मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

श्री रमण लहरी

3

नरेन्द्रकेसरिशर्मप्रणीता

॥ नमो भगवते श्रीमते रमणाय ॥

यतो जन्माद्यस्य प्रभवति च यः कूटनिलयो

मुदा यन्माहात्म्यं प्रणिगदति नित्यं श्रुतिगणः ।

शिवं शुद्धं शान्तं निरवधिसुखं सत्यममलं

परं वन्देऽहं तत्किमपि रमणाख्यं चितिमहः ॥

॥१॥

मतो हृत्पद्मोसावरुणगिरिराजोऽखिलभुवो

यदन्तश्चैतन्यं तदिह रमणो दक्षिणगतः ।

सतां सर्वेषां यो हृदि हि रमते स्वात्मकलया

नमस्तस्मै भूम्ने हृदयरमणायानवरतम् ॥

॥२॥

जडं देहं नश्यद्घटपटनिभं चिद्विरहितं

ततो नाहं तद्यन्न हि भवति सुप्तौ प्रतिदिनम् ।

अतः कोऽहं तत्त्वं त्विति वरधियान्वेषितवतः

सतः सोऽहंसस्फूर्तिर्हृदरुणगिरौ भाति रमणः ॥

॥३॥

मनःसङ्कल्पोऽयं त्रिभुवनमयो दृश्यनिचयो

ममैते सङ्कल्पा इति शितधियाऽऽलोक्य सततम् ।

अहं को वेत्यन्तर्हृदि निजविमर्शे परिणते

चिदानन्दः सोऽहं स्फुरति भगवांस्तत्र रमणः ॥

॥४॥

जराद्यूर्मिव्राताऽऽकुलविषमसंसारजलधे-

स्त्रिधातप्ताञ्जीवान्नरमृगखगाद्यान्करुणया ।

समुद्धर्तुं शोणाचलतटनिवासी कलियुगे

सदानन्दः सिद्धो जयति रमणाख्यः स भगवान् ॥

॥५॥

अहिंसासिद्धान्तप्रणिहितदयाधर्मसयुजां

यतीनां बौद्धानां जिनदशवलाखण्डमतिनाम् ।

यिशूपद्भक्तानां तदनु रमणेशान भगवन्

जिनोऽसि त्वं बुद्धः क्रमश इह हीशामसिरसि ॥

॥६॥

कुरानध्येत्रीणामिह जगति मोहम्मदगुरोः

समागच्छन्तीनां शमितमनसेस्लामविधितः ।

प्रजानां सम्प्राप्यं यदुत परमं दैवमुदितं

खुदाचालाहस्त्वं रमणभगवन्न्योमतनुमन् ॥

॥७॥

पदार्थानूचे गौतममुनिवरः षोडशतया

कणादस्सप्तैवेत्यवददथ वैशेषिक ऋषिः ।

पदार्थानामेषां त्रिगुणविकृतानामणुभुवां

परं पारं ब्रह्मंस्त्वमसि रमणाशेषरमण ॥

॥८॥

अनादी प्रोक्तौ हि प्रकृतिपुरुषौ विश्वजनकौ

ययोर्भेदज्ञानाद्भवति मनुजो मुक्तपुरुषः ।

इदं साङ्ख्यं ज्ञानं समकथयदादौ तु कपिल-

स्त्वमेवैतत्तत्त्वं परममसि कैवल्यरमण ॥

॥९॥

अहिभ्रान्तीरज्ज्वां रजतधिषणा शुक्तिपुटके

तथैवं चिद्रूपे निरवधिसुखे विश्वकलना ।

इतीदं यत्तत्त्वं परमसुखदं शाङ्करमते

तदद्वैतं धाम त्वमसि भगवत्पाद रमण ॥

॥१०॥

जगद्रङ्गे चित्रे ललितपटमाल्यादिलसिते

नटास्त्वेते सर्वे स्थलजलखगाः प्राणिनिवहाः ।

महामायाऽजा या चपलचपला सैव सुनटी ।

महासूत्राचार्यो रमण सकलं त्वं भ्रमयसि ॥

॥११॥

त्वमग्निस्त्वं सोमस्त्वमसि पवनस्त्वं जलमसि

त्वमर्कस्त्वं पृथ्वी वियदपि महत्तारकगणः ।

तथा विश्वे देवास्त्वमसि वरुणस्त्वं सुरपति-

र्यमो रुद्रोऽसि त्वं रमण धनदो गीष्पतिरसि ॥

॥१२॥

जगत्स्रष्टा ब्रह्मा भवसि भगवन् सृष्टिसमये

जगत्त्राता विष्णुस्त्वमसि किल विश्वम्भरवपुः ।

महादेवोऽसि त्वं निखिलभवसंहारविभव-

