मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

लघु पञ्चायतन पूजा

लघु पञ्चायतन पूजा. Also called panchayatana puja, panchayatana pooja, laghu panchayatana, pancayatana.

3

सन्ध्यावन्दनादिनित्यकर्मानन्तरं कार्या। इष्टदेवतां मध्ये निधाय इतरांश्चतस्रः कोणेषु स्थापयेत्। शिवपञ्चायतने शिवो मध्ये, ऐशान्यां विष्णुः, आग्नेय्यां सूर्यः, नैरृत्यां गणपतिः, वायव्यामम्बिका। शोणभद्राश्मा गणपतिः, नर्मदाबाणः शिवः, स्वर्णमुखरीशिलाम्बिका, गण्डकीशालग्रामो विष्णुः, वल्लमस्फटिकः सूर्यः।

पूर्वाङ्गपूजा. इदं पूर्वाङ्गं सर्वासु पूजासु समानम् — आदौ आचर्य पश्चात् प्रधानपूजां कुर्यात्। पूर्वाङ्गपूजा

पूर्वाङ्गपूजा

संवृणु
आचमनम्
ध्यानम्

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम्।

प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥

प्राणायामः — सङ्कल्पः

अप उपस्पृश्य

ममोपात्तसमस्तदुरितक्षयद्वारा श्रीपरमेश्वरप्रीत्यर्थं करिष्यमाणस्य कर्मणः निर्विघ्नेन परिसमाप्त्यर्थं आदौ विघ्नेश्वरपूजां करिष्ये।

महद्भन्दनम्

आब्रह्मलोकादारोहात् आलोकात् लोकपर्वतात्।

ये वसन्ति द्विजा देवास्तेभ्यो नित्यं नमो नमः ॥

आसनपूजा

पृथिव्या मेरुपृष्ठ ऋषिः। सुतलं छन्दः। कूर्मो देवता। आसने विनियोगः।

पृथिवि त्वया धृता लोका देवि त्वं विष्णुना धृता।

त्वं च धारय मां देवि पवित्रं चासनं कुरु ॥

घण्टापूजा

घण्टानादं कृत्वा।

आगमार्थं तु देवानां गमनार्थं तु रक्षसाम्।

घण्टारवं करोम्यादौ देवताह्वानकारणम् ॥

विघ्नेश्वरपूजा

अस्मिन् हरिद्राबिम्बे श्रीविघ्नेश्वरं ध्यायामि।

आवाहयामि। आसनं समर्पयामि। पादयोः पाद्यं समर्पयामि। अर्घ्यं समर्पयामि। आचमनीयं समर्पयामि। मधुपर्कं समर्पयामि। स्नानं समर्पयामि। आचमनीयं समर्पयामि। वस्त्रं समर्पयामि। उपवीतं समर्पयामि। दिव्यपरिमलगन्धान् धारयामि। अक्षतान् समर्पयामि। पुष्पैः पूजयामि।

सुमुखाय नमः
एकदन्ताय नमः
कपिलाय नमः
गजकर्णिकाय नमः
लम्बोदराय नमः
विकटाय नमः
विघ्नराजाय नमः
विनायकाय नमः
धूमकेतवे नमः
गणाध्यक्षाय नमः
फालचन्द्राय नमः
गजाननाय नमः
वक्रतुण्डाय नमः
शूर्पकर्णाय नमः
हेरम्बाय नमः
स्कन्दपूर्वजाय नमः
सिद्धिविनायकाय नमः
श्रीमहागणपतये नमः
उपचाराः

धूपमाघ्रापयामि। दीपं दर्शयामि। निवेदयामि। कर्पूरनीराजनं दर्शयामि। समस्तोपचारपूजां समर्पयामि।

प्रार्थना

वक्रतुण्ड महाकाय सूर्यकोटिसमप्रभ।

निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥

इति प्रार्थ्य। प्राणायामः।

सङ्कल्पः

शुभे शोभने मुहूर्ते आद्यब्रह्मणः द्वितीयपराधे श्वेतवराहकल्पे वैवस्वतमन्वन्तरे अष्टाविंशतितमे कलियुगे प्रथमे पादे जम्बूद्वीपे भारतवर्षे भरतखण्डे मेरोर्दक्षिणे पार्श्वे शकाब्दे अस्मिन् वर्तमाने व्यावहारिके प्रभवादिषष्टिसंवत्सराणां मध्ये …… नाम संवत्सरे …… अयने …… ऋतौ …… मासे …… पक्षे …… शुभतिथौ …… वासरयुक्तायां …… नक्षत्रयुक्तायां शुभयोगशुभकरणसकलविशेषणविशिष्टायामस्यां शुभतिथौ ममोपात्तसमस्तदुरितक्षयद्वारा श्रीपरमेश्वरप्रीत्यर्थं पञ्चायतनपूजां करिष्ये।

