफलसमप्रभान्।

वासुदेव गृहाण त्वं नमस्ते भक्तवत्सल ॥

बालकृष्णाय नमः। अक्षतान् समर्पयामि।

पुष्पम्

जाजीचम्पकपुन्नागकेतकीमल्लिकादिभिः।

करवीरैः पारिजातैः पूजयामि रमापतिम् ॥

बालकृष्णाय नमः। पुष्पैः पूजयामि।

अङ्गपूजा
अच्युताय नमःपादौ पूजयामि।
गोपालाय नमःगुल्फौ पूजयामि।
जन्महीनाय नमःजानुनी पूजयामि।
पूतनावैरिणे नमःऊरू पूजयामि।
शकटासुरभञ्जनाय नमःकटिं पूजयामि।
नवनीतप्रियाय नमःनाभिं पूजयामि।
उत्तालतालभेत्रे नमःउदरं पूजयामि।
वनमालिने नमःवक्षः पूजयामि।
चतुर्भुजाय नमःहस्तान् पूजयामि।
कंसारये नमःकण्ठं पूजयामि।
मथुरानाथाय नमःमुखं पूजयामि।
कुचेलसम्पत्प्रदाय नमःकपोलौ पूजयामि।
कञ्जलोचनाय नमःनेत्रे पूजयामि।
करुणानिधये नमःकर्णौ पूजयामि।
ललिताकृतये नमःललाटं पूजयामि।
शुकसंस्तुताय नमःशिरः पूजयामि।
अनघाय नमःअलकान् पूजयामि।
सर्वेश्वराय नमःसर्वाण्यङ्गानि पूजयामि।
अष्टोत्तरशतनामार्चना
कृष्ण अष्टोत्तरशत नामावलिःपृथक्पृष्ठे पठ
  1. १ॐ श्रीकृष्णाय नमः
  2. २ॐ कमलानाथाय नमः
  3. ३ॐ वासुदेवाय नमः
  4. ४ॐ सनातनाय नमः
  5. ५ॐ वसुदेवात्मजाय नमः
  6. ६ॐ पुण्याय नमः
  7. ७ॐ लीलामानुषविग्रहाय नमः
  8. ८ॐ श्रीवत्सकौस्तुभधराय नमः
  9. ९ॐ यशोदावत्सलाय नमः
  10. १०ॐ हरये नमः
  11. ११ॐ चतुर्भुजात्तचक्रासिगदाशङ्खाम्बुजायुधाय नमः
  12. १२ॐ देवकीनन्दनाय नमः
  13. १३ॐ श्रीशाय नमः
  14. १४ॐ नन्दगोपप्रियात्मजाय नमः
  15. १५ॐ यमुनावेगसंहारिणे नमः
  16. १६ॐ बलभद्रप्रियानुजाय नमः
  17. १७ॐ पूतनाजीवितहराय नमः
  18. १८ॐ शकटासुरभञ्जनाय नमः
  19. १९ॐ नन्दव्रजजनानन्दिने नमः
  20. २०ॐ सच्चिदानन्दविग्रहाय नमः
  21. २१ॐ नवनीतविलिप्ताङ्गाय नमः
  22. २२ॐ नवनीतनटाय नमः
  23. २३ॐ अनघाय नमः
  24. २४ॐ नवनीतनवाहाराय नमः
  25. २५ॐ मुचुकुन्दप्रसादकाय नमः
  26. २६ॐ षोडशस्त्रीसहस्रेशाय नमः
  27. २७ॐ त्रिभङ्गीमधुराकृतये नमः
  28. २८ॐ शुकवागमृताब्धीन्दवे नमः
  29. २९ॐ गोविन्दाय नमः
  30. ३०ॐ योगिनां पतये नमः
  31. ३१ॐ वत्सवाटचराय नमः
  32. ३२ॐ अनन्ताय नमः
  33. ३३ॐ धेनुकासुरमर्दनाय नमः
  34. ३४ॐ तृणीकृततृणावर्ताय नमः
  35. ३५ॐ यमलार्जुनभञ्जनाय नमः
  36. ३६ॐ उत्तालतालभेत्रे नमः
  37. ३७ॐ तमालश्यामलाकृतये नमः
  38. ३८ॐ गोपगोपीश्वराय नमः
  39. ३९ॐ योगिने नमः
  40. ४०ॐ कोटिसूर्यसमप्रभाय नमः