स्त्रयोऽप्येते देवास्तव रमण लीलाविलसिताः ॥

॥१३॥

शिवस्त्वं शैवानां हरिरसि मुकुन्दाङ्घिसुहृदां

भवानी शाक्तानां गणपभजकानां गणपतिः ।

रविस्त्वं सौराणामसि हुतवहस्त्वं हि यजतां

द्विजानां सावित्री वद रमण किं किं न भवसि ॥

॥१४॥

मणिद्वीपे नीपोपवनगतचिन्तामणिगृहे

समासीना पाशाङ्कुश वरभयापोहनभुजा ।

त्रिणेत्रा रक्ताभा शशधरकिरीटाऽतुलकृपा

स्मितास्या किं न त्वं रमण भुवनाधीश्वरवधूः ॥

॥१५॥

पिता पाता नेता त्वमसि विषमे साधनपथे

प्रभो माताऽसि त्वं ह्यनुपमदयामूर्तिरमला ।

गुरुस्त्वं चोद्धर्ता सुखरहित संसारजलधे-

स्त्रिरूपो भासि त्वं रमणभगवंस्ते पदजुषाम् ॥

॥१६॥

मुमुक्षूणां मान्या त्वमसि भगवन्मुक्तिलतिका

सुखेच्छूनां नॄणां त्वमसि सुखसोपानपदवी ।

मखासक्तानां त्वं ह्यसि विवृतवैतानकविधि-

स्तपोनिष्ठानां त्वं रमण महितः सिद्धिमहिमा ॥

॥१७॥

निराकारोऽपि त्वं भवसि विविधाकारविभव-

स्त्वमद्वैती द्वैती ननु लससि विश्वात्मकतनुः ।

त्वमेकोऽनेकात्मा स्फुरसि निखिलाकाररुचिरः

प्रकाशोऽदृश्यश्च त्वमसि रमणाचार्य भगवन् ॥

॥१८॥

विराडग्निर्विश्वस्त्वमसि महसा जाग्रति तथा

हिरण्यान्तः स्वप्ने भवसि पवनस्तैजस इति ।

सुषुप्तावीशस्त्वं दिनकरतनुः प्राज्ञ उदित-

स्तुरीये धाम्नि त्वं रमण हृदये ह्योमिति पदम् ॥

॥१९॥

मनो न त्वं बुद्धिर्न भवसि तया नेन्द्रियगण-

स्त्वहङ्कारो न त्वं प्रकृतिरसि न त्वं न विकृतिः ।

अविद्याऽनादिस्त्वं न भवसि न दृग्दृश्यनिचय-

श्चिदानन्दः सत्यं त्वमसि परमं ब्रह्मरमण ॥

॥२०॥

वसिष्ठो नैव त्वं भवसि न तथा गौतममुनि-

र्भरद्वाजोऽत्रिस्त्वं न हि बहुमतः कौशिक उत ।

न वा मारीचस्त्वं सुभग जमदग्निस्त्वमपि नो

महः सप्तर्षीणामयि रमण लोकोत्तरमसि ॥

॥२१॥

कलेर्दोषान्नानाकलुषमतिपाषण्डकलिते

विधर्मेऽस्मिन्विश्वे पिबति तव वाक्यामृतकणान् ।

जनौघः सर्वोऽपि श्रवणबलतस्तृप्तिमयते

प्रभावः सम्पूर्णस्तव रमण जागर्ति जगति ॥

॥२२॥

अहो धन्येयं ते जननवशतो भारतमही

ह्यवाची दिग्धन्या तव पदसरोजाङ्कनवशात् ।

शिवाकारो धन्यस्त्वरुणगिरिरुत्तुङ्ग शिखरो

महर्षे यत्र त्वं विहरसि सतामाप्त रमण ॥

॥२३॥

सुराः सिद्धाः साध्या यमनियमयुक्ताः सुतपसः

सुरर्षिब्रह्मर्षिप्रभृतय उतान्ये च यमिनः ।

मुहूर्ते ब्राह्मे तु श्रुतिमधुरनानास्तुतिपराः

नमन्ति त्वां ब्रह्मन् रमण करुणापूर्णजलधे ॥

॥२४॥

स्फुरच्छान्तिज्योत्स्नातुलितशिवकैलासमहिमा

लसत्कैवल्यश्रीहसितहरिवैकुण्ठगरिमा ।

विरागैश्चर्याभासुविजितसुधासागरयशाः

कृपाब्धेः शोणाद्रौ जयति रमणस्याश्रमवरः ॥

॥२५॥

कपोले वामे स्वं करकमलमाधाय विमले

शयानश्चोत्तानं क्षितिजगतनेत्राब्जयुगलः ।

ऋषिः शान्तः सोऽहंस्फुरणपरमानन्दमुदितः

शिवः पूर्णः साक्षी जयति रमणः शोणकटके ॥

