ध्यानम्
गजवदनमचिन्त्यं तीक्ष्णदंष्ट्रं त्रिनेत्रं
बृहदुदरमशेषं भूतिराजं पुराणम् ।
अमरवरसुपूज्यं रक्तवर्णं सुरेशं
पशुपतिसुतमीशं विघ्नराजं नमामि ॥
रक्ताम्भोधिस्थपोतोल्लसदरुणसरोजाधिरुढं त्रिनेत्रं
पाशं चैवाङ्कुशाख्यं परशुमभयदं बाहुभिर्धारयन्तम् ।
शक्त्या युक्तं गजास्यं पृथुतरजठरं सिद्धिबुद्धीसमेतं
रक्तं चन्द्रार्धमौलिं सकलभयहरं विघ्नराजं नमामि ॥
- १ॐ गणेश्वराय नमः
- २ॐ गणक्रीडाय नमः
- ३ॐ गणनाथाय नमः
- ४ॐ गणाधिपाय नमः
- ५ॐ एकदंष्ट्राय नमः
- ६ॐ वक्रतुण्डाय नमः
- ७ॐ गजवक्त्राय नमः
- ८ॐ महोदराय नमः
- ९ॐ लम्बोदराय नमः
- १०ॐ धूम्रवर्णाय नमः
- ११ॐ विकटाय नमः
- १२ॐ विघ्ननायकाय नमः
- १३ॐ सुमुखाय नमः
- १४ॐ दुर्मुखाय नमः
- १५ॐ बुद्धाय नमः
- १६ॐ विघ्नराजाय नमः
- १७ॐ गजाननाय नमः
- १८ॐ भीमाय नमः
- १९ॐ प्रमोदाय नमः
- २०ॐ आमोदाय नमः
- २१ॐ सुरानन्दाय नमः
- २२ॐ मदोत्कटाय नमः
- २३ॐ हेरम्बाय नमः
- २४ॐ शम्बराय नमः
- २५ॐ शम्भवे नमः
- २६ॐ लम्बकर्णाय नमः
- २७ॐ महाबलाय नमः
- २८ॐ नन्दनाय नमः
- २९ॐ अलम्पटाय नमः
- ३०ॐ अभीरवे नमः
- ३१ॐ मेघनादाय नमः
- ३२ॐ गणञ्जयाय नमः
- ३३ॐ विनायकाय नमः
- ३४ॐ विरूपाक्षाय नमः
- ३५ॐ धीरशूराय नमः
- ३६ॐ वरप्रदाय नमः
- ३७ॐ महागणपतये नमः
- ३८ॐ बुद्धिप्रियाय नमः
- ३९ॐ क्षिप्रप्रसादनाय नमः
- ४०ॐ रुद्रप्रियाय नमः
- ४१ॐ गणाध्यक्षाय नमः
- ४२ॐ उमापुत्राय नमः
- ४३ॐ अघनाशनाय नमः
- ४४ॐ कुमारगुरवे नमः
- ४५ॐ ईशानपुत्राय नमः
- ४६ॐ मूषकवाहनाय नमः
- ४७ॐ सिद्धिप्रियाय नमः
- ४८ॐ सिद्धिपतये नमः
- ४९ॐ सिद्धये नमः
- ५०ॐ सिद्धिविनायकाय नमः
- ५१ॐ अविघ्नाय नमः
- ५२ॐ तुम्बुरवे नमः
- ५३ॐ सिंहवाहनाय नमः
- ५४ॐ मोहिनीप्रियाय नमः
- ५५ॐ कटङ्कटाय नमः
- ५६ॐ राजपुत्राय नमः
- ५७ॐ शालकाय नमः
- ५८ॐ सम्मिताय नमः
- ५९ॐ अमिताय नमः
- ६०ॐ कूष्माण्ड सामसम्भूतये नमः
- ६१ॐ दुर्जयाय नमः
- ६२ॐ धूर्जयाय नमः
- ६३ॐ जयाय नमः
- ६४ॐ भूपतये नमः
- ६५ॐ भुवनपतये नमः
- ६६ॐ भूतानां पतये नमः
- ६७ॐ अव्ययाय नमः
- ६८ॐ विश्वकर्त्रे नमः
- ६९ॐ विश्वमुखाय नमः
- ७०ॐ विश्वरूपाय नमः
- ७१ॐ निधये नमः
- ७२ॐ घृणये नमः
- ७३ॐ कवये नमः
- ७४ॐ कवीनामृषभाय नमः
- ७५ॐ ब्रह्मण्याय नमः
- ७६ॐ ब्रह्मणस्पतये नमः
- ७७ॐ ज्येष्ठराजाय नमः
- ७८ॐ निधिपतये नमः
- ७९ॐ निधिप्रियपतिप्रियाय नमः
- ८०ॐ हिरण्मयपुरान्तःस्थाय नमः
- ८१ॐ सूर्यमण्डलमध्यगाय नमः
- ८२ॐ कराहतिविध्वस्तसिन्धुसलिलाय नमः
- ८३ॐ पूषदंतभिदे नमः
- ८४ॐ उमाङ्ककेलिकुतुकिने नमः
- ८५ॐ मुक्तिदाय नमः
- ८६ॐ कुलपालनाय नमः
- ८७ॐ किरीटिने नमः
- ८८ॐ कुण्डलिने नमः
- ८९ॐ हारिणे नमः
- ९०ॐ वनमालिने नमः
- ९१ॐ मनोमयाय नमः
- ९२ॐ वैमुख्यहतदैत्यश्रिये नमः
- ९३ॐ पादाहतिजितक्षितये नमः
- ९४ॐ सद्योजातस्वर्णमुञ्जमेखलिने नमः
- ९५ॐ दुर्निमित्तहृते नमः
- ९६ॐ दुःस्वप्नहृते नमः
- ९७ॐ प्रसहनाय नमः
- ९८ॐ गुणिने नमः
- ९९ॐ नादप्रतिष्ठिताय नमः
- १००ॐ सुरूपाय नमः
- १०१ॐ सर्वनेत्राधिवासाय नमः
- १०२ॐ वीरासनाश्रयाय नमः
- १०३ॐ पीताम्बराय नमः
- १०४ॐ खण्डरदाय नमः
- १०५ॐ खण्डेन्दुकृतशेखराय नमः
- १०६ॐ चित्राङ्कश्यामदशनाय नमः
- १०७ॐ भालचन्द्राय नमः
- १०८ॐ चतुर्भुजाय नमः
- १०९ॐ योगाधिपाय नमः
- ११०ॐ तारकस्थाय नमः
- १११ॐ पुरुषाय नमः
- ११२ॐ गजकर्णाय नमः
- ११३ॐ गणाधिराजाय नमः
- ११४ॐ विजयस्थिराय नमः
- ११५ॐ गजपतिर्ध्वजिने नमः
- ११६ॐ देवदेवाय नमः
- ११७ॐ स्मरप्राणदीपकाय नमः
- ११८ॐ वायुकीलकाय नमः
- ११९ॐ विपश्चिद् वरदाय नमः
- १२०ॐ नादोन्नादभिन्नबलाहकाय नमः
- १२१ॐ वराहरदनाय नमः
- १२२ॐ मृत्युंजयाय नमः
- १२३ॐ व्याघ्राजिनाम्बराय नमः
- १२४ॐ इच्छाशक्तिधराय नमः
- १२५ॐ देवत्रात्रे नमः
- १२६ॐ दैत्यविमर्दनाय नमः
- १२७ॐ शम्भुवक्त्रोद्भवाय नमः
- १२८ॐ शम्भुकोपघ्ने नमः