  41. ४१ॐ इलापतये नमः
  42. ४२ॐ परस्मै ज्योतिषे नमः
  43. ४३ॐ यादवेन्द्राय नमः
  44. ४४ॐ यदूद्वहाय नमः
  45. ४५ॐ वनमालिने नमः
  46. ४६ॐ पीतवाससे नमः
  47. ४७ॐ पारिजातापहारकाय नमः
  48. ४८ॐ गोवर्धनाचलोद्धर्त्रे नमः
  49. ४९ॐ गोपालाय नमः
  50. ५०ॐ सर्वपालकाय नमः
  51. ५१ॐ अजाय नमः
  52. ५२ॐ निरञ्जनाय नमः
  53. ५३ॐ कामजनकाय नमः
  54. ५४ॐ कञ्जलोचनाय नमः
  55. ५५ॐ मधुघ्ने नमः
  56. ५६ॐ मथुरानाथाय नमः
  57. ५७ॐ द्वारकानायकाय नमः
  58. ५८ॐ बलिने नमः
  59. ५९ॐ बृन्दावनान्तसञ्चारिणे नमः
  60. ६०ॐ तुलसीदामभूषणाय नमः
  61. ६१ॐ स्यमन्तकमणेर्हर्त्रे नमः
  62. ६२ॐ नरनारायणात्मकाय नमः
  63. ६३ॐ कुब्जाकृष्णाम्बरधराय नमः
  64. ६४ॐ मायिने नमः
  65. ६५ॐ परमपूरुषाय नमः
  66. ६६ॐ मुष्टिकासुरचाणूरमल्लयुद्धविशारदाय नमः
  67. ६७ॐ संसारवैरिणे नमः
  68. ६८ॐ कंसारये नमः
  69. ६९ॐ मुरारये नमः
  70. ७०ॐ नरकान्तकाय नमः
  71. ७१ॐ अनादिब्रह्मचारिणे नमः
  72. ७२ॐ कृष्णाव्यसनकर्षकाय नमः
  73. ७३ॐ शिशुपालशिरश्छेत्रे नमः
  74. ७४ॐ दुर्योधनकुलान्तकाय नमः
  75. ७५ॐ विदुराक्रूरवरदाय नमः
  76. ७६ॐ विश्वरूपप्रदर्शकाय नमः
  77. ७७ॐ सत्यवाचे नमः
  78. ७८ॐ सत्यसङ्कल्पाय नमः
  79. ७९ॐ सत्यभामारताय नमः
  80. ८०ॐ जयिने नमः
  81. ८१ॐ सुभद्रापूर्वजाय नमः
  82. ८२ॐ विष्णवे नमः
  83. ८३ॐ भीष्ममुक्तिप्रदायकाय नमः
  84. ८४ॐ जगद्गुरवे नमः
  85. ८५ॐ जगन्नाथाय नमः
  86. ८६ॐ वेणुनादविशारदाय नमः
  87. ८७ॐ वृषभासुरविध्वंसिने नमः
  88. ८८ॐ बाणासुरकरान्तकाय नमः
  89. ८९ॐ युधिष्ठिरप्रतिष्ठात्रे नमः
  90. ९०ॐ बर्हिबर्हावतंसकाय नमः
  91. ९१ॐ पार्थसारथये नमः
  92. ९२ॐ अव्यक्ताय नमः
  93. ९३ॐ गीतामृतमहोदधये नमः
  94. ९४ॐ कालीयफणिमाणिक्यरञ्जितश्रीपदाम्बुजाय नमः
  95. ९५ॐ दामोदराय नमः
  96. ९६ॐ यज्ञभोक्त्रे नमः
  97. ९७ॐ दानवेन्द्रविनाशकाय नमः
  98. ९८ॐ नारायणाय नमः
  99. ९९ॐ परब्रह्मणे नमः
  100. १००ॐ पन्नगाशनवाहनाय नमः
  101. १०१ॐ जलक्रीडासमासक्तगोपीवस्त्रापहारकाय नमः
  102. १०२ॐ पुण्यश्लोकाय नमः
  103. १०३ॐ तीर्थपादाय नमः
  104. १०४ॐ वेदवेद्याय नमः
  105. १०५ॐ दयानिधये नमः
  106. १०६ॐ सर्वतीर्थात्मकाय नमः
  107. १०७ॐ सर्वग्रहरूपिणे नमः
  108. १०८ॐ परात्पराय नमः
धूपः