॥२६॥

स्मितं वक्त्रे शुभ्रं करकमलमुद्रा सुखकरी

स्वभावस्थौ पादौ निजसहजभावस्थितमनाः ।

वसानः कौपीनं धवलमवधूताखिलतमाः

परात्मा शोणाद्रौ रमणभगवान्भाति भयहृत् ॥

॥२७॥

कटाक्षक्षेपस्ते हरति हृदयध्वान्तमखिलं

दयादृष्टिः पूर्णा प्रकटयति विज्ञानमिहिरम् ।

ददातीषद्धास्यं प्रणतमनुजायात्मपदवी-

ममेयस्ते धन्यो रमणमहिमा वागविषयः ॥

॥२८॥

रकारोऽग्निर्ब्रह्मन् दहति सहसा सञ्चितमलं

मकारश्चन्द्रोऽयं हरति तपनं सिञ्चति सुधाम् ।

णकारश्चार्को हन्त्यलघु निबिडाज्ञानतिमिरं

विभूतिस्त्वन्नाम्नो जयति रमणेशान जगति ॥

॥२९॥

समुद्धर्तुं लोकान्कलिमलहतांस्तप्तहृदयान्

सुराणां सेनानीः सदयमवतीर्णस्त्वमधुना ।

अवेक्ष्य प्रत्यक्षं रमणभगवंस्त्वामनुजगौ

कविः कण्ठेकाव्यो गणपतिमुनिस्सूरितिलकः ॥

॥३०॥

प्रसादात्सम्प्रार्थ्यादपि सुरवरेभ्यस्तव कृपां

परं मत्त्वा छित्त्वा तृणमिव निजाज्ञाननिगडम् ।

विनिद्रश्चिद्रूपे निरवधिसुखे मज्जति सुधीः

स पुण्यानां मन्ये रमण परिणामः परगुरो ॥

॥३१॥

असारे संसारे विषयमृगतृष्णाभ्रमितधी-

श्चरन्नानायोनौ प्रबलतरसत्कर्मवशतः ।

इदानीं सम्प्राप्तश्चरणकमलं ते भयहरं

महर्षे ब्रह्मर्षे रमणभगवस्त्वं हि शरणम् ॥

॥३२॥

फलासक्तः कुर्वन्विविधमनिशं कर्म बहुधा

भ्रमन्नानातीर्थं भुवि बत पठञ्छास्त्रनिकरम् ।

अशान्तः सर्वत्राविदितनिजरूपोऽहमधुना

शरण्यं प्राप्तस्त्वां रमणभगवंस्त्वं हि शरणम् ॥

॥३३॥

जपन्नानामन्त्रान्त्स्तवमपि सुराणां विरचयन्

लिखन्यन्त्रांस्तान्त्रं मतमपि विशन्वैदिकमुत ।

स्वरूपाज्ञानेन प्रबलतमसाच्छादितमति-

स्त्वयाभासां धाम्ना सदयमवलोक्योऽहमधुना ॥

॥३४॥

महामोहेनाहो विषमविषयानेव भजतः

स्वतत्त्वावस्थानं त्यजत उदये दुर्लभतमम् ।

विहायान्तर्दृष्टिं बहिरविरतं धावत इह

प्रभो क्षन्तव्यं मे रमण चपलस्यापचरितम् ॥

॥३५॥

त्रयी ज्ञानं योगस्त्विति विदितमार्गत्रयपरा

यथेच्छं गच्छन्तु स्वरुचिमनुसृत्यात्र मनुजाः ।

अहं तु त्वत्पादाम्बुजशरणदीक्षाविमलधी-

र्जगत्सर्वं लोके रमणभगवन्स्वप्नसदृशम् ॥

॥३६॥

पथः सर्वान्हित्वा भ्रमणपरितप्तः श्रमयुतः

प्रपन्नोऽहं भक्तः पदसरसिजं ते ह्यभयदम् ।

शरण्यः शक्तो मां रमणभगवन्नोद्धरसि चे-

त्त्वदन्यं कं लोके शरणमधुना यामि कथय ॥

॥३७॥

निबद्धं हृद्ग्रन्थिं मम सपदि सम्भेदय विभो

समस्तं सञ्छिन्धि त्वमथ भगवन् संशयमपि ।

क्षयं द्राक्सर्वाणि प्रणय मम कर्माणि दयया

परं त्वं स्वात्मानं प्रथय रमणेशान हृदये ॥

॥३८॥

त्वमात्मा विश्वेषां हृदयकुहरे भासि विमलः

परात्मंस्ते दिव्यं पदसरसिजद्वन्द्वमधुना ।

प्रपन्नोऽस्मि ब्रह्मन् गुरुरमण मां शाधि कृपया

यथाहं गच्छेयं भवजलधिपारं तव पदम् ॥

॥३९॥

अहं दैन्यागारस्त्वमसि विभवानां जननभू-