अप उपस्पृश्य। श्रीविघ्नेश्वराय नमः यथास्थानं प्रतिष्ठापयामि। शोभनार्थे क्षेमाय पुनरागमनाय च। इति विघ्नेश्वरमुद्राम्।

कलशपूजा

कलशं गन्धपुष्पाक्षतैरभ्यर्च्य। कलशजलेन तत्तद्देवतानाम योजयेत्। पूजाद्रव्याणि आत्मानं च प्रोक्ष्य।

गङ्गे च यमुने चैव गोदावरि सरस्वति।

नर्मदे सिन्धु कावेरि जलेऽस्मिन् सन्निधिं कुरु ॥

गङ्गायै नमः
यमुनायै नमः
गोदावर्यै नमः
सरस्वत्यै नमः
नर्मदायै नमः
सिन्धवे नमः
कावेर्यै नमःपुष्पैः पूजयामि।
शङ्खपूजा

कलशोदकेन शङ्खं पूरयेत्। शङ्खजलेन पूजोपकरणानि द्रव्याणि आत्मानं च त्रिः प्रोक्ष्य, पुनः शङ्खं पूरयेत्।

त्वं पुरा सागरोत्पन्नो विष्णुना विधृतः करे।

देवैश्च पूजितः सर्वैः पाञ्चजन्य नमोऽस्तु ते ॥

आत्मपूजा

देहो देवालयः प्रोक्तो जीवो देवः सनातनः।

त्यजाम्यज्ञाननिर्मूल्यं सोऽहंभावेन पूजये ॥

पीठपूजा
ओं सकलगुणात्मशक्तियुक्ताय योगपीठाय नमः
आधारशक्त्यै नमः
मूलप्रकृत्यै नमः
आदिवराहाय नमः
आदिकूर्माय नमः
अनन्ताय नमः
पृथिव्यै नमः
आदित्यादिनवग्रहदेवताभ्यो नमः
दशदिक्पालेभ्यो नमः
गुरुध्यानम्

गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः।

गुरुः साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः ॥

श्रीगुरुं ध्यायामि।

प्रधानपूजा

ध्यानम्

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम्।

प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥

ध्यानम् आवाहनं च

अप उपस्पृश्य। आसनपूजा, घण्टापूजा, कलशपूजा, शङ्खपूजा, आत्मपूजा, पीठपूजा।

महागणपतिं ध्यायामि। आवाहयामि॥

छायादेवीसमेतसूर्यनारायणं ध्यायामि॥ आवाहयामि॥

श्रीभूमिनीलासमेतश्रीमहाविष्णुं ध्यायामि॥ आवाहयामि॥

सांबपरमेश्वरं ध्यायामि। आवाहयामि।

गौरीं ध्यायामि। आवाहयामि।

आसनाद्युपचाराः

आवाहिताभ्यः सर्वाभ्यो देवताभ्यो नमः।

आसनं समर्पयामि। पाद्यं समर्पयामि। अर्घ्यं समर्पयामि। आचमनीयं समर्पयामि। स्नानं समर्पयामि॥

अभिषेकः

अम्बिकां विष्णुं आदित्यं गणपतिं परमेश्वरं च तत्तन्मन्त्रेण, रुद्रप्रश्नेन, पुरुषसूक्तादिभिश्च यथावकाशं पञ्चामृत-क्षीर-दधि-नालिकेरजल-एलावासितोदकादिभिः अभिषिच्य, आचमनं दत्त्वा, वस्त्रेणोद्वर्त्य वस्त्रेणाच्छाद्य आसने पूर्ववत् स्थापयेत्।

