- १ॐ गणेश्वराय नमः
- २ॐ गणक्रीडाय नमः
- ३ॐ गणनाथाय नमः
- ४ॐ गणाधिपाय नमः
- ५ॐ एकदंष्ट्राय नमः
- ६ॐ वक्रतुण्डाय नमः
- ७ॐ गजवक्त्राय नमः
- ८ॐ मदोदराय नमः
- ९ॐ लम्बोदराय नमः
- १०ॐ धूम्रवर्णाय नमः
- ११ॐ विकटाय नमः
- १२ॐ विघ्ननायकाय नमः
- १३ॐ सुमुखाय नमः
- १४ॐ दुर्मुखाय नमः
- १५ॐ बुद्धाय नमः
- १६ॐ विघ्नराजाय नमः
- १७ॐ गजाननाय नमः
- १८ॐ भीमाय नमः
- १९ॐ प्रमोदाय नमः
- २०ॐ आमोदाय नमः
- २१ॐ सुरानन्दाय नमः
- २२ॐ मदोत्कटाय नमः
- २३ॐ हेरम्बाय नमः
- २४ॐ शम्बराय नमः
- २५ॐ शम्भवे नमः
- २६ॐ लम्बकर्णाय नमः
- २७ॐ महाबलाय नमः
- २८ॐ नन्दनाय नमः
- २९ॐ अलम्पटाय नमः
- ३०ॐ अभीरवे नमः
- ३१ॐ भीमाय नमः
- ३२ॐ मेघनादाय नमः
- ३३ॐ गणञ्जयाय नमः
- ३४ॐ विनायकाय नमः
- ३५ॐ विरूपाक्षाय नमः
- ३६ॐ धीरशूराय नमः
- ३७ॐ वरप्रदाय नमः
- ३८ॐ महागणपतये नमः
- ३९ॐ बुद्धिप्रियाय नमः
- ४०ॐ क्षिप्रप्रसादनाय नमः
- ४१ॐ रुद्रप्रियाय नमः
- ४२ॐ गणाध्यक्षाय नमः
- ४३ॐ उमापुत्राय नमः
- ४४ॐ अघनाशनाय नमः
- ४५ॐ कुमारगुरवे नमः
- ४६ॐ ईशानपुत्राय नमः
- ४७ॐ मूषकवाहनाय नमः
- ४८ॐ सिद्धिप्रियाय नमः
- ४९ॐ सिद्धिपतये नमः
- ५०ॐ सिद्धाय नमः
- ५१ॐ सिद्धिविनायकाय नमः
- ५२ॐ अविघ्नाय नमः
- ५३ॐ तुम्बुरुवे नमः
- ५४ॐ सिंहवाहनाय नमः
- ५५ॐ मोहिनीप्रियाय नमः
- ५६ॐ कटङ्कटाय नमः
- ५७ॐ राजपुत्राय नमः
- ५८ॐ शकलाय नमः
- ५९ॐ सम्मिताय नमः
- ६०ॐ अमिताय नमः
- ६१ॐ कूश्माण्डसामसम्भूतये नमः
- ६२ॐ दुर्जयाय नमः
- ६३ॐ धूर्जयाय नमः
- ६४ॐ जयाय नमः
- ६५ॐ भूपतये नमः
- ६६ॐ भुवनेशाय नमः
- ६७ॐ भूतानां पतये नमः
- ६८ॐ अव्ययाय नमः
- ६९ॐ विश्वकर्त्रे नमः
- ७०ॐ विश्वमुखाय नमः
- ७१ॐ विश्वरूपाय नमः
- ७२ॐ निधये नमः
- ७३ॐ घृणये नमः
- ७४ॐ कवये नमः
- ७५ॐ कवीनामृषभाय नमः
- ७६ॐ ब्रह्मण्याय नमः
- ७७ॐ ब्रह्मणस्पतये नमः
- ७८ॐ ज्येष्ठराजाय नमः
- ७९ॐ निधिपतये नमः
- ८०ॐ निधिप्रियपतिप्रियाय नमः
- ८१ॐ हिरण्मयपुरान्तःस्थाय नमः
- ८२ॐ सूर्यमण्डलमध्यगाय नमः
- ८३ॐ कराहतिध्वस्तसिन्धुसलिलाय नमः
- ८४ॐ पूषदन्तहृते नमः
- ८५ॐ उमाङ्ककेलिकुतुकिने नमः
- ८६ॐ मुक्तिदाय नमः
- ८७ॐ कुलपालकाय नमः
- ८८ॐ किरीटिने नमः
- ८९ॐ कुण्डलिने नमः
- ९०ॐ हारिणे नमः
- ९१ॐ वनमालिने नमः
- ९२ॐ मनोमयाय नमः
- ९३ॐ वैमुख्यहतदैत्यश्रियै नमः
- ९४ॐ पादाहत्याजितक्षितये नमः
- ९५ॐ सद्योजाताय नमः
- ९६ॐ स्वर्णमुञ्जमेखलिने नमः
- ९७ॐ दुर्निमित्तहृते नमः
- ९८ॐ दुःस्वप्नहृते नमः
- ९९ॐ प्रहसनाय नमः
- १००ॐ गुणिने नमः
- १०१ॐ नादप्रतिष्ठिताय नमः
- १०२ॐ सुरूपाय नमः
- १०३ॐ सर्वनेत्राधिवासाय नमः
- १०४ॐ वीरासनाश्रयाय नमः
- १०५ॐ पीताम्बराय नमः
- १०६ॐ खण्डरदाय नमः
- १०७ॐ खण्डेन्दुकृतशेखराय नमः
- १०८ॐ चित्राङ्कश्यामदशनाय नमः
- १०९ॐ भालचन्द्राय नमः
- ११०ॐ चतुर्भुजाय नमः
- १११ॐ योगाधिपाय नमः
- ११२ॐ तारकस्थाय नमः
- ११३ॐ पुरुषाय नमः
- ११४ॐ गजकर्णकाय नमः
- ११५ॐ गणाधिराजाय नमः
- ११६ॐ विजयस्थिराय नमः
- ११७ॐ गणपतये नमः
- ११८ॐ ध्वजिने नमः
- ११९ॐ देवदेवाय नमः
- १२०ॐ स्मरप्राणदीपकाय नमः
- १२१ॐ वायुकीलकाय नमः
- १२२ॐ विपश्चिद्वरदाय नमः
- १२३ॐ नादोन्नादभिन्नबलाहकाय नमः
- १२४ॐ वाराहरदनाय नमः
- १२५ॐ मृत्युञ्जयाय नमः
- १२६ॐ व्याघ्राजिनाम्बराय नमः
- १२७ॐ इच्छाशक्तिधराय नमः
- १२८ॐ देवत्रात्रे नमः
- १२९ॐ दैत्यविमर्दनाय नमः
- १३०ॐ शम्भुवक्त्रोद्भवाय नमः
- १३१ॐ शम्भुकोपघ्ने नमः
- १३२ॐ शम्भुहास्यभुवे नमः
- १३३ॐ शम्भुतेजसे नमः
- १३४ॐ शिवाशोकहारिणे नमः
- १३५ॐ गौरीसुखावहाय नमः
- १३६ॐ उमाङ्गमलजाय नमः
- १३७ॐ गौरीतेजोभुवे नमः
- १३८ॐ स्वर्धुनीभवाय नमः
- १३९ॐ यज्ञकायाय नमः
- १४०ॐ महानादाय नमः
- १४१ॐ गिरिवर्ष्मणे नमः
- १४२ॐ शुभाननाय नमः
- १४३ॐ सर्वात्मने नमः
- १४४ॐ सर्वदेवात्मने नमः
