एवं गृहाश्रमे स्थित्वा विधिवत्स्नातको द्विजः
वने वसेत्तु नियतो यथावद्विजितेन्द्रियः
॥१॥गृहस्थस्तु यथा पश्येद्वलीपलितमात्मनः
अपत्यस्यैव चापत्यं तदारण्यं समाश्रयेत्
॥२॥संत्यज्य ग्राम्यमाहारं सर्वं चैव परिच्छदम्
पुत्रेषु भार्यां निक्षिप्य वनं गच्छेत्सहैव वा
॥३॥अग्निहोत्रं समादाय गृह्यं चाग्निपरिच्छदम्
ग्रामादरण्यं निःसृत्य निवसेन्नियतेन्द्रियः
॥४॥मुन्यन्नैर्विविधैर्मेध्यैः शाकमूलफलेन वा
एतानेव महायज्ञान्निर्वपेद्विधिपूर्वकम्
॥५॥वसीत चर्म चीरं वा सायं स्नायात्प्रगे तथा
जटाश्च बिभृयान्नित्यं श्मश्रुलोमनखानि च
॥६॥यद्भक्ष्यं स्याद्ततो दद्याद्बलिं भिक्षां च शक्तितः
अम्मूलफलभिक्षाभिरर्चयेदाश्रमागतान्
॥७॥स्वाध्याये नित्ययुक्तः स्याद्दान्तो मैत्रः समाहितः
दाता नित्यमनादाता सर्वभूतानुकम्पकः
॥८॥वैतानिकं च जुहुयादग्निहोत्रं यथाविधि
दर्शमस्कन्दयन्पर्व पौर्णमासं च योगतः
॥९॥ऋक्षेष्ट्याग्रयणं चैव चातुर्मास्यानि चाहरेत्
तुरायणं च क्रमशो दक्षस्यायनमेव च
॥१०॥वासन्तशारदैर्मेध्यैर्मुन्यन्नैः स्वयमाहृतैः
पुरोडाशांश्चरूंश्चैव विधिवन्निर्वपेत्पृथक्
॥११॥देवताभ्यस्तु तद्धुत्वा वन्यं मेध्यतरं हविः
शेषमात्मनि युञ्जीत लवणं च स्वयं कृतम्
॥१२॥स्थलजाउदकशाकानि पुष्पमूलफलानि च
मेध्यवृक्षोद्भवान्यद्यात्स्नेहांश्च फलसंभवान्
॥१३॥वर्जयेन्मधु मांसं च भौमानि कवकानि च
भूस्तृणं शिग्रुकं चैव श्लेश्मातकफलानि च
॥१४॥त्यजेदाश्वयुजे मासि मुन्यन्नं पूर्वसंचितम्
जीर्णानि चैव वासांसि शाकमूलफलानि च
॥१५॥न फालकृष्टमश्नीयादुत्सृष्टमपि केन चित्
न ग्रामजातान्यार्तोऽपि मूलाणि च फलानि च
॥१६॥अग्निपक्वाशनो वा स्यात्कालपक्वभुगेव वा
अश्मकुट्टो भवेद्वापि दन्तोलूखलिकोऽपि वा
॥१७॥सद्यः प्रक्षालको वा स्यान्माससंचयिकोऽपि वा
षण्मासनिचयो वा स्यात्समानिचय एव वा
॥१८॥नक्तं चान्नं समश्नीयाद्दिवा वाहृत्य शक्तितः
चतुर्थकालिको वा स्यात्स्याद्वाप्यष्टमकालिकः
॥१९॥चान्द्रायणविधानैर्वा शुक्लकृष्णे च वर्तयेत्
पक्षान्तयोर्वाप्यश्नीयाद्यवागूं क्वथितां सकृत्
॥२०॥पुष्पमूलफलैर्वापि केवलैर्वर्तयेत्सदा
कालपक्वैः स्वयं शीर्णैर्वैखानसमते स्थितः
॥२१॥भूमौ विपरिवर्तेत तिष्ठेद्वा प्रपदैर्दिनम्
स्थानासनाभ्यां विहरेत्सवनेषूपयन्नपः
॥२२॥ग्रीष्मे पञ्चतपास्तु स्याद्वर्षास्वभ्रावकाशिकः
आर्द्रवासास्तु हेमन्ते क्रमशो वर्धयंस्तपः
॥२३॥उपस्पृशंस्त्रिषवणं पितॄन्देवांश्च तर्पयेत्
तपश्चरंश्चोग्रतरं शोषयेद्देहमात्मनः
