मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

प्रथमोऽध्यायः

3
मनुस्मृतिः · 1

मनुमेकाग्रमासीनमभिगम्य महर्षयः

प्रतिपूज्य यथान्यायमिदं वचनमब्रुवन्

॥१॥

भगवन्सर्ववर्णानां यथावदनुपूर्वशः

अन्तरप्रभवानां च धर्मान्नो वक्तुमर्हसि

॥२॥

त्वमेको ह्यस्य सर्वस्य विधानस्य स्वयंभुवः

अचिन्त्यस्याप्रमेयस्य कार्यतत्त्वार्थवित्प्रभो

॥३॥

स तैः पृष्टस्तथा सम्यगमितौजा महात्मभिः

प्रत्युवाचार्च्य तान्सर्वान्महर्षीञ्श्रूयतामिति

॥४॥

आसीदिदं तमोभूतमप्रज्ञातमलक्षणम्

अप्रतर्क्यमविज्ञेयं प्रसुप्तमिव सर्वतः

॥५॥

ततः स्वयंभूर्भगवानव्यक्तो व्यञ्जयन्निदम्

महाभूतादि वृत्तौजाः प्रादुरासीत्तमोनुदः

॥६॥

योऽसावतीन्द्रियग्राह्यः सूक्ष्मोऽव्यक्तः सनातनः

सर्वभूतमयोऽचिन्त्यः स एव स्वयमुद्बभौ

॥७॥

सोऽभिध्याय शरीरात्स्वात्सिसृक्षुर्विविधाः प्रजाः

अप एव ससर्जादौ तासु वीर्यमवासृजत्

॥८॥

तदण्डमभवद्धैमं सहस्रांशुसमप्रभम्

तस्मिञ्जज्ञे स्वयं ब्रह्मा सर्वलोकपितामहः

॥९॥

आपो नरा इति प्रोक्ता आपो वै नरसूनवः

ता यदस्यायनं पूर्वं तेन नारायणः स्मृतः

॥१०॥

यत्तत्कारणमव्यक्तं नित्यं सदसदात्मकं

तद्विसृष्टः स पुरुषो लोके ब्रह्मेति कीर्त्यते

॥११॥

तस्मिन्नण्डे स भगवानुषित्वा परिवत्सरम्

स्वयमेवात्मनो ध्यानात्तदण्डमकरोद्द्विधा

॥१२॥

ताभ्यां स शकलाभ्यां च दिवं भूमिं च निर्ममे

मध्ये व्योम दिशश्चाष्टावपां स्थानं च शाश्वतं

॥१३॥

उद्बबर्हात्मनश्चैव मनः सदसदात्मकम्

मनसश्चाप्यहंकारमभिमन्तारमीश्वरम्

॥१४॥

महान्तमेव चात्मानं सर्वाणि त्रिगुणानि च

विषयाणां ग्रहीतॄणि शनैः पञ्चेन्द्रियाणि च

॥१५॥

तेषां त्ववयवान्सूक्ष्मान्षण्णामप्यमितौजसाम्

संनिवेश्यात्ममात्रासु सर्वभूतानि निर्ममे

॥१६॥

यन्मूर्त्यवयवाः सूक्ष्मास्तानीमान्याश्रयन्ति षट्

तस्माच्छरीरमित्याहुस्तस्य मूर्तिं मनीषिणः

॥१७॥

तदाविशन्ति भूतानि महान्ति सह कर्मभिः

मनश्चावयवैः सूक्ष्मैः सर्वभूतकृदव्ययम्

॥१८॥

तेषामिदं तु सप्तानां पुरुषाणां महौजसाम्

सूक्ष्माभ्यो मूर्तिमात्राभ्यः संभवत्यव्ययाद्व्ययम्

॥१९॥

आद्याद्यस्य गुणं त्वेषामवाप्नोति परः परः

यो यो यावतिथश्चैषां स स तावद्गुणः स्मृतः

॥२०॥

सर्वेषां तु स नामानि कर्माणि च पृथक्पृथक्

वेदशब्देभ्य एवादौ पृथक्संस्थाश्च निर्ममे

॥२१॥

कर्मात्मनां च देवानां सोऽसृजत्प्राणिनां प्रभुः

साध्यानां च गणं सूक्ष्मं यज्ञं चैव सनातनम्

॥२२॥

अग्निवायुरविभ्यस्तु त्रयं ब्रह्म सनातनम्

दुदोह यज्ञसिद्ध्यर्थमृग्यजुःसामलक्षणम्

॥२३॥

कालं कालविभक्तीश्च नक्षत्राणि ग्रहांस्तथा