- १४५ॐ ब्रह्ममूर्ध्ने नमः
- १४६ॐ ककुप्श्रुतये नमः
- १४७ॐ ब्रह्माण्डकुम्भाय नमः
- १४८ॐ चिद्व्योमभालाय नमः
- १४९ॐ सत्यशिरोरुहाय नमः
- १५०ॐ जगज्जन्मलयोन्मेष-निमिषाय नमः
- १५१ॐ अग्न्यर्कसोमदृशे नमः
- १५२ॐ गिरीन्द्रैकरदाय नमः
- १५३ॐ धर्माय नमः
- १५४ॐ धर्मिष्ठाय नमः
- १५५ॐ सामबृंहिताय नमः
- १५६ॐ ग्रहर्क्षदशनाय नमः
- १५७ॐ वाणीजिह्वाय नमः
- १५८ॐ वासवनासिकाय नमः
- १५९ॐ भ्रूमध्यसंस्थितकराय नमः
- १६०ॐ ब्रह्मविद्यामदोत्कटाय नमः
- १६१ॐ कुलाचलांसाय नमः
- १६२ॐ सोमार्कघण्टाय नमः
- १६३ॐ रुद्रशिरोधराय नमः
- १६४ॐ नदीनदभुजाय नमः
- १६५ॐ सर्पाङ्गुलीकाय नमः
- १६६ॐ तारकानखाय नमः
- १६७ॐ व्योमनाभये नमः
- १६८ॐ श्रीहृदयाय नमः
- १६९ॐ मेरुपृष्ठाय नमः
- १७०ॐ अर्णवोदराय नमः
- १७१ॐ कुक्षिस्थ-यक्ष-गन्धर्व-रक्षः-किन्नर-मानुषाय नमः
- १७२ॐ पृथ्वीकटये नमः
- १७३ॐ सृष्टिलिङ्गाय नमः
- १७४ॐ शैलोरवे नमः
- १७५ॐ दस्रजानुकाय नमः
- १७६ॐ पातालजङ्घाय नमः
- १७७ॐ मुनिपात्कालाङ्गुष्ठाय नमः
- १७८ॐ त्रयीतनवे नमः
- १७९ॐ ज्योतिषे नमः
- १८०ॐ मण्डललाङ्गूलाय नमः
- १८१ॐ हृदयालातनिश्चलाय नमः
- १८२ॐ हृत्पद्मकर्णिकाशालिने नमः
- १८३ॐ वियत्केलिसरोवराय नमः
- १८४ॐ सद्भक्तध्याननिगडाय नमः
- १८५ॐ पूजावारिनिवारिताय नमः
- १८६ॐ प्रतापिने नमः
- १८७ॐ कश्यपसुताय नमः
- १८८ॐ गणपाय नमः
- १८९ॐ विष्टपिने नमः
- १९०ॐ बलिने नमः
- १९१ॐ यशस्विने नमः
- १९२ॐ धार्मिकाय नमः
- १९३ॐ स्वोजसे नमः
- १९४ॐ प्रथमाय नमः
- १९५ॐ प्रमथेश्वराय नमः
- १९६ॐ चिन्तामणये नमः
- १९७ॐ दीपपतये नमः
- १९८ॐ कल्पद्रुमवनालयाय नमः
- १९९ॐ रत्नमण्डपमध्यस्थाय नमः
- २००ॐ रत्नसिंहासनाश्रयाय नमः
- २०१ॐ तीव्राशिरसे नमः
- २०२ॐ धृतपदाय नमः
- २०३ॐ ज्वलिनीमौलिलालिताय नमः
- २०४ॐ नन्दानन्दितपीठश्रिये नमः
- २०५ॐ भोगदाय नमः
- २०६ॐ भूषितासनाय नमः
- २०७ॐ सकामदायिनीपीठाय नमः
- २०८ॐ स्फुरदुग्रासनाश्रयाय नमः
- २०९ॐ तेजोवतीशिरोरत्नाय नमः
- २१०ॐ सत्यानित्यावतंसिताय नमः
- २११ॐ सविघ्ननाशिनीपीठाय नमः
- २१२ॐ सर्वशक्त्यम्बुजाश्रयाय नमः
- २१३ॐ लिपिपद्मासनाधाराय नमः
- २१४ॐ वह्निधाम्ने नमः
- २१५ॐ त्रयाश्रयाय नमः
- २१६ॐ उन्नतप्रपदागूढगुल्फ-संवृतपार्ष्णिकाय नमः
- २१७ॐ पीनजङ्घाय नमः
- २१८ॐ श्लिष्टजानवे नमः
- २१९ॐ स्थूलोरवे नमः
- २२०ॐ प्रोन्नमत्कटये नमः
- २२१ॐ निम्ननाभये नमः
- २२२ॐ स्थूलकुक्षये नमः
- २२३ॐ पीनवक्षसे नमः
- २२४ॐ बृहद्भुजाय नमः
- २२५ॐ पीनस्कन्धाय नमः
- २२६ॐ कम्बुकण्ठाय नमः
- २२७ॐ लम्बोष्ठाय नमः
- २२८ॐ लम्बनासिकाय नमः
- २२९ॐ भग्नवामरदाय नमः
- २३०ॐ तुङ्गसव्यदन्ताय नमः
- २३१ॐ महाहनवे नमः
- २३२ॐ ह्रस्वनेत्रत्रयाय नमः
- २३३ॐ शूर्पकर्णाय नमः
- २३४ॐ निविडमस्तकाय नमः
- २३५ॐ स्तबकाकारकुम्भाग्राय नमः
- २३६ॐ रत्नमौलये नमः
- २३७ॐ निरङ्कुशाय नमः
- २३८ॐ सर्पहारकटीसूत्राय नमः
- २३९ॐ सर्पयज्ञोपवीतवते नमः
- २४०ॐ सर्पकोटीरकटकाय नमः
- २४१ॐ सर्पग्रैवेयकाङ्गदाय नमः
- २४२ॐ सर्पकक्ष्योदराबन्धाय नमः
- २४३ॐ सर्पराजोत्तरीयकाय नमः
- २४४ॐ रक्ताय नमः
- २४५ॐ रक्ताम्बरधराय नमः
- २४६ॐ रक्तमाल्यविभूषणाय नमः
- २४७ॐ रक्तेक्षणाय नमः
- २४८ॐ रक्तकराय नमः
- २४९ॐ रक्तताल्वोष्ठपल्लवाय नमः
- २५०ॐ श्वेताय नमः
- २५१ॐ श्वेताम्बरधराय नमः
- २५२ॐ श्वेतमाल्यविभूषणाय नमः
- २५३ॐ श्वेतातपत्ररुचिराय नमः
- २५४ॐ श्वेतचामरवीजिताय नमः
- २५५ॐ सर्वावयवसम्पूर्णाय नमः
- २५६ॐ सर्वलक्षणलक्षिताय नमः
- २५७ॐ सर्वाभरणशोभाढ्याय नमः
- २५८ॐ सर्वशोभासमन्विताय नमः
- २५९ॐ सर्वमङ्गलमाङ्गल्याय नमः
- २६०ॐ सर्वकारणकारणाय नमः
- २६१ॐ सर्वदैककराय नमः
- २६२ॐ शार्ङ्गिणे नमः
- २६३ॐ बीजापूरगदाधराय नमः
- २६४ॐ इक्षुचापधराय नमः
- २६५ॐ शूलिने नमः
- २६६ॐ चक्रपाणये नमः
- २६७ॐ सरोजभृते नमः
