दर्शपूर्णमासौ
प्रथमा कण्डिका
अथातो दर्शपूर्णमासौ व्याख्यास्यामः
॥१॥प्रातरग्निहोत्रं हुत्वान्यमाहवनीयं प्रणीयाग्नीनन्वादधाति
॥२॥न गतश्रियोऽन्यमग्निं प्रणयति
॥३॥देवा गातुविदो गातुं यज्ञाय विन्दत । मनसस्पतिना देवेन वाताद्यज्ञः प्रयुज्यतामिति जपित्वा ममाग्ने वर्चो विहवेष्टस्त्वित्याहवनीयमुपसमिन्द्धे । उत्तरया गार्हपत्यमुत्तरयान्वाहार्यपचनम्
॥४॥तिसृभिस्तिसृभिर्वा
॥५॥उत्तमां तु जपेदाहवनीये वादध्यात्
॥६॥व्याहृतीभिरन्वाधानमेके समामनन्ति
॥७॥संनयतः पलाशशाखां शमीशाखां वाहरति बहुपर्णां बहुशाखामप्रतिशुष्काग्रामसुषिराम्
॥८॥यं कामयेतापशुः स्यादित्यपर्णां तस्मै शुष्काग्रामाहरेदपशुरेव भवति यं कामयेत पशुमान्स्यादिति बहुपर्णां तस्मै बहुशाखामाहरेत्पशुमन्तमेवैनं करोतीति विज्ञायते
॥९॥साया प्राच्युदीची प्रागुदीची वा भवतीषे त्वोर्जे त्वेति तामाच्छिनत्ति
॥१०॥अपि वेषे त्वेत्याच्छिनत्त्यूर्जे त्वेति संनमयत्यनुमार्ष्टि वा
॥११॥द्वितीया कण्डिका
इमां प्राचीमुदीचीमिषमूर्जमभिसंस्कृतां बहुपर्णामशुष्काग्रां हरामि पशुपामहमित्याहरति
॥१॥वायव स्थोपायव स्थेति तया षडवरार्ध्यान्वत्सानपाकरोति
॥२॥दर्भैर्दर्भपुञ्जीलैर्वा
॥३॥देवो वः सविता प्रार्पयत्विति शाखया गोचराय गाः प्रस्थापयति
॥४॥प्रस्थितानामेकां शाखयोपस्पृशति दर्भैर्दर्भपुञ्जीलैर्वा
॥५॥आप्यायध्वमघ्निया इन्द्राय देवभागमित्येके समामनन्ति । महेन्द्रायेत्येके
॥६॥इन्द्रं निगमेषूपलक्षयेदिन्द्रयाजिनो महेन्द्रं महेन्द्रयाजिनः
॥७॥शुद्धा अपः सुप्रपाणे पिबन्तीः शतमिन्द्राय शरदो दुहानाः । रुद्रस्य हेतिः परि वो वृणक्त्विति प्रस्थिता अनुमन्त्रयते
॥८॥ध्रुवा अस्मिन्गोपतौ स्यात बह्वीरिति यजमानस्य गृहानभिपर्यावर्तते
॥९॥यजमानस्य पशून्पाहीत्यग्निष्ठे ऽनस्यग्न्यगारे वा पुरस्तात्प्रतीचीं शाखामुपगूहति पश्चात्प्राचीं वा
॥१०॥यो वा अध्वर्योर्गृहान्वेद गृहवान्भवति । आ चतुर्थात्कर्मणोऽभिसमीक्षेतेदं करिष्यामीदं करिष्यामीत्येते वा अध्वर्योर्गृहाः । य एवं वेद गृहवान्भवतीति विज्ञायते
॥११॥तृतीया कण्डिका
उत्तरेण गार्हपत्यमसिदोऽश्वपर्शुरनडुत्पर्शुर्वा निहिता
॥१॥देवस्य त्वा सवितुः प्रसव इत्यसिदमश्वपर्शुं वादत्ते तूष्णीमनडुत्पर्शुम्
॥२॥यज्ञस्य घोषदसीति गार्हपत्यमभिमन्त्र्य प्रत्युष्टं रक्षः प्रत्युष्टा अरातय इत्याहवनीये गार्हपत्ये वासिदं प्रतितपति
॥३॥न पर्शुम्
॥४॥प्रेयमगादित्युक्त्वोर्वन्तरिक्षमन्विहीति प्राचीमुदीचीं वा दिशमभिप्रव्रज्य यतः कुतश्चिद्दर्भमयं बर्हिराहरति
॥५॥देवानां परिषूतमसीति दर्भान्परिषौति
॥६॥विष्णो स्तूपोऽसीत्यभिप्रेतानामेकं स्तम्बमुत्सृजति
॥७॥एकं वा स्तम्बं परिषूय तं सर्वं दाति
