- १ॐ गणेश्वराय नमः
- २ॐ गणक्रीडाय नमः
- ३ॐ महागणपतये नमः
- ४ॐ विश्वकर्त्रे नमः
- ५ॐ विश्वमुखाय नमः
- ६ॐ दुर्जयाय नमः
- ७ॐ धूर्जयाय नमः
- ८ॐ जयाय नमः
- ९ॐ सुरूपाय नमः
- १०ॐ सर्वनेत्राधिवासाय नमः
- ११ॐ वीरासनाश्रयाय नमः
- १२ॐ योगाधिपाय नमः
- १३ॐ तारकस्थाय नमः
- १४ॐ पुरुषाय नमः
- १५ॐ गजकर्णकाय नमः
- १६ॐ चित्राङ्गाय नमः
- १७ॐ श्यामदशनाय नमः
- १८ॐ भालचन्द्राय नमः
- १९ॐ चतुर्भुजाय नमः
- २०ॐ शम्भुतेजसे नमः
- २१ॐ यज्ञकायाय नमः
- २२ॐ सर्वात्मने नमः
- २३ॐ सामबृंहिताय नमः
- २४ॐ कुलाचलांसाय नमः
- २५ॐ व्योमनाभये नमः
- २६ॐ कल्पद्रुमवनालयाय नमः
- २७ॐ निम्ननाभये नमः
- २८ॐ स्थूलकुक्षये नमः
- २९ॐ पीनवक्षसे नमः
- ३०ॐ बृहद्भुजाय नमः
- ३१ॐ पीनस्कन्धाय नमः
- ३२ॐ कम्बुकण्ठाय नमः
- ३३ॐ लम्बोष्ठाय नमः
- ३४ॐ लम्बनासिकाय नमः
- ३५ॐ सर्वावयवसम्पूर्णाय नमः
- ३६ॐ सर्वलक्षणलक्षिताय नमः
- ३७ॐ इक्षुचापधराय नमः
- ३८ॐ शूलिने नमः
- ३९ॐ कान्तिकन्दलिताश्रयाय नमः
- ४०ॐ अक्षमालाधराय नमः
- ४१ॐ ज्ञानमुद्रावते नमः
- ४२ॐ विजयावहाय नमः
- ४३ॐ कामिनी-कामना-काम-मालिनी-केलि-लालिताय नमः
- ४४ॐ अमोघसिद्धये नमः
- ४५ॐ आधाराय नमः
- ४६ॐ आधाराधेयवर्जिताय नमः
- ४७ॐ इन्दीवरदलश्यामाय नमः
- ४८ॐ इन्दुमण्डलनिर्मलाय नमः
- ४९ॐ कर्मसाक्षिणे नमः
- ५०ॐ कर्मकर्त्रे नमः
- ५१ॐ कर्माकर्मफलप्रदाय नमः
- ५२ॐ कमण्डलुधराय नमः
- ५३ॐ कल्पाय नमः
- ५४ॐ कपर्दिने नमः
- ५५ॐ कटिसूत्रभृते नमः
- ५६ॐ कारुण्यदेहाय नमः
- ५७ॐ कपिलाय नमः
- ५८ॐ गुह्यागमनिरूपिताय नमः
- ५९ॐ गुहाशयाय नमः
- ६०ॐ गुहाब्धिस्थाय नमः
- ६१ॐ घटकुम्भाय नमः
- ६२ॐ घटोदराय नमः
- ६३ॐ पूर्णानन्दाय नमः
- ६४ॐ परानन्दाय नमः
- ६५ॐ धनदाय नमः
- ६६ॐ धरणीधराय नमः
- ६७ॐ बृहत्तमाय नमः
- ६८ॐ ब्रह्मपराय नमः
- ६९ॐ ब्रह्मण्याय नमः
- ७०ॐ ब्रह्मवित्प्रियाय नमः
- ७१ॐ भव्याय नमः
- ७२ॐ भूतालयाय नमः
- ७३ॐ भोगदात्रे नमः
- ७४ॐ महामनसे नमः
- ७५ॐ वरेण्याय नमः
- ७६ॐ वामदेवाय नमः
- ७७ॐ वन्द्याय नमः
- ७८ॐ वज्रनिवारणाय नमः
- ७९ॐ विश्वकर्त्रे नमः
- ८०ॐ विश्वचक्षुषे नमः
- ८१ॐ हवनाय नमः
- ८२ॐ हव्यकव्यभुजे नमः
- ८३ॐ स्वतन्त्राय नमः
- ८४ॐ सत्यसङ्कल्पाय नमः
- ८५ॐ सौभाग्यवर्धनाय नमः
- ८६ॐ कीर्तिदाय नमः
- ८७ॐ शोकहारिणे नमः
- ८८ॐ त्रिवर्गफलदायकाय नमः
- ८९ॐ चतुर्बाहवे नमः
- ९०ॐ चतुर्दन्ताय नमः
- ९१ॐ चतुर्थी-तिथि-सम्भवाय नमः
- ९२ॐ सहस्रशीर्ष्णे पुरुषाय नमः
- ९३ॐ सहस्राक्षाय नमः
- ९४ॐ सहस्रपदे नमः
- ९५ॐ कामरूपाय नमः
- ९६ॐ कामगतये नमः
- ९७ॐ द्विरदाय नमः
- ९८ॐ द्वीपरक्षकाय नमः
- ९९ॐ क्षेत्राधिपाय नमः
- १००ॐ क्षमाभर्त्रे नमः
- १०१ॐ लयस्थाय नमः
- १०२ॐ लड्डुकप्रियाय नमः
- १०३ॐ प्रतिवादिमुखस्तम्भाय नमः
- १०४ॐ दुष्टचित्तप्रसादनाय नमः
- १०५ॐ भगवते नमः
- १०६ॐ भक्तिसुलभाय नमः
- १०७ॐ याज्ञिकाय नमः
- १०८ॐ याजकप्रियाय नमः
इति श्री-गणेशपुराणे उपासनाखण्डे श्री-गणपत्यष्टोत्तरशतनामावलिः सम्पूर्णा