दशाङ्गो गुग्गुलूपेतः सुगन्धः सुमनोहरः।

आघ्रेयः सर्वदेवानां धूपोऽयं प्रतिगृह्यताम् ॥

बालकृष्णाय नमः। धूपं समर्पयामि। आचमनीयं समर्पयामि।

दीपः

साज्यं त्रिवर्तिसंयुक्तं वह्निना योजितं मया।

गृहाण मङ्गलं दीपं त्रैलोक्यतिमिरापहम् ॥

बालकृष्णाय नमः। दीपं समर्पयामि। आचमनीयं समर्पयामि।

नैवेद्यम्

अन्नं चतुर्विधं सूपफलभक्ष्यसमन्वितम्।

दधिमध्वाज्यसंयुक्तं नैवेद्यं प्रतिगृह्यताम् ॥

बालकृष्णाय नमः। अमृतं महानैवेद्यं समर्पयामि। मध्ये मध्ये पानीयं समर्पयामि। आचमनीयं समर्पयामि।

ताम्बूलम्

पूगीफलसमायुक्तं नागवल्लीदलैर्युतम्।

कर्पूरचूर्णसंयुक्तं ताम्बूलं प्रतिगृह्यताम् ॥

बालकृष्णाय नमः। कर्पूरताम्बूलं समर्पयामि।

नीराजनम्

चन्द्रादित्यौ च नक्षत्रं विद्युदग्निस्त्वमेव च।

त्वमेव सर्वज्योतींषि कुर्यां नीराजनं तव ॥

बालकृष्णाय नमः। सर्वमङ्गलप्राप्त्यर्थं सर्वापराधक्षमापणार्थं कर्पूरनीराजनं दर्शयामि। आचमनीयं समर्पयामि।

पुष्पाञ्जलिः

मन्दारनीलोत्पलकुन्दजातीपुन्नागमल्लीकरवीरपङ्कजैः।

पुष्पाञ्जलिं बिल्वदलैस्तुलस्या देव त्वदंघ्रौ विनिवेशयामि ॥

बालकृष्णाय नमः। मन्त्रपुष्पाञ्जलिं समर्पयामि।

प्रदक्षिणनमस्काराः

यानि कानि च पापानि जन्मान्तरकृतानि च।

तानि तानि विनश्यन्ति प्रदक्षिणपदे पदे ॥

प्रकृष्टपापनाशाय प्रकृष्टफलसिद्धये।

प्रदक्षिणं करोमि त्वां प्रसीद परमेश्वर ॥

नमो नमः सुरवरपूजिताङ्घ्रये

नमो नमो निरुपममङ्गलात्मने।

नमो नमो विपुलपदैकसिद्धये

नमो नमः परमदयानिधे नमः ॥

बालकृष्णाय नमः। प्रदक्षिणनमस्कारान् समर्पयामि।

प्रार्थना

नमस्तुभ्यं जगन्नाथ देवकीतनय प्रभो।

वसुदेवसुतानन्त यशोदानन्दवर्धन ॥

गोविन्द गोकुलाधार गोपीकान्त गुणार्णव।

पाहि मां पद्मनयन पतितं भवसागरे ॥

बालकृष्णाय नमः। (प्रार्थना)

क्षीरार्घ्यप्रदानम्

ममोपात्त … प्रीत्यर्थं श्रीकृष्णपूजान्ते क्षीरार्घ्यप्रदानं करिष्ये।

जातः कंसवधार्थाय भूभारोत्तारणाय च।

पाण्डवानां हितार्थाय धर्मसंस्थापनाय च ॥

कौरवाणां विनाशाय दैत्यानां निधनाय च।

गृहाणार्घ्यं मया दत्तं देवकीतनय प्रभो ॥

देवकीसहिताय श्रीकृष्णाय नमः। इदमर्घ्यमिदमर्घ्यमिदमर्घ्यम् ॥

श्रीदेवकीवसुदेवयशोदानन्दगोपरोहिणीबलदेवचण्डिकासात्यक्युद्धवाक्रूरोग्रसेनगोपगोपिकाकालिन्दीकालियादिभ्यो नमः। इदमर्घ्यमिदमर्घ्यमिदमर्घ्यम् ॥

चन्द्रार्घ्यम्

ब्राह्मणपूजा। उपायनदानम्।

अत्रिनेत्रसमुद्भूत क्षीरोदार्णवसम्भव।

रोहिणीश गृहाणार्घ्यं रमाभ्रातर्मनःपते ॥

चन्द्राय नमः। इदमर्घ्यमिदमर्घ्यमिदमर्घ्यम् ॥