- १२९ॐ शम्भुहास्यभुवे नमः
- १३०ॐ शम्भुतेजसे नमः
- १३१ॐ शिवाशोकहारिणे नमः
- १३२ॐ गौरीसुखावहाय नमः
- १३३ॐ उमाङ्गमलजाय नमः
- १३४ॐ गौरीतेजोभुवे नमः
- १३५ॐ स्वर्धुनीभवाय नमः
- १३६ॐ यज्ञकायाय नमः
- १३७ॐ महानादाय नमः
- १३८ॐ गिरिवर्ष्मणे नमः
- १३९ॐ शुभाननाय नमः
- १४०ॐ सर्वात्मने नमः
- १४१ॐ सर्वदेवात्मने नमः
- १४२ॐ ब्रह्ममूर्ध्ने नमः
- १४३ॐ ककुप् श्रुतये नमः
- १४४ॐ ब्रह्माण्डकुम्भाय नमः
- १४५ॐ चिद् व्योमभालाय नमः
- १४६ॐ सत्यशिरोरुहाय नमः
- १४७ॐ जगज्जन्मलयोन्मेषनिमेषाय नमः
- १४८ॐ अग्न्यर्कसोमदृशे नमः
- १४९ॐ गिरीन्द्रैकरदाय नमः
- १५०ॐ धर्माधर्मोष्ठाय नमः
- १५१ॐ सामबृंहिताय नमः
- १५२ॐ ग्रहर्क्षदशनाय नमः
- १५३ॐ वाणीजिह्वाय नमः
- १५४ॐ वासवनासिकाय नमः
- १५५ॐ कुलाचलांसाय नमः
- १५६ॐ सोमार्कघण्टाय नमः
- १५७ॐ रुद्रशिरोधराय नमः
- १५८ॐ नदीनदभुजाय नमः
- १५९ॐ सर्पाङ्गुलीकाय नमः
- १६०ॐ तारकानखाय नमः
- १६१ॐ भ्रूमध्यसंस्थितकराय नमः
- १६२ॐ ब्रह्मविद्यामदोत्कटाय नमः
- १६३ॐ व्योमनाभये नमः
- १६४ॐ श्रीहृदयाय नमः
- १६५ॐ मेरुपृष्ठाय नमः
- १६६ॐ अर्णवोदराय नमः
- १६७ॐ कुक्षिस्थयक्षगन्धर्व रक्षःकिन्नरमानुषाय नमः
- १६८ॐ पृथ्विकटये नमः
- १६९ॐ सृष्टिलिङ्गाय नमः
- १७०ॐ शैलोरवे नमः
- १७१ॐ दस्रजानुकाय नमः
- १७२ॐ पातालजंघाय नमः
- १७३ॐ मुनिपदे नमः
- १७४ॐ कालाङ्गुष्ठाय नमः
- १७५ॐ त्रयीतनवे नमः
- १७६ॐ ज्योतिर्मण्डललांगूलाय नमः
- १७७ॐ हृदयालाननिश्चलाय नमः
- १७८ॐ हृत्पद्मकर्णिकाशालिवियत्केलिसरोवराय नमः
- १७९ॐ सद्भक्तध्याननिगडाय नमः
- १८०ॐ पूजावारिनिवारिताय नमः
- १८१ॐ प्रतापिने नमः
- १८२ॐ कश्यपसुताय नमः
- १८३ॐ गणपाय नमः
- १८४ॐ विष्टपिने नमः
- १८५ॐ बलिने नमः
- १८६ॐ यशस्विने नमः
- १८७ॐ धार्मिकाय नमः
- १८८ॐ स्वोजसे नमः
- १८९ॐ प्रथमाय नमः
- १९०ॐ प्रथमेश्वराय नमः
- १९१ॐ चिन्तामणिद्वीप पतये नमः
- १९२ॐ कल्पद्रुमवनालयाय नमः
- १९३ॐ रत्नमण्डपमध्यस्थाय नमः
- १९४ॐ रत्नसिंहासनाश्रयाय नमः
- १९५ॐ तीव्राशिरोद्धृतपदाय नमः
- १९६ॐ ज्वालिनीमौलिलालिताय नमः
- १९७ॐ नन्दानन्दितपीठश्रिये नमः
- १९८ॐ भोगदाभूषितासनाय नमः
- १९९ॐ सकामदायिनीपीठाय नमः
- २००ॐ स्फुरदुग्रासनाश्रयाय नमः
- २०१ॐ तेजोवतीशिरोरत्नाय नमः
- २०२ॐ सत्यानित्यावतंसिताय नमः
- २०३ॐ सविघ्ननाशिनीपीठाय नमः
- २०४ॐ सर्वशक्त्यम्बुजाश्रयाय नमः
- २०५ॐ लिपिपद्मासनाधाराय नमः
- २०६ॐ वह्निधामत्रयाश्रयाय नमः
- २०७ॐ उन्नतप्रपदाय नमः
- २०८ॐ गूढगुल्फाय नमः
- २०९ॐ संवृतपार्ष्णिकाय नमः
- २१०ॐ पीनजंघाय नमः
- २११ॐ श्लिष्टजानवे नमः
- २१२ॐ स्थूलोरवे नमः
- २१३ॐ प्रोन्नमत्कटये नमः
- २१४ॐ निम्ननाभये नमः
- २१५ॐ स्थूलकुक्षये नमः
- २१६ॐ पीनवक्षसे नमः
- २१७ॐ बृहद्भुजाय नमः
- २१८ॐ पीनस्कन्धाय नमः
- २१९ॐ कम्बुकण्ठाय नमः
- २२०ॐ लम्बोष्ठाय नमः
- २२१ॐ लम्बनासिकाय नमः
- २२२ॐ भग्नवामरदाय नमः
- २२३ॐ तुङ्गसव्यदन्ताय नमः
- २२४ॐ महाहनवे नमः
- २२५ॐ ह्रस्वनेत्रत्रयाय नमः
- २२६ॐ शूर्पकर्णाय नमः
- २२७ॐ निबिडमस्तकाय नमः
- २२८ॐ स्तबकाकारकुम्भाग्राय नमः
- २२९ॐ रत्नमौलये नमः
- २३०ॐ निरङ्कुशाय नमः
- २३१ॐ सर्पहारकटिसूत्राय नमः
- २३२ॐ सर्पयज्ञोपवीतये नमः
- २३३ॐ सर्पकोटीरकटकाय नमः
- २३४ॐ सर्पग्रैवेयकाङ्गदाय नमः
- २३५ॐ सर्पकक्ष्योदराबन्धाय नमः
- २३६ॐ सर्पराजोत्तरीयकाय नमः
- २३७ॐ रक्ताय नमः
- २३८ॐ रक्ताम्बरधराय नमः
- २३९ॐ रक्तमाल्यविभूषणाय नमः
- २४०ॐ रक्तेक्षणाय नमः
- २४१ॐ रक्तकराय नमः
- २४२ॐ रक्तताल्वोष्ठपल्लवाय नमः
- २४३ॐ श्वेताय नमः
- २४४ॐ श्वेताम्बरधराय नमः
- २४५ॐ श्वेतमाल्यविभूषणाय नमः
- २४६ॐ श्वेतातपत्ररुचिराय नमः
- २४७ॐ श्वेतचामरवीजिताय नमः
- २४८ॐ सर्वावयवसम्पूर्णसर्वलक्षणलक्षिताय नमः
- २४९ॐ सर्वाभरणशोभाढ्याय नमः