वस्त्राद्युपचाराः

वस्त्राणि समर्पयामि। गन्धं समर्पयामि। उपवीतं समर्पयामि। भूषणं समर्पयामि॥

पुष्पैः पूजयामि।

अर्चनम् — गणपतिः
सुमुखाय नमः।
एकदन्ताय नमः।
कपिलाय नमः।
गजकर्णकाय नमः।
लम्बोदराय नमः।
विकटाय नमः।
विघ्नराजाय नमः।
विनायकाय नमः।
धूमकेतवे नमः।
गणाध्यक्षाय नमः।
फालचन्द्राय नमः।
गजाननाय नमः।
वक्रतुण्डाय नमः।
शूर्पकर्णाय नमः।
हेरम्बाय नमः।
स्कन्दपूर्वजाय नमः।
सिद्धिविनायकाय नमः॥
अर्चनम् — सूर्यः
मित्राय नमः।
रवये नमः।
सूर्याय नमः।
भानवे नमः।
खगाय नमः।
पूष्णे नमः।
हिरण्यगर्भाय नमः।
मरीचये नमः।
आदित्याय नमः।
सवित्रे नमः।
अर्काय नमः।
भास्कराय नमः॥
अर्चनम् — विष्णुः
अच्युताय नमः।
अनन्ताय नमः।
गोविन्दाय नमः।
केशवाय नमः।
नारायणाय नमः।
माधवाय नमः।
गोविन्दाय नमः।
विष्णवे नमः।
मधुसूदनाय नमः।
त्रिविक्रमाय नमः।
वामनाय नमः।
श्रीधराय नमः।
हृषीकेशाय नमः।
पद्मनाभाय नमः।
दामोदराय नमः।
अर्चनम् — शिवः
भवाय देवाय नमः।
शर्वाय देवाय नमः।
ईशानाय देवाय नमः।
पशुपतये देवाय नमः।
रुद्राय देवाय नमः।
उग्राय देवाय नमः।
भीमाय देवाय नमः।
महते देवाय नमः॥
अर्चनम् — अम्बिका
भवस्य देवस्य पत्न्यै नमः।
शर्वस्य देवस्य पत्न्यै नमः।
ईशानस्य देवस्य पत्न्यै नमः।
पशुपतेर्देवस्य पत्न्यै नमः।
रुद्रस्य देवस्य पत्न्यै नमः।
उग्रस्य देवस्य पत्न्यै नमः।
भीमस्य देवस्य पत्न्यै नमः।
महतो देवस्य पत्न्यै नमः॥
धूपदीपौ

धूपमाघ्रापयामि। आचमनीयं समर्पयामि॥

दीपं दर्शयामि॥ आचमनीयं समर्पयामि॥

महानैवेद्यम्

सपरिवाराय सांबपरमेश्वराय नमः। महानैवेद्यं निवेदयामि। मध्ये मध्ये अमृतपानीयं समर्पयामि। हस्तप्रक्षालनं समर्पयामि। पादप्रक्षालनं समर्पयामि। आचमनीयं समर्पयामि॥

ताम्बूलं नीराजनं च

कर्पूरताम्बूलं समर्पयामि॥ कर्पूरनीराजनं दर्शयामि॥ आचमनीयं समर्पयामि॥

मन्त्रपुष्पं राजोपचाराश्च

मन्त्रपुष्पं समर्पयामि।

छत्र-चामर-नृत्त-गीत-वाद्यादि समस्त राजोपचारान् समर्पयामि॥

प्रदक्षिणम्

प्रदक्षिणं कृत्वा।

यानि कानि च पापानि जन्मान्तरकृतानि च।

तानि तानि विनश्यन्ति प्रदक्षिण पदे पदे॥

नमस्कारः

नमस्कारान् कृत्वा।

नमश्शिवाय सांबाय सगणाय ससूनवे।

सनन्दिने सगङ्गाय सवृषाय नमो नमः॥

नमश्शिवाभ्यां नवयौवनाभ्यां परस्पराश्लिष्टवपुर्धराभ्याम्।

नगेन्द्रकन्यावृषकेतनाभ्यां नमो नमश्शंकरपार्वतीभ्याम्॥

बलिः

बाणरावण-चण्डेश-नन्दि-भृंगि-रिटादयः।

महादेवप्रसादोऽयं सर्वे गृह्णन्तु शांभवाः॥

बलिं निवेदयामि॥

शङ्खजलप्रोक्षणम्

शङ्खजलेन प्रोक्ष्य।

शंखमध्ये स्थितं तोयं भ्रामितं शंकरोपरि।

अङ्गलग्नं मनुष्याणां ब्रह्महत्यायुतं दहेत्॥

अभिषेकतीर्थप्राशनम्

अकालमृत्युहरणं सर्वव्याधिनिवारणम्।

सर्वपापक्षयकरं शिवपादोदकं शुभम्॥

इति अभिषेकतीर्थं प्राश्य।

प्रार्थना

पञ्चाक्षरजपं कृत्वा।

साधु वाऽसाधु वा कर्म यद्यदाचरितं मया।

तत्सर्वं कृपया देव गृहाणाराधनं मम॥

हृत्पद्मकर्णिकामध्यमुमया सह शंकर।

प्रविश त्वं महादेव सर्वैरावरणैस्सह॥

संपूजकानां परिपालकानां यतेन्द्रियाणां च तपोधनानाम्।

देशस्य राष्ट्रस्य कुलस्य राज्ञां करोतु शान्तिं भगवान् महेशः॥

समर्पणम्

अनया पूजया सपरिवारः सांबपरमेश्वरः प्रीयताम्॥

उद्वासनम्

अर्चितानि पुष्पाण्यादाय आघ्राय हृदये स्थापयित्वा उद्वासयेत्। निर्माल्यं शिरसि धारयेत्। आचामेत्।