सरितः सागराञ्शैलान्समानि विषमानि च

॥२४॥

तपो वाचं रतिं चैव कामं च क्रोधमेव च

सृष्टिं ससर्ज चैवेमां स्रष्टुमिच्छन्निमाः प्रजाः

॥२५॥

कर्मणां च विवेकार्थं धर्माधर्मौ व्यवेचयत्

द्वन्द्वैरयोजयच्चेमाः सुखदुःखादिभिः प्रजाः

॥२६॥

अण्व्यो मात्रा विनाशिन्यो दशार्धानां तु याः स्मृताः

ताभिः सार्धमिदं सर्वं संभवत्यनुपूर्वशः

॥२७॥

यं तु कर्मणि यस्मिन्स न्ययुङ्क्त प्रथमं प्रभुः

स तदेव स्वयं भेजे सृज्यमानः पुनः पुनः

॥२८॥

हिंस्राहिंस्रे मृदुक्रूरे धर्माधर्मावृतानृते

यद्यस्य सोऽदधात्सर्गे तत्तस्य स्वयमाविशत्

॥२९॥

यथा र्तुलिङ्गान्यृतवः स्वयमेव र्तुपर्यये

स्वानि स्वान्यभिपद्यन्ते तथा कर्माणि देहिनः

॥३०॥

लोकानां तु विवृद्ध्यर्थं मुखबाहूरुपादतः

ब्राह्मणं क्षत्रियं वैश्यं शूद्रं च निरवर्तयत्

॥३१॥

द्विधा कृत्वात्मनो देहमर्धेन पुरुषोऽभवत्

अर्धेन नारी तस्यां स विराजमसृजत्प्रभुः

॥३२॥

तपस्तप्त्वासृजद्यं तु स स्वयं पुरुषो विराट्

तं मां वित्तास्य सर्वस्य स्रष्टारं द्विजसत्तमाः

॥३३॥

अहं प्रजाः सिसृक्षुस्तु तपस्तप्त्वा सुदुश्चरम्

पतीन्प्रजानामसृजं महर्षीनादितो दश

॥३४॥

मरीचिमत्र्यङ्गिरसौ पुलस्त्यं पुलहं क्रतुम्

प्रचेतसं वसिष्ठं च भृगुं नारदमेव च

॥३५॥

एते मनूंस्तु सप्तान्यानसृजन्भूरितेजसः

देवान्देवनिकायांश्च महर्षींश्चामितौजसः

॥३६॥

यक्षरक्षःपिशाचांश्च गन्धर्वाप्सरसोऽसुरान्

नागान्सर्पान्सुपर्णांश्च पितॄणांश्च पृथग्गणम्

॥३७॥

विद्युतोऽशनिमेघांश्च रोहितेन्द्रधनूंषि च

उल्कानिर्घातकेतूंश्च ज्योतींष्युच्चावचानि च

॥३८॥

किन्नरान्वानरान्मत्स्यान्विविधांश्च विहङ्गमान्

पशून्मृगान्मनुष्यांश्च व्यालांश्चोभयतोदतः

॥३९॥

कृमिकीटपतङ्गांश्च यूकामक्षिकमत्कुणम्

सर्वं च दंशमशकं स्थावरं च पृथग्विधम्

॥४०॥

एवमेतैरिदं सर्वं मन्नियोगान्महात्मभिः

यथाकर्म तपोयोगात्सृष्टं स्थावरजङ्गमम्

॥४१॥

येषां तु यादृषं कर्म भूतानामिह कीर्तितम्

तत्तथा वोऽभिधास्यामि क्रमयोगं च जन्मनि

॥४२॥

पशवश्च मृगाश्चैव व्यालाश्चोभयतोदतः

रक्षांसि च पिशाचाश्च मनुष्याश्च जरायुजाः

॥४३॥

अण्डाजाः पक्षिणः सर्पा नक्रा मत्स्याश्च कच्छपाः

यानि चैवंप्रकाराणि स्थलजान्यौदकानि च

॥४४॥

स्वेदजं दंशमशकं यूकामक्षिकमत्कुणम्

ऊष्मणश्चोपजायन्ते यच्चान्यत्किं चिदीदृषम्

॥४५॥

उद्भिज्जाः स्थावराः सर्वे बीजकाण्डप्ररोहिणः

ओषध्यः फलपाकान्ता बहुपुष्पफलोपगाः

॥४६॥

अपुष्पाः फलवन्तो ये ते वनस्पतयः स्मृताः

पुष्पिणः फलिनश्चैव वृक्षास्तूभयतः स्मृताः

॥४७॥