- २५०ॐ सर्वशोभासमन्विताय नमः
- २५१ॐ सर्वमङ्गलमाङ्गल्याय नमः
- २५२ॐ सर्वकारणकारणाय नमः
- २५३ॐ सर्वदैककराय नमः
- २५४ॐ शार्ङ्गिणे नमः
- २५५ॐ बीजापूरिणे नमः
- २५६ॐ गदाधराय नमः
- २५७ॐ इक्षुचापधराय नमः
- २५८ॐ शूलिने नमः
- २५९ॐ चक्रपाणये नमः
- २६०ॐ सरोजभृते नमः
- २६१ॐ पाशिने नमः
- २६२ॐ धृतोत्पलाय नमः
- २६३ॐ शालीमञ्जरीभृते नमः
- २६४ॐ स्वदन्तभृते नमः
- २६५ॐ कल्पवल्लीधराय नमः
- २६६ॐ विश्वाभयदैककराय नमः
- २६७ॐ वशिने नमः
- २६८ॐ अक्षमालाधराय नमः
- २६९ॐ ज्ञानमुद्रावते नमः
- २७०ॐ मुद्गरायुधाय नमः
- २७१ॐ पूर्णपात्रिणे नमः
- २७२ॐ कम्बुधराय नमः
- २७३ॐ विधृतालिसमुद्गकाय नमः
- २७४ॐ मातुलिङ्गधराय नमः
- २७५ॐ चूतकलिकाभृते नमः
- २७६ॐ कुठारवते नमः
- २७७ॐ पुष्करस्थस्वर्णघटीपूर्णरत्नाभिवर्षकाय नमः
- २७८ॐ भारतीसुन्दरीनाथाय नमः
- २७९ॐ विनायकरतिप्रियाय नमः
- २८०ॐ महालक्ष्मी प्रियतमाय नमः
- २८१ॐ सिद्धलक्ष्मीमनोरमाय नमः
- २८२ॐ रमारमेशपूर्वाङ्गाय नमः
- २८३ॐ दक्षिणोमामहेश्वराय नमः
- २८४ॐ महीवराहवामाङ्गाय नमः
- २८५ॐ रविकन्दर्पपश्चिमाय नमः
- २८६ॐ आमोदप्रमोदजननाय नमः
- २८७ॐ सप्रमोदप्रमोदनाय नमः
- २८८ॐ समेधितसमृद्धिश्रिये नमः
- २८९ॐ ऋद्धिसिद्धिप्रवर्तकाय नमः
- २९०ॐ दत्तसौख्यसुमुखाय नमः
- २९१ॐ कान्तिकन्दलिताश्रयाय नमः
- २९२ॐ मदनावत्याश्रितांघ्रये नमः
- २९३ॐ कृत्तदौर्मुख्यदुर्मुखाय नमः
- २९४ॐ विघ्नसम्पल्लवोपघ्नाय नमः
- २९५ॐ सेवोन्निद्रमदद्रवाय नमः
- २९६ॐ विघ्नकृन्निघ्नचरणाय नमः
- २९७ॐ द्राविणीशक्ति सत्कृताय नमः
- २९८ॐ तीव्राप्रसन्ननयनाय नमः
- २९९ॐ ज्वालिनीपालतैकदृशे नमः
- ३००ॐ मोहिनीमोहनाय नमः
- ३०१ॐ भोगदायिनीकान्तिमण्डिताय नमः
- ३०२ॐ कामिनीकान्तवक्त्रश्रिये नमः
- ३०३ॐ अधिष्ठित वसुन्धराय नमः
- ३०४ॐ वसुन्धरामदोन्नद्धमहाशङ्खनिधिप्रभवे नमः
- ३०५ॐ नमद्वसुमतीमौलिमहापद्मनिधिप्रभवे नमः
- ३०६ॐ सर्वसद्गुरुसंसेव्याय नमः
- ३०७ॐ शोचिष्केशहृदाश्रयाय नमः
- ३०८ॐ ईशानमूर्ध्ने नमः
- ३०९ॐ देवेन्द्रशिखायै नमः
- ३१०ॐ पवननन्दनाय नमः
- ३११ॐ अग्रप्रत्यग्रनयनाय नमः
- ३१२ॐ दिव्यास्त्राणां प्रयोगविदे नमः
- ३१३ॐ ऐरावतादिसर्वाशावारणावरणप्रियाय नमः
- ३१४ॐ वज्राद्यस्त्रपरिवाराय नमः
- ३१५ॐ गणचण्डसमाश्रयाय नमः
- ३१६ॐ जयाजयापरिवाराय नमः
- ३१७ॐ विजयाविजयावहाय नमः
- ३१८ॐ अजितार्चितपादाब्जाय नमः
- ३१९ॐ नित्यानित्यावतंसिताय नमः
- ३२०ॐ विलासिनीकृतोल्लासाय नमः
- ३२१ॐ शौण्डीसौन्दर्यमण्डिताय नमः
- ३२२ॐ अनन्तानन्तसुखदाय नमः
- ३२३ॐ सुमङ्गलसुमङ्गलाय नमः
- ३२४ॐ इच्छाशक्तिज्ञानशक्तिक्रियाशक्तिनिषेविताय नमः
- ३२५ॐ सुभगासंश्रितपदाय नमः
- ३२६ॐ ललिताललिताश्रयाय नमः
- ३२७ॐ कामिनीकामनाय नमः
- ३२८ॐ काममालिनीकेलिललिताय नमः
- ३२९ॐ सरस्वत्याश्रयाय नमः
- ३३०ॐ गौरीनन्दनाय नमः
- ३३१ॐ श्रीनिकेतनाय नमः
- ३३२ॐ गुरुगुप्तपदाय नमः
- ३३३ॐ वाचासिद्धाय नमः
- ३३४ॐ वागीश्वरीपतये नमः
- ३३५ॐ नलिनीकामुकाय नमः
- ३३६ॐ वामारामाय नमः
- ३३७ॐ ज्येष्ठामनोरमाय नमः
- ३३८ॐ रौद्रिमुद्रितपादाब्जाय नमः
- ३३९ॐ हुंबीजाय नमः
- ३४०ॐ तुङ्गशक्तिकाय नमः
- ३४१ॐ विश्वादिजननत्राणाय नमः
- ३४२ॐ स्वाहाशक्तये नमः
- ३४३ॐ सकीलकाय नमः
- ३४४ॐ अमृताब्धिकृतावासाय नमः
- ३४५ॐ मदघूर्णितलोचनाय नमः
- ३४६ॐ उच्छिष्टगणाय नमः
- ३४७ॐ उच्छिष्टगणेशाय नमः
- ३४८ॐ गणनायकाय नमः
- ३४९ॐ सर्वकालिकसंसिद्धये नमः
- ३५०ॐ नित्यशैवाय नमः
- ३५१ॐ दिगम्बराय नमः
- ३५२ॐ अनपाय नमः
- ३५३ॐ अनन्तदृष्टये नमः
- ३५४ॐ अप्रमेयाय नमः
- ३५५ॐ अजरामराय नमः
- ३५६ॐ अनाविलाय नमः
- ३५७ॐ अप्रतिरथाय नमः
- ३५८ॐ अच्युताय नमः
- ३५९ॐ अमृताय नमः
- ३६०ॐ अक्षराय नमः
- ३६१ॐ अप्रतर्क्याय नमः
- ३६२ॐ अक्षयाय नमः
- ३६३ॐ अजय्याय नमः
- ३६४ॐ अनाधाराय नमः