- २६८ॐ पाशिने नमः
- २६९ॐ धृतोत्पलाय नमः
- २७०ॐ शालिमञ्जरीभृते नमः
- २७१ॐ स्वदन्तभृते नमः
- २७२ॐ कल्पवल्लीधराय नमः
- २७३ॐ विश्वाभयदैककराय नमः
- २७४ॐ वशिने नमः
- २७५ॐ अक्षमालाधराय नमः
- २७६ॐ ज्ञानमुद्रावते नमः
- २७७ॐ मुद्गरायुधाय नमः
- २७८ॐ पूर्णपात्रिणे नमः
- २७९ॐ कम्बुधराय नमः
- २८०ॐ विधूतालिसमूहकाय नमः
- २८१ॐ मातुलुङ्गधराय नमः
- २८२ॐ चूतकलिकाभृते नमः
- २८३ॐ कुठारवते नमः
- २८४ॐ पुष्करस्थाय नमः
- २८५ॐ स्वर्णघटीपूर्णरत्नाभिवर्षकाय नमः
- २८६ॐ भारतीसुन्दरीनाथाय नमः
- २८७ॐ विनायकरतिप्रियाय नमः
- २८८ॐ महालक्ष्मीप्रियतमाय नमः
- २८९ॐ सिद्धलक्ष्मीमनोरमाय नमः
- २९०ॐ रमारमेशपूर्वाङ्गाय नमः
- २९१ॐ दक्षिणोमामहेश्वराय नमः
- २९२ॐ महीवराहवामाङ्गाय नमः
- २९३ॐ रतिकन्दर्पपश्चिमाय नमः
- २९४ॐ आमोदमोदजननाय नमः
- २९५ॐ सप्रमोदाय नमः
- २९६ॐ प्रमोदनाय नमः
- २९७ॐ सामैधित्रे नमः
- २९८ॐ समिद्धश्रिये नमः
- २९९ॐ ऋद्धिसिद्धिप्रवर्तकाय नमः
- ३००ॐ दत्तसौमुख्यसुमुखाय नमः
- ३०१ॐ कान्तिकन्दलिताश्रयाय नमः
- ३०२ॐ मदनावत्याश्रिताङ्घ्रये नमः
- ३०३ॐ कृतदौर्मुख्यदुर्मुखाय नमः
- ३०४ॐ विघ्नसम्पल्लवोपघ्नाय नमः
- ३०५ॐ सेवोन्निद्रमदद्रवाय नमः
- ३०६ॐ विघ्नकृन्निघ्नचरणाय नमः
- ३०७ॐ द्राविणीशक्तिसत्कृताय नमः
- ३०८ॐ तीव्राप्रसन्ननयनाय नमः
- ३०९ॐ ज्वालिनीपालितैकदृशे नमः
- ३१०ॐ मोहिनीमोहनाय नमः
- ३११ॐ भोगदायिनीकान्तिमण्डिताय नमः
- ३१२ॐ कामिनीकान्तवक्त्रश्रिये नमः
- ३१३ॐ अधिष्ठितवसुन्धराय नमः
- ३१४ॐ वसुन्धरामदोन्नद्धाय नमः
- ३१५ॐ महाशङ्खनिधये नमः
- ३१६ॐ प्रभवे नमः
- ३१७ॐ नमद्वसुमतीमौलये नमः
- ३१८ॐ महापद्मनिधिप्रभवे नमः
- ३१९ॐ सर्वसद्गुणसंसेव्याय नमः
- ३२०ॐ शोचिष्केशहृदाश्रयाय नमः
- ३२१ॐ ईशानमूर्ध्ने नमः
- ३२२ॐ देवेन्द्रशिखाय नमः
- ३२३ॐ पवननन्दनाय नमः
- ३२४ॐ अग्रप्रत्यग्रनयनाय नमः
- ३२५ॐ दिव्यास्त्राणां प्रयोगविदे नमः
- ३२६ॐ ऐरावतादिसर्वाशावारणावरण-प्रियाय नमः
- ३२७ॐ वज्राद्यस्त्रपरीवाराय नमः
- ३२८ॐ गणचण्डसमाश्रयाय नमः
- ३२९ॐ जयाजयपरीवाराय नमः
- ३३०ॐ विजयाविजयावहाय नमः
- ३३१ॐ अजिताजितपादाब्जाय नमः
- ३३२ॐ नित्यानित्यावतंसिताय नमः
- ३३३ॐ विलासिनीकृतोल्लासाय नमः
- ३३४ॐ शौण्डिसौन्दर्यमण्डिताय नमः
- ३३५ॐ अनन्तानन्तसुखदाय नमः
- ३३६ॐ सुमङ्गलसुमङ्गलाय नमः
- ३३७ॐ इच्छाशक्ति-ज्ञानशक्ति-क्रियाशक्ति-निषेविताय नमः
- ३३८ॐ सुभगासंश्रितपदाय नमः
- ३३९ॐ ललिताललिताश्रयाय नमः
- ३४०ॐ कामिनीकामनाय नमः
- ३४१ॐ कामाय नमः
- ३४२ॐ मानिनीकेलिलालिताय नमः
- ३४३ॐ सरस्वत्याश्रयाय नमः
- ३४४ॐ गौरीनन्दनाय नमः
- ३४५ॐ श्रीनिकेतनाय नमः
- ३४६ॐ गुरुगुप्तपदाय नमः
- ३४७ॐ वाचा सिद्धाय नमः
- ३४८ॐ वागीश्वरेश्वराय नमः
- ३४९ॐ नलिनीकामुकाय नमः
- ३५०ॐ वामारामाय नमः
- ३५१ॐ ज्येष्ठामनोरमाय नमः
- ३५२ॐ रौद्रीमुद्रितपादाब्जाय नमः
- ३५३ॐ हुम्बीजाय नमः
- ३५४ॐ तुङ्गशक्तिकाय नमः
- ३५५ॐ विश्वादिजननत्राणाय नमः
- ३५६ॐ स्वाहाशक्तये नमः
- ३५७ॐ सकीलकाय नमः
- ३५८ॐ अमृताब्धिकृतावासाय नमः
- ३५९ॐ मदघूर्णितलोचनाय नमः
- ३६०ॐ उच्छिष्टगणाय नमः
- ३६१ॐ उच्छिष्टगणेशाय नमः
- ३६२ॐ गणनायकाय नमः
- ३६३ॐ सार्वकालिकसंसिद्धये नमः
- ३६४ॐ नित्यशैवाय नमः
- ३६५ॐ दिगम्बराय नमः
- ३६६ॐ अनपायाय नमः
- ३६७ॐ अनन्तदृष्टये नमः
- ३६८ॐ अप्रमेयाय नमः
- ३६९ॐ अजरामराय नमः
- ३७०ॐ अनाविलाय नमः
- ३७१ॐ अप्रतिरथाय नमः
- ३७२ॐ अच्युताय नमः
- ३७३ॐ अमृताय नमः
- ३७४ॐ अक्षराय नमः
- ३७५ॐ अप्रतर्क्याय नमः
- ३७६ॐ अक्षयाय नमः
- ३७७ॐ अजय्याय नमः
- ३७८ॐ अनाधाराय नमः
- ३७९ॐ अनामयाय नमः
- ३८०ॐ अमोघसिद्धये नमः
- ३८१ॐ अद्वैताय नमः
- ३८२ॐ अघोराय नमः
- ३८३ॐ अप्रमिताननाय नमः
- ३८४ॐ अनाकाराय नमः
- ३८५ॐ अधिभूम्यग्निबलघ्नाय नमः