गुच्छगुल्मं तु विविधं तथैव तृणजातयः

बीजकाण्डरुहाण्येव प्रताना वल्ल्य एव च

॥४८॥

तमसा बहुरूपेण वेष्टिताः कर्महेतुना

अन्तःसंज्ञा भवन्त्येते सुखदुःखसमन्विताः

॥४९॥

एतदन्तास्तु गतयो ब्रह्माद्याः समुदाहृताः

घोरेऽस्मिन्भूतसंसारे नित्यं सततयायिनि

॥५०॥

एवं सर्वं स सृष्ट्वेदं मां चाचिन्त्यपराक्रमः

आत्मन्यन्तर्दधे भूयः कालं कालेन पीडयन्

॥५१॥

यदा स देवो जागर्ति तदेवं चेष्टते जगत्

यदा स्वपिति शान्तात्मा तदा सर्वं निमीलति

॥५२॥

तस्मिन्स्वपिति तु स्वस्थे कर्मात्मानः शरीरिणः

स्वकर्मभ्यो निवर्तन्ते मनश्च ग्लानिमृच्छति

॥५३॥

युगपत्तु प्रलीयन्ते यदा तस्मिन्महात्मनि

तदायं सर्वभूतात्मा सुखं स्वपिति निर्वृतः

॥५४॥

तमोऽयं तु समाश्रित्य चिरं तिष्ठति सेन्द्रियः

न च स्वं कुरुते कर्म तदोत्क्रामति मूर्तितः

॥५५॥

यदाणुमात्रिको भूत्वा बीजं स्थास्नु चरिष्णु च

समाविशति संसृष्टस्तदा मूर्तिं विमुञ्चति

॥५६॥

एवं स जाग्रत्स्वप्नाभ्यामिदं सर्वं चराचरम्

संजीवयति चाजस्रं प्रमापयति चाव्ययः

॥५७॥

इदं शास्त्रं तु कृत्वासौ मामेव स्वयमादितः

विधिवद्ग्राहयामास मरीच्यादींस्त्वहं मुनीन्

॥५८॥

एतद्वोऽयं भृगुः शास्त्रं श्रावयिष्यत्यशेसतः

एतद्धि मत्तोऽधिजगे सर्वमेषोऽखिलं मुनिः

॥५९॥

ततस्तथा स तेनोक्तो महर्षिमनुना भृगुः

तानब्रवीदृषीन्सर्वान्प्रीतात्मा श्रूयतामिति

॥६०॥

स्वायंभुवस्यास्य मनोः षड्वंश्या मनवोऽपरे

सृष्टवन्तः प्रजाः स्वाः स्वा महात्मानो महौजसः

॥६१॥

स्वारोचिषश्चोत्तमश्च तामसो रैवतस्तथा

चाक्षुषश्च महातेजा विवस्वत्सुत एव च

॥६२॥

स्वायंभुवाद्याः सप्तैते मनवो भूरितेजसः

स्वे स्वेऽन्तरे सर्वमिदमुत्पाद्यापुश्चराचरम्

॥६३॥

निमेषा दश चाष्टौ च काष्ठा त्रिंशत्तु ताः कला

त्रिंशत्कला मुहूर्तः स्यादहोरात्रं तु तावतः

॥६४॥

अहोरात्रे विभजते सूर्यो मानुषदैविके

रात्रिः स्वप्नाय भूतानां चेष्टायै कर्मणामहः

॥६५॥

पित्र्ये रात्र्यहनी मासः प्रविभागस्तु पक्षयोः

कर्मचेष्टास्वहः कृष्णः शुक्लः स्वप्नाय शर्वरी

॥६६॥

दैवे रात्र्यहनी वर्षं प्रविभागस्तयोः पुनः

अहस्तत्रोदगयनं रात्रिः स्याद्दक्षिणायनम्

॥६७॥

ब्राह्मस्य तु क्षपाहस्य यत्प्रमाणं समासतः

एकैकशो युगानां तु क्रमशस्तन्निबोधत

॥६८॥

चत्वार्याहुः सहस्राणि वर्साणां तत्कृतं युगम्

तस्य तावच्छती संध्या संध्यांशश्च तथाविधः

॥६९॥

इतरेषु ससंध्येषु ससंध्यांशेषु च त्रिषु

एकापायेन वर्तन्ते सहस्राणि शतानि च

॥७०॥

यदेतत्परिसंख्यातमादावेव चतुर्युगम्

एतद्द्वादशसाहस्रं देवानां युगमुच्यते

॥७१॥

