मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

षष्ठोऽध्यायः

3
पराशरस्मृतिः · 6

अतः परं प्रवक्ष्यामि प्राणिहत्यासु निष्कृतिम्

पराशरेन पूर्वोक्ता मन्वर्थेऽपि च विस्तृताम्

॥१॥

क्रौञ्चसारसहंसांश्च चक्रवाकं च कुक्कुटम्

जालपादं च शरभमहोरात्रेण शुध्यति

॥२॥

बलाकाटिट्टिभौ वापि शुकपारावतावपि

अहिनक्रविघाती च शुध्यते नक्तभोजनात्

॥३॥

वृककाककपोतानां शारितित्तिरिघातकः

अन्तर्जल उभे संध्ये प्राणायामेन शुध्यति

॥४॥

गृध्रश्येनशशादानामुलूकस्य च घातकः

अपक्वाशी दिनं तिष्ठेत्त्रिकालं मारुताशनः

॥५॥

वल्गुणीटिट्टिभानां च कोकिलाखञ्जरीटके

लाविकारक्तपक्षेषु शुध्यते नक्तभोजनात्

॥६॥

कारण्डवचकोराणां पिङ्गलाकुररस्य च

भारद्वाजादिकं हत्वा शिवं पूज्य विशुध्यति

॥७॥

भेरुण्डचाषभासांश्च पारावतकपिञ्जलौ

पक्षिणां चैव सर्वेषामहोरात्रमभोजनम्

॥८॥

हत्वा मूषकमार्जारसर्पाजगरडुण्डुभान्

कृसरं भोजयेद्विप्रान्लोहदण्डश्च दक्षिणा

॥९॥

शिशुमारं तथा गोधां हत्वा कूर्मं च शल्यकम्

वृन्ताकफलभक्षी चाप्यहोरात्रेण शुध्यति

॥१०॥

वृकजम्बूकऋक्षाणां तरक्षुश्वानघातकः

तिलप्रस्थं द्विजे दद्याद्वायुभक्षो दिनत्रयम्

॥११॥

गजस्य च तुरङ्गस्य महिषोष्ट्रनिपातने

प्रायश्चित्तमहोरात्रं त्रिसंध्यमवगाहनम्

॥१२॥

कुरङ्गं वानरं सिंहं चित्रं व्याघ्रं तु घातयन्

शुध्यते स त्रिरात्रेण विप्राणां तर्पणेन च

॥१३॥

मृगरोहिद्वराहाणामवेर्बस्तस्य घातकः

अफालकृष्टमश्नीयादहोरात्रमुपोष्य सः

॥१४॥

एवं चतुष्पदानां च सर्वेषां वनचारिणाम्

अहोरात्रोषितस्तिष्ठेज्जपेद्वै जातवेदसम्

॥१५॥

शिल्पिनं कारुकं शूद्रं स्त्रियं वा यस्तु घातयेत्

प्राजापत्यद्वयं कृत्वा वृषैकादशदक्षिणा

॥१६॥

वैश्यं वा क्षत्रियं वापि निर्दोषं योऽभिघातयेत्

सोऽपि कृच्छ्रद्वयं कुर्याद्गोविंशद्दक्षिणां ददेत्

॥१७॥

वैश्यं शूद्रं क्रियासक्तं विकर्मस्थं द्विजोत्तमम्

हत्वा चान्द्रायणं तस्य त्रिंशद्गोश्चैव दक्षिणाम्

॥१८॥

चण्डालं हतवान्कश्चिद्ब्राह्मणे यदि कंचन

प्राजापत्यं चरेत्कृच्छ्रं गोद्वयं दक्षिणां ददत्

॥१९॥

क्षत्रियेणापि वैश्येन शूद्रेणैवेतरेण वा

चण्डालस्य वधे प्राप्ते कृच्छ्रार्धेन विशुध्यति

॥२०॥

चोरौ श्वपाकचण्डालौ विप्रेणाभिहतौ यदि

अहोरात्रोषितः स्नात्वा पञ्चगव्येन शुध्यति

॥२१॥

श्वपाकं वापि चण्डालं विप्रः संभाषते यदि

दिव्जसंभाषणं कुर्यात्सावित्रीं तु सकृज्जपेत्

॥२२॥

चण्डालैः सह सुप्तं तु त्रिरात्रमुपवासयेत्

चण्डालैकपथं गत्वा गायत्रीस्मरणाच्छुचिः

॥२३॥

चण्डालदर्शने सद्य आदित्यमवलोकयेत्

चण्डालस्पर्शने चैव सचैलं स्नानमाचरेत्

॥२४॥

चण्डालखातवापीषु पीत्वा सलिलमग्रजः

अज्ञानाच्चैकभक्तेन त्वहोरात्रेण शुध्यति

॥२५॥