॥२४॥अग्नीनात्मनि वैतानान्समारोप्य यथाविधि
अनग्निरनिकेतः स्यान्मुनिर्मूलफलाशनः
॥२५॥अप्रयत्नः सुखार्थेषु ब्रह्मचारी धराशयः
शरणेष्वममश्चैव वृक्षमूलनिकेतनः
॥२६॥तापसेष्वेव विप्रेषु यात्रिकं भैक्षमाहरेत्
गृहमेधिषु चान्येषु द्विजेषु वनवासिषु
॥२७॥ग्रामादाहृत्य वाश्नीयादष्टौ ग्रासान्वने वसन्
प्रतिगृह्य पुटेनैव पाणिना शकलेन वा
॥२८॥एताश्चान्याश्च सेवेत दीक्षा विप्रो वने वसन्
विविधाश्चाउपनिषदीरात्मसंसिद्धये श्रुतीः
॥२९॥ऋषिभिर्ब्राह्मणैश्चैव गृहस्थैरेव सेविताः
विद्यातपोविवृद्ध्यर्थं शरीरस्य च शुद्धये
॥३०॥अपराजितां वास्थाय व्रजेद्दिशमजिह्मगः
आ निपाताच्छरीरस्य युक्तो वार्यनिलाशनः
॥३१॥आसां महर्षिचर्याणां त्यक्त्वान्यतमया तनुम्
वीतशोकभयो विप्रो ब्रह्मलोके महीयते
॥३२॥वनेषु च विहृत्यैवं तृतीयं भागमायुषः
चतुर्थमायुषो भागं त्यक्वा सङ्गान्परिव्रजेत्
॥३३॥आश्रमादाश्रमं गत्वा हुतहोमो जितेन्द्रियः
भिक्षाबलिपरिश्रान्तः प्रव्रजन्प्रेत्य वर्धते
॥३४॥ऋणानि त्रीण्यपाकृत्य मनो मोक्षे निवेशयेत्
अनपाकृत्य मोक्षं तु सेवमानो व्रजत्यधः
॥३५॥अधीत्य विधिवद्वेदान्पुत्रांश्चोत्पाद्य धर्मतः
इष्ट्वा च शक्तितो यज्ञैर्मनो मोक्षे निवेशयेत्
॥३६॥अनधीत्य द्विजो वेदाननुत्पाद्य तथा सुतान्
अनिष्ट्वा चैव यज्ञैश्च मोक्षमिच्छन्व्रजत्यधः
॥३७॥प्राजापत्यं निरुप्येष्टिं सर्ववेदसदक्षिणाम्
आत्मन्यग्नीन्समारोप्य ब्राह्मणः प्रव्रजेद्गृहात्
॥३८॥यो दत्त्वा सर्वभूतेभ्यः प्रव्रजत्यभयं गृहात्
तस्य तेजोमया लोका भवन्ति ब्रह्मवादिनः
॥३९॥यस्मादण्वपि भूतानां द्विजान्नोत्पद्यते भयम्
तस्य देहाद्विमुक्तस्य भयं नास्ति कुतश्चन
॥४०॥अगारादभिनिष्क्रान्तः पवित्रोपचितो मुनिः
समुपोढेषु कामेषु निरपेक्षः परिव्रजेत्
॥४१॥एक एव चरेन्नित्यं सिद्ध्यर्थमसहायवान्
सिद्धिमेकस्य संपश्यन्न जहाति न हीयते
॥४२॥अनग्निरनिकेतः स्याद्ग्राममन्नार्थमाश्रयेत्
उपेक्षकोऽसंकुसुको मुनिर्भावसमाहितः
॥४३॥कपालं वृक्षमूलानि कुचेलमसहायता
समता चैव सर्वस्मिन्नेतन्मुक्तस्य लक्षणम्
॥४४॥नाभिनन्देत मरणं नाभिनन्देत जीवितम्
कालमेव प्रतीक्षेत निर्वेशं भृतको यथा
॥४५॥दृष्टिपूतं न्यसेत्पादं वस्त्रपूतं जलं पिबेत्
सत्यपूतां वदेद्वाचं मनःपूतं समाचरेत्
॥४६॥अतिवादांस्तितिक्षेत नावमन्येत कं चन
न चेमं देहमाश्रित्य वैरं कुर्वीत केन चित्
॥४७॥क्रुद्ध्यन्तं न प्रतिक्रुध्येदाक्रुष्टः कुशलं वदेत्
सप्तद्वारावकीर्णां च न वाचमनृतां वदेत्
॥४८॥अध्यात्मरतिरासीनो निरपेक्षो निरामिषः