दैविकानां युगानां तु सहस्रं परिसंख्यया

ब्राह्ममेकमहर्ज्ञेयं तावतीं रात्रिमेव च

॥७२॥

तद्वै युगसहस्रान्तं ब्राह्मं पुण्यमहर्विदुः

रात्रिं च तावतीमेव तेऽहोरात्रविदो जनाः

॥७३॥

तस्य सोऽहर्निशस्यान्ते प्रसुप्तः प्रतिबुध्यते

प्रतिबुद्धश्च सृजति मनः सदसदात्मकम्

॥७४॥

मनः सृष्टिं विकुरुते चोद्यमानं सिसृक्षया

आकाशं जायते तस्मात्तस्य शब्दं गुणं विदुः

॥७५॥

आकाशात्तु विकुर्वाणात्सर्वगन्धवहः शुचिः

बलवाञ्जायते वायुः स वै स्पर्शगुणो मतः

॥७६॥

वायोरपि विकुर्वाणाद्विरोचिष्णु तमोनुदम्

ज्योतिरुत्पद्यते भास्वत्तद्रूपगुणमुच्यते

॥७७॥

ज्योतिषश्च विकुर्वाणादापो रसगुणाः स्मृताः

अद्भ्यो गन्धगुणा भूमिरित्येषा सृष्टिरादितः

॥७८॥

यद्प्राग्द्वादशसाहस्रमुदितं दैविकं युगम्

तदेकसप्ततिगुणं मन्वन्तरमिहोच्यते

॥७९॥

मन्वन्तराण्यसंख्यानि सर्गः संहार एव च

क्रीडन्निवैतत्कुरुते परमेष्ठी पुनः पुनः

॥८०॥

चतुष्पात्सकलो धर्मः सत्यं चैव कृते युगे

नाधर्मेणागमः कश्चिन्मनुष्यान्प्रति वर्तते

॥८१॥

इतरेष्वागमाद्धर्मः पादशस्त्ववरोपितः

चौरिकानृतमायाभिर्धर्मश्चापैति पादशः

॥८२॥

अरोगाः सर्वसिद्धार्थाश्चतुर्वर्षशतायुषः

कृते त्रेतादिषु ह्येषां आयुर्ह्रसति पादशः

॥८३॥

वेदोक्तमायुर्मर्त्यानामाशिषश्चैव कर्मणाम्

फलन्त्यनुयुगं लोके प्रभावश्च शरीरिणाम्

॥८४॥

अन्ये कृतयुगे धर्मास्त्रेतायां द्वापरेऽपरे

अन्ये कलियुगे नॄणां युगह्रासानुरूपतः

॥८५॥

तपः परं कृतयुगे त्रेतायां ज्ञानमुच्यते

द्वापरे यज्ञमेवाहुर्दानमेकं कलौ युगे

॥८६॥

सर्वस्यास्य तु सर्गस्य गुप्त्यर्थं स महाद्युतिः

मुखबाहूरुपज्जानां पृथक्कर्माण्यकल्पयत्

॥८७॥

अध्यापनमध्ययनं यजनं याजनं तथा

दानं प्रतिग्रहं चैव ब्राह्मणानामकल्पयत्

॥८८॥

प्रजानां रक्षणं दानमिज्याध्ययनमेव च

विषयेष्वप्रसक्तिश्च क्षत्रियस्य समासतः

॥८९॥

पशूनां रक्षणं दानमिज्याध्ययनमेव च

वणिक्पथं कुसीदं च वैश्यस्य कृषिमेव च

॥९०॥

एकमेव तु शूद्रस्य प्रभुः कर्म समादिशत्

एतेषामेव वर्णानां शुश्रूषामनसूयया

॥९१॥

ऊर्ध्वं नाभेर्मेध्यतरः पुरुषः परिकीर्तितः

तस्मान्मेध्यतमं त्वस्य मुखमुक्तं स्वयंभुवा

॥९२॥

उत्तमाङ्गोद्भवाज्ज्येष्ठ्याद्ब्रह्मणश्चैव धारणात्

सर्वस्यैवास्य सर्गस्य धर्मतो ब्राह्मणः प्रभुः

॥९३॥

तं हि स्वयंभूः स्वादास्यात्तपस्तप्त्वादितोऽसृजत्

हव्यकव्याभिवाह्याय सर्वस्यास्य च गुप्तये

॥९४॥

यस्यास्येन सदाश्नन्ति हव्यानि त्रिदिवौकसः

कव्यानि चैव पितरः किं भूतमधिकं ततः

॥९५॥

भूतानां प्राणिनः श्रेष्ठाः प्राणिनां बुद्धिजीविनः