चण्डालभाण्डसंस्पृष्टं पीत्वा कूपगतं जलम्

गोमूत्रयावकाहारस्त्रिरात्राच्छुद्धिमाप्नुयात्

॥२६॥

चण्डालघटसंस्थं तु यत्तोयं पिबति द्विजः

तत्क्षणात्क्षिपते यस्तु प्राजापत्यं समाचरेत्

॥२७॥

यदि न क्षिपते तोयं शरीरे यस्य जीर्यति

प्राजापत्यं न दातव्यं कृच्छ्रं सांतपनं चरेत्

॥२८॥

चरेत्सांतपनं विप्रः प्राजापत्यमनन्तरः

तदर्धं तु चरेद्वैश्यः पादं शूद्रस्तदाचरेत्

॥२९॥

भाण्डस्थमन्त्यजानां तु जलं दधि पयः पिबेत्

ब्राह्मणः क्षत्रियो वैश्यः शूद्रश्चैव प्रमादतः

॥३०॥

ब्रह्मकूर्चोपवासेन द्विजातीनां तु निष्कृतिः

शूद्रस्य चोपवासेन तथा दानेन शक्तितः

॥३१॥

भुङ्क्तेऽज्ञानाद्द्विजश्रेष्ठश्चण्डालान्नं कथंचन

गोमूत्रयावकाहारो दशरात्रेण शुध्यति

॥३२॥

एकैकं ग्रासमश्नीयाद्गोमूत्रयावकस्य च

दशाहं नियमस्थस्य व्रतं तत्तु विनिर्दिशेत्

॥३३॥

अविज्ञातस्तु चण्डालो यत्र वेश्मनि तिष्ठति

विज्ञाते तुपसन्नस्य द्विजाः कुर्वन्त्यनुग्रहम्

॥३४॥

मुनिवक्त्रोद्गतान्धर्मान्गायन्तो वेदपारगाः

पतन्तमुद्धरेयुस्तं धर्मज्ञाः पापसंकरात्

॥३५॥

दध्ना च सर्पिषा चैव क्षीरगोमूत्रयावकम्

भुञ्जीत सह सर्वैश्च त्रिसंध्यमवगाहनम्

॥३६॥

त्र्यहं भुञ्जीत दध्ना च त्र्यहं भुञ्जीत सर्पिषा

त्र्यहं क्षीरेण भुञ्जीत एकैकेन दिनत्रयम्

॥३७॥

भावदुष्टं न भुञ्जीत नोच्छिष्टं कृमिदूषितम्

दधिक्षीरस्य त्रिपलं पलं एकं घृतस्य तु

॥३८॥

भस्मना तु भवेच्छुद्धिरुभयोस्ताम्रकांस्ययोः

जलशौचेन वस्त्राणां परित्यागेन मृण्मयम्

॥३९॥

कुसुम्भगुडकार्पासलवणं तैलसर्पिषी

द्वारे कृत्वा तु धान्यानि दद्याद्वेश्मनि पावकम्

॥४०॥

एवं शुद्धस्ततः पश्चात्कुर्याद्ब्राह्मणतर्पणम्

त्रिंशतं गोवृषं चैकं दद्याद्विप्रेषु दक्षिणाम्

॥४१॥

पुनर्लेपनखातेन होमजप्येन शुध्यति

आधारेण च विप्राणां भूमिदोषो न विद्यते

॥४२॥

चण्डालैः सह संपर्कं मासं मासार्धमेव वा

गोमूत्रयावकाहारो मासार्धेन विशुध्यति

॥४३॥

रजकी चर्मकारी च लुब्धकी वेणुजीविनी

चातुर्वर्ण्यस्य च गृहे त्वविज्ञाता तु तिष्ठति

॥४४॥

ज्ञात्वा तु निष्कृतिं कुर्यात्पूर्वोक्तस्यार्धमेव च

गृहदाहं न कुर्वीत शेषं सर्वं च कारयेत्

॥४५॥

गृहस्याभ्यन्तरं गच्छेच्चण्डालो यदि कस्यचित्

तमगाराद्विनिर्वास्य मृद्भाण्डं तु विसर्जयेत्

॥४६॥

रसपूर्णं तु यद्भाण्डं न त्यजेत्तु कदाचन

गोमयेन तु संमिश्रैर्जलैः प्रोक्षेद्गृहं तथा

॥४७॥

ब्राह्मणस्य व्रणद्वारे पूयशोणितसंभवे

कृमिरुत्पद्यते यस्य प्रायश्चित्तं कथं भवेत्

॥४८॥

गवां मूत्रपुरीषेण दध्ना क्षीरेण सर्पिषा

त्र्यहं स्नात्वा च पीत्वा च कृमिदुष्टः शुचिर्भवेत्

॥४९॥

क्षत्रियोऽपि सुवर्णस्य पञ्चमाषान्प्रदाय तु

गोदक्षिणां तु वैश्यस्याप्युपवासं विनिर्दिशेत्

॥५०॥