- ३६५ॐ अनामयाय नमः
- ३६६ॐ अमलाय नमः
- ३६७ॐ अमोघसिद्धये नमः
- ३६८ॐ अद्वैताय नमः
- ३६९ॐ अघोराय नमः
- ३७०ॐ अप्रमिताननाय नमः
- ३७१ॐ अनाकाराय नमः
- ३७२ॐ अब्धिभूम्याग्निबलघ्नाय नमः
- ३७३ॐ अव्यक्तलक्षणाय नमः
- ३७४ॐ आधारपीठाय नमः
- ३७५ॐ आधाराय नमः
- ३७६ॐ आधाराधेयवर्जिताय नमः
- ३७७ॐ आखुकेतनाय नमः
- ३७८ॐ आशापूरकाय नमः
- ३७९ॐ आखुमहारथाय नमः
- ३८०ॐ इक्षुसागरमध्यस्थाय नमः
- ३८१ॐ इक्षुभक्षणलालसाय नमः
- ३८२ॐ इक्षुचापातिरेकश्रिये नमः
- ३८३ॐ इक्षुचापनिषेविताय नमः
- ३८४ॐ इन्द्रगोपसमानश्रिये नमः
- ३८५ॐ इन्द्रनीलसमद्युतये नमः
- ३८६ॐ इन्दिवरदलश्यामाय नमः
- ३८७ॐ इन्दुमण्डलनिर्मलाय नमः
- ३८८ॐ इष्मप्रियाय नमः
- ३८९ॐ इडाभागाय नमः
- ३९०ॐ इराधाम्ने नमः
- ३९१ॐ इन्दिराप्रियाय नमः
- ३९२ॐ इक्ष्वाकुविघ्नविध्वंसिने नमः
- ३९३ॐ इतिकर्तव्यतेप्सिताय नमः
- ३९४ॐ ईशानमौलये नमः
- ३९५ॐ ईशानाय नमः
- ३९६ॐ ईशानसुताय नमः
- ३९७ॐ ईतिघ्ने नमः
- ३९८ॐ ईषणात्रयकल्पान्ताय नमः
- ३९९ॐ ईहामात्रविवर्जिताय नमः
- ४००ॐ उपेन्द्राय नमः
- ४०१ॐ उडुभृन्मौलये नमः
- ४०२ॐ उण्डेरकबलिप्रियाय नमः
- ४०३ॐ उन्नताननाय नमः
- ४०४ॐ उत्तुङ्गाय नमः
- ४०५ॐ उदारत्रिदशाग्रण्ये नमः
- ४०६ॐ उर्जस्वते नमः
- ४०७ॐ उष्मलमदाय नमः
- ४०८ॐ ऊहापोहदुरासदाय नमः
- ४०९ॐ ऋग्यजुस्सामसम्भूतये नमः
- ४१०ॐ ऋद्धिसिद्धिप्रवर्तकाय नमः
- ४११ॐ ऋजुचित्तैकसुलभाय नमः
- ४१२ॐ ऋणत्रयमोचकाय नमः
- ४१३ॐ स्वभक्तानां लुप्तविघ्नाय नमः
- ४१४ॐ सुरद्विषांलुप्तशक्तये नमः
- ४१५ॐ विमुखार्चानां लुप्तश्रिये नमः
- ४१६ॐ लूताविस्फोटनाशनाय नमः
- ४१७ॐ एकारपीठमध्यस्थाय नमः
- ४१८ॐ एकपादकृतासनाय नमः
- ४१९ॐ एजिताखिलदैत्यश्रिये नमः
- ४२०ॐ एधिताखिलसंश्रयाय नमः
- ४२१ॐ ऐश्वर्यनिधये नमः
- ४२२ॐ ऐश्वर्याय नमः
- ४२३ॐ ऐहिकामुष्मिकप्रदाय नमः
- ४२४ॐ ऐरम्मदसमोन्मेषाय नमः
- ४२५ॐ ऐरावतनिभाननाय नमः
- ४२६ॐ ओंकारवाच्याय नमः
- ४२७ॐ ओंकाराय नमः
- ४२८ॐ ओजस्वते नमः
- ४२९ॐ ओषधीपतये नमः
- ४३०ॐ औदार्यनिधये नमः
- ४३१ॐ औद्धत्यधुर्याय नमः
- ४३२ॐ औन्नत्यनिस्स्वनाय नमः
- ४३३ॐ सुरनागानामङ्कुशाय नमः
- ४३४ॐ सुरविद्विषामङ्कुशाय नमः
- ४३५ॐ अःसमस्तविसर्गान्तपदेषु परिकीर्तिताय नमः
- ४३६ॐ कमण्डलुधराय नमः
- ४३७ॐ कल्पाय नमः
- ४३८ॐ कपर्दिने नमः
- ४३९ॐ कलभाननाय नमः
- ४४०ॐ कर्मसाक्षिणे नमः
- ४४१ॐ कर्मकर्त्रे नमः
- ४४२ॐ कर्माकर्मफलप्रदाय नमः
- ४४३ॐ कदम्बगोलकाकाराय नमः
- ४४४ॐ कूष्माण्डगणनायकाय नमः
- ४४५ॐ कारुण्यदेहाय नमः
- ४४६ॐ कपिलाय नमः
- ४४७ॐ कथकाय नमः
- ४४८ॐ कटिसूत्रभृते नमः
- ४४९ॐ खर्वाय नमः
- ४५०ॐ खड्गप्रियाय नमः
- ४५१ॐ खड्गखान्तान्तः स्थाय नमः
- ४५२ॐ खनिर्मलाय नमः
- ४५३ॐ खल्वाटशृंगनिलयाय नमः
- ४५४ॐ खट्वाङ्गिने नमः
- ४५५ॐ खदुरासदाय नमः
- ४५६ॐ गुणाढ्याय नमः
- ४५७ॐ गहनाय नमः
- ४५८ॐ ग-स्थाय नमः
- ४५९ॐ गद्यपद्यसुधार्णवाय नमः
- ४६०ॐ गद्यगानप्रियाय नमः
- ४६१ॐ गर्जाय नमः
- ४६२ॐ गीतगीर्वाणपूर्वजाय नमः
- ४६३ॐ गुह्याचाररताय नमः
- ४६४ॐ गुह्याय नमः
- ४६५ॐ गुह्यागमनिरूपिताय नमः
- ४६६ॐ गुहाशयाय नमः
- ४६७ॐ गुहाब्धिस्थाय नमः
- ४६८ॐ गुरुगम्याय नमः
- ४६९ॐ गुरोर्गुरवे नमः
- ४७०ॐ घण्टाघर्घरिकामालिने नमः
- ४७१ॐ घटकुम्भाय नमः
- ४७२ॐ घटोदराय नमः
- ४७३ॐ चण्डाय नमः
- ४७४ॐ चण्डेश्वरसुहृदे नमः
- ४७५ॐ चण्डीशाय नमः
- ४७६ॐ चण्डविक्रमाय नमः
- ४७७ॐ चराचरपतये नमः
- ४७८ॐ चिन्तामणिचर्वणलालसाय नमः
- ४७९ॐ छन्दसे नमः
- ४८०ॐ छन्दोवपुषे नमः
- ४८१ॐ छन्दोदुर्लक्ष्याय नमः
- ४८२ॐ छन्दविग्रहाय नमः
- ४८३ॐ जगद्योनये नमः
- ४८४ॐ जगत्साक्षिणे नमः
- ४८५ॐ जगदीशाय नमः
- ४८६ॐ जगन्मयाय नमः
- ४८७ॐ जपाय नमः
- ४८८ॐ जपपराय नमः
- ४८९ॐ जप्याय नमः
- ४९०ॐ जिह्वासिंहासनप्रभवे नमः