॥८॥अतिसृष्टो गवां भाग इति वैकां द्वे तिस्रो वा नाडीरुत्सृजति
॥९॥इदं देवानामिति परिषूतानभिमृशति । इदं पशूनामित्यतिसृष्टान्
॥१०॥देवस्य त्वा सवितुः प्रसवे ऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां बर्हिर्देवसदनमारभ इति विशाखेषु दर्भानारभते
॥११॥देवबर्हिर्मा त्वान्वङ्मा तिर्यगिति संयच्छति
॥१२॥पर्व ते राध्यासमित्यसिदमधिनिदधाति
॥१३॥आच्छेत्ता ते मा रिषमित्याच्छिनत्ति
॥१४॥संनखं मुष्टिं लुनोति
॥१५॥स प्रस्तरः
॥१६॥कुल्मिमात्रोऽरत्निः प्रादेश ऊर्वस्थि जान्वस्थि स्रुग्दण्ड इति वा तिर्यक्प्रमाणानि
॥१७॥चतुर्थी कण्डिका
पृथिव्याः संपृचः पाहीत्यनधो निदधाति
॥१॥अयुजो मुष्टींल्लुनोति
॥२॥तथा निधनानि
॥३॥तेषां प्रस्तरोऽयुगर्थ इत्येके
॥४॥प्रस्तरे याथाकामी
॥५॥यदन्यत्परिषवणादुत्सर्जनाच्च तत्सर्वत्रावर्तते
॥६॥प्रस्तरमेव मन्त्रेण दाति तूष्णीमितरदिति वाजसनेयकम्
॥७॥सर्वं लुत्वा देवबर्हिः शतवल्शं विरोहेत्यालवानभिमृशति
॥८॥अदित्यै रास्नासीति त्रिधातु पञ्चधातु वा शुल्बं करोति
॥१०॥आयुपिता योनिरिति प्रतिदधाति
॥११॥अदित्यै रास्नासीत्युदगग्रं वितत्य सुसंभृता त्वा संभरामीति तस्मिन्निधनानि संभृत्यालुभिता योनिरित्युत्तमे निधने प्रस्तरमत्याधायेन्द्राण्यै संनहनमिति संनह्यति
॥१२॥पूषा ते ग्रन्थिं ग्रथ्नात्विति ग्रन्थिं करोति
॥१३॥स ते मास्थादिति पुरस्तात्प्रत्यञ्चं ग्रन्थिमुपगूहति पश्चात्प्राञ्चं वा
॥१४॥आपस्त्वामश्विनौ त्वामृषयः सप्त मामृजुः । बर्हिः सूर्यस्य रश्मिभिरुषसां केतुमारभ इति बर्हिरारभते । इन्द्रस्य त्वा बाहुभ्यामुद्यच्छ इत्युद्यच्छते । बृहस्पतेर्मूर्ध्ना हरामीति शीर्षन्नधिनिधत्ते
॥१५॥पञ्चमी कण्डिका
प्रेयमगादुर्वन्तरिक्षमन्विहीति यौ गमनौ तौ प्रत्यायनौ
॥१॥अदित्यास्त्वोपस्थे सादयामीत्यन्तर्वेदि परिधिदेशेऽन्धः सादयति
॥२॥बर्हिरसि देवंगममित्यासन्नमभिमन्त्रयते
॥३॥देवंगममसीत्यनधो निदधाति यथा प्रागुपसादयेत्
॥४॥या जाता ओषधयो देवेभ्यस्त्रियुगं पुरा । तासां पर्व राध्यासं परिस्तरमाहरन् । अपां मेध्यं यज्ञियं सदेवं शिवमस्तु मे । आच्छेत्ता वो मा रिषं जीवानि शरदः शतम् । अपरिमितानां परिमिताः संनह्ये सुकृताय कम् । एनो मा निगां कतमच्चनाहं पुनरुत्थाय बहुला भवन्त्विति परिस्तरणानामधि निधान्याच्छेदनी संनहनीति यथालिङ्गम्
॥५॥खादिरं पालाशं वैकविंशतिदारुमिध्मं करोति
॥६॥त्रयः परिधयः
॥७॥पलाशकार्ष्मर्यखदिरोदुम्बरबिल्वरोहीतकविकङ्कतानां ये वा यज्ञिया वृक्षाः
॥८॥आर्द्राः शुष्का वा सत्वक्काः
॥९॥स्तविष्ठो मध्यमोऽणीयान्द्राघीयान्दक्षिणार्ध्योऽणिष्ठो ह्रसिष्ठ उत्तरार्ध्यः
॥१०॥द्वे आघारसमिधावनूयाजसमिदेकविंशीति
॥११॥समूलानामृते मूलानां वा दर्भाणां पूर्ववच्छुल्बं कृत्वोदगग्रं वितत्य