बुद्धिमत्सु नराः श्रेष्ठा नरेषु ब्राह्मणाः स्मृताः

॥९६॥

ब्राह्मणेषु च विद्वांसो विद्वत्सु कृतबुद्धयः

कृतबुद्धिषु कर्तारः कर्तृषु ब्रह्मवेदिनः

॥९७॥

उत्पत्तिरेव विप्रस्य मूर्तिर्धर्मस्य शाश्वती

स हि धर्मार्थमुत्पन्नो ब्रह्मभूयाय कल्पते

॥९८॥

ब्राह्मणो जायमानो हि पृथिव्यामधिजायते

ईश्वरः सर्वभूतानां धर्मकोशस्य गुप्तये

॥९९॥

सर्वं स्वं ब्राह्मणस्येदं यत्किं चिज्जगतीगतं

श्रैष्ठ्येनाभिजनेनेदं सर्वं वै ब्राह्मणोऽर्हति

॥१००॥

स्वमेव ब्राह्मणो भुङ्क्ते स्वं वस्ते स्वं ददाति च

आनृशंस्याद्ब्राह्मणस्य भुञ्जते हीतरे जनाः

॥१०१॥

तस्य कर्मविवेकार्थं शेषाणामनुपूर्वशः

स्वायंभुवो मनुर्धीमानिदं शास्त्रमकल्पयत्

॥१०२॥

विदुषा ब्राह्मणेनेदमध्येतव्यं प्रयत्नतः

शिश्येभ्यश्च प्रवक्तव्यं सम्यङ्नान्येन केन चित्

॥१०३॥

इदं शास्त्रमधीयानो ब्राह्मणः शंसितव्रतः

मनोवाग्गेहजैर्नित्यं कर्मदोषैर्न लिप्यते

॥१०४॥

पुनाति पङ्क्तिं वंश्यांश्च सप्तसप्त परावरान्

पृथिवीमपि चैवेमां कृत्स्नामेकोऽपि सोऽर्हति

॥१०५॥

इदं स्वस्त्ययनं श्रेष्ठमिदं बुद्धिविवर्धनम्

इदं यशस्यमायुष्यमिदं निःश्रेयसं परम्

॥१०६॥

अस्मिन्धर्मोऽखिलेनोक्तो गुणदोषौ च कर्मणाम्

चतुर्णामपि वर्णानामाचारश्चैव शाश्वतः

॥१०७॥

आचारः परमो धर्मः श्रुत्युक्तः स्मार्त एव च

तस्मादस्मिन्सदा युक्तो नित्यं स्यादात्मवान्द्विजः

॥१०८॥

आचाराद्विच्युतो विप्रो न वेदफलमश्नुते

आचारेण तु संयुक्तः सम्पूर्णफलभाज्भवेत्

॥१०९॥

एवमाचारतो दृष्ट्वा धर्मस्य मुनयो गतिं

सर्वस्य तपसो मूलमाचारं जगृहुः परम्

॥११०॥

जगतश्च समुत्पत्तिं संस्कारविधिमेव च

व्रतचर्योपचारं च स्नानस्य च परं विधिम्

॥१११॥

दाराधिगमनं चैव विवाहानां च लक्षणम्

महायज्ञविधानं च श्राद्धकल्पं च शाश्वतम्

॥११२॥

वृत्तीनां लक्षणं चैव स्नातकस्य व्रतानि च

भक्ष्याभक्ष्यं च शौचं च द्रव्याणां शुद्धिमेव च

॥११३॥

स्त्रीधर्मयोगं तापस्यं मोक्षं संन्यासमेव च

राज्ञश्च धर्ममखिलं कार्याणां च विनिर्णयम्

॥११४॥

साक्षिप्रश्नविधानं च धर्मं स्त्रीपुंसयोरपि

विभागधर्मं द्यूतं च कण्टकानां च शोधनम्

॥११५॥

वैश्यशूद्रोपचारं च संकीर्णानां च संभवम्

आपद्धर्मं च वर्णानां प्रायश्चित्तविधिं तथा

॥११६॥

संसारगमनं चैव त्रिविधं कर्मसंभवम्

निःश्रेयसं कर्मणां च गुणदोषपरीक्षणम्

॥११७॥

देशधर्माञ्जातिधर्मान्कुलधर्मांश्च शाश्वतान्

पाषण्डगणधर्मांश्च शास्त्रेऽस्मिन्नुक्तवान्मनुः

॥११८॥

यथेदमुक्तवाञ्शास्त्रं पुरा पृष्टो मनुर्मया

तथेदं यूयमप्यद्य मत्सकाशान्निबोधत

॥११९॥