- ३८६ॐ अव्यक्तलक्षणाय नमः
- ३८७ॐ आधारपीठाय नमः
- ३८८ॐ आधाराय नमः
- ३८९ॐ आधाराधेयवर्जिताय नमः
- ३९०ॐ आखुकेतनाय नमः
- ३९१ॐ आशापूरकाय नमः
- ३९२ॐ आखुमहारथाय नमः
- ३९३ॐ इक्षुसागरमध्यस्थाय नमः
- ३९४ॐ इक्षुभक्षणलालसाय नमः
- ३९५ॐ इक्षुचापातिरेकश्रिये नमः
- ३९६ॐ इक्षुचापनिषेविताय नमः
- ३९७ॐ इन्द्रगोपसमानश्रिये नमः
- ३९८ॐ इन्द्रनीलसमद्युतये नमः
- ३९९ॐ इन्दीवरदलश्यामाय नमः
- ४००ॐ इन्दुमण्डलनिर्मलाय नमः
- ४०१ॐ इन्द्रप्रियाय नमः
- ४०२ॐ इडाभागाय नमः
- ४०३ॐ इडाधामेन्दिराप्रियाय नमः
- ४०४ॐ इक्ष्वाकुविघ्नविध्वंसिने नमः
- ४०५ॐ इतिकर्तव्यतेप्सिताय नमः
- ४०६ॐ ईशानमौलये नमः
- ४०७ॐ ईशानाय नमः
- ४०८ॐ ईशानसुताय नमः
- ४०९ॐ ईतिघ्ने नमः
- ४१०ॐ ईषणात्रयकल्पान्ताय नमः
- ४११ॐ ईहामात्रविवर्जिताय नमः
- ४१२ॐ उपेन्द्राय नमः
- ४१३ॐ उडुभृन्मौलिरुण्डेरकबलि- प्रियाय नमः
- ४१४ॐ उन्नताननाय नमः
- ४१५ॐ उत्तुङ्गाय नमः
- ४१६ॐ उदारत्रिदशाग्रण्ये नमः
- ४१७ॐ ऊर्जस्वते नमः
- ४१८ॐ ऊष्मलमदाय नमः
- ४१९ॐ ऊहापोहदुरासदाय नमः
- ४२०ॐ ऋग्यजुःसामसम्भूतये नमः
- ४२१ॐ ऋद्धिसिद्धिप्रवर्तकाय नमः
- ४२२ॐ ऋजुचित्तैकसुलभाय नमः
- ४२३ॐ ऋणत्रयविमोचकाय नमः
- ४२४ॐ स्वभक्तानां लुप्तविघ्नाय नमः
- ४२५ॐ सुरद्विषां लुप्तशक्तये नमः
- ४२६ॐ विमुखार्चानां लुप्तश्रिये नमः
- ४२७ॐ लूताविस्फोटनाशनाय नमः
- ४२८ॐ एकारपीठमध्यस्थाय नमः
- ४२९ॐ एकपादकृतासनाय नमः
- ४३०ॐ एजिताखिलदैत्यश्रिये नमः
- ४३१ॐ एजिताखिलसंश्रयाय नमः
- ४३२ॐ ऐश्वर्यनिधये नमः
- ४३३ॐ ऐश्वर्याय नमः
- ४३४ॐ ऐहिकामुष्मिकप्रदाय नमः
- ४३५ॐ ऐरम्मदसमोन्मेषाय नमः
- ४३६ॐ ऐरावतनिभाननाय नमः
- ४३७ॐ ओङ्कारवाच्याय नमः
- ४३८ॐ ओङ्काराय नमः
- ४३९ॐ ओजस्वते नमः
- ४४०ॐ ओषधिपतये नमः
- ४४१ॐ औदार्यनिधये नमः
- ४४२ॐ औद्धत्यधुर्याय नमः
- ४४३ॐ औन्नत्यनिःस्वनाय नमः
- ४४४ॐ सुरनागानाम् अङ्कुशाय नमः
- ४४५ॐ सुरविद्विषाम् अङ्कुशाय नमः
- ४४६ॐ असमस्तविसर्गाणां पदेषु परिकीर्तिताय नमः
- ४४७ॐ कमण्डलुधराय नमः
- ४४८ॐ कल्पाय नमः
- ४४९ॐ कपर्दिने नमः
- ४५०ॐ कलभाननाय नमः
- ४५१ॐ कर्मसाक्षिणे नमः
- ४५२ॐ कर्मकर्त्रे नमः
- ४५३ॐ कर्माकर्मफलप्रदाय नमः
- ४५४ॐ कदम्बगोलकाकाराय नमः
- ४५५ॐ कूश्माण्डगणनायकाय नमः
- ४५६ॐ कारुण्यदेहाय नमः
- ४५७ॐ कपिलाय नमः
- ४५८ॐ कथकाय नमः
- ४५९ॐ कटिसूत्रभृते नमः
- ४६०ॐ खर्वाय नमः
- ४६१ॐ खड्गप्रियाय नमः
- ४६२ॐ खड्गखातान्तःस्थाय नमः
- ४६३ॐ खनिर्मलाय नमः
- ४६४ॐ खल्वाटश्रृङ्गनिलयाय नमः
- ४६५ॐ खट्वाङ्गिने नमः
- ४६६ॐ खन्दुरासदाय नमः
- ४६७ॐ गुणाढ्याय नमः
- ४६८ॐ गहनाय नमः
- ४६९ॐ गस्थाय नमः
- ४७०ॐ गद्यपद्यसुधार्णवाय नमः
- ४७१ॐ गद्यगानप्रियाय नमः
- ४७२ॐ गर्जाय नमः
- ४७३ॐ गीतगीर्वाणपूर्वजाय नमः
- ४७४ॐ गुह्याचाररताय नमः
- ४७५ॐ गुह्याय नमः
- ४७६ॐ गुह्यागमनिरूपिताय नमः
- ४७७ॐ गुहाशयाय नमः
- ४७८ॐ गुहाब्धिस्थाय नमः
- ४७९ॐ गुरुगम्याय नमः
- ४८०ॐ गुरोर्गुरवे नमः
- ४८१ॐ घण्टाघर्घरिकामालिने नमः
- ४८२ॐ घटकुम्भाय नमः
- ४८३ॐ घटोदराय नमः
- ४८४ॐ चण्डाय नमः
- ४८५ॐ चण्डेश्वरसुहृदे नमः
- ४८६ॐ चण्डेशाय नमः
- ४८७ॐ चण्डविक्रमाय नमः
- ४८८ॐ चराचरपतये नमः
- ४८९ॐ चिन्तामणये नमः
- ४९०ॐ चर्वणलालसाय नमः
- ४९१ॐ छन्दसे नमः
- ४९२ॐ छन्दोवपुषे नमः
- ४९३ॐ छन्दोदुर्लक्ष्याय नमः
- ४९४ॐ छन्दविग्रहाय नमः
- ४९५ॐ जगद्योनये नमः
- ४९६ॐ जगत्साक्षिणे नमः
- ४९७ॐ जगदीशाय नमः
- ४९८ॐ जगन्मयाय नमः
- ४९९ॐ जपाय नमः
- ५००ॐ जपपराय नमः
- ५०१ॐ जप्याय नमः
- ५०२ॐ जिह्वासिंहासनप्रभवे नमः
- ५०३ॐ झलज्झल्लोल्लसद्दान-झङ्कारिभ्रमराकुलाय नमः
- ५०४ॐ टङ्कारस्फारसंरावाय नमः
- ५०५ॐ टङ्कारिमणिनूपुराय नमः
- ५०६ॐ ठद्वयिने नमः
- ५०७ॐ पल्लवान्तःस्थाय नमः
- ५०८ॐ सर्वमन्त्रैकसिद्धिदाय नमः