र्महामूढोऽहं त्वं ह्यसि निखिलविज्ञाननिलयः ।

पिपासाश्रान्तोऽहं त्वमसि शिवपीयूषलहरी

गुरुस्त्वं शिष्योऽहं रमणभगवन्पाहि दयया ॥

॥४०॥

कराले सिंहास्ये यदि पतति हा प्राणिनिकरः

प्रणष्टो निर्जीवो भवति विकलश्च प्रकृतितः ।

तवाचार्यस्यैवं ह्यमलकरुणादृष्टिकलया

भवेन्नष्टो जीवो भुवि रमण मन्येऽद्भुतमिदम् ॥

॥४१॥

मुमुक्षुर्जिज्ञासुर्य इह मनुजः पूर्वसुकृतैः

श्वपाको गोरुण्डो यवनकुलजो वा भवतु किम् ।

स याति त्वद्वक्त्रप्रसरदुपदेशात्मसुधया

परं मृत्योः पारं रमण तव साम्यं च भजति ॥

॥४२॥

सभाष्यं सिद्धान्तं तव महितसद्दर्शनगतं

हृदा पायं पायं रमणभगवन् पण्डितगणः ।

प्रहृष्टस्तृप्तात्मा भवति गतसन्देहतिमिरो

न कस्मै त्वद्वाणी दिशति शिवकैवल्यपदवीम् ॥

॥४३॥

कुतोऽयं संसारः प्रभवति कुतोऽज्ञानतिमिरं

कुतो जीवेशानौ भवति कथमद्वैतधिषणा ।

स्वतत्त्वस्य ज्ञाने किमिह गुरुशिष्यत्वकथनं

चिदानन्दाकारे जयति रमणे श्रीभगवति ॥

॥४४॥

अनित्ये लोकेऽस्मिन्नसुखभरितेऽवाप्य जननं

परं नित्यं सत्यं हृदयरमणं शाश्वतसुखम् ।

भवन्तं प्राप्ता ये रमणभगवन् पुण्यपुरुषाः

कृतार्थत्वं तेषां कथमिव कवीन्द्रः कथयतु ॥

॥४५॥

विदित्वा यं देवं तरति भुवि मृत्युं तनुधरो

यतो नान्यः पन्था इति भणति मुक्त्यै श्रुतिरपि ।

त्वमेवायं देवो हृदयरमणः सर्वजगतां

महात्मन्त्सम्पूज्ये जगति महिमा ते विजयते ॥

॥४६॥

विना स्वात्मज्ञानं क्वचन मनुजः कोऽपि विमलां

कदाचिद्यात्युर्व्यां कथमपि न निर्वाणपदवीम् ।

इति ज्ञानज्योतिः प्रकटितवतो भारतभुवि

प्रभा ते ब्रह्माण्डे रमण लसतीशानयशसा ॥

॥४७॥

अहं ब्रह्मास्मीति श्रुतिहृदि वचस्तत्त्वमसि चे-

त्ययं ह्यात्मा ब्रह्मेत्यपि गदितमित्थं यदमलम् ।

चिदानन्दः सत्यं तदसि रमण ब्रह्म परमं

ह्यहं त्वं त्वं चाहं ननु रमण नानास्ति किमिह ॥

॥४८॥

परं ब्रह्मानन्दं विमलमनघं शाश्वतमजं

शिवं पूर्णं शान्तं परमशुभरूपं ह्यभिनवम् ।

प्रपञ्चातीतं शं त्रिगुणरहितं नित्यमुदितं

महर्षिं वन्दे श्रीरमणभगवन्तं हृदि मुदा ॥

॥४९॥

नमस्ते पूर्णाय त्रिभुवनमयायाखिलविदे

नमस्ते नित्याय प्रकृतिरहितायात्ममहसे ।

नमस्ते शुद्धाय प्रणतजननाथाय विभवे

नमस्ते भूम्ने श्रीरमणगुरवे श्रीभगवते ॥

॥५०॥

नमो मह्यं कर्त्रे निखिलभुवनाधारवपुषे

नमो मह्यं ज्ञात्रे वयुनमयरूपाय कवये ।

नुमो मह्यं धात्रे नगवरनिवासाय मुनये

नमो मह्यं भर्त्रे हृदयरमणायेह सततम् ॥

॥५१॥

विशेषार्था लघ्वी "नरपतिमृगेन्द्रेण" भणिता

पुनाना स्वात्मानं रमणलहरीयं विजयते ।

अनेन स्तोत्रेण स्मरति रमणं यः शुभमतिः

प्रसादस्तस्यास्य प्रवहति परस्याखिलगुरोः ॥

॥५२॥

इति श्रीनरेन्द्रकेसरिशर्मप्रणीता श्रीरमणलहरी ॥

श्रीरमणार्पणमस्तु ॥