॥१२॥षष्ठी कण्डिका
यत्कृष्णो रूपं कृत्वा प्राविशस्त्वं वनस्पतीन् । ततस्त्वामेकविंशतिधा संभरामि सुसंभृता । त्रीन्परिधीं स्तिस्रः समिधो यज्ञायुरनुसंचरान् । उपवेषं मेक्षणं धृष्टिं संभरामि सुसंभृतेति शुल्ब इध्मं संभरति
॥१॥कृष्णो ऽस्याखरेष्ठो देव पुरश्चर सघ्यासं त्वेति संनह्यति । पुरस्तात्प्रत्यञ्चं ग्रन्थिमुपगूहति पश्चात्प्राञ्चं वा । अनधो निदधाति
॥२॥इध्मप्रवश्चनानि निदधाति
॥३॥त्वया वेदिं विविदुः पृथिवीं त्वया यज्ञो जायते विश्वदानिः । अच्छिद्रं यज्ञमन्वेषि विद्वांस्त्वया होता संतनोत्यर्धमासानिति दर्भाणां वेदं करोति
॥४॥वत्सज्ञुं पशुकामस्य मूतकार्यमन्नाद्यकामस्य त्रिवृच्छिरसं ब्रह्मवर्चसकामस्य
॥५॥शुल्बात्प्रादेशे परिवास्य वेदपरिवासनानि निदधाति
॥६॥अन्तर्वेदि शाखायाः पलाशान्यसर्वाणि प्रशात्य मूलतः शाखां परिवास्योपवेषं करोत्युपवेषोऽसि यज्ञाय त्वां परिवेषमधारयन् । इन्द्राय हविः कृण्वन्तः शिवः शग्मो भवासि न इति
॥७॥तृतीयस्यै दिवो गायत्रिया सोम आभृतः । सोमपीथाय संनयितुं वकलमन्तरमादद इति परिवासनशकलमादाय प्रज्ञातं निदधाति
॥८॥त्रिवृद्दर्भमयं पवित्रं कृत्वा वसूनां पवित्रमसीति शाखायां शिथिलमवसजति मूले मूलान्यग्रेऽग्राणि । न ग्रन्थिं करोति
॥९॥त्रिवृत्पलाशे दर्भ इयान्प्रादेशसंमितः । यज्ञे पवित्रं पोतृतमं पयो हव्यं करोतु मे । इमौ प्राणापानौ यज्ञस्याङ्गानि सर्वशः । आप्याययन्तौ संचरतां पवित्रे हव्यशोधन इति क्रियमाणे यजमानोऽनुमन्त्रयते
॥१०॥समूहन्त्यग्न्यगारमुपलिम्पन्त्यायतनानि
॥११॥अलंकुर्वाते यजमानः पत्नी च
॥१२॥नवे सांनाय्यकुम्भ्यौ यावच्छर्करं गोमयेनालिप्ते भवतः
॥१३॥सप्तमी कण्डिका
अमावास्यायां यदहश्चन्द्रमसं न पश्यन्ति तदहः पिण्डपितृयज्ञंकुरुते
॥१॥अपराह्णेऽधिवृक्षसूर्ये वा पिण्डपितृयज्ञेन चरन्ति
॥२॥अपां मेध्यं यज्ञियमिति समूलं सकृदाच्छिन्नं बर्हिराहरति
॥३॥सकृदाच्छिन्नानि वा तृणान्युपमूलं दिनानि
॥४॥दक्षिणा प्रागग्रैर्दर्भैर्दक्षिणमग्निं परिस्तीर्य दक्षिणतः पश्चाद्वा दर्भान्संस्तीर्य दक्षिणाप्राञ्च्येकैकशः पिण्डपितृयज्ञपात्राणि प्रयुनक्ति स्प्यं मेक्षणं कृष्णाजिनमुलूखलं मुसलं शूर्पमाज्यस्थालीं चरुस्थालीं येन चान्येनार्थी भवति
॥५॥दक्षिणतः प्रागीषं व्रीहिमच्छकटमवस्थितं भवति
॥६॥अध्वर्युरुपवीती स्थालीमेकपवित्रेणान्तर्धाय तया दक्षिणतः शकटादधि निर्वपत्युत्तरतो वा
॥७॥तां पूरयित्वा निमार्ष्टि
॥८॥मृन्मये निर्वपति पितृभ्यो वो जुष्टं निर्वपामीति तूष्णीं वा
॥९॥अपरेणान्वाहार्यपचनं प्रत्यगुदग्ग्रीवे कृष्णाजिन उलूखले प्रतिष्ठिते दक्षिणाप्राची तिष्ठन्ती पत्न्यवहन्ति परापावमविवेकम्
॥१०॥सकृत्फलीकरोति
॥११॥दक्षिणाग्नौ जीवतण्डुलं श्रपयति