- ५०९ॐ डिण्डिमुण्डाय नमः
- ५१०ॐ डाकिनीशाय नमः
- ५११ॐ डामराय नमः
- ५१२ॐ डिण्डिमप्रियाय नमः
- ५१३ॐ ढक्कानिनादमुदिताय नमः
- ५१४ॐ ढौकाय नमः
- ५१५ॐ ढुण्ढिविनायकाय नमः
- ५१६ॐ तत्त्वानां परमतत्त्वाय नमः
- ५१७ॐ तत्त्वम्पदनिरूपिताय नमः
- ५१८ॐ तारकान्तरसंस्थानाय नमः
- ५१९ॐ तारकाय नमः
- ५२०ॐ तारकान्तकाय नमः
- ५२१ॐ स्थाणवे नमः
- ५२२ॐ स्थाणुप्रियाय नमः
- ५२३ॐ स्थात्रे नमः
- ५२४ॐ स्थावराय जङ्गमाय जगते नमः
- ५२५ॐ दक्षयज्ञप्रमथनाय नमः
- ५२६ॐ दात्रे नमः
- ५२७ॐ दानवमोहनाय नमः
- ५२८ॐ दयावते नमः
- ५२९ॐ दिव्यविभवाय नमः
- ५३०ॐ दण्डभृते नमः
- ५३१ॐ दण्डनायकाय नमः
- ५३२ॐ दन्तप्रभिन्नाभ्रमालाय नमः
- ५३३ॐ दैत्यवारणदारणाय नमः
- ५३४ॐ दंष्ट्रालग्नद्विपघटाय नमः
- ५३५ॐ देवार्थनृगजाकृतये नमः
- ५३६ॐ धनधान्यपतये नमः
- ५३७ॐ धन्याय नमः
- ५३८ॐ धनदाय नमः
- ५३९ॐ धरणीधराय नमः
- ५४०ॐ ध्यानैकप्रकटाय नमः
- ५४१ॐ ध्येयाय नमः
- ५४२ॐ ध्यानाय नमः
- ५४३ॐ ध्यानपरायणाय नमः
- ५४४ॐ नन्द्याय नमः
- ५४५ॐ नन्दिप्रियाय नमः
- ५४६ॐ नादाय नमः
- ५४७ॐ नादमध्यप्रतिष्ठिताय नमः
- ५४८ॐ निष्कलाय नमः
- ५४९ॐ निर्ममाय नमः
- ५५०ॐ नित्याय नमः
- ५५१ॐ नित्यानित्याय नमः
- ५५२ॐ निरामयाय नमः
- ५५३ॐ परस्मै व्योम्ने नमः
- ५५४ॐ परस्मै धाम्ने नमः
- ५५५ॐ परमात्मने नमः
- ५५६ॐ परस्मै पदाय नमः
- ५५७ॐ परात्परस्मै नमः
- ५५८ॐ पशुपतये नमः
- ५५९ॐ पशुपाशविमोचकाय नमः
- ५६०ॐ पूर्णानन्दाय नमः
- ५६१ॐ परानन्दाय नमः
- ५६२ॐ पुराणपुरुषोत्तमाय नमः
- ५६३ॐ पद्मप्रसन्ननयनाय नमः
- ५६४ॐ प्रणताज्ञानमोचनाय नमः
- ५६५ॐ प्रमाणप्रत्ययातीताय नमः
- ५६६ॐ प्रणतार्तिनिवारणाय नमः
- ५६७ॐ फलहस्ताय नमः
- ५६८ॐ फणिपतये नमः
- ५६९ॐ फेत्काराय नमः
- ५७०ॐ फणितप्रियाय नमः
- ५७१ॐ बाणार्चिताङ्घ्रियुगलाय नमः
- ५७२ॐ बालकेलिकुतूहलिने नमः
- ५७३ॐ ब्रह्मणे नमः
- ५७४ॐ ब्रह्मार्चितपदाय नमः
- ५७५ॐ ब्रह्मचारिणे नमः
- ५७६ॐ बृहस्पतये नमः
- ५७७ॐ बृहत्तमाय नमः
- ५७८ॐ ब्रह्मपराय नमः
- ५७९ॐ ब्रह्मण्याय नमः
- ५८०ॐ ब्रह्मवित्प्रियाय नमः
- ५८१ॐ बृहन्नादाग्र्यचीत्काराय नमः
- ५८२ॐ ब्रह्माण्डावलिमेखलाय नमः
- ५८३ॐ भ्रूक्षेपदत्तलक्ष्मीकाय नमः
- ५८४ॐ भर्गाय नमः
- ५८५ॐ भद्राय नमः
- ५८६ॐ भयापहाय नमः
- ५८७ॐ भगवते नमः
- ५८८ॐ भक्तिसुलभाय नमः
- ५८९ॐ भूतिदाय नमः
- ५९०ॐ भूतिभूषणाय नमः
- ५९१ॐ भव्याय नमः
- ५९२ॐ भूतालयाय नमः
- ५९३ॐ भोगदात्रे नमः
- ५९४ॐ भ्रूमध्यगोचराय नमः
- ५९५ॐ मन्त्राय नमः
- ५९६ॐ मन्त्रपतये नमः
- ५९७ॐ मन्त्रिणे नमः
- ५९८ॐ मदमत्तमाय नमः
- ५९९ॐ मनोरमाय नमः
- ६००ॐ मेखलावते नमः
- ६०१ॐ मन्दगतये नमः
- ६०२ॐ मतिमते नमः
- ६०३ॐ कमलेक्षणाय नमः
- ६०४ॐ महाबलाय नमः
- ६०५ॐ महावीराय नमः
- ६०६ॐ महाप्राणाय नमः
- ६०७ॐ महामनसे नमः
- ६०८ॐ यज्ञाय नमः
- ६०९ॐ यज्ञपतये नमः
- ६१०ॐ यज्ञगोप्त्रे नमः
- ६११ॐ यज्ञफलप्रदाय नमः
- ६१२ॐ यशस्कराय नमः
- ६१३ॐ योगगम्याय नमः
- ६१४ॐ याज्ञिकाय नमः
- ६१५ॐ याजकप्रियाय नमः
- ६१६ॐ रसाय नमः
- ६१७ॐ रसप्रियाय नमः
- ६१८ॐ रस्याय नमः
- ६१९ॐ रञ्जकाय नमः
- ६२०ॐ रावणार्चिताय नमः
- ६२१ॐ रक्षोरक्षाकराय नमः
- ६२२ॐ रत्नगर्भाय नमः
- ६२३ॐ राज्यसुखप्रदाय नमः
- ६२४ॐ लक्ष्यालक्षप्रदाय नमः
- ६२५ॐ लक्ष्याय नमः
- ६२६ॐ लयस्थाय नमः
- ६२७ॐ लड्डुकप्रियाय नमः
- ६२८ॐ लानप्रियाय नमः
- ६२९ॐ लास्यपदाय नमः
- ६३०ॐ लाभकृते नमः
- ६३१ॐ लोकविश्रुताय नमः
- ६३२ॐ वरेण्याय नमः
- ६३३ॐ वह्निवदनाय नमः
- ६३४ॐ वन्द्याय नमः
- ६३५ॐ वेदान्तगोचराय नमः
- ६३६ॐ विकर्त्रे नमः
- ६३७ॐ विश्वतश्चक्षुषे नमः
- ६३८ॐ विधात्रे नमः
- ६३९ॐ विश्वतोमुखाय नमः
- ६४०ॐ वामदेवाय नमः
- ६४१ॐ विश्वनेत्रे नमः
- ६४२ॐ वज्रिणे नमः
- ६४३ॐ वज्रनिवारणाय नमः
- ६४४ॐ विश्वबन्धनविष्कम्भाधाराय नमः