- ४९१ॐ झलज्झलोल्लसद्दान झंकारिभ्रमराकुलाय नमः
- ४९२ॐ टङ्कारस्फारसंरावाय नमः
- ४९३ॐ टङ्कारिमणिनूपुराय नमः
- ४९४ॐ ठद्वयीपल्लवान्तःस्थ सर्वमन्त्रैकसिद्धिदाय नमः
- ४९५ॐ डिण्डिमुण्डाय नमः
- ४९६ॐ डाकिनीशाय नमः
- ४९७ॐ डामराय नमः
- ४९८ॐ डिण्डिमप्रियाय नमः
- ४९९ॐ ढक्कानिनादमुदिताय नमः
- ५००ॐ ढौकाय नमः
- ५०१ॐ ढुण्ढिविनायकाय नमः
- ५०२ॐ तत्त्वानां परमाय तत्त्वाय नमः
- ५०३ॐ तत्त्वम्पदनिरूपिताय नमः
- ५०४ॐ तारकान्तरसंस्थानाय नमः
- ५०५ॐ तारकाय नमः
- ५०६ॐ तारकान्तकाय नमः
- ५०७ॐ स्थाणवे नमः
- ५०८ॐ स्थाणुप्रियाय नमः
- ५०९ॐ स्थात्रे नमः
- ५१०ॐ स्थावराय जङ्गमाय जगते नमः
- ५११ॐ दक्षयज्ञप्रमथनाय नमः
- ५१२ॐ दात्रे नमः
- ५१३ॐ दानवमोहनाय नमः
- ५१४ॐ दयावते नमः
- ५१५ॐ दिव्यविभवाय नमः
- ५१६ॐ दण्डभृते नमः
- ५१७ॐ दण्डनायकाय नमः
- ५१८ॐ दन्तप्रभिन्नाभ्रमालाय नमः
- ५१९ॐ दैत्यवारणदारणाय नमः
- ५२०ॐ दंष्ट्रालग्नद्विपघटाय नमः
- ५२१ॐ देवार्थनृगजाकृतये नमः
- ५२२ॐ धनधान्यपतये नमः
- ५२३ॐ धन्याय नमः
- ५२४ॐ धनदाय नमः
- ५२५ॐ धरणीधराय नमः
- ५२६ॐ ध्यानैकप्रकटाय नमः
- ५२७ॐ ध्येयाय नमः
- ५२८ॐ ध्यानाय नमः
- ५२९ॐ ध्यानपरायणाय नमः
- ५३०ॐ नन्द्याय नमः
- ५३१ॐ नन्दिप्रियाय नमः
- ५३२ॐ नादाय नमः
- ५३३ॐ नादमध्यप्रतिष्ठिताय नमः
- ५३४ॐ निष्कलाय नमः
- ५३५ॐ निर्मलाय नमः
- ५३६ॐ नित्याय नमः
- ५३७ॐ नित्यानित्याय नमः
- ५३८ॐ निरामयाय नमः
- ५३९ॐ परस्मै व्योम्ने नमः
- ५४०ॐ परस्मै धाम्मे नमः
- ५४१ॐ परमात्मने नमः
- ५४२ॐ परस्मै पदाय नमः
- ५४३ॐ परात्पराय नमः
- ५४४ॐ पशुपतये नमः
- ५४५ॐ पशुपाशविमोचकाय नमः
- ५४६ॐ पूर्णानन्दाय नमः
- ५४७ॐ परानन्दाय नमः
- ५४८ॐ पुराणपुरुषोत्तमाय नमः
- ५४९ॐ पद्मप्रसन्ननयनाय नमः
- ५५०ॐ प्रणताज्ञानमोचकाय नमः
- ५५१ॐ प्रमाणप्रत्यायातीताय नमः
- ५५२ॐ प्रणतार्तिनिवारणाय नमः
- ५५३ॐ फलहस्ताय नमः
- ५५४ॐ फणिपतये नमः
- ५५५ॐ फेत्काराय नमः
- ५५६ॐ फणितप्रियाय नमः
- ५५७ॐ बाणार्चितांघ्रियुगुलाय नमः
- ५५८ॐ बालकेलिकुतूहलिने नमः
- ५५९ॐ ब्रह्मणे नमः
- ५६०ॐ ब्रह्मार्चितपदाय नमः
- ५६१ॐ ब्रह्मचारिणे नमः
- ५६२ॐ बृहस्पतये नमः
- ५६३ॐ बृहत्तमाय नमः
- ५६४ॐ ब्रह्मपराय नमः
- ५६५ॐ ब्रह्मण्याय नमः
- ५६६ॐ ब्रह्मवित्प्रियाय नमः
- ५६७ॐ बृहन्नादाग्र्यचीत्काराय नमः
- ५६८ॐ ब्रह्माण्डावलिमेखलाय नमः
- ५६९ॐ भ्रूक्षेपदत्तलक्ष्मीकाय नमः
- ५७०ॐ भर्गाय नमः
- ५७१ॐ भद्राय नमः
- ५७२ॐ भयापहाय नमः
- ५७३ॐ भगवते नमः
- ५७४ॐ भक्तिसुलभाय नमः
- ५७५ॐ भूतिदाय नमः
- ५७६ॐ भूतिभूषणाय नमः
- ५७७ॐ भव्याय नमः
- ५७८ॐ भूतालयाय नमः
- ५७९ॐ भोगदात्रे नमः
- ५८०ॐ भ्रूमध्यगोचराय नमः
- ५८१ॐ मन्त्राय नमः
- ५८२ॐ मन्त्रपतये नमः
- ५८३ॐ मन्त्रिणे नमः
- ५८४ॐ मदमत्तमनोरमाय नमः
- ५८५ॐ मेखलावते नमः
- ५८६ॐ मन्दगतये नमः
- ५८७ॐ मतिमत्कमलेक्षणाय नमः
- ५८८ॐ महाबलाय नमः
- ५८९ॐ महावीर्याय नमः
- ५९०ॐ महाप्राणाय नमः
- ५९१ॐ महामनसे नमः
- ५९२ॐ यज्ञाय नमः
- ५९३ॐ यज्ञपतये नमः
- ५९४ॐ यज्ञगोप्ते नमः
- ५९५ॐ यज्ञफलप्रदाय नमः
- ५९६ॐ यशस्कराय नमः
- ५९७ॐ योगगम्याय नमः
- ५९८ॐ याज्ञिकाय नमः
- ५९९ॐ याजकप्रियाय नमः
- ६००ॐ रसाय नमः
- ६०१ॐ रसप्रियाय नमः
- ६०२ॐ रस्याय नमः
- ६०३ॐ रञ्जकाय नमः
- ६०४ॐ रावणार्चिताय नमः
- ६०५ॐ रक्षोरक्षाकराय नमः
- ६०६ॐ रत्नगर्भाय नमः
- ६०७ॐ राज्यसुखप्रदाय नमः
- ६०८ॐ लक्ष्याय नमः
- ६०९ॐ लक्ष्यप्रदाय नमः
- ६१०ॐ लक्ष्याय नमः
- ६११ॐ लयस्थाय नमः
- ६१२ॐ लड्डुकप्रियाय नमः
- ६१३ॐ लानप्रियाय नमः
- ६१४ॐ लास्यपराय नमः
- ६१५ॐ लाभकृल्लोकविश्रुताय नमः
- ६१६ॐ वरेण्याय नमः
- ६१७ॐ वह्निवदनाय नमः
- ६१८ॐ वन्द्याय नमः
- ६१९ॐ वेदान्तगोचराय नमः
- ६२०ॐ विकर्त्रे नमः
- ६२१ॐ विश्वतश्चक्षुषे नमः
- ६२२ॐ विधात्रे नमः
