दर्शपूर्णमासौ
प्रथमा कण्डिका
देवस्य त्वा सवितुः प्रसव इति स्फ्यमादायेन्द्रस्य बाहुरसि दक्षिण इत्यभिमन्त्र्य हरस्ते मा प्रतिगामिति दर्भेण संमृज्यापरेणाहवनीयं यजमानमात्रीमपरिमितां वा प्राचीं वेदिं करोति
॥१॥यथासन्नानि हवींषि संभवेदेवं तिरश्चीम्
॥२॥वेदेन वेदिं विविदुः पृथिवीं सा पप्रथे पृथिवी सार्थिवानि । गर्भं बिभर्ति भुवनेष्वन्तस्ततो यज्ञो जायते विश्वदानिरिति पुरस्तात्स्तम्बयजुषो वेदेन वेदिं त्रिः संमार्ष्ट्युपरिष्टाद्वा
॥३॥पूर्वार्धाद्वेदेर्वितृतीयदेशात्स्तम्बयजुर्हरति
॥४॥पृथिव्यै वर्मासीति तत्रोदगग्रं प्रागग्रं वा दर्भं निधाय पृथिवि देवयजनीति तस्मिन्स्फ्येन प्रहृत्यापहतोऽररुः पृथिव्या इति स्फ्येन सतृणान्पांसूनपादाय व्रजं गच्छ गोस्थानमिति हरति । वर्षतु ते द्यौरिति वेदिं प्रत्यवेक्षते यजमानं वा
॥५॥बधान देव सवितरित्युत्तरतः पुरस्ताद्वितृतीयदेश उदग्द्विपदे ऽपरिमिते वा वेदेर्निवपति
॥६॥स उत्करः
॥७॥अररुस्ते दिवं मा स्कानिति न्युप्तमाग्नीध्रो ऽञ्जलिनाभिगृह्णाति
॥८॥एवं द्वितीयं तृतीयं च हरति
॥९॥तूष्णीं चतुर्थं हरन्सर्वं दर्भशेषं हरति
॥१०॥द्वितीया कण्डिका
अपाररुमदेवयजनं पृथिव्या इति द्वितीये प्रहरणोऽररुर्द्यां मा पप्तदिति तृतीये । अपहतोऽररुः पृथिव्यै देवयजन्या इति द्वितीयेऽपादानोऽपहतोऽररुः पृथिव्या अदेवयजन इति तृतीये
॥१॥अवबाढं रक्ष इति द्वितीये निवपन आग्नीध्रोऽभिगृह्णात्यवबाढोऽघशंस इति तृतीयेऽवबाढा यातुधाना इति चतुर्थे
॥२॥द्रप्सस्ते द्यां मा स्कानिति खनिं प्रत्यवेक्ष्य स्फ्येन वेदिं परिगृह्णाति वसवस्त्वा परिगृह्णन्तु गायत्रेण छन्दसेति दक्षिणतो रुद्रा इति पश्चादादित्या इत्युत्तरतः
॥३॥अपाररुमदेवयजनं पृथिव्या अदेवयजनो जहीति स्फ्येनोत्तमां त्वचमुद्धन्ति
॥४॥समुद्धतस्याग्नीध्र उत्करे त्रिर्निवपति
॥५॥इमां नराः कृणुत वेदिमेत देवेभ्यो जुष्टामदित्या उपस्थे । इमां देवा अजुषन्त विश्वे रायस्पीषा यजमानं विशन्त्विति संप्रेष्यति
॥६॥देवस्य सवितुः सव इति खनति द्व्यङ्गुलां त्र्यङ्गुलां चतुरङ्गुलां यावत्पार्ष्ण्याः शुक्लं तावतीं पृथमात्रीं रथवर्त्ममात्रीं सीतामात्रीं प्रादेशमात्रीं वा पुरीषवतीम्
॥७॥नैता मात्रा अतिखनति
॥८॥दक्षिणतो वर्षीयसीं प्राक्प्रवणां प्रागुदक्प्रवणां वा
॥९॥तृतीया कण्डिका
प्राञ्चौ वेद्यंसावुन्नयति प्रतीची श्रोणी
॥१॥पुरस्तादंहीयसी पश्चात्प्रथीयसी मध्ये संनततरा भवति
॥२॥यन्मूलमतिशेते स्फ्येन तच्छिनत्ति न नखेन
॥३॥यत्पुरीषमतिशेत उत्करे तन्निवपति
॥४॥आहार्यपुरीषां पशुकामस्य कुर्यात्
॥५॥यत्प्राक् खननात्तत्कृत्वा यदाहरेत्तन्मन्त्रेण खनेत्
॥६॥ब्रह्मन्नुत्तरं म्परिग्राहं परिग्रहीष्यामीति ब्रह्माणमामन्त्र्य स्फ्येन वेदिं परिगृह्णात्यृतमसीति दक्षिणतः । ऋतसदनमसीति पश्चात् । ऋतश्रीरसीत्युत्तरतः
॥७॥विपरीतौ परिग्राहावेके समामनन्ति
॥८॥धा असि स्वधा असीति प्रतीचीं वेदिं स्फ्येन योयुप्यते
॥९॥उदादाय पृथिवीं जीरदानुरिति वेदिमनुवीक्षते
॥१०॥पश्चार्धे वेदेर्वितृतीयदेशे स्फ्यं तिर्यञ्चं स्तब्ध्वा संप्रेष्यति प्रोक्षणीरासादयेध्माबर्हिरुपसादय स्रुवं च स्रुचश्च संमृड्ढि पत्नीं संनह्याज्येनोदेहीति
॥११॥अपि वा न संप्रैषं ब्रूयात्
॥१२॥प्रोक्षणीरभिपूर्योदञ्चं स्फ्यमपोह्य दक्षिणेन स्फ्यमसंस्पृष्टा उपनिनीय स्फ्यस्य वर्त्मन्सादयत्यृतसधस्थेति द्वेष्यं मनसा ध्यायन्
॥१३॥शतभृष्टिरसि वानस्पत्यो द्विषतो वध इति पुरस्तात्प्रत्यञ्चमुत्करे स्फ्यमुदस्यति द्वेष्यं मनसा ध्यायन्
॥१४॥नानवनिज्य हस्तौ पात्राणि पराहन्ति
॥१५॥हस्ताववनिज्य स्फ्यं प्रक्षालयत्यग्रमप्रतिमृशन्
॥१६॥उत्तरेणाहवनीयं प्रागग्रमिध्माबर्हिरुपसादयति दक्षिणमिध्ममुत्तरं बर्हिः
॥१७॥चतुर्थी कण्डिका
पत्नीसंनहनमेके पूर्वं समामनन्ति स्रुक्संमार्जनमेके
॥१॥घृताचीरेताग्निर्वो ह्वयति देवयज्याया इति स्रुच आदाय प्रत्युष्टं रक्षः प्रत्युष्टा अरातय इत्याहवनीये गार्हपत्ये वा प्रतितप्यानिशिता स्थ सपत्नक्षयणीरित्यभिमन्त्र्य वेदाग्राणि प्रतिविभज्याप्रतिविभज्य वा तैः स्रुचः संमार्ष्टि प्राचीरुदीचीर्वोत्ताना धारयमाणः
॥२॥उपभृतमेवोदीचीमित्येके
॥३॥गोष्ठं मा निर्मृक्षमिति स्रुवमग्रैरन्तरतोऽभ्याकारं सर्वतो बिलमभिसमाहारम् । मूलैर्दण्डम्
॥४॥वाचं प्राणमिति जुहूमग्रैरन्तरतोऽभ्याकारं प्राचीं मध्यैर्बाह्यतः प्रतीचीम् । मूलैर्दण्डम्
॥५॥चक्षुः श्रोत्रमित्युपभृतमुदीचीमग्रैरन्तरतोऽभ्याकारं प्रतीचीं मध्यैर्बाह्यतः प्राचीम् । मूलैर्दण्डम्
॥६॥प्रजां योनिमिति यथा स्रुवमेवं ध्रुवाम्
॥७॥रूपं वर्णं पशूनां मा निर्मृक्षं वाजि त्वा सपत्नसाहं संमार्ज्मीति प्राशित्रहरणं तूष्णीं वा
॥८॥न संमृष्टान्यसंमृष्टैः संस्पर्शयति
॥९॥अग्नेर्वस्तेजिष्ठेन तेजसा निष्टपामीति पुनः प्रतितप्य प्रोक्ष्याग्रेणोत्करं दर्भेषु सादयति जघनेन वा
॥१०॥स्रुक्संमार्जनान्यद्भिः संस्पर्श्य
॥११॥पञ्चमी कण्डिका
दिवः शिल्पमवततं पृथिव्याः ककुभिः श्रितं तेन वयं सहस्रवल्शेन सपत्नं नाशयामसि स्वाहेत्यग्नौ प्रहरति यस्मिन्प्रतितपत्युत्करे वा न्यस्यति
॥१॥आशासाना सौमनसमित्यपरेण गार्हपत्यमूर्ध्वज्ञुमासीनां पत्नीं संनह्यति तिष्ठन्तीं वा
॥२॥वाचयतीत्येके
॥३॥मौञ्जेन दाम्नान्यतरतः पाशेन योक्तेण वाभ्यन्तरं वाससः
॥४॥न वासोऽभिसंनह्यति । अभिसंनह्यतीत्येके
॥५॥उत्तरेण नाभिं निष्टर्क्यं ग्रन्थिं कृत्वा प्रदक्षिणं पर्यूह्य दक्षिणेन नाभिमवस्थाप्योपोत्थायाग्ने गृहपत उप मा ह्वयस्वेति गार्हपत्यमुपतिष्ठते
॥६॥देवानां पत्नीरुप मा ह्वयध्वं पत्नि पत्न्येष ते लोको नमस्ते अस्तु मा मा हिंसीरिति देवपत्नीरुपतिष्ठते
॥७॥तस्माद्देशादपक्रम्य सुप्रजसस्त्वा वयमिति दक्षिणत उदीच्युपविशति
॥८॥इन्द्राणीवाविधबा भूयासमदितिरिव सुपुत्रा । अस्थूरि त्वा गार्हपत्योपनिषदे सुप्रजास्त्वायेति जपति
॥९॥युक्ता मे यज्ञमन्वासाता इति यजमानः संप्रेष्यति
॥१०॥बह्वाज्याभ्यां दर्शपूर्णमासाभ्यां यजत इति विज्ञायते
॥११॥षष्ठी कण्डिका
पूषा ते बिलं विष्यत्विति सर्पिर्धानस्य बिलमपावर्त्य दक्षिणाग्नावाज्यं विलाप्यादितिरस्यच्छिद्रपत्त्रेत्याज्यस्थालीमादाय महीनां पयोऽस्योषधीनां रसस्तस्य तेऽक्षीयमाणस्य निर्वपामि देवयज्याया इति तस्यां पवित्रान्तर्हितायामाज्यं निरुप्येदं विष्णुर्विचक्रम इति दक्षिणाग्नावधिश्रित्येषे त्वेति दक्षिणार्धे गार्हपत्यस्याधिश्रित्योर्जे त्वेत्यपादाय वेदेनोपयम्य पत्न्या उपहरति
॥१॥तत्सा निमील्य वीक्ष्यानुच्छ्वसन्त्यवेक्षते महीनां पयोऽसीति
॥२॥तेजोऽसीत्युत्तरार्धे गार्हपत्यस्याधिश्रयति
॥३॥पत्न्यभावे तेजआदि लुप्यते गार्हपत्येऽधिश्रयणम्
॥४॥तेजसे त्वेत्यपादाय तेजोऽसि तेजोऽनुप्रेहीति हरति । अग्निस्ते तेजो मा विनैदित्याहवनीयेऽधिश्रित्याग्नेर्जिह्वासीति स्फ्यस्य वर्त्मन्सादयति
॥५॥आज्यमसि सत्यमसीत्यध्वर्युर्यजमानश्च निमील्य वीक्ष्यानुच्छ्वसन्तावाज्यमवेक्षेते
॥६॥अथैनदुदगग्राभ्यां पवित्राभ्यां पुनराहारमुत्पुनाति
॥७॥सप्तमी कण्डिका
शुक्रमसीति प्रथमं ज्योतिरसीति द्वितीयं तेजोऽसीति तृतीयम्
॥१॥पूर्ववदाज्यलिप्ताभ्यां प्रोक्षणीरुत्पूयानिष्कासिना स्रुवेण वेदमुपभृतं कृत्वान्तर्वेद्याज्यानि गृह्णाति
॥२॥समंबिलं धारयमाणो जुह्वां मध्यदेश उपभृति भूमौ प्रतिष्ठितायां ध्रुवायाम्
॥३॥चतुर्जुह्वामष्टावुपभृति चतुर्ध्रुवायाम्
॥४॥पशुकामस्य वा पञ्चगृहीतं ध्रुवायां यथाप्रकृतीतरयोः
॥५॥दशगृहीतमुपभृति पञ्चगृहीतमितरयोरित्येके
॥६॥भूयो जुह्वामल्पीय उपभृति भूयिष्ठं ध्रुवायाम्
॥७॥शुक्रं त्वा शुक्रायामिति त्रिभिः पञ्चानां त्वा वातानामिति च द्वाभ्यां जुह्वां चतुः पञ्चकृत्वो वा प्रतिमन्त्रम्
॥८॥पञ्चानां त्वा दिशां पञ्चानां त्वा पञ्चजनानां पञ्चानां त्वा सलिलानां धर्त्राय गृह्णामि पञ्चानां त्वा पृष्ठानां धर्त्राय गृह्णामि धामासि प्रियं देवानामनाधृष्टं देवयजनं देववीतये त्वा गृह्णामीति चरोस्त्वा पञ्चबिलस्येति च पञ्चभिरुपभृत्यष्टकृत्वो दशकृत्वो वा प्रतिमन्त्रम्
॥९॥शेषेण ध्रुवायां चतुः पञ्चकृत्वो वा प्रतिमन्त्रम्
॥१०॥नोत्कर आज्यानि सादयति
॥११॥नान्तर्वेदि गृहीतस्य प्रतीचीनं हरन्ति
॥१२॥अष्टमी कण्डिका
पूर्ववत्प्रोक्षणीरभिमन्त्र्य ब्रह्माणमामन्त्र्य विस्रस्येध्मं कृष्णोऽस्याखरेष्ठ इति त्रिः प्रोक्षति । वेदिरसीति त्रिर्वेदिं बर्हिरसीति त्रिर्बर्हिः । अन्तर्वेदि पुरोग्रन्थि बर्हिरासाद्य दिवे त्वेत्यग्रं प्रोक्षत्यन्तरिक्षाय त्वेति मध्यं पृथिव्यै त्वेति मूलम्
॥१॥स्रुच्यग्राण्युपपाय्य मूलान्युपपाययति
॥२॥पोषाय त्वेति सहस्रुचा पुरस्तात्प्रत्यञ्चं ग्रन्थिं प्रत्युक्ष्य प्रोक्षणीशेषं स्वधा पितृभ्य इति दक्षिणायै श्रोणेरोत्तरस्याः संततं निनीय पूषा ते ग्रन्थिं विष्यत्विति ग्रन्थिं विस्रंसयति
॥३॥प्राञ्चमुद्गूढं प्रत्यञ्चमायच्छति
॥४॥विष्णो स्तूपोऽसीति कर्षन्निवाहवनीयं प्रति प्रस्तरमपादत्ते नोद्यौति न प्रयौति न प्रतियौति न विक्षिपति न प्रमार्ष्टि न प्रतिमार्ष्टि नानुमार्ष्टि
॥५॥अयं प्राणश्चाक्पानश्च यजमानमपिगच्छताम् । यज्ञे ह्यभूतां पोतारी पवित्रे हव्यशोधने । यजमाने प्राणापानौ दधामीति तस्मिन्पवित्रे अपिसृज्य प्राणापानाभ्यां त्वा सतनुं करोमीति यजमानाय प्रयच्छति । यजमानो ब्रह्मणे
॥६॥ब्रह्मा प्रस्तरं धारयति यजमानो वा
॥७॥नवमी कण्डिका
दर्भैर्वेदिमन्तर्धाय दक्षिणतः संनहनं स्तृणात्यक्ष्णया वा
॥१॥ऊर्णाम्रदसं त्वा स्तृणामीति बर्हिषा वेदिं स्तृणाति बहुलमनतिदृश्यं प्रागपवर्गं प्रत्यगपवर्गं वा त्रिधातु पञ्चधातु वा
॥२॥अग्रैर्मूलान्यभिच्छादयति
॥३॥धातौधातौ मन्त्रमावर्तयति
॥४॥प्रस्तरपाणिः संस्पृष्टान्परिधीन्परिदधाति गन्धर्वोऽसि विश्वावसुरित्येतैः प्रतिमन्त्रमुदगग्रं मध्यमं प्रागग्रावितरौ
॥५॥आहवनीयमभ्यग्रं दक्षिणमवाग्रमुत्तरम्
॥६॥सूर्यस्त्वा पुरस्तात्पात्वित्याहवनीयमभिमन्त्र्योपर्याहवनीये प्रस्तरं धारयन्नग्निं कल्पयति
॥७॥अनूयाजार्थे प्राची उल्मुके उदूहतीति वाजसनेयकम्
॥८॥मध्यमं परिधिमुपस्पृश्योर्ध्वे आघारसमिधावादधाति
॥९॥वीतिहोत्रं त्वा कव इति दक्षिणां समिदस्यायुषे त्वेत्युत्तराम्
॥१०॥तूष्णीं वा
॥११॥समावनन्तर्गर्भौ दर्भौ विधृती कुरुते
॥१२॥विशो यन्त्रे स्थ इत्यन्तर्वेद्युदगग्रे निधाय वसूनां रुद्राणामादित्यानां सदसि सीदेति तयोः प्रस्तरमत्यादधाति
॥१३॥अभिहृततराणि प्रस्तरमूलानि बर्हिर्मूलेभ्यः
॥१४॥जुहूरसि घृताचीत्येतैः प्रतिमन्त्रमनूचीरसंस्पृष्टाः स्रुचः प्रस्तरे सादयति
॥१५॥दशमी कण्डिका
अपि वा जुहूमेव प्रस्तरे
॥१॥समं मूलैर्जुह्वा दण्डं करोति । उत्तरेण जुहूमुपभृतं प्रतिकृष्टतरामिवाधस्ताद्विधृत्योः । उत्तरेणोपभृतं ध्रुवां प्रतिकृष्टतरामिवोपरिष्टाद्विधृत्योः
॥२॥ऋषभोऽसि शाक्वरो घृताचीनां सूनुः प्रियेण नाम्ना प्रिये सदसि सीदेति दक्षिणेन जुहूं स्रुवं सादयत्युत्तरेणोत्तरेण वा ध्रुवाम्
॥३॥एता असदन्निति स्रुचोऽभिमन्त्र्य विष्णूनि स्थ वैष्णवानि धामानि स्थ प्राजापत्यानीत्याज्यानि कपालवत्पुरोडाशादङ्गारानपोह्य सूर्य ज्योतिर्विभाहि महत इन्द्रियायेत्यभिमन्त्र्याप्यायतां घृतयोनिरग्निर्हव्यानुमन्यताम् । खमङ्क्ष्व सुरूपं त्वा वसुविदं पशूनां तेजसाग्नये जुष्टमभिघारयामीत्याग्नेयं पुरोडाशमभिघारयति तूष्णीमुत्तरम्
॥४॥यस्त आत्मा पशुषु प्रविष्टो देवानां निष्ठामनु यो वितस्थे । आत्मन्वान्सोम घृतवान्हि भूत्वा देवान्गच्छ सुवर्विन्द यजमानाय मह्यमिति प्रातर्दोहम्
॥५॥स्योनं ते सदनं करोमि घृतस्य धारया सुशेवं कल्पयामि त इति पात्र्यामुपस्तीर्यार्द्रः प्रथस्नुर्भुवनस्य गोपाः शृत उत्स्नाति जनिता मतीनामित्यपर्यावर्तयन्पुरोडाशमुद्वास्य
॥६॥एकादशी कण्डिका
वेदेन भस्म प्रमृज्य तस्मिन्सीदामृते प्रतितिष्ठ व्रीहीणां मेध सुमनस्यमान इति पात्र्यां प्रतिष्ठापयति
॥१॥तूष्णीं यवमयम्
॥२॥इरा भूतिः पृथिव्यै रसो मोत्क्रमीदिति स्रुवेण कपालानि प्रत्यज्य देवस्त्वा सविता मध्वानक्त्विति स्रुवेण कपालानि प्रत्यज्य देवस्त्वा सविता मध्वानक्त्विति स्रुवेण पुरोडाशमनक्ति स्वक्तमकूर्मपृषन्तमपरिवर्गमणिकाषम्
॥३॥उपरिष्टादभ्यज्याधस्तादुपानक्ति
॥४॥चतुर्होत्रा पौर्णमास्यां हवींष्यासादयेत्पञ्चहोत्रामावास्यायाम्
॥५॥प्रियेण नाम्ना प्रियं सद आसीदेति यदन्यद्धविर्दार्शपूर्णमासिकेभ्यस्तदेतेनासादयेदिति विज्ञायते
॥६॥अपरेण स्रुचः पुरोडाशावासादयति
॥७॥उत्तरौ दोहौ
॥८॥अपि वा मध्ये वेद्याः सांनाय्यकुम्भ्यौ संदधाति पूर्वं शृतमपरं दधि । अथैने व्युदूहति दक्षिणस्यां श्रोण्यां शृतमासादयत्युत्तरस्यां दधि
॥९॥अयं वेदः पृथिवीमन्वविन्दद्गुहा सतीं गहने गह्वरेषु । स विन्दतु यजमानाय लोकमच्छिद्रं यज्ञं भूरिकर्मा करोत्वित्यग्रेणोत्तरेण वा ध्रुवां वेदं निधाय वेद्यन्तान्परिस्तीर्य होतृषदनं कल्पयित्वा सामिधेनीभ्यः प्रतिपद्यते
॥१०॥द्वादशी कण्डिका
अग्नये समिध्यमानायानुब्रूहीति संप्रेष्यति समिध्यमानायानुब्रूहीति वा
॥१॥पञ्चदश सामिधेनीरन्वाह
॥२॥त्रींस्तचानित्युक्तम्
॥३॥प्रणवेप्रणवे समिधमादधाति
॥४॥सामिधेनीविवृद्धौ काष्ठानि विवर्धन्ते । प्रतिह्रसमानासु प्रकृतिवत्
॥५॥समिद्धो अग्न आहुतेत्यभिज्ञायैकामनूयाजसमिधमवशिष्य सर्वमिध्मशेषमभ्यादधाति परिधानीयायां वा
॥६॥वेदेनाग्निं त्रिरुपवाज्य स्रुवेण ध्रुवाया आज्यमादाय वेदेनोपयम्यासीन उत्तरं परिधिसंधिमन्ववहृत्य प्रजापतिं मनसा ध्यायन्दक्षिणाप्राञ्चमृजुं संततं ज्योतिष्मत्याघारमाघारयन्सर्वाणीध्मकाष्ठानि संस्पर्शयति
॥७॥आघारयोर्वदत्यृजू प्राञ्चौ होतव्यौ तिर्यञ्चौ वा व्यतिषक्तावव्यतिषक्तौ वा
॥८॥स्रुवेणाज्यस्थाल्या आज्यमादायाप्यायतां ध्रुवा घृतेनेत्यवदायावदाय ध्रुवामाप्याययतीति सार्वत्रिकम्
॥९॥अग्नीत्परिधींश्चाग्निं च त्रिस्त्रिः संमृड्ढीति संप्रेष्यति
॥१०॥त्रयोदशी कण्डिका
इध्मसंनहनैः सहस्फ्यैरृतेस्फ्यैर्वाग्नीध्रोऽनुपरिक्रामं परिधीन्यथापरिधितमन्वग्रं त्रिस्त्रिः संमृज्याग्ने वाजजिद्वाजं त्वा सरिष्यन्तं वाजं जेष्यन्तं वाजिनं वाजजितं वाजजित्यायै संमार्ज्म्यग्निमन्नादमन्नाद्यायेति त्रिरग्निं प्राञ्चम्
॥१॥भुवनमसीत्यग्रेण ध्रुवां जुहूं वाञ्चलिं कृत्वा जुह्वेहीति जुहूमादत्त उपभृदेहीत्युपभृतम्
॥२॥सुयमे मे अद्य घृताची भूयास्तं स्वावृतौ सूपावृतावित्युपभृति जुहूमत्यादधाति
॥३॥मुखतोऽभिहृत्य मुखत उपावहरति
॥४॥सर्वत्रैवमत्याधानोपावहरणे भवतः
॥५॥न च संशिञ्जयति नाभिदेशे च स्रुचौ धारयति
॥६॥अग्नाविष्णू मा वामवक्रमिषमित्यग्रेण स्रुचोऽपरेण मध्यमं परिधिमनवक्रामं प्रस्तरं दक्षिणेन पदा दक्षिणातिक्रामत्युदक् सव्येन
॥७॥एतद्वा विपरीतम्
॥८॥विष्णो स्थानमसीत्यवतिष्ठते
॥९॥अन्तर्वेदि दक्षिणः पादो भवत्यवघ्रः सव्यः
॥१०॥अथोर्ध्वस्तिष्ठन्दक्षिणं परिधिसंधिमन्ववहृत्य
॥११॥चतुर्दशी कण्डिका
समारभ्योर्ध्वो अध्वर इति प्राञ्चमुदञ्चमृजुं संततं ज्योतिष्मत्याघारयन्सर्वाणीध्मकाष्ठानि संस्पर्शयति
॥१॥यं कामयेत प्रमायुकः स्यादिति जिह्मं तस्येत्युक्तम्
॥२॥ऊर्ध्वमाघार्य विच्छिन्द्याद्द्वेष्यस्य
॥३॥व्यृषण्वा
॥४॥न्यञ्चं वृष्टिकामस्य
॥५॥द्वेष्यस्येत्येके
॥६॥ऊर्ध्वमाघारं स्वर्गकामस्य भूयिष्ठमाहुतीनां जुहुयात्
॥७॥अपि वा नाघारयेत्पूर्वार्धे मध्ये पश्चार्धे वा जुहुयात्
॥८॥हुत्वाभिप्राणिति
॥९॥बृहद्भा इति स्रुचमुद्गृह्य पाहि माग्ने दुश्चरितादा मा सुचरिते भजेत्यसंस्पर्शयन्स्रुचौ प्रत्याक्रामति
॥१०॥एते एवाक्रमणप्रत्याक्रमणे मन्त्रवती भवतः
॥११॥मखस्य शिरोऽसीति जुह्वा ध्रुवां द्विस्त्रिर्वा समनक्ति
॥१२॥उन्नीतं राय इति स्रुवेण ध्रुवाया आज्यमादाय सुवीराय स्वाहेति जुहूमभिघार्य जुह्वोऽपादाय यज्ञेन यज्ञः संतत इति ध्रुवां प्रत्यभिघार्यायतने स्रुचौ सादयित्वा
॥१३॥पञ्चदशी कण्डिका
क इदमध्वर्युर्भविष्यति स इदमध्वर्युर्भविष्यति यज्ञो यज्ञस्य वागार्त्विज्यं करोतु मन आर्त्विज्यं करोतु वाचं प्रपद्ये भूर्भुवः सुवर्विष्णो स्थाने तिष्ठामीतीध्मसंनहनानि स्फ्य उपसंगृह्य वेद्याश्च तृणमव्यन्तमादायोत्तरतः प्रवरायावतिष्ठेते पूर्वोऽध्वर्युरपर आग्नीध्रः
॥१॥इध्मसंनहनान्याग्नीध्रोऽन्वारभ्य क इदमग्नीद्भविष्यति स इदमग्नीद्भविष्यतीति मन्त्रं संनमति
॥२॥ब्रह्मन्प्रवरायाश्रावयिष्यामीति ब्रह्माणमामन्त्र्याश्रावयो श्रावय श्रावयोमाश्रावयेति वाश्रावयति
॥३॥अस्तु श्रौषडित्याग्नीध्रोऽपरेणोत्करं दक्षिणामुखस्तिष्ठन्स्फ्यं संमार्गांश्च धारयन्प्रत्याश्रावयति
॥४॥आग्नीध्रे सोमे
॥५॥सर्वत्रैवमाश्रुतप्रत्याश्रुते भवतः
॥६॥षोडशी कण्डिका
अनपव्याहरन्तः प्रचरन्ति
॥१॥आश्रावयिष्यन्नान्यदाश्रावणाद्ब्रूयादाश्राविते नान्यदाग्नीध्रः प्रत्याश्रावणात् । प्रत्याश्राविते नान्यदध्वर्युर्यजेति वचनाद्यजेत्युक्ते होता नान्यद्वषट्कारात्
॥२॥यद्यन्यद्ब्रूयात्पुनरेवाश्रावयेत्
॥३॥व्याहृतीर्वा जपेत्
॥४॥ऊर्ध्वज्ञुमासीनं होतारं वृणीतेऽग्निर्देवो होता देवान्यक्षद्विद्वांश्चिकित्वान्मनुष्ठद्भरतवदमुवदमुवदिति यथार्षेयो यजमानः
॥५॥त्रीन्यथर्षि मन्त्रकृतो वृणीते
॥६॥अपि वैकं द्वौ त्रीन्पञ्च
॥७॥न चतुरो वृणीते न पञ्चातिप्रवृणीते
॥८॥इत ऊर्ध्वानध्वर्युर्वृणीतेऽमुतोऽर्वाचो होता
॥९॥पुरोहितस्य प्रवरेण राजा प्रवृणीते
॥१०॥ब्रह्मण्वदा च वक्षद्ब्राह्मणा अस्य यज्ञस्य प्राबितार इति प्रवरशेषमाह
॥११॥अपि वा नार्षेयं वृणीते । मनुवदित्येव ब्रूयात्
॥१२॥सीदति होता
॥१३॥होतुरुपांशु नाम गृह्णाति मानुष इत्युच्चैः
॥१४॥वेद्यां तृणमपिसृजति
॥१५॥सप्तदशी कण्डिका
घृतवति शब्दे जुहूपभृतावादाय दक्षिणा सकृदतिक्रान्तोऽपरेणाघारसंभेदं पञ्च प्रयाजान्प्राचो यजति
॥१॥प्रतिदिशं वा समिधः पुरस्तात्तनूनपातं दक्षिणत इडः पश्चाद्बर्हिरुत्तरतः स्वाहाकारं मध्ये
॥२॥सर्वान्वैकध्यम्
॥३॥आश्रावमाश्रावं प्रत्याश्राविते समिधो यजेति प्रथमं संप्रेष्यति । यज यजेतीतरान्
॥४॥यं कामयेताभितरं वसीयान्स्यादित्यभिक्रामं तस्य जुहुयादवतरं पापीयानिति प्रतिक्रामं न वसीयान्न पापीयानिति समानत्र तिष्ठन्
॥५॥त्रीनिष्ट्वार्धमौपभृतस्य जुह्वामानीयोत्तराविष्ट्वा प्रत्याक्रम्य शेषेण ध्रुवामभिघार्यानुपूर्वं हवींष्यभिघारयत्युपभृतमन्ततः
॥६॥न हवींष्यभिघारयेद्द्वेष्यस्य । आयतने स्रुचौ सादयति
॥७॥अष्टादशी कण्डिका
आग्नेयः सौम्यश्चाज्यहविषावाज्यभागौ चतुर्गृहीताभ्याम्
॥१॥जमदग्नीनां तु पञ्चावत्तमप्यजामदग्न्यो जामदग्न्यमामन्त्र्य पञ्चावत्तं कुर्वीत सर्वत्र
॥२॥अवद्यन्नमुष्मा अनुब्रूहीति पुरोऽनुवाक्यां संप्रेष्यति । अवदायावदाय स्रुवेण प्रस्तरबर्हिः समज्य जुहूपभृतावादाय दक्षिणातिक्रम्याश्राव्य प्रत्याश्रावितेऽमुं यजेति याज्यामिति सार्वत्रिकम्
॥३॥उत्तरार्धपूर्वार्धेऽग्नये जुहोति
॥४॥दक्षिणार्धपूर्वार्धे सोमाय समं पूर्वेण
॥५॥उभे ज्योतिष्मति
॥६॥पूर्वमाज्यभागं प्रति स्रुचावात्ते न निदधात्या स्विष्टकृतः
॥७॥आज्यभागावन्तरेणेतरा आहुतीर्जुहोति
॥८॥प्रत्याक्रम्य जुह्वामुपस्तीर्य मा भेर्मा संविक्था मा त्वा हिंसिषं मा ते तेजोऽपक्रमीत् । भरतमुद्धरेमनुषिञ्चावदानानि ते प्रत्यवदास्यामि । नमस्ते अस्तु मा मा हिंसीरित्याग्नेयस्य पुरोडाशस्य मध्यादङ्गुष्ठपर्वमात्रमवदानं तिरीचीनमवद्यति । पूर्वार्धाद्द्वितीयमनूचीनं चतुरवत्तिनः । पश्चार्धात्तृतीयं पञ्चावत्तिनः
॥९॥असंभिन्दन्मांससंहिताभ्यामङ्गुलीभ्यामङ्गुष्ठेन च पुरोडाशस्यावद्यति
॥१०॥एकोनविंशी कण्डिका
स्रुवेणाज्यसांनाय्ययोः
॥१॥आनुजावरस्य पूर्वार्धात्प्रथममवदानमवदाय पूर्वार्धे स्रुचो निदध्यात् । मध्यादपरमवदाय पश्चार्धे स्रुचः
॥२॥पूर्वप्रथमान्यवद्येज्ज्येष्ठस्य ज्यैष्ठिनेयस्य यो वा गतश्रीः स्यात्
॥३॥अपरप्रथमानि कनिष्ठस्य कानिष्ठिनेयस्य यो वानुजावरो यो वा बुभूषेत्
॥४॥अथ यदि पुरोहितः पुरोधाकामो वा यजेत पूर्वार्धात्प्रथममवदानमवदाय पूर्वार्धे स्रुचो निधाय पूर्वार्धेऽग्नेर्जुहुयात्
॥५॥अवदानान्यभिघार्य यदवदानानि तेऽवद्यन्विलोमाकार्षमात्मनः । आज्येन प्रत्यनज्म्येनत्तत्त आप्यायतां पुनरिति हविः प्रत्यभिघार्याग्नयेऽनुब्रूह्यग्निं यजेति संप्रैषौ
॥६॥आज्यं प्रश्चोत्यापिदधदिवाप्रक्षिणन्हुत्वाज्येनान्ववश्चोतयति
॥७॥आघारसंभेदेनाहुतीः प्रतिपादयति
॥८॥स्रुच्यमाघारमभिजुहोति पूर्वांपूर्वां संहिताम्
॥९॥यं द्विष्यात्तं व्यृषन्मनसाहुतीर्जुहुयात्
॥१०॥यदा वीतार्चिर्लेलायतीवाग्निरथाहुतीर्जुहोति
॥११॥आज्यहविरुपांशुयाजः पौर्णमास्यामेव भवति वैष्णवोऽग्नीषोमीयः प्राजापत्यो वा
॥१२॥प्रधानमेवोपांशु
॥१३॥विष्णुं बुभूषन्यजेत
॥१४॥विंशी कण्डिका
अग्नीषोमौ भ्रातृव्यवान्
॥१॥आग्नेयवदुत्तरैर्हविर्भिर्यथादेवतं प्रचरति
॥२॥समवदाय दोहाभ्याम्
॥३॥दध्नोऽवदाय शृतस्यावद्यत्येतद्वा विपरीतम् । सर्वाणि द्रवाणि स्रुङ्मुखेन जुहोति
॥४॥स्रुवेण पार्वणौ होमौ । ऋषभं वाजिनं वयं पूर्णमासं यजामहे । स नो दोहतां सुवीर्यं रायस्पोषं सहस्रिणम् । प्राणाय सुराधसे पूर्णमासाय स्वाहेति पौर्णमास्याम् । अमावास्या सुभगा सुशेवा धेनुरिव भूय आप्यायमाना । सा नो दोहतां सुवीर्यं रायस्पोषं सहस्रिणम् । अपानाय सुराधसेऽमावास्यायै स्वाहेत्यमावास्यायाम्
॥५॥नारिष्ठान्होमाञ्जुहोति दश ते तनुवो यज्ञ यज्ञियास्ताः प्रीणातु यजमानो घृतेन । नारिष्ठयोः प्राशिषमीडमानो देवानां दैव्येऽपि यजमानोऽमृतोऽभूत् । यं वां देवा अकल्पयन्नूर्जो भागं शतक्रतू । एतद्वां तेन प्रीणाति तेन तृप्यतमंहहौ ॥ अहं देवानां सुकृतामस्मि लोके ममेदमिष्टं न मिथुर्भवाति । अहं नारिष्ठावनुयजामि विद्वान्यदाभ्यामिन्द्रो अदधाद्भागधेयम् ॥ अदारसृद्भवत देव सोमास्मिन्यज्ञे मरुतो मृडता नः । मा नो विददभिभामो अशस्तिर्मा नो विदद्वृजना द्वेष्या या
॥६॥एकविंशी कण्डिका
ब्रह्म प्रतिष्ठा मनसो ब्रह्म वाचो ब्रह्म यज्ञानां हविषामाज्यस्य । अतिरिक्तं कर्मणो यच्च हीनं यज्ञः पर्वाणि प्रतिरन्नेति कल्पयन् । स्वाहाकृताहुतिरेतु देवान् । सं ते मनसा मनः सं प्राणे प्राणं दधामि ते सं व्याने समपानं दधामि ते । परिगृह्य यजमानोऽमृतोऽभूच्छं न एधि द्विपदे शं चतुष्पदे स्वाहेत्येतैः प्रतिमन्त्रम्
॥१॥एष उपहोमानां कालोऽनन्तरं वा प्रधानात्प्राग्वा समिष्टयजुषः
॥२॥जुह्वामुपस्तीर्य सर्वेषां हविषामुत्तरार्धात्सकृत्सकृत्स्विष्टकृतेऽवद्यति । द्विः पञ्चावत्तिनः
॥३॥दैवतसौविष्टकृतैडचातुर्धाकारणिकानामुत्तरमुत्तरं ज्यायः
॥४॥द्विरभिघार्य न हविः प्रत्यभिघारयति
॥५॥अग्नये स्विष्टकृतेऽनुब्रूह्यग्निं स्विष्टकृतं यजेति संप्रैषो । उत्तरार्धपूर्वार्धे जुहोत्यसंसक्तामितराभिराहुतीभिः
॥६॥प्रत्याक्रम्य जुह्वामप आनीय वैश्वानरे हविरिदं जुहोमि साहस्रमुत्सं शतधारमेतम् । स नः पितरं पितामहं प्रपितामहं स्वर्गे लोके पिन्वमानो बिभर्तु स्वाहेत्यन्तःपरिधि निनयति निनयति
॥७॥