मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

सप्तमोऽध्यायः

3
पराशरस्मृतिः · 7

अथातो द्रव्यशुद्धिस्तु पराशरवचो यथा

दारवाणां पात्राणां तक्षणाच्छुद्धिरिष्यते

॥१॥

भस्मना शुध्यते कांस्यं ताम्रमम्लेन शुध्यति

रजसा शुध्यते नारी विकलं या न गच्छति

॥२॥

नदी वेगेन शुध्येत लोपो यदि न दृश्यते

वापीकूपतडागेषु दूषितेषु कथंचन

॥३॥

उद्धृत्य वै घटशतं पञ्चगव्येन शुध्यति

अष्टवर्षा भवेद्गौरी नववर्षा तु रोहिणी

॥४॥

दशवर्षा भवेत्कन्या अत ऊर्ध्वं रजस्वला

प्राप्ते तु द्वादशे वर्षे यः कन्यां न प्रयच्छति

॥५॥

मासि मासि रजस्तस्याः पिबन्ति पितरः स्वयम्

माता चैव पिता चैव ज्येष्ठो भ्राता तथैव च

॥६॥

त्रयस्ते नरकं यान्ति दृष्ट्वा कन्यां रजस्वलाम्

यस्तां समुद्वहेत्कन्यां ब्राह्मणो मदमोहितः

॥७॥

असंभाष्यो ह्यपाङ्क्तेयः स विप्रो वृषलीपतिः

यः करोत्येकरात्रेण वृषलीसेवनं द्विजः

॥८॥

स भैक्षभुज्जपन्नित्यं त्रिभिर्वर्षैर्विशुध्यति

अस्तंगते यदा सूर्ये चण्डालं पतितं स्त्रियम्

॥९॥

सूतिकां स्पृशतश्चैव कथं शुद्धिर्विधीयते

जातवेदः सुवर्णं च सोममार्गं विलोक्य च

॥१०॥

ब्राह्मणानुमतश्चैव स्नानं कृत्वा विशुध्यति

स्पृष्ट्वा रजस्वलान्योन्यं ब्राह्मणी ब्राह्मणी तथा

॥११॥

तावत्तिष्ठेन्निराहारा त्रिरात्रेणैव शुध्यति

स्पृष्ट्वा रजस्वलान्योन्यं ब्राह्मणी क्षत्रिया तथा

॥१२॥

अर्धकृच्छ्रं चरेत्पूर्वा पादमेकमनन्तरा

स्पृष्ट्वा रजस्वलान्योन्यं ब्राह्मणी वैश्यजा तथा

॥१३॥

पादहीनं चरेत्पूर्वा पादमेकमनन्तरा

स्पृष्ट्वा रजस्वलान्योन्यं ब्राह्मणी शूद्रजा तथा

॥१४॥

कृच्छ्रेण शुध्यते पूर्वा शूद्रा दानेन शुध्यति

स्नाता रजस्वला या तु चतुर्थेऽहनि शुध्यति

॥१५॥

कुर्याद्रजो निवृत्तौ तु दैवपित्र्यादि कर्म च

रोगेण यद्रजः स्त्रीणामन्वहं तु प्रवर्तते

॥१६॥

नाशुचिः सा ततस्तेन तत्स्याद्वैकालिकं मतम्

साध्वाचारा न तावत्स्याद्रजो यावत्प्रवर्तते

॥१७॥

रजोनिवृत्तौ गम्या स्त्री गृहकर्मणि चैव हि

प्रथमेऽहनि चण्डाली द्वितीये ब्रह्मघातिनी

॥१८॥

तृतीये रजकी प्रोक्ता चतुर्थेऽहनि शुध्यति

आतुरे स्नानोत्पन्ने दशकृत्वो ह्यनातुरः

॥१९॥

स्नात्वा स्नात्वा स्पृशेदेनं ततः शुध्येत्स आतुरः

उच्छिष्टोच्छिष्टसंस्पृष्टः शुना शूद्रेण वा द्विजः

॥२०॥

उपोष्य रजनीमेकां पञ्चगव्येन शुध्यति

अनुच्छिष्टेन शूद्रेण स्पर्शे स्नानं विधीयते

॥२१॥

तेनोच्छिष्टेन संस्पृष्टः प्राजापत्यं समाचरेत्

भस्मना शुध्यते कांस्यं सुरया यन्न लिप्यते

॥२२॥

सुरामात्रेण संस्पृष्टं शुध्यतेऽग्न्युपलेखनैः

गवाघ्रातानि कांस्यानि श्वकाकोपहतानि च

॥२३॥

शुध्यन्ति दशभिः क्षारैः शूद्रोच्छिष्टानि यानि च

गण्डूषं पादशौचं च कृत्वा वै कांस्यभाजने

॥२४॥

षण्मासान्भुवि निःक्षिप्य उद्धृत्य पुनराहरेत्

आयसेष्वायसानां च सीसस्याग्नौ विशोधनम्

॥२५॥

दन्तमस्थि तथा भृङ्गं रूप्यं सौवर्णभाजनम्

मणिपाषाणपात्राणीत्येतान्प्रक्षालयेज्जलैः

॥२६॥

पाषाणे तु पुनर्घर्षः शुद्धिरेवमुदाहृता

मृण्मये दहनाच्छुद्धिर्धान्यानां मार्जनादपि

॥२७॥

वेणुवल्कलचीराणां क्षौमकार्पासवाससाम्

और्णनेत्रपटानां च प्रोक्षणाच्छुद्धिरिष्यते

॥२८॥

मुञ्जोपस्करशूर्पाणां शणस्य फलचर्मणाम्

तृणकाष्ठस्य रज्जूणामुदकाभ्युक्षणं मतम्

॥२९॥

तूलिकाद्युपधानानि रक्तवस्त्रादिकानि च

शोषयित्वातपेनैव प्रोक्षणाच्छुद्धितामियुः

॥३०॥

मार्जारमक्षिकाकीटपतङ्गकृमिदर्दुराः

मेध्यामेध्यं स्पृशन्तोऽपि नोच्छिष्टं मनुरब्रवीत्

॥३१॥

महीं स्पृष्ट्वागतं तोयं याश्चाप्यन्योन्यविप्रुषः

भुक्तोच्छिष्टं तथा स्नेहं नोच्छिष्टं मनुरब्रवीत्

॥३२॥

ताम्बूलेक्षुफले चैव भुक्तस्नेहानुलेपने

मधुपर्के च सोमे च नोच्छिष्टं धर्मतो विदुः

॥३३॥

रथ्याकर्दमतोयानि नावः पन्थास्तृणानि च

मारुतार्केण शुध्यन्ति पक्वेष्टकचितानि च

॥३४॥

अदुष्टा संतता धारा वातोद्धूताश्च रेणवः

स्त्रियो वृद्धाश्च बालाश्च न दुष्यन्ति कदाचन

॥३५॥

देशभङ्गे प्रवासे वा व्याधिषु व्यसनेष्वपि

रक्षेदेव स्वदेहादिपश्चाद्धर्मं समाचरेत्

॥३६॥

येन केन च धर्मेण मृदुना दारुणेन वा

उद्धरेद्दीनमात्मानं समर्थो धर्ममाचरेत्

॥३७॥

आपत्काले तु निस्तीर्णे शौचाचारं तु चिन्तयेत्

शुद्धिं समुद्धरेत्पश्चात्स्वस्थो धर्मं समाचरेत्

॥३८॥