- ६४५ॐ विश्वेश्वरप्रभवे नमः
- ६४६ॐ शब्दब्रह्मणे नमः
- ६४७ॐ शमप्राप्याय नमः
- ६४८ॐ शम्भुशक्तिगणेश्वराय नमः
- ६४९ॐ शास्त्रे नमः
- ६५०ॐ शिखाग्रनिलयाय नमः
- ६५१ॐ शरण्याय नमः
- ६५२ॐ शिखरीश्वराय नमः
- ६५३ॐ षडृतुकुसुमस्त्रग्विणे नमः
- ६५४ॐ षडाधाराय नमः
- ६५५ॐ षडक्षराय नमः
- ६५६ॐ संसारवैद्याय नमः
- ६५७ॐ सर्वज्ञाय नमः
- ६५८ॐ सर्वभेषजभेषजाय नमः
- ६५९ॐ सृष्टिस्थितिलयक्रीडाय नमः
- ६६०ॐ सुरकुञ्जरभेदनाय नमः
- ६६१ॐ सिन्दूरितमहाकुम्भाय नमः
- ६६२ॐ सदसद्व्यक्तिदायकाय नमः
- ६६३ॐ साक्षिणे नमः
- ६६४ॐ समुद्रमथनाय नमः
- ६६५ॐ स्वसंवेद्याय नमः
- ६६६ॐ स्वदक्षिणाय नमः
- ६६७ॐ स्वतन्त्राय नमः
- ६६८ॐ सत्यसङ्कल्पाय नमः
- ६६९ॐ सामगानरताय नमः
- ६७०ॐ सुखिने नमः
- ६७१ॐ हंसाय नमः
- ६७२ॐ हस्तिपिशाचीशाय नमः
- ६७३ॐ हवनाय नमः
- ६७४ॐ हव्यकव्यभुजे नमः
- ६७५ॐ हव्याय नमः
- ६७६ॐ हुतप्रियाय नमः
- ६७७ॐ हर्षाय नमः
- ६७८ॐ हृल्लेखामन्त्रमध्यगाय नमः
- ६७९ॐ क्षेत्राधिपाय नमः
- ६८०ॐ क्षमाभर्त्रे नमः
- ६८१ॐ क्षमापरपरायणाय नमः
- ६८२ॐ क्षिप्रक्षेमकराय नमः
- ६८३ॐ क्षेमानन्दाय नमः
- ६८४ॐ क्षोणीसुरद्रुमाय नमः
- ६८५ॐ धर्मप्रदाय नमः
- ६८६ॐ अर्थदाय नमः
- ६८७ॐ कामदात्रे नमः
- ६८८ॐ सौभाग्यवर्धनाय नमः
- ६८९ॐ विद्याप्रदाय नमः
- ६९०ॐ विभवदाय नमः
- ६९१ॐ भुक्तिमुक्तिफलप्रदाय नमः
- ६९२ॐ आभिरूप्यकराय नमः
- ६९३ॐ वीराय नमः
- ६९४ॐ श्रीप्रदाय नमः
- ६९५ॐ विजयप्रदाय नमः
- ६९६ॐ सर्ववश्यकराय नमः
- ६९७ॐ गर्भदोषघ्ने नमः
- ६९८ॐ पुत्रपौत्रदाय नमः
- ६९९ॐ मेधादाय नमः
- ७००ॐ कीर्तिदाय नमः
- ७०१ॐ शोकहारिणे नमः
- ७०२ॐ दौर्भाग्यनाशनाय नमः
- ७०३ॐ श्रीशोकहारिणे नमः
- ७०४ॐ दौर्भाग्यनाशनाय नमः
- ७०५ॐ सर्वशक्तिभृते नमः
- ७०६ॐ प्रतिवादिमुखस्तम्भाय नमः
- ७०७ॐ हृष्टचित्तप्रसादनाय नमः
- ७०८ॐ पराभिचारशमनाय नमः
- ७०९ॐ दुःखभञ्जनकारकाय नमः
- ७१०ॐ लवाय नमः
- ७११ॐ त्रुटये नमः
- ७१२ॐ कलायै नमः
- ७१३ॐ काष्ठायै नमः
- ७१४ॐ निमेषाय नमः
- ७१५ॐ तत्पराय नमः
- ७१६ॐ क्षणाय नमः
- ७१७ॐ घट्यै नमः
- ७१८ॐ मुहूर्ताय नमः
- ७१९ॐ प्रहराय नमः
- ७२०ॐ दिवानक्ताय नमः
- ७२१ॐ अहर्निशाय नमः
- ७२२ॐ पक्षाय नमः
- ७२३ॐ मासाय नमः
- ७२४ॐ अयनाय नमः
- ७२५ॐ वर्षाय नमः
- ७२६ॐ युगाय नमः
- ७२७ॐ कल्पाय नमः
- ७२८ॐ महालयाय नमः
- ७२९ॐ राशये नमः
- ७३०ॐ तारायै नमः
- ७३१ॐ तिथये नमः
- ७३२ॐ योगाय नमः
- ७३३ॐ वाराय नमः
- ७३४ॐ करणाय नमः
- ७३५ॐ अंशकाय नमः
- ७३६ॐ लग्नाय नमः
- ७३७ॐ होरायै नमः
- ७३८ॐ कालचक्राय नमः
- ७३९ॐ मेरवे नमः
- ७४०ॐ सप्तऋषिभ्यो नमः
- ७४१ॐ ध्रुवाय नमः
- ७४२ॐ राहवे नमः
- ७४३ॐ मन्दाय नमः
- ७४४ॐ कवये नमः
- ७४५ॐ जीवाय नमः
- ७४६ॐ बुधाय नमः
- ७४७ॐ भौमाय नमः
- ७४८ॐ शशिने नमः
- ७४९ॐ रवये नमः
- ७५०ॐ कालाय नमः
- ७५१ॐ सृष्टिस्थितये नमः
- ७५२ॐ विश्वस्मै नमः
- ७५३ॐ स्थावराय नमः
- ७५४ॐ जङ्गमाय नमः
- ७५५ॐ जगते नमः
- ७५६ॐ भुवे नमः
- ७५७ॐ अद्भ्यो नमः
- ७५८ॐ अग्नये नमः
- ७५९ॐ मरुद्भ्यो नमः
- ७६०ॐ व्योम्ने नमः
- ७६१ॐ अहङ्कृतये नमः
- ७६२ॐ प्रकृतये नमः
- ७६३ॐ पुंसे नमः
- ७६४ॐ ब्रह्मणे नमः
- ७६५ॐ विष्णवे नमः
- ७६६ॐ शिवाय नमः
- ७६७ॐ रुद्राय नमः
- ७६८ॐ ईशाय नमः
- ७६९ॐ शक्तये नमः
- ७७०ॐ सदाशिवाय नमः
- ७७१ॐ त्रिदशेभ्यो नमः
- ७७२ॐ पितृभ्यो नमः
- ७७३ॐ सिद्धेभ्यो नमः
- ७७४ॐ यक्षेभ्यो नमः
- ७७५ॐ रक्षोभ्यो नमः
- ७७६ॐ किन्नरेभ्यो नमः
- ७७७ॐ साध्येभ्यो नमः
- ७७८ॐ विद्याधरेभ्यो नमः
- ७७९ॐ भूतेभ्यो नमः
- ७८०ॐ मनुष्येभ्यो नमः
- ७८१ॐ पशुभ्यो नमः
- ७८२ॐ खगेभ्यो नमः
- ७८३ॐ समुद्रेभ्यो नमः
- ७८४ॐ सरिद्भ्यो नमः
- ७८५ॐ शैलेभ्यो नमः
- ७८६ॐ भूतभव्यभवोद्भवाय नमः
- ७८७ॐ साङ्ख्याय नमः
- ७८८ॐ पातञ्जलयोगाय नमः
- ७८९ॐ पुराणेभ्यो नमः