शूद्राणां नोपवासः स्याच्छूद्रो दानेन शुध्यति

अच्छिद्रमिति यद्वाक्यं वदन्ति क्षितिदेवताः

॥५१॥

प्रणम्य शिरसा ग्राह्यमग्निष्टोमफलं हि तत्

जपच्छिद्रं तपच्छिद्रं यच्छिद्रं यज्ञकर्मणि

॥५२॥

सर्वं भवति निश्छिद्रं ब्राह्मणैरुपपादितम्

व्याधिव्यसनिनि।श्रान्ते दुर्भिक्षे डामरे तथा

॥५३॥

उपवासो व्रतं होमो द्विजसंपादितानि वै

अथवा ब्राह्मणास्तुष्टाः सर्वं कुर्वन्त्यनुग्रहम्

॥५४॥

सर्वान्कामानवाप्नोति द्विजसंपादितैरिह

दुर्बलेऽनुग्रहः प्रोक्तस्तथा वै बालवृद्धयोः

॥५५॥

अतोऽन्यथा भवेद्दोषस्तस्मान्नानुग्रहः स्मृतः

स्नेहाद्वा यदि वा लोभाद्भयादज्ञानतोऽपि वा

॥५६॥

कुर्वन्त्यनुग्रहं ये तु तत्पापं तेषु गच्छति

शरीरस्यात्यये प्राप्ते वदन्ति नियमं तु ये

॥५७॥

महत्कार्योपरोधेन न स्वस्थस्य कदाचन

स्वस्थस्य मूढाः कुर्वन्ति वदन्त्यनियमं तु ये

॥५८॥

ते तस्य विघ्नकर्तारः पतन्ति नरकेऽशुचौ

स्वयमेव व्रतं कृत्वा ब्राह्मणं योऽवमन्यते

॥५९॥

वृथा तस्योपवासः स्यान्न स पुण्येन युज्यते

स एव नियमो ग्राह्यो यद्येकोऽपि वदेद्द्विजः

॥६०॥

कुर्याद्वाक्यं द्विजानां तु अन्यथा भ्रूणहा भवेत्

ब्राह्मणा जङ्गमं तीर्थं तीर्थभूता हि साधवः

॥६१॥

तेदां वाक्योदकेनैव शुध्यन्ति मलिना जनाः

ब्राह्मणा यानि भाषन्ते मन्यन्ते तानि देवताः

॥६२॥

सर्वदेवमयो विप्रो न तद्वचनमन्यथा

उपवासो व्रतं चैव स्नानं तीर्थं जपस्तपः

॥६३॥

विप्रसंपादितं यस्य संपूर्णं तस्य तत्फलम्

अन्नाद्ये कीटसम्युक्ते मक्षिकाकेशदूषिते

॥६४॥

तदन्तरा स्पृशेच्चापस्तदन्नं भस्मना स्पृशेत्

भुञ्जानश्चैव यो विप्रः पादं हस्तेन संस्पृशेत्

॥६५॥

स्वमुच्छिष्टमसौ भुङ्क्ते पाणिना मुक्तभाजने

पादुकास्थो न भुञ्जीत पर्यङ्के संस्थितोऽपि वा

॥६६॥

श्वानचण्डालदृष्टौ च भोजनं परिवर्जयेत्

यदन्नं प्रतिषिद्धं स्यादन्नशुद्धिस्तथैव च

॥६७॥

यथा पराशरेणोक्तं तथैवाहं वदामि वः

शृतं द्रोणाढकस्यान्नं काकश्वानोपघातितम्

॥६८॥

केनेदं शुध्यते चेति ब्राह्मणेभ्यो निवेदयेत्

काकश्वानावलीढं तु द्रोणान्नं न परित्यजेत्

॥६९॥

वेदवेदाङ्गविद्विप्रैर्धर्मशास्त्रानुपालकैः

प्रस्था द्वात्रिंशतिर्द्रोणः स्मृतो द्विप्रस्थ आढकः

॥७०॥

ततो द्रोणाढकस्यान्नं श्रुतिस्मृतिविदो विदुः

काकश्वानावलीढं तु गवाघ्रातं खरेण वा

॥७१॥

स्वल्पमन्नं त्यजेद्विप्रः शुद्धिर्द्रोणाढके भवेत्

अन्नस्योद्धृत्य तन्।मात्रं यच्च लालाहतं भवेत्

॥७२॥

सुवर्णोदकमभ्युक्ष्य हुताशेनैव तापयेत्

हुताशनेन संस्पृष्टं सुवर्णसलिलेन च

॥७३॥

विप्राणां ब्रह्मघोषेण भोज्यं भवति तत्क्षणात्

स्नेहो वा गोरसो वापि तत्रशुद्धिः कथं भवेत्

॥७४॥

अल्पं परित्यजेत्तत्र स्नेहस्योत्पवनेन च

अनलज्वालया शुद्धिर्गोरसस्य विधीयते

॥७५॥