मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

चतुर्थोऽध्यायः

3
पराशरस्मृतिः · 4

अतिमानादतिक्रोधात्स्नेहाद्वा यदि वा भयात्

उद्बध्नीयात्स्त्री पुमान्वा गतिरेषा विधीयते

॥१॥

पूयशोणितसंपूर्णे त्वन्धे तमसि मज्जति

षष्ठीर्वर्षसहस्राणि नरकं प्रतिपद्यते

॥२॥

नाशौचं नोदकं नाग्निं नाश्रुपातं च कारयेत्

वोढारोऽग्निप्रदातारः पाशच्छेदकरास्तथा

॥३॥

तप्तकृच्छ्रेण शुध्यन्तीत्येवमाह प्रजापतिः

गोभिर्हतं तथोद्बद्धं ब्राह्मणेन तु घातितम्

॥४॥

संस्पृशन्ति तु ये विप्रा वोढारश्चाग्निदाश्च ये

अन्ये ये वानुगन्तारः पाशच्छेदकराश्च ये

॥५॥

तप्तकृच्छ्रेण शुद्धास्ते कुर्युर्ब्राह्मणभोजनम्

अनडुत्सहितां गां च दद्युर्विप्राय दक्षिणाम्

॥६॥

त्र्यहमुष्णं पिबेद्वारि त्र्यहमुष्णं पयः पिबेत्

त्र्यहमुष्णं पिबेत्सर्पिर्वायुभक्षो दिनत्रयम्

॥७॥

षट्पलं तु पिबेदम्भस्त्रिपलं तु पयः पिबेत्

पलमेकं पिबेत्सर्पिस्तप्तकृच्छ्रं विधीयते

॥८॥

यो वै समाचरेद्विप्रः पतितादिष्वकामतः

पञ्चाहं वा दशाहं वा द्वादशाहमथापि वा

॥९॥

मासार्धं मासमेकं वा मासद्वयमथापि वा

अब्दार्धमब्दमेकं वा तदूर्ध्वं चैव तत्समः

॥१०॥

त्रिरात्रं प्रथमे पक्षे द्वितीये कृच्छ्रमाचरेत्

तृतीये चैव पक्षे तु कृच्छ्रं सांतपनं चरेत्

॥११॥

चतुर्थे दशरात्रं स्यात्पराकः पञ्चमे मतः

कुर्याच्चान्द्रायणं षष्ठे सप्तमे त्वैन्दवद्वयम्

॥१२॥

शुद्ध्यर्थमष्टमे चैव षण्मासान्कृच्छ्रमाचरेत्

पक्षसंख्याप्रमाणेन सुवर्णान्यपि दक्षिणा

॥१३॥

ऋतुस्नाता तु या नारी भर्तारं नोपसर्पति

सा मृता नरकं याति विधवा च पुनः पुनः

॥१४॥

ऋतुस्नातां तु यो भार्यां संनिधौ नोपगच्छति

घोरायां भ्रूणहत्यायां युज्यते नात्र संशयः

॥१५॥

दरिद्रं व्याधितं मूर्खं भर्तारं यावमन्यते

सा शुनी जायते मृत्वा सूकरी च पुनः पुनः

॥१६॥

पत्यौ जीवति या नारी उपोष्य व्रतमाचरेत्

आयुष्यं हरते भर्तुः सा नारी नरकं व्रजेत्

॥१७॥

अपृष्ट्वा चैव भर्तारं या नारी कुरुते व्रतम्

सर्वं तद्राक्षसान्गच्छेदित्येवं मनुरब्रवीत्

॥१८॥

बान्धवानां सजातीनां दुर्वृत्तं कुरुते तु या

गर्भपातं च या कुर्यान्न तां संभाषयेत्क्वचित्

॥१९॥

यत्पापं ब्रह्महत्यायां द्विगुणं गर्भपातने

प्रायश्चित्तं न तस्याः स्यात्तस्यास्त्यागो विधीयते

॥२०॥

न कार्यमावसथ्येन नाग्निहोत्रेण वा पुनः

स भवेत्कर्मचाण्डालो यस्तु धर्मपराङ्मुखः

॥२१॥

ओघवाताहृतं बीजं यस्य क्षेत्रे प्ररोहति

स क्षेत्री लभते बीजं न बीजी भागमर्हति

॥२२॥

तद्वत्परस्त्रियाः पुत्रौ द्वौ स्मृतौ कुण्डगोलकौ

पत्यौ जीवति कुण्डः स्यात्मृते भर्तरि गोलकः

॥२३॥

औरसः क्षेत्रजश्चैव दत्तः कृत्रिमकः सुतः

दद्यान्माता पिता वापि स पुत्रो दत्तको भवेत्

॥२४॥

परिवित्तिः परिवेत्ता यया च परिविद्यते

सर्वे ते नरकं यान्ति दातृयाजकपञ्चमाः

॥२५॥

द्वौ कृच्छ्रौ परिवित्तेस्तु कन्यायाः कृच्छ्र एव च

कृच्छ्रातिकृच्छ्रौ दातुस्तु होता चान्द्रायणं चरेत्

॥२६॥

कुब्जवामनषण्ढेषु गद्गदेषु जडेषु च

जात्यन्धे बधिरे मूके न दोषः परिवेदने

॥२७॥

पितृव्यपुत्रः सापत्नः परनारीसुतस्तथा

दाराग्निहोत्रसम्योगे न दोषः परिवेदने

॥२८॥

ज्येष्ठो भ्राता यदा तिष्ठेदाधानं नैव कारयेत्

अनुज्ञातस्तु कुर्वीत शङ्खस्य वचनं यथा

॥२९॥

नष्टे मृते प्रव्रजिते क्लीबे च पतिते पतौ

पञ्चस्वापत्सु नारीणां पतिरन्यो विधीयते

॥३०॥

मृते भर्तरि या नारी ब्रह्मचर्यव्रते स्थिता

सा मृता लभते स्वर्गं यथा ते ब्रह्मचारिणः

॥३१॥

तिस्रः कोट्योऽर्धकोटी च यानि रोमाणि मानुषे

तावत्कालं वसेत्स्वर्गे भर्तारं यानुगच्छति

॥३२॥

व्यालग्राही यथा व्यालं बलादुद्धरते बिलात्

एवं स्त्री पतिमुद्धृत्य तेनैव सह मोदते

॥३३॥