॥१२॥अपहता असुरा रक्षांसि पिशाचा वेदिषद इत्यन्तरा गार्हपत्यान्वाहार्यपचनौ दक्षिणपूर्वेण वान्वाहार्यपचनं दक्षिणाप्राचीमेकस्प्यां पराचीं वेदिमुद्धत्य शुन्धन्तां पितर इत्यद्भिरवोक्ष्यायन्तु पितरो मनोजवस इत्यभिमन्त्र्य सकृदाच्छिन्नं बर्हिरूर्णामृदु स्योनं पितृभ्यस्त्वा भराम्यहम् । अस्मिन्सीदन्तु मे पितरः सोम्याः पितामहाः प्रपितामहाश्चानुगैः सहेति सकृदाच्छिन्नेन बर्हिषा वेदिं स्तृणाति
॥१३॥अष्टमी कण्डिका
उत्पूतेन नवनीतेनानुत्पूतेन वा सर्पिषा स्थालीपाकमभिघार्यैकस्प्यायां मेक्षणमासाद्य स्थालीपाकमासादयति
॥१॥दक्षिणतः कशिपूपबर्हणमाञ्जन मभ्यञ्जनमुदकुम्भमित्येकैकश आसादयति
॥२॥अध्वर्युरुपवीती दक्षिणं जान्वाच्य मेक्षण उपस्तीर्य तेनावदायाभिघार्य सोमाय पितृपीताय स्वधा नम इति दक्षिणाग्नौ जुहोति
॥३॥यमायाङ्गिरस्वते पितृमते स्वधा नम इति द्वितीयाम् । अग्नये कव्यवाहनाय स्वधा नम इति तृतीयाम्
॥४॥ये मेक्षणे तण्डुलास्तान्हुत्वा तूष्णीं मेक्षणमादधाति
॥५॥न यमाय जुहोतीत्येके
॥६॥अपयन्त्वसुराः पितृरूपा ये रूपाणि प्रतिमुच्याचरन्ति । परापुरो निपुरो ये भरन्त्यग्निष्टांल्लोकात्प्रणुदात्यस्मात् । ये देवाः पितरो ये च मानुषा ये गर्भे मम्रुरुत ये परास्ताः । य उद्धता उत ये निखातास्ते सम्यञ्च इह मादयन्ताम् । ये रूपाणि प्रतिमुञ्चमाना असुराः सन्तः स्वधया चरन्ति । परापुरो निपुरो ये भरन्त्यग्निष्टांल्लोकात्प्रणुदात्यस्मात् । ये ज्ञातीनां प्रतिरूपाः पितॄन्माययासुराः प्रविष्टाः । परापुरो निपुरो ये भरन्त्यग्ने तानस्मात्प्रणुदस्व लोकादिति दक्षिणाग्नेरेकोल्मुकं धूपायद्धरति
॥७॥दक्षिणपूर्वमवान्तरदेशं सकृत्स्फ्येनोल्लिख्योदीरतामवर इत्यद्भिरवोक्ष्योल्लिखितान्ते निदधाति
॥८॥यजमानो ऽत ऊर्ध्वं प्राचीनावीती कर्माणि करोति
॥९॥मार्जयन्तां मम पितरो मार्जयन्तां मम पितामहा मार्जयन्तां मम प्रपितामहा इत्येकस्प्यायां त्रीनुदकाञ्जलीन्निनयति
॥१०॥प्रसव्यं वा त्रिः परिषिञ्चति
॥११॥त्रीनुदपात्रान्वाजसनेयिनः समामनन्ति
॥१२॥नवमी कण्डिका
सव्यं जान्वाच्यावाचीनपाणिः सकृदाच्छिन्ने बर्हिषि दक्षिणापवर्गान्पिण्डान्ददात्येतत्ते ततासौ ये च त्वामन्वित्येतैः प्रतिमन्त्रम्
॥१॥तूष्णीं चतुर्थम्
॥२॥स कृताकृतः
॥३॥प्रपितामहप्रभृतीन्वा
॥४॥नानामगृहीतं गच्छति
॥५॥यदि बन्धू न विद्यात्स्वधा पितृभ्यः पृथिविषद्भ्य इति प्रथमं पिण्डं दद्यात् । स्वधा पितृभ्योऽन्तरिक्षसद्भ्य इति द्वितीयम् । स्वधा पितृभ्यो दिविषद्भ्य इति तृतीयम्
॥६॥यदि द्विपिता स्यादेकैकस्मिन्पिण्डे द्वौद्वावुपलक्षयेत्
॥७॥यदि जीवपिता न दद्यादा होमात्कृत्वा विरमेत्