आत्मनैव सहायेन सुखार्थी विचरेदिह
॥४९॥न चोत्पातनिमित्ताभ्यां न नक्षत्राङ्गविद्यया
नानुशासनवादाभ्यां भिक्षां लिप्सेत कर्हि चित्
॥५०॥न तापसैर्ब्राह्मणैर्वा वयोभिरपि वा श्वभिः
आकीर्णं भिक्षुकैर्वान्यैरगारमुपसंव्रजेत्
॥५१॥कॢप्तकेशनखश्मश्रुः पात्री दण्डी कुसुम्भवान्
विचरेन्नियतो नित्यं सर्वभूतान्यपीडयन्
॥५२॥अतैजसानि पात्राणि तस्य स्युर्निर्व्रणानि च
तेषामद्भिः स्मृतं शौचं चमसानामिवाध्वरे
॥५३॥अलाबुं दारुपात्रं च मृण्मयं वैदलं तथा
एताणि यतिपात्राणि मनुः स्वायंभुवोऽब्रवीत्
॥५४॥एककालं चरेद्भैक्षं न प्रसज्जेत विस्तरे
भैक्षे प्रसक्तो हि यतिर्विषयेष्वपि सज्जति
॥५५॥विधूमे सन्नमुसले व्यङ्गारे भुक्तवज्जने
वृत्ते शरावसंपाते भिक्षां नित्यं यतिश्चरेत्
॥५६॥अलाभे न विषदी स्याल्लाभे चैव न हर्षयेत्
प्राणयात्रिकमात्रः स्यान्मात्रासङ्गाद्विनिर्गतः
॥५७॥अभिपूजितलाभांस्तु जुगुप्सेतैव सर्वशः
अभिपूजितलाभैश्च यतिर्मुक्तोऽपि बध्यते
॥५८॥अल्पान्नाभ्यवहारेण रहःस्थानासनेन च
ह्रियमाणानि विषयैरिन्द्रियाणि निवर्तयेत्
॥५९॥इन्द्रियाणां निरोधेन रागद्वेशक्षयेण च
अहिंसया च भूतानाममृतत्वाय कल्पते
॥६०॥अवेक्षेत गतीर्नॄणां कर्मदोषसमुद्भवाः
निरये चैव पतनं यातनाश्च यमक्षये
॥६१॥विप्रयोगं प्रियैश्चैव संयोगं च तथाप्रियैः
जरया चाभिभवनं व्याधिभिश्चोपपीडनं
॥६२॥देहादुत्क्रमणं चाष्मात्पुनर्गर्भे च संभवम्
योनिकोटिसहस्रेषु सृतीश्चास्यान्तरात्मनः
॥६३॥अधर्मप्रभवं चैव दुःखयोगं शरीरिणाम्
धर्मार्थप्रभवं चैव सुखसंयोगमक्षयम्
॥६४॥सूक्ष्मतां चान्ववेक्षेत योगेन परमात्मनः
देहेषु च समुत्पत्तिमुत्तमेष्वधमेषु च
॥६५॥दूषितोऽपि चरेद्धर्मं यत्र तत्राश्रमे रतः
समः सर्वेषु भूतेषु न लिङ्गं धर्मकारणम्
॥६६॥फलं कतकवृक्षस्य यद्यप्यम्बुप्रसादकम्
न नामग्रहणादेव तस्य वारि प्रसीदति
॥६७॥संरक्षणार्थं जन्तूनां रात्रावहनि वा सदा
शरीरस्यात्यये चैव समीक्ष्य वसुधां चरेत्
॥६८॥अह्ना रात्र्या च याञ्जन्तून्हिनस्त्यज्ञानतो यतिः
तेषां स्नात्वा विशुद्ध्यर्थं प्राणायामान्षडाचरेत्
॥६९॥प्राणायामा ब्राह्मणस्य त्रयोऽपि विधिवत्कृताः
व्याहृतिप्रणवैर्युक्ता विज्ञेयं परमं तपः
॥७०॥दह्यन्ते ध्मायमानानां धातूनां हि यथा मलाः
तथेन्द्रियाणां दह्यन्ते दोषाः प्राणस्य निग्रहात्
॥७१॥प्राणायमैर्दहेद्दोषान्धारणाभिश्च किल्बिषम्
प्रत्याहारेण संसर्गान्ध्यानेनानीश्वरान्गुणान्
॥७२॥उच्चावचेषु भूतेषु दुर्ज्ञेयामकृतात्मभिः