- ६२३ॐ विश्वतोमुखाय नमः
- ६२४ॐ वामदेवाय नमः
- ६२५ॐ विश्वनेते नमः
- ६२६ॐ वज्रिवज्रनिवारणाय नमः
- ६२७ॐ विश्वबन्धनविष्कम्भाधाराय नमः
- ६२८ॐ विश्वेश्वरप्रभवे नमः
- ६२९ॐ शब्दब्रह्मणे नमः
- ६३०ॐ शमप्राप्याय नमः
- ६३१ॐ शम्भुशक्तिगणेश्वराय नमः
- ६३२ॐ शास्त्रे नमः
- ६३३ॐ शिखाग्रनिलयाय नमः
- ६३४ॐ शरण्याय नमः
- ६३५ॐ शिखरीश्वराय नमः
- ६३६ॐ षड् ऋतुकुसुमस्रग्विणे नमः
- ६३७ॐ षडाधाराय नमः
- ६३८ॐ षडक्षराय नमः
- ६३९ॐ संसारवैद्याय नमः
- ६४०ॐ सर्वज्ञाय नमः
- ६४१ॐ सर्वभेषजभेषजाय नमः
- ६४२ॐ सृष्टिस्थितिलयक्रीडाय नमः
- ६४३ॐ सुरकुञ्जरभेदनाय नमः
- ६४४ॐ सिन्दूरितमहाकुम्भाय नमः
- ६४५ॐ सदसद् व्यक्तिदायकाय नमः
- ६४६ॐ साक्षिणे नमः
- ६४७ॐ समुद्रमथनाय नमः
- ६४८ॐ स्वसंवेद्याय नमः
- ६४९ॐ स्वदक्षिणाय नमः
- ६५०ॐ स्वतन्त्राय नमः
- ६५१ॐ सत्यसङ्कल्पाय नमः
- ६५२ॐ सामगानरताय नमः
- ६५३ॐ सुखिने नमः
- ६५४ॐ हंसाय नमः
- ६५५ॐ हस्तिपिशाचीशाय नमः
- ६५६ॐ हवनाय नमः
- ६५७ॐ हव्यकव्यभुजे नमः
- ६५८ॐ हव्याय नमः
- ६५९ॐ हुतप्रियाय नमः
- ६६०ॐ हर्षाय नमः
- ६६१ॐ हृल्लेखामन्त्रमध्यगाय नमः
- ६६२ॐ क्षेत्राधिपाय नमः
- ६६३ॐ क्षमाभर्त्रे नमः
- ६६४ॐ क्षमापरपरायणाय नमः
- ६६५ॐ क्षिप्रक्षेमकराय नमः
- ६६६ॐ क्षेमानन्दाय नमः
- ६६७ॐ क्षोणीसुरद्रुमाय नमः
- ६६८ॐ धर्मप्रदाय नमः
- ६६९ॐ अर्थदाय नमः
- ६७०ॐ कामदात्रे नमः
- ६७१ॐ सौभाग्यवर्धनाय नमः
- ६७२ॐ विद्याप्रदाय नमः
- ६७३ॐ विभवदाय नमः
- ६७४ॐ भुक्तिमुक्तिफलप्रदाय नमः
- ६७५ॐ अभिरूप्यकराय नमः
- ६७६ॐ वीरश्रीप्रदाय नमः
- ६७७ॐ विजयप्रदाय नमः
- ६७८ॐ सर्ववश्यकराय नमः
- ६७९ॐ गर्भदोषघ्ने नमः
- ६८०ॐ पुत्रपौत्रदाय नमः
- ६८१ॐ मेधादाय नमः
- ६८२ॐ कीर्तिदाय नमः
- ६८३ॐ शोकहारिणे नमः
- ६८४ॐ दौर्भाग्यनाशनाय नमः
- ६८५ॐ प्रतिवादिमुखस्तम्भाय नमः
- ६८६ॐ रुष्टचित्तप्रसादनाय नमः
- ६८७ॐ पराभिचारशमनाय नमः
- ६८८ॐ दुःखभञ्जनकारकाय नमः
- ६८९ॐ लवाय नमः
- ६९०ॐ त्रुटये नमः
- ६९१ॐ कलायै नमः
- ६९२ॐ काष्टायै नमः
- ६९३ॐ निमेषाय नमः
- ६९४ॐ तत्पराय नमः
- ६९५ॐ क्षणाय नमः
- ६९६ॐ घट्यै नमः
- ६९७ॐ मुहूर्ताय नमः
- ६९८ॐ प्रहराय नमः
- ६९९ॐ दिवा नमः
- ७००ॐ नक्तं नमः
- ७०१ॐ अहर्निशं नमः
- ७०२ॐ पक्षाय नमः
- ७०३ॐ मासाय नमः
- ७०४ॐ अयनाय नमः
- ७०५ॐ वर्षाय नमः
- ७०६ॐ युगाय नमः
- ७०७ॐ कल्पाय नमः
- ७०८ॐ महालयाय नमः
- ७०९ॐ राशये नमः
- ७१०ॐ तारायै नमः
- ७११ॐ तिथये नमः
- ७१२ॐ योगाय नमः
- ७१३ॐ वाराय नमः
- ७१४ॐ करणाय नमः
- ७१५ॐ अंशकाय नमः
- ७१६ॐ लग्नाय नमः
- ७१७ॐ होरायै नमः
- ७१८ॐ कालचक्राय नमः
- ७१९ॐ मेरवे नमः
- ७२०ॐ सप्तर्षिभ्यो नमः
- ७२१ॐ ध्रुवाय नमः
- ७२२ॐ राहवे नमः
- ७२३ॐ मन्दाय नमः
- ७२४ॐ कवये नमः
- ७२५ॐ जीवाय नमः
- ७२६ॐ बुधाय नमः
- ७२७ॐ भौमाय नमः
- ७२८ॐ शशिने नमः
- ७२९ॐ रवये नमः
- ७३०ॐ कालाय नमः
- ७३१ॐ सृष्टये नमः
- ७३२ॐ स्थितये नमः
- ७३३ॐ विश्वस्मै स्थावराय जङ्गमाय नमः
- ७३४ॐ भुवे नमः
- ७३५ॐ अद्भ्यो नमः
- ७३६ॐ अग्नये नमः
- ७३७ॐ मरुते नमः
- ७३८ॐ व्योम्ने नमः
- ७३९ॐ अहंकृतये नमः
- ७४०ॐ प्रकृतये नमः
- ७४१ॐ पुंसे नमः
- ७४२ॐ ब्रह्मणे नमः
- ७४३ॐ विष्णवे नमः
- ७४४ॐ शिवाय नमः
- ७४५ॐ रुद्राय नमः
- ७४६ॐ ईशाय नमः
- ७४७ॐ शक्तये नमः
- ७४८ॐ सदाशिवाय नमः
- ७४९ॐ त्रिदशेभ्यो नमः
- ७५०ॐ पितृभ्यो नमः
- ७५१ॐ सिद्धेभ्यो नमः
- ७५२ॐ यक्षेभ्यो नमः
- ७५३ॐ रक्षोभ्यो नमः
- ७५४ॐ किन्नरेभ्यो नमः
- ७५५ॐ साध्येभ्यो नमः
- ७५६ॐ विद्याधरेभ्यो नमः
- ७५७ॐ भूतेभ्यो नमः
- ७५८ॐ मनुष्येभ्यो नमः
- ७५९ॐ पशुभ्यो नमः
- ७६०ॐ खगेभ्यो नमः
- ७६१ॐ समुद्रेभ्यो नमः
- ७६२ॐ सरिद्भ्यो नमः
- ७६३ॐ शैलेभ्यो नमः
- ७६४ॐ भूताय नमः
- ७६५ॐ भव्याय नमः
- ७६६ॐ भवोद्भवाय नमः
- ७६७ॐ साङ्ख्याय नमः
- ७६८ॐ पातञ्जलाय नमः
- ७६९ॐ योगाय नमः
- ७७०ॐ पुराणेभ्यो नमः
- ७७१ॐ श्रुत्यै नमः
- ७७२ॐ स्मृत्यै नमः
- ७७३ॐ वेदाङ्गेभ्यो नमः
- ७७४ॐ सदाचाराय नमः
- ७७५ॐ मीमांसायै नमः
- ७७६ॐ न्यायविस्तराय नमः
- ७७७ॐ आयुर्वेदाय नमः
- ७७८ॐ धनुर्वेदीय नमः
- ७७९ॐ गान्धर्वाय नमः
- ७८०ॐ काव्यनाटकाय नमः
- ७८१ॐ वैखानसाय नमः
- ७८२ॐ भागवताय नमः
- ७८३ॐ सात्वताय नमः
- ७८४ॐ पाञ्चरात्रकाय नमः
- ७८५ॐ शैवाय नमः
- ७८६ॐ पाशुपताय नमः
- ७८७ॐ कालामुखाय नमः
- ७८८ॐ भैरवशासनाय नमः
- ७८९ॐ शाक्ताय नमः
- ७९०ॐ वैनायकाय नमः
- ७९१ॐ सौराय नमः
- ७९२ॐ जैनाय नमः
- ७९३ॐ आर्हत सहितायै नमः
- ७९४ॐ सते नमः
- ७९५ॐ असते नमः
- ७९६ॐ व्यक्ताय नमः
- ७९७ॐ अव्यक्ताय नमः
- ७९८ॐ सचेतनाय नमः
- ७९९ॐ अचेतनाय नमः
- ८००ॐ बन्धाय नमः
- ८०१ॐ मोक्षाय नमः
- ८०२ॐ सुखाय नमः
- ८०३ॐ भोगाय नमः
- ८०४ॐ अयोगाय नमः
- ८०५ॐ सत्याय नमः
- ८०६ॐ अणवे नमः
- ८०७ॐ महते नमः
- ८०८ॐ स्वस्ति नमः
- ८०९ॐ हुम् नमः
- ८१०ॐ फट् नमः
- ८११ॐ स्वधा नमः
- ८१२ॐ स्वाहा नमः
- ८१३ॐ श्रौषण्णमः नमः
- ८१४ॐ वौषण्णमः नमः
- ८१५ॐ वषण्णमः नमः
- ८१६ॐ नमो नमः
- ८१७ॐ ज्ञानाय नमः
- ८१८ॐ विज्ञानाय नमः
- ८१९ॐ आनंदाय नमः
- ८२०ॐ बोधाय नमः
- ८२१ॐ संविदे नमः
- ८२२ॐ शमाय नमः
- ८२३ॐ यमाय नमः
- ८२४ॐ एकस्मै नमः
- ८२५ॐ एकाक्षराधाराय नमः
- ८२६ॐ एकाक्षरपरायणाय नमः
- ८२७ॐ एकाग्रधिये नमः
- ८२८ॐ एकवीराय नमः
- ८२९ॐ एकानेकस्वरूपधृते नमः
- ८३०ॐ द्विरूपाय नमः
- ८३१ॐ द्विभुजाय नमः
- ८३२ॐ द्व्यक्षाय नमः
- ८३३ॐ द्विरदाय नमः
- ८३४ॐ द्विपरक्षकाय नमः
- ८३५ॐ द्वैमातुराय नमः
- ८३६ॐ द्विवदनाय नमः
- ८३७ॐ द्वन्द्वातीताय नमः
- ८३८ॐ द्व्यातीगाय नमः
- ८३९ॐ त्रिधाम्ने नमः
- ८४०ॐ त्रिकराय नमः
- ८४१ॐ त्रेतात्रिवर्गफलदायकाय नमः
- ८४२ॐ त्रिगुणात्मने नमः
- ८४३ॐ त्रिलोकादये नमः
- ८४४ॐ त्रिशक्तिशाय नमः
- ८४५ॐ त्रिलोचनाय नमः
- ८४६ॐ चतुर्बाहवे नमः
- ८४७ॐ चतुर्दन्ताय नमः
- ८४८ॐ चतुरात्मने नमः
- ८४९ॐ चतुर्मुखाय नमः
- ८५०ॐ चतुर्विधोपायमयाय नमः
- ८५१ॐ चतुर्वर्णाश्रमाश्रयाय नमः
- ८५२ॐ चतुर्विधवचोवृत्तिपरिवृत्तिप्रवर्तकाय नमः
- ८५३ॐ चतुर्थीपूजनप्रीताय नमः
- ८५४ॐ चतुर्थीतिथिसम्भवाय नमः
- ८५५ॐ पञ्चाक्षरात्मने नमः
- ८५६ॐ पञ्चात्मने नमः
- ८५७ॐ पञ्चास्याय नमः
- ८५८ॐ पञ्चकृत्यकृते नमः
- ८५९ॐ पञ्चाधाराय नमः
- ८६०ॐ पञ्चवर्णाय नमः
- ८६१ॐ पञ्चाक्षरपरायणाय नमः
- ८६२ॐ पञ्चतालाय नमः
- ८६३ॐ पञ्चकराय नमः
- ८६४ॐ पञ्चप्रणवभाविताय नमः
- ८६५ॐ पञ्चब्रह्ममयस्फूर्तये नमः
- ८६६ॐ पञ्चावरणवारिताय नमः
- ८६७ॐ पञ्चभक्ष्यप्रियाय नमः
- ८६८ॐ पञ्चबाणाय नमः
- ८६९ॐ पञ्चशिवात्मकाय नमः
- ८७०ॐ षट्कोणपीठाय नमः
- ८७१ॐ षट्चक्रधाम्ने नमः
- ८७२ॐ षड्ग्रन्थिभेदकाय नमः
- ८७३ॐ षडध्वध्वान्तविध्वंसिने नमः
- ८७४ॐ षडङ्गुलमहाह्रदाय नमः
- ८७५ॐ षण्मुखाय नमः
- ८७६ॐ षण्मुखभ्रात्रे नमः
- ८७७ॐ षट्शक्तिपरिवारिताय नमः
- ८७८ॐ षड्वैरिवर्गविध्वंसिने नमः
- ८७९ॐ षडूर्मिमयभञ्जनाय नमः
- ८८०ॐ षट्तर्कदूराय नमः
- ८८१ॐ षट्कर्मनिरताय नमः
- ८८२ॐ षड्रसाश्रयाय नमः
- ८८३ॐ सप्तपातालचरणाय नमः
- ८८४ॐ सप्तद्वीपोरुमण्डलाय नमः
- ८८५ॐ सप्तस्वर्लोकमुकुटाय नमः
- ८८६ॐ सप्तसाप्तिवरप्रदाय नमः
- ८८७ॐ सप्तांगराज्यसुखदाय नमः
- ८८८ॐ सप्तर्षिगणमण्डिताय नमः
- ८८९ॐ सप्तछन्दोनिधये नमः
- ८९०ॐ सप्तहोत्रे नमः
- ८९१ॐ सप्तस्वराश्रयाय नमः
- ८९२ॐ सप्ताब्धिकेलिकासाराय नमः
- ८९३ॐ सप्तमातृनिषेविताय नमः
- ८९४ॐ सप्तछन्दो मोदमदाय नमः
- ८९५ॐ सप्तछन्दोमखप्रभवे नमः
- ८९६ॐ अष्टमूर्तिध्येयमूर्तये नमः
- ८९७ॐ अष्टप्रकृतिकारणाय नमः
- ८९८ॐ अष्टाङ्गयोगफलभुवे नमः
- ८९९ॐ अष्टपत्राम्बुजासनाय नमः
- ९००ॐ अष्टशक्तिसमृद्धश्रिये नमः
- ९०१ॐ अष्टैश्वर्यप्रदायकाय नमः
- ९०२ॐ अष्टपीठोपपीठश्रिये नमः
- ९०३ॐ अष्टमातृसमावृताय नमः
- ९०४ॐ अष्टभैरवसेव्याय नमः
- ९०५ॐ अष्टवसुवन्द्याय नमः
- ९०६ॐ अष्टमूर्तिभृते नमः
- ९०७ॐ अष्टचक्रस्फूरन्मूर्तये नमः
- ९०८ॐ अष्टद्रव्यहविः प्रियाय नमः
- ९०९ॐ नवनागासनाध्यासिने नमः
- ९१०ॐ नवनिध्यनुशासिताय नमः
- ९११ॐ नवद्वारपुराधाराय नमः
- ९१२ॐ नवाधारनिकेतनाय नमः
- ९१३ॐ नवनारायणस्तुत्याय नमः
- ९१४ॐ नवदुर्गा निषेविताय नमः
- ९१५ॐ नवनाथमहानाथाय नमः
- ९१६ॐ नवनागविभूषणाय नमः
- ९१७ॐ नवरत्नविचित्राङ्गाय नमः
- ९१८ॐ नवशक्तिशिरोधृताय नमः
- ९१९ॐ दशात्मकाय नमः
- ९२०ॐ दशभुजाय नमः
- ९२१ॐ दशदिक्पतिवन्दिताय नमः
- ९२२ॐ दशाध्यायाय नमः
- ९२३ॐ दशप्राणाय नमः
- ९२४ॐ दशेन्द्रियनियामकाय नमः
- ९२५ॐ दशाक्षरमहामन्त्राय नमः
- ९२६ॐ दशाशाव्यापिविग्रहाय नमः
- ९२७ॐ एकादशादिभीरुद्रैः स्तुताय नमः
- ९२८ॐ एकादशाक्षराय नमः
- ९२९ॐ द्वादशोद्दण्डदोर्दण्डाय नमः
- ९३०ॐ द्वादशान्तनिकेतनाय नमः
- ९३१ॐ त्रयोदशाभिदाभिन्नविश्वेदेवाधिदैवताय नमः
- ९३२ॐ चतुर्दशेन्द्रवरदाय नमः
- ९३३ॐ चतुर्दशमनुप्रभवे नमः
- ९३४ॐ चतुर्दशादिविद्याढ्याय नमः
- ९३५ॐ चतुर्दशजगत्प्रभवे नमः
- ९३६ॐ सामपञ्चदशाय नमः
- ९३७ॐ पञ्चदशीशीतांशुनिर्मलाय नमः
- ९३८ॐ षोडशाधारनिलयाय नमः
- ९३९ॐ षोडशस्वरमातृकाय नमः
- ९४०ॐ षोडशान्त पदावासाय नमः
- ९४१ॐ षोडशेन्दुकलात्मकाय नमः
- ९४२ॐ कलायैसप्तदश्यै नमः
- ९४३ॐ सप्तदशाय नमः
- ९४४ॐ सप्तदशाक्षराय नमः
- ९४५ॐ अष्टादशद्वीप पतये नमः
- ९४६ॐ अष्टादशपुराणकृते नमः
- ९४७ॐ अष्टादशौषधीसृष्टये नमः
- ९४८ॐ अष्टादशविधिस्मृताय नमः
- ९४९ॐ अष्टादशलिपिव्यष्टिसमष्टिज्ञानकोविदाय नमः
- ९५०ॐ एकविंशाय पुंसे नमः
- ९५१ॐ एकविंशत्यङ्गुलिपल्लवाय नमः
- ९५२ॐ चतुर्विंशतितत्वात्मने नमः
- ९५३ॐ पञ्चविंशाख्यपुरुषाय नमः
- ९५४ॐ सप्तविंशतितारेशाय नमः
- ९५५ॐ सप्तविंशति योगकृते नमः
- ९५६ॐ द्वात्रिंशद्भैरवाधीशाय नमः
- ९५७ॐ चतुस्त्रिंशन्महाह्रदाय नमः
- ९५८ॐ षट् त्रिंशत्तत्त्वसंभूतये नमः
- ९५९ॐ अष्टात्रिंशकलातनवे नमः
- ९६०ॐ नमदेकोनपञ्चाशन्मरुद्वर्गनिरर्गलाय नमः
- ९६१ॐ पञ्चाशदक्षरश्रेण्यै नमः
- ९६२ॐ पञ्चाशद् रुद्रविग्रहाय नमः
- ९६३ॐ पञ्चाशद् विष्णुशक्तीशाय नमः
- ९६४ॐ पञ्चाशन्मातृकालयाय नमः
- ९६५ॐ द्विपञ्चाशद्वपुःश्रेण्यै नमः
- ९६६ॐ त्रिषष्ट्यक्षरसंश्रयाय नमः
- ९६७ॐ चतुषष्ट्यर्णनिर्णेत्रे नमः
- ९६८ॐ चतुःषष्टिकलानिधये नमः
- ९६९ॐ चतुःषष्टिमहासिद्धयोगिनीवृन्दवन्दिताय नमः
- ९७०ॐ अष्टषष्टिमहातीर्थक्षेत्रभैरवभावनाय नमः
- ९७१ॐ चतुर्नवतिमन्त्रात्मने नमः
- ९७२ॐ षण्णवत्यधिकप्रभवे नमः
- ९७३ॐ शतानन्दाय नमः
- ९७४ॐ शतधृतये नमः
- ९७५ॐ शतपत्रायतेक्षणाय नमः
- ९७६ॐ शतानीकाय नमः
- ९७७ॐ शतमखाय नमः
- ९७८ॐ शतधारावरायुधाय नमः
- ९७९ॐ सहस्रपत्रनिलयाय नमः
- ९८०ॐ सहस्रफणभूषणाय नमः
- ९८१ॐ सहस्रशीर्ष्णे पुरुषाय नमः
- ९८२ॐ सहस्राक्षाय नमः
- ९८३ॐ सहस्रपदे नमः
- ९८४ॐ सहस्रनाम संस्तुत्याय नमः
- ९८५ॐ सहस्राक्षबलापहाय नमः
- ९८६ॐ दशसहस्रफणभृत्फणिराजकृतासनाय नमः
- ९८७ॐ अष्टाशीतिसहस्राद्यमहर्षि स्तोत्रयन्त्रिताय नमः
- ९८८ॐ लक्षाधीशप्रियाधाराय नमः
- ९८९ॐ लक्ष्याधारमनोमयाय नमः
- ९९०ॐ चतुर्लक्षजपप्रीताय नमः
- ९९१ॐ चतुर्लक्षप्रकाशिताय नमः
- ९९२ॐ चतुरशीतिलक्षाणां जीवानां देहसंस्थिताय नमः
- ९९३ॐ कोटिसूर्यप्रतीकाशाय नमः
- ९९४ॐ कोटिचन्द्रांशुनिर्मलाय नमः
- ९९५ॐ शिवाभवाध्युष्टकोटिविनायकधुरन्धराय नमः
- ९९६ॐ सप्तकोटिमहामन्त्रमन्त्रितावयवद्युतये नमः
- ९९७ॐ त्रयस्रिंशत्कोटिसुरश्रेणीप्रणतपादुकाय नमः
- ९९८ॐ अनन्तनाम्ने नमः
- ९९९ॐ अनन्तश्रिये नमः
- १०००ॐ अनन्तानन्तसौख्यदाय नमः
इति गणेशपुराणे उपासनाखण्डे षट्चत्वारिंशोऽध्याये श्रीगणपतिसहस्रनामावलिः समाप्ता