॥८॥यन्मे माता प्रममाद यच्चचाराननुव्रतम् । तन्मे रेतः पिता वृङ्क्तामाभुरन्योपपद्यतां पितृभ्यः स्वधाविभ्यः स्वधा नमः पितामहेभ्यः स्वधा विभ्यः स्वधा नमः प्रपितामहेभ्यः स्वधा विभ्यः स्वधा नम इत्युपस्थायात्र पितरो यथाभागं मन्दध्वमित्युक्त्वा पराङावर्तते
॥९॥ओष्मणो व्यावृत उपास्ते
॥१०॥अमीमदन्त पितरः सोम्या इति व्यावृत्त ऊष्मण्यभिपर्यावर्ततेऽव्यावृत्ते वा
॥११॥यः स्थाल्यां शेषस्तमवजिघ्रति ये समानाः समनसः पितरो यमराज्ये । तेषां लोकः स्वधा नमो यज्ञो देवेषु कल्पतां वीरं धत्त पितर इति
॥१२॥आमयाविना प्राश्योऽन्नाद्यकामेन प्राश्यो योऽलमन्नाद्याय सन्नाद्यात्तेन वा प्राश्यः
॥१३॥पूर्ववदेकस्प्यायां त्रीनुदकाञ्जलीनुपनिनीयाञ्जनाभ्यञ्जने वासश्च त्रिरनुपिण्डं ददाति
॥१४॥आङ्क्ष्व ततासावाङ्क्ष्व पितामहासावाङ्क्ष्व प्रपितामहासावित्याञ्जनम्
॥१५॥एवमभ्यञ्जनमभ्यङ्क्ष्वेति मन्त्रं संनमति
॥१६॥यदि नामानि न विद्यादाञ्जतां मम पितर आञ्जतां मम पितामहा आञ्जतां मम प्रपितामहा इत्याञ्जनम् । एवमभ्यञ्जनमभ्यञ्जतामिति मन्त्रं संनमति
॥१७॥दशमी कण्डिका
एतानि वः पितरो वासांस्यतो नोऽन्यत्पितरो मा योष्टेति वाससो दशां छित्त्वा निदधात्यूर्णास्तुकां वा पूर्वे वयसि । उत्तर आयुषि स्वं लोम
॥१॥वीतोष्मसु पिण्डेषु नमो वः पितरो रसायेति नमस्काराञ्जपति
॥२॥गृहान्नः पितरो दत्त सदो वः पितरो देष्मेति पितॄनुपतिष्ठते
॥३॥ऊर्जं बृहन्तीरमृतं घृतं पयः कीलालं परिस्रुतम् । स्वधा स्थ तर्पयत मे पितॄनित्युदकं निनयति
॥४॥मनो न्वाहुवामह इति मनस्वतीभिरुपतिष्ठते
॥५॥उत्तिष्ठत पितरः प्रेत शूरा यमस्य पन्थामनुवेता पुराणम् । धत्तादस्मासु द्रविणं यच्च भद्रं प्र णो ब्रूताद्भागधां देवतास्विति पितॄनुत्थापयति
॥६॥परेत पितरः सोम्या इति प्रवाहण्या पितॄन्प्रवाहयति
॥७॥प्रजापते न त्वदेतानीति यज्ञोपवीती गार्हपत्यदेशं गच्छति
॥८॥यदन्तरिक्षमिति पङ्क्त्या गार्हपत्यमुपतिष्ठते
॥९॥अपां त्वौषधीनां रसं प्राशयामि भूतकृतं गर्भं धत्स्वेति मध्यमं पिण्डं पत्न्यै प्रयच्छति
॥१०॥आधत्त पितरो गर्भं कुमारं पुष्करस्रजम् । यथेह पुरुषोऽसदिति तं पत्नी प्राश्नाति । पुमांसं ह जानुका भवतीति विज्ञायते
॥११॥ये सजाताः समनसो जीवाजीवेषु मामकाः । तेषां श्रीर्मयि कल्पतामस्मिंल्लोके शतं समा इत्यवशिष्टानामेकं यजमानः प्राश्नाति । न वा
॥१२॥स्थाल्यां पिण्डान्समवधाय ये समाना इति सकृदाच्छिन्नमग्नौ प्रहरति
॥१३॥अभून्नो दूतो हविषो जातवेदा अवाड्ढव्यानि सुरभीणि कृत्वा । प्रादाः पितृभ्यः स्वधया ते अक्षन्प्रजानन्नग्ने पुनरप्येहि देवानित्येकोल्मुकं प्रत्यपिसृज्य प्रोक्ष्य पात्राणि द्वन्द्वमभ्युदाहरति
॥१४॥संतिष्ठते पिण्डपितृयज्ञः
॥१५॥अपः पिण्डानभ्यवहरेद्ब्राह्मणं वा प्राशयेत्
॥१६॥सोऽयमेवंविहित एवानाहिताग्नेः
॥१७॥औपासने श्रपणधर्मा होमश्च