- ७९०ॐ श्रुतये नमः
- ७९१ॐ स्मृतये नमः
- ७९२ॐ वेदाङ्गेभ्यो नमः
- ७९३ॐ सदाचाराय नमः
- ७९४ॐ मीमांसायै नमः
- ७९५ॐ न्यायविस्तराय नमः
- ७९६ॐ आयुर्वेदाय नमः
- ७९७ॐ धनुर्वेदाय नमः
- ७९८ॐ गान्धर्वाय नमः
- ७९९ॐ काव्यनाटकाय नमः
- ८००ॐ वैखानसाय नमः
- ८०१ॐ भागवताय नमः
- ८०२ॐ सात्वताय नमः
- ८०३ॐ पाञ्चरात्रकाय नमः
- ८०४ॐ शैवाय नमः
- ८०५ॐ पाशुपताय नमः
- ८०६ॐ कालमुखाय नमः
- ८०७ॐ भैरवशासनाय नमः
- ८०८ॐ शाक्ताय नमः
- ८०९ॐ वैनायकाय नमः
- ८१०ॐ सौराय नमः
- ८११ॐ जैनाय नमः
- ८१२ॐ आर्हतसंहितायै नमः
- ८१३ॐ सते नमः
- ८१४ॐ असते नमः
- ८१५ॐ व्यक्ताय नमः
- ८१६ॐ अव्यक्ताय नमः
- ८१७ॐ सचेतनाय नमः
- ८१८ॐ अचेतनाय नमः
- ८१९ॐ बन्धाय नमः
- ८२०ॐ मोक्षाय नमः
- ८२१ॐ सुखाय नमः
- ८२२ॐ भोगाय नमः
- ८२३ॐ योगाय नमः
- ८२४ॐ सत्याय नमः
- ८२५ॐ अणवे नमः
- ८२६ॐ महते नमः
- ८२७ॐ स्वस्ति-हुं-फट्-स्वधा-स्वाहा-श्रौषड्-वौषड्-वषण्-नमः
- ८२८ॐ ज्ञानविज्ञानाय नमः
- ८२९ॐ आनन्दाय नमः
- ८३०ॐ बोधाय नमः
- ८३१ॐ संविदे नमः
- ८३२ॐ शमाय नमः
- ८३३ॐ यमाय नमः
- ८३४ॐ एकस्मै नमः
- ८३५ॐ एकाक्षराधाराय नमः
- ८३६ॐ एकाक्षरपरायणाय नमः
- ८३७ॐ एकाग्रधिये नमः
- ८३८ॐ एकवीराय नमः
- ८३९ॐ एकानेकस्वरूपधृषे नमः
- ८४०ॐ द्विरूपाय नमः
- ८४१ॐ द्विभुजाय नमः
- ८४२ॐ द्व्यक्षाय नमः
- ८४३ॐ द्विरदाय नमः
- ८४४ॐ द्वीपरक्षकाय नमः
- ८४५ॐ द्वैमातुराय नमः
- ८४६ॐ द्विवदनाय नमः
- ८४७ॐ द्वन्द्वातीताय नमः
- ८४८ॐ द्वयातिगाय नमः
- ८४९ॐ त्रिधाम्ने नमः
- ८५०ॐ त्रिकराय नमः
- ८५१ॐ त्रेत्रे नमः
- ८५२ॐ त्रिवर्गफलदायकाय नमः
- ८५३ॐ त्रिगुणात्मने नमः
- ८५४ॐ त्रिलोकादये नमः
- ८५५ॐ त्रिशक्तीशाय नमः
- ८५६ॐ त्रिलोचनाय नमः
- ८५७ॐ चतुर्बाहवे नमः
- ८५८ॐ चतुर्दन्ताय नमः
- ८५९ॐ चतुरात्मने नमः
- ८६०ॐ चतुर्मुखाय नमः
- ८६१ॐ चतुर्विधोपायमयाय नमः
- ८६२ॐ चतुर्वर्णाश्रमाश्रयाय नमः
- ८६३ॐ चतुर्विधवचोवृत्तिपरिवृत्तिप्रवर्तकाय नमः
- ८६४ॐ चतुर्थीपूजनप्रीताय नमः
- ८६५ॐ चतुर्थीतिथिसम्भवाय नमः
- ८६६ॐ पञ्चाक्षरात्मने नमः
- ८६७ॐ पञ्चात्मने नमः
- ८६८ॐ पञ्चास्याय नमः
- ८६९ॐ पञ्चकृत्यकृते नमः
- ८७०ॐ पञ्चाधाराय नमः
- ८७१ॐ पञ्चवर्णाय नमः
- ८७२ॐ पञ्चाक्षरपरायणाय नमः
- ८७३ॐ पञ्चतालाय नमः
- ८७४ॐ पञ्चकराय नमः
- ८७५ॐ पञ्चप्रणवभाविताय नमः
- ८७६ॐ पञ्चब्रह्ममयस्फूर्तये नमः
- ८७७ॐ पञ्चावारणवारिताय नमः
- ८७८ॐ पञ्चभक्ष्यप्रियाय नमः
- ८७९ॐ पञ्चबाणाय नमः
- ८८०ॐ पञ्चशिवात्मकाय नमः
- ८८१ॐ षट्कोणपीठाय नमः
- ८८२ॐ षट्चक्रधाम्ने नमः
- ८८३ॐ षड्ग्रन्थिभेदकाय नमः
- ८८४ॐ षडध्वध्वान्तविध्वंसिने नमः
- ८८५ॐ षडङ्गुलमहाह्रदाय नमः
- ८८६ॐ षण्मुखाय नमः
- ८८७ॐ षण्मुखभ्रात्रे नमः
- ८८८ॐ षट्छक्तिपरिवारिताय नमः
- ८८९ॐ षड्वैरिवर्गविध्वंसिने नमः
- ८९०ॐ षडूर्मिभयभञ्जनाय नमः
- ८९१ॐ षट्तर्कदूराय नमः
- ८९२ॐ षट्कर्मनिरताय नमः
- ८९३ॐ षड्रसाश्रयाय नमः
- ८९४ॐ सप्तपातालचरणाय नमः
- ८९५ॐ सप्तद्वीपोरुमण्डलाय नमः
- ८९६ॐ सप्तस्वर्लोकमुकुटाय नमः
- ८९७ॐ सप्तसप्तिवरप्रदाय नमः
- ८९८ॐ सप्ताङ्गराज्यसुखदाय नमः
- ८९९ॐ सप्तर्षिगणमण्डिताय नमः
- ९००ॐ सप्तच्छन्दोनिधये नमः
- ९०१ॐ सप्तहोत्रे नमः
- ९०२ॐ सप्तस्वराश्रयाय नमः
- ९०३ॐ सप्ताब्धिकेलिकासाराय नमः
- ९०४ॐ सप्तमातृनिषेविताय नमः
- ९०५ॐ सप्तच्छन्दोमोदमदाय नमः
- ९०६ॐ सप्तच्छन्दसे नमः
- ९०७ॐ मखप्रियाय नमः
- ९०८ॐ अष्टमूर्तये नमः
- ९०९ॐ ध्येयमूर्तये नमः
- ९१०ॐ अष्टप्रकृतिकारणाय नमः
- ९११ॐ अष्टाङ्गयोगफलभुवे नमः
- ९१२ॐ अष्टपत्राम्बुजासनाय नमः
- ९१३ॐ अष्टशक्तिसमृद्धिश्रिये नमः
- ९१४ॐ अष्टैश्वर्यप्रदायकाय नमः
- ९१५ॐ अष्टपीठोपपीठश्रिये नमः
- ९१६ॐ अष्टमातृसमावृताय नमः
- ९१७ॐ अष्टभैरवसेव्याय नमः
- ९१८ॐ अष्टवसुवन्द्याय नमः
- ९१९ॐ अष्टमूर्तिभृते नमः
- ९२०ॐ अष्टचक्रस्फुरन्मूर्तये नमः
- ९२१ॐ अष्टद्रव्यहविःप्रियाय नमः
- ९२२ॐ नवनागासनाध्यासिने नमः
- ९२३ॐ नवविध्यनुशासित्रे नमः
- ९२४ॐ नवद्वारपुराधाराय नमः
- ९२५ॐ नवद्वारनिकेतनाय नमः
- ९२६ॐ नरनारायणस्तुत्याय नमः
- ९२७ॐ नवदुर्गानिषेविताय नमः
- ९२८ॐ नवनाथमहानाथाय नमः
- ९२९ॐ नवनागविभूषणाय नमः
- ९३०ॐ नवरत्नविचित्राङ्गाय नमः
- ९३१ॐ नवशक्तिशिरोधृताय नमः
- ९३२ॐ दशात्मकाय नमः
- ९३३ॐ दशभुजाय नमः
- ९३४ॐ दशदिक्पतिवन्दिताय नमः
- ९३५ॐ दशाध्यायाय नमः
- ९३६ॐ दशप्राणाय नमः
- ९३७ॐ दशेन्द्रियनियामकाय नमः
- ९३८ॐ दशाक्षरमहामन्त्राय नमः
- ९३९ॐ दशाशाव्याधिविग्रहाय नमः
- ९४०ॐ एकादशादिभिर्रुद्रैः संस्तुताय नमः
- ९४१ॐ एकादशाक्षराय नमः
- ९४२ॐ द्वादशोद्दण्डदोर्दण्डाय नमः
- ९४३ॐ द्वादशान्तनिकेतनाय नमः
- ९४४ॐ त्रयोदशभिदे नमः
- ९४५ॐ आभिन्नविश्वेदेवाधिदैवताय नमः
- ९४६ॐ चतुर्दशेन्द्रप्रभवाय नमः
- ९४७ॐ चतुर्दशमनुप्रभवे नमः
- ९४८ॐ चतुर्दशादिविद्याढ्याय नमः
- ९४९ॐ चतुर्दशजगत्प्रभवे नमः
- ९५०ॐ सामपञ्चदशाय नमः
- ९५१ॐ पञ्चदशीशीतांशुनिर्मलाय नमः
- ९५२ॐ षोडशाधारनिलयाय नमः
- ९५३ॐ षोडशस्वरमातृकाय नमः
- ९५४ॐ षोडशान्तपदावासाय नमः
- ९५५ॐ षोडशेन्दुकलात्मकाय नमः
- ९५६ॐ कलासप्तदशिने नमः
- ९५७ॐ सप्तदशाय नमः
- ९५८ॐ सप्तदशाक्षराय नमः
- ९५९ॐ अष्टादशद्वीपपतये नमः
- ९६०ॐ अष्टादशपुराणकृते नमः
- ९६१ॐ अष्टादशौषधीसृष्टये नमः
- ९६२ॐ अष्टादशविधिस्मृताय नमः
- ९६३ॐ अष्टादशलिपिव्यष्टिसमष्टिज्ञान- कोविदाय नमः
- ९६४ॐ एकविंशाय नमः
- ९६५ॐ पुंसे नमः
- ९६६ॐ एकविंशत्यङ्गुलिपल्लवाय नमः
- ९६७ॐ चतुर्विंशतितत्त्वात्मने नमः
- ९६८ॐ पञ्चविंशाख्यपूरुषाय नमः
- ९६९ॐ सप्तविंशतितारेशाय नमः
- ९७०ॐ सप्तविंशतियोगकृते नमः
- ९७१ॐ द्वात्रिंशद्भैरवाधीशाय नमः
- ९७२ॐ चतुस्त्रिंशन्महाह्रदाय नमः
- ९७३ॐ षट्त्रिंशत्तत्त्वसम्भूतये नमः
- ९७४ॐ अष्टत्रिंशत्कलातनवे नमः
- ९७५ॐ नमदेकोनपञ्चाशन्मरुद्वर्ग-निरर्गलाय नमः
- ९७६ॐ पञ्चाशदक्षरश्रेणये नमः
- ९७७ॐ पञ्चाशद्रुद्रविग्रहाय नमः
- ९७८ॐ पञ्चाशद्विष्णुशक्तीशाय नमः
- ९७९ॐ पञ्चाशन्मातृकालयाय नमः
- ९८०ॐ द्विपञ्चाशद्वपुश्रेणिने नमः
- ९८१ॐ त्रिषष्ट्यक्षरसंश्रयाय नमः
- ९८२ॐ चतुष्षष्ट्यर्णनिर्णेत्रे नमः
- ९८३ॐ चतुष्षष्टिकलानिधये नमः
- ९८४ॐ चतुःषष्टिमहासिद्धयोगिनी-वृन्दवन्दिताय नमः
- ९८५ॐ अष्टषष्टिमहातीर्थक्षेत्रभैरवभावनाय नमः
- ९८६ॐ चतुर्णवतिमन्त्रात्मने नमः
- ९८७ॐ षण्णवत्यधिकप्रभवे नमः
- ९८८ॐ शतानन्दाय नमः
- ९८९ॐ शतधृतये नमः
- ९९०ॐ शतपत्रायतेक्षणाय नमः
- ९९१ॐ शतानीकाय नमः
- ९९२ॐ शतमखाय नमः
- ९९३ॐ शतधारवरायुधाय नमः
- ९९४ॐ सहस्रपत्रनिलयाय नमः
- ९९५ॐ सहस्रफणभूषणाय नमः
- ९९६ॐ सहस्रशीर्ष्णे नमः
- ९९७ॐ पुरुषाय नमः
- ९९८ॐ सहस्राक्षाय नमः
- ९९९ॐ सहस्रपदे नमः
- १०००ॐ सहस्रनामसंस्तुत्याय नमः
- १००१ॐ सहस्राक्षबलापहाय नमः
- १००२ॐ दशसाहस्रफणिभृत्फणिराज-कृतासनाय नमः
- १००३ॐ अष्टाशीतिसहस्रौघ-महर्षिस्तोत्रयन्त्रिताय नमः
- १००४ॐ लक्षाधीशप्रियाधाराय नमः
- १००५ॐ लक्षाधीशमनोमयाय नमः
- १००६ॐ चतुर्लक्षजपप्रीताय नमः
- १००७ॐ चतुर्लक्षप्रकाशिताय नमः
- १००८ॐ चतुरशीतिलक्षाणां जीवानां देहसंस्थिताय नमः
- १००९ॐ कोटिसूर्यप्रतीकाशाय नमः
- १०१०ॐ कोटिचन्द्रांशुनिर्मलाय नमः
- १०११ॐ शिवाभवाध्युष्टकोटि-विनायकधुरन्धराय नमः
- १०१२ॐ सप्तकोटिमहामन्त्र-मन्त्रितावयवद्युतये नमः
- १०१३ॐ त्रयस्त्रिंशत्कोटिसुरश्रेणी-प्रणतपादुकाय नमः
- १०१४ॐ अनन्तदेवतासेव्याय नमः
- १०१५ॐ अनन्तशुभदायकाय नमः
- १०१६ॐ अनन्तनाम्ने नमः
- १०१७ॐ अनन्तश्रिये नमः
- १०१८ॐ अनन्तानन्तसौख्यदाय नमः
इति श्री-शाक्तप्रमोदान्तर्गतगणेशतन्त्रादुद्धृता श्री-वक्रतुण्ड-महागणपति-सहस्रनामावलिः सम्पूर्णा