ध्यानयोगेन संपश्येद्गतिमस्यान्तरात्मनः
॥७३॥सम्यग्दर्शनसंपन्नः कर्मभिर्न निबध्यते
दर्शनेन विहीनस्तु संसारं प्रतिपद्यते
॥७४॥अहिंसयेन्द्रियासङ्गैर्वैदिकैश्चैव कर्मभिः
तपसश्चरणैश्चोग्रैः साधयन्तीह तत्पदम्
॥७५॥अस्थिस्थूणं स्नायुयुतं मांसशोणितलेपनम्
चर्मावनद्धं दुर्गन्धि पूर्णं मूत्रपुरीषयोः
॥७६॥जराशोकसमाविष्टं रोगायतनमातुरम्
रजस्वलमनित्यं च भूतावासमिमं त्यजेत्
॥७७॥नदीकूलं यथा वृक्षो वृक्षं वा शकुनिर्यथा
तथा त्यजन्निमं देहं कृच्छ्राद्ग्राहाद्विमुच्यते
॥७८॥प्रियेषु स्वेषु सुकृतमप्रियेषु च दुष्कृतम्
विसृज्य ध्यानयोगेन ब्रह्माभ्येति सनातनम्
॥७९॥यदा भावेन भवति सर्वभावेषु निःस्पृहः
तदा सुखमवाप्नोति प्रेत्य चेह च शाश्वतम्
॥८०॥अनेन विधिना सर्वांस्त्यक्त्वा सङ्गाञ्शनैः शनैः
सर्वद्वन्द्वविनिर्मुक्तो ब्रह्मण्येवावतिष्ठते
॥८१॥ध्यानिकं सर्वमेवैतद्यदेतदभिशब्दितम्
न ह्यनध्यात्मवित्कश्चित्क्रियाफलमुपाश्नुते
॥८२॥अधियज्ञं ब्रह्म जपेदाधिदैविकमेव च
आध्यात्मिकं च सततं वेदान्ताभिहितं च यत्
॥८३॥इदं शरणमज्ञानामिदमेव विजानताम्
इदमन्विच्छतां स्वर्गमिदमानन्त्यमिच्छताम्
॥८४॥अनेन क्रमयोगेन परिव्रजति यो द्विजः
स विधूयेह पाप्मानं परं ब्रह्माधिगच्छति
॥८५॥एष धर्मोऽनुशिष्टो वो यतीनां नियतात्मनाम्
वेदसंन्यासिकानां तु कर्मयोगं निबोधत
॥८६॥ब्रह्मचारी गृहस्थश्च वानप्रस्थो यतिस्तथा
एते गृहस्थप्रभवाश्चत्वारः पृथगाश्रमाः
॥८७॥सर्वेऽपि क्रमशस्त्वेते यथाशास्त्रं निषेविताः
यथोक्तकारिणं विप्रं नयन्ति परमां गतिम्
॥८८॥सर्वेषामपि चैतेषां वेदस्मृतिविधानतः
गृहस्थ उच्यते श्रेष्ठः स त्रीनेतान्बिभर्ति हि
॥८९॥यथा नदीनदाः सर्वे सागरे यान्ति संस्थितिम्
तथैवाश्रमिणः सर्वे गृहस्थे यान्ति संस्थितिम्
॥९०॥चतुर्भिरपि चैवैतैर्नित्यमाश्रमिभिर्द्विजैः
दशलक्षणको धर्मः सेवितव्यः प्रयत्नतः
॥९१॥धृतिः क्षमा दमोऽस्तेयं शौचमिन्द्रियनिग्रहः
धीर्विद्या सत्यमक्रोधो दशकं धर्मलक्षणम्
॥९२॥दश लक्षणानि धर्मस्य ये विप्राः समधीयते
अधीत्य चानुवर्तन्ते ते यान्ति परमां गतिम्
॥९३॥दशलक्षणकं धर्ममनुतिष्ठन्समाहितः
वेदान्तं विधिवच्छ्रुत्वा संन्यसेदनृणो द्विजः
॥९४॥संन्यस्य सर्वकर्माणि कर्मदोषानपानुदन्
नियतो वेदमभ्यस्य पुत्रैश्वर्ये सुखं वसेत्
॥९५॥एवं संन्यस्य कर्माणि स्वकार्यपरमोऽस्पृहः
संन्यासेनापहत्यैनः प्राप्नोति परमं गतिम्
॥९६॥एष वोऽभिहितो धर्मो ब्राह्मणस्य चतुर्विधः
पुण्योऽक्षयफलः प्रेत्य राज्ञां धर्मं निबोधत
॥९७॥