॥१८॥अतिप्रणीते वा जुहुयात्
॥१९॥यस्मिञ्जुहुयात्तमुपतिष्ठेत
॥२०॥तत्र गार्हपत्यशब्दो लुप्येत संस्कारप्रतिषेधात्
॥२१॥एकादशी कण्डिका
अमावास्यायां रात्र्यां स्वयं यजमानो यवाग्वाग्निहोत्रं जुहोत्यग्निहोत्रोच्छेषणमातञ्चनार्थं निदधाति
॥१॥नास्यैतां रात्रिं कुमाराश्चन पयसो लभन्ते
॥२॥हुते सायमग्निहोत्रे सायंदोहं दोहयति
॥३॥अग्नीन्परिस्तीर्याग्निमग्नी वा सांनाय्यपात्राणि प्रक्षाल्योत्तरेण गार्हपत्यं दर्भान्संस्तीर्य द्वन्द्वं न्युञ्चि प्रयुनक्ति
॥४॥कुम्भीं शाखापवित्रमभिधानीं निदाने दारुपात्रं दोहनमयस्पात्रं दारुपात्रं वापिधानार्थमग्निहोत्रहवनीमुपवेषं च
॥५॥समावप्रच्छिन्नाग्रौ दर्भौ प्रादेशमात्रौ पवित्रे कुरुते
॥६॥पवित्रे स्थो वैष्णवी वायुर्वां मनसा पुनात्विति तृणं काष्ठं वान्तर्धाय छिनत्ति
॥७॥न नखेन
॥८॥विष्णोर्मनसा पूते स्थ इत्यद्भिरनुमृज्य पवित्रान्तर्हितायामग्निहोत्रहवण्यामप आनीयोदगग्राभ्यां पवित्राभ्यां प्रोक्षणीरुत्पुनाति देवो वः सवितोत्पुनात्विति प्रथमम् । अच्छिद्रेण पवित्रेणेति द्वितीयम् । वसोः सूर्यस्य रश्मिभिरिति तृतीयम्
॥९॥आपो देवीरग्रेपुव इत्यभिमन्त्र्योत्तानानि पात्राणि पर्यावर्त्य शुन्धध्वं दैव्याय कर्मण इति त्रिः प्रोक्ष्य प्रज्ञाते पवित्रे निदधाति । आपो देवीः शुद्धा स्थेमा पात्राणि शुन्धत । उपातङ्क्याय देवानां पर्णवल्कमुत शुन्धत । देवेन सवित्रोत्पूता वसोः सूर्यस्य रश्मिभिः । गां दोहपवित्रे रज्जुं सर्वा पात्राणि शुन्धतेति प्रोक्ष्यमाणान्यभिमन्त्र्यैता आचरन्ति मधुमद्दुहानाः प्रजावतीर्यशसो विश्वरूपाः । बह्वीर्भवन्तीरुपजायमाना इह व इन्द्रो रमयतु गाव इति गा आयतीः प्रतीक्षते यजमानः
॥१०॥द्वादशी कण्डिका
निष्टप्तं रक्षो निष्टप्तोऽघशंस इति गार्हपत्ये सांनाय्यपात्राणि प्रतितय्य धृष्टिरसि ब्रह्म यच्छेत्युपवेषमादाय निरूढं जन्यं भयं निरूढाः सेना अभीत्वर्रारिति गार्हपत्यादुदीचोऽङ्गारान्निरूह्य मातरिश्वनो घर्मोऽसीति तेषु कुम्भीमधिश्रयति
॥१॥अप्रस्रंसाय यज्ञस्योखे उपदधाम्यहम् । पशुभिः संनीतं बिभृतामिन्द्राय शृतं दधीति वा
॥२॥भृगूणामङ्गिरसां तपसा तप्यस्वेति प्रदक्षिणमङ्गारैः पर्यूह्य वसूनां पवित्रमसीति तस्यां प्रागग्रं शाखापवित्रमत्यादधाति
॥३॥उदक् प्रातः
॥४॥कुम्भीमन्वारभ्य वाचं यच्छति
॥५॥पवित्रं वा धारयन्नास्ते
॥६॥अदित्यै रास्नासीत्यभिधानीमादत्ते
॥७॥त्रयस्त्रिंशेऽसि तन्तूनां पवित्रेण सहागहि । शिवेयं रज्जुरभिधान्यघ्नियामुपसेवतामित्यादीयमानामभिमन्त्रयते यजमानः
॥८॥पूषासीति वत्समभिदधाति
॥९॥उपसृष्टां मे प्रब्रूतादिति संप्रेष्यति
॥१०॥उपसृजामीत्यामन्त्रयते । अयक्ष्मा वः प्रजया संसृजामि रायस्पोषेण बहुला भवन्तीरिति वत्समुपसृजति
॥११॥गां चोपसृष्टां विहारं चान्तरेण मा संचारिष्टेति संप्रेष्यति
॥१२॥यद्युपसृष्टां व्यवेयात्सांनाय्यं मा विलोपीति ब्रूयात्
॥१३॥उपसीदामीत्यामन्त्रयते । अयक्ष्मा वः प्रजया संसृजामि रायस्पोषेण बहुला भवन्तीः । ऊर्जं पयः पिन्वमाना घृतं च जीवन्तीरुप वः सदेयमिति दोग्धोपसीदति
॥१४॥न श्रूद्रो दुह्याद्दुह्याद्वा
॥१५॥दारुपात्रे दोग्धि
॥१६॥उपसृष्टां दुह्यमानां धाराघोषं च यजमानोऽनुमन्त्रयते । अयक्ष्मा वः प्रजया संसृजामीत्युपसृष्टाम् । द्यौश्चेमं यज्ञं पृथिवी च संदुहाताम् । धाता सोमेन सह वातेन वायुः । यजमानाय द्रविणं दधात्विति दुह्यमानाम्
॥१७॥त्रयोदशी कण्डिका
उत्सं दुहन्ति कलशं चतुर्बिलमिडां देवीं मधुमतीं सुवर्विदम् । तदिन्द्राग्नी जिन्वतं सूनृतावत्तद्यजमानममृतत्वे दधात्विति धाराधोषम्
॥१॥दुग्ध्वा हरति
॥२॥तं पृच्छति कामधुक्षः प्र णो ब्रूहीन्द्राय हविरिन्द्रियमिति
॥३॥अमूमिति निर्दिशति । यस्यां देवानां मनुष्याणां पयो हितमिति प्रत्याह
॥४॥सा विश्वायुरित्यनुमन्त्रयते
॥५॥देवस्त्वा सविता पुनातु वसोः पवित्रेण शतधारेण सुपुवेति कुम्भ्यां तिरः पवित्रमासिञ्चति
॥६॥हुत स्तोको हुतो द्रप्स इति विप्रुषोऽनुमन्त्रयते
॥७॥एवं द्वितीयां तृतीयां च दोहयति
॥८॥सा विश्वव्यचा इति द्वितीयामनुमन्त्रयते । सा विश्वकर्मेति तृतीयाम्
॥९॥तिस्रो दोहयित्वा बहु दुग्धीन्द्राय देवेभ्यो हव्यमाप्यायतां पुनः । वत्सेभ्यो मनुष्येभ्यः पुनर्दोहाय कल्पतामिति त्रिर्वाचं विसृज्यानन्वारभ्य तूष्णीमुत्तरा दोहयित्वा दोहनेऽप आनीय संपृक्ष्यध्वमृतावरीरिति कुम्भ्यां संक्षालनमानीयाविष्यन्दयन्सुशृतं करोति
॥१०॥दृंह गा दृंह गोपतिं मा वो यज्ञपती रिषदिति वर्त्म कुर्वन्प्रागुद्वासयत्युदक् प्रागुदग्वा
॥११॥एकस्या द्वयोस्तिसृणां वैकाहे द्व्यहे त्र्यहे वा पुरस्तादुपवसथादातञ्चनार्थं दोहयित्वा संततमभिदुहन्त्योपवसथात्
॥१२॥तेन शीतबुध्नमातनक्ति
॥१३॥सोमेन त्वातनच्मीन्द्राय दधीति दध्ना
॥१४॥यज्ञस्य संततिरसि यज्ञस्य त्वा संततिमनुसंतनोमीत्यग्निहोत्रोच्छेषणमन्ववधायायं पयः सोमं कृत्वा स्वां योनिमपिगच्छतु । पर्णवल्कः पवित्रं सौम्यः सोमाद्धि निर्मित इति परिवासनशकलमन्ववदधाति
॥१५॥चतुर्दशी कण्डिका
ओषधयः पूतिकाः क्वलास्तण्डुलाः पर्णवल्का इत्यातञ्चनविकल्पाः
॥१॥उच्छेषणाभावे तण्डुलैरातञ्च्यात्तण्डुलाभाव ओषधीभिः
॥२॥आपो हविःषु जागृत यथा देवेषु जाग्रथ । एवमस्मिन्यज्ञे यजमानाय जागृतेत्ययस्पात्रे दारुपात्रे वाप आनीयादस्तमसि विष्णवे त्वा यज्ञायापि दधाम्यहम् । अद्भिररिक्तेन पात्रेण याः पूताः परिशेरत इति तेनापिदधाति । अमृन्मयं देवपात्रं यज्ञस्यायुषि प्रयुज्यताम् । तिरः पवित्रमतिनीता आपो धारय माति गुरिति यजमानो जपति
॥३॥यदि मृन्मयेनापिदध्यात्तृणं काष्ठं वापिधानेऽनुप्रविध्येत्
॥४॥विष्णो हव्यं रक्षस्वेत्यनधो निदधाति
॥५॥इमौ पर्णं च दर्भं च देवानां हव्यशोधनौ । प्रातर्वेषाय गोपाय विष्णो हव्यं हि रक्षसीति प्रज्ञातं शाखापवित्रं निदधाति
॥६॥तयैव शाखया दर्भैर्वा सायंदोहवत्प्रातर्दोहाय वत्सानपाकरोति
॥७॥उपधाय कपालानि सायंदोहवत्प्रातर्दोहं दोहयति । आतञ्चनापिधाने निधानं च निवर्तते । नासोमयाजी संनयेत्संनयेद्वा
॥८॥नागतश्रीर्महन्द्रं यजेत । त्रयो वै गतश्रिय इत्युक्तम्
॥९॥और्वो गौतमो भारद्वाजस्तेऽनन्तरं सोमेज्याया महेन्द्रं यजेरन्
॥१०॥यो वा कश्चित्
॥११॥ततः संप्रेष्यति परिस्तृणीत परिधत्ताग्निं परिहितोऽग्निर्यजमानं भुनक्तु । अपां रस ओषधीनां सुवर्णो निष्का इमे यजमानस्य सन्तु कामदुघा अमुत्रामुष्मिंल्लोक इति
॥१२॥परिस्तरणीमेतामेके समामनन्ति
॥१३॥उदगग्रैः प्रागग्रैश्च दर्भैरग्नीन्परिस्तृणाति
॥१४॥उदगग्राः पश्चात्पुरस्ताच्च
॥१५॥एतत्कृत्वोपवसति
॥१६॥अग्न्यन्वाधानं वत्सापाकरणमिध्माबर्हिर्वेदो वेदिः । प्रागुत्तरात्परिग्राहात्कृत्वा श्वोभूत आप्यलेपं निनीयोत्तरं परिगृह्णीयात् । परिस्तरणं च । पूर्वेद्युरमावास्यायां पौर्णमास्यां त्वन्वाधानपरिस्तरणोपवासाः
॥१७॥सद्यो वा सद्यस्कालायां सर्वं क्रियते
॥१८॥पञ्चदशी कण्डिका
उदित आदित्ये पौर्णमास्यास्तन्त्रं प्रक्रमयति प्रागुदयादमावास्यायाः
॥१॥चत्वार ऋत्विजः
॥२॥पूर्ववदग्नीन्परिस्तृणाति यद्यपरिस्त्रीर्णा भवन्ति
॥३॥कर्मणे वां देवेभ्यः शकेयमिति हस्ताववनिज्य यज्ञस्य संततिरसि यज्ञस्य त्वा संतत्यै स्तृणामि संतत्यै त्वा यज्ञस्येति गार्हपत्यात्प्रक्रम्य संततामुलपराजीं स्तृणात्याहवनीयात्तूष्णीं दक्षिणामुत्तरां च
॥४॥दक्षिणेनाहवनीयं ब्रह्मयजमानयोरासने प्रकल्पयति पूर्वं ब्रह्मणोऽपरं यजमानस्य
॥५॥उत्तरेण गार्हपत्याहवनीयौ दर्भान्संस्तीर्य द्वन्द्वं न्यञ्चि पात्राणि प्रयुनक्ति दशापराणि दश पूर्वाणि
॥६॥स्फ्यश्च कपालानि चेति यथासमाम्नातमपराणि प्रयुज्य स्रुवं जुहूमुपभृतं ध्रुवां वेदं पात्रीमाज्यस्थालीं प्राशित्रहरणमिडापात्रं प्रणीताप्रणयनमिति पूर्वाणि
॥७॥तान्युत्तरेणावशिष्टानि
॥८॥अन्वाहार्यस्थालीमश्मानमुपवेषं प्रातर्दोहपात्राणीति
॥९॥प्रणीताप्रणयनं पात्रसंसादनात्पूर्वमेके समामनन्ति । खादिरः स्रुवः पर्णमयी जुहूराश्वत्थ्युपभृद्वैकङ्कती ध्रुवा
॥१०॥एतेषां वा वृक्षाणामेकस्य स्रुचः कारयेत्
॥११॥बाहुमात्र्योऽरत्निमात्र्यो वाग्राग्रास्त्वक्तोबिला हंसमुख्यः
॥१२॥स्फ्यः शम्या प्राशित्रहरणमिति खादिराणि
॥१३॥वारणान्यहोमार्थानि भवन्ति
॥१४॥षोडशी कण्डिका
अत्र पूर्ववत्पवित्रे करोति यदि न संनयति
॥१॥संनयतस्तु ते विभवतः
॥२॥वानस्पत्योऽसि देवेभ्यः शