मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

व्यास अष्टोत्तरशत नाम स्तोत्रम्

3

पारम्परिकम्

नारायणकुलोद्भूतो नारायणपरो वरः ।

नारायणावतारश्च नारायणवशंवदः ॥

॥१॥

स्वयम्भूवंशसम्भूतो वसिष्ठकुलदीपकः ।

शक्तिपौत्रः पापहन्ता पराशरसुतोऽमलः ॥

॥२॥

द्वैपायनो मातृभक्तः शिष्टः सत्यवतीसुतः ।

स्वयमुद्भूतवेदश्च चतुर्वेदविभागकृत् ॥

॥३॥

महाभारतकर्ता च ब्रह्मसूत्रप्रजापतिः ।

अष्टादशपुराणानां कर्ता श्यामः प्रशिष्यकः ॥

॥४॥

शुकतातः पिङ्गजटः प्रांशुर्दण्डी मृगाजिनः ।

वश्यवाग् ज्ञानदाता च शङ्करायुःप्रदः शुचिः ॥

॥५॥

मातृवाक्यकरो धर्मी कर्मी तत्त्वार्थदर्शकः ।

सञ्जयज्ञानदाता च प्रतिस्मृत्युपदेशकः ॥

॥६॥

सर्वधर्मोपदेष्टा च मृतदर्शनपण्डितः ।

विचक्षणः प्रहृष्टात्मा पर्वपूज्यः प्रभुर्मुनिः ॥

॥७॥

वीरो विश्रुतविज्ञानः प्राज्ञश्चाज्ञाननाशनः ।

ब्राह्मकृत् पाद्मकृद् धीरो विष्णुकृच्छिवकृत् तथा ॥

॥८॥

श्रीभागवतकर्ता च भविष्यरचनादरः ।

नारदाख्यस्य कर्ता च मार्कण्डेयकरोऽग्निकृत् ॥

॥९॥

ब्रह्मवैवर्तकर्ता च लिङ्गकृच्च वराहकृत् ।

स्कान्दकर्ता वामनकृत् कूर्मकर्ता च मत्स्यकृत् ॥

॥१०॥

गरुडाख्यस्य कर्ता च ब्रह्माण्डाख्यपुराणकृत् ।

उपपुराणानां कर्ता पुराणः पुरुषोत्तमः ॥

॥११॥

काशिवासी ब्रह्मनिधिर्गीतादाता महामतिः ।

सर्वज्ञः सर्वसिद्धिश्च सर्वशास्त्रप्रवर्तकः ॥

॥१२॥

सर्वाश्रयः सर्वहितः सर्वः सर्वगुणाश्रयः ।

विशुद्धः शुद्धिकृद् दक्षो विष्णुभक्तः शिवार्चकः ॥

॥१३॥

देवीभक्तः स्कन्दरुचिर्गणेशादृच्च योगवित् ।

पैलाचार्य ऋचः कर्ता शाकल्यार्यश्च याजुषः ॥

॥१४॥

जैमिन्यार्यः सामकर्ता सुमन्त्वार्योऽप्यथर्वकृत् ।

रोमहर्षणसूतार्यो लोकाचार्यो महामुनिः ॥

॥१५॥

व्यासकाशीरतिर्विश्वपूज्यो विश्वेशपूजकः ।

शान्तः शान्ताकृतिः शान्तचित्तः शान्तिप्रदस्तथा ॥

॥१६॥

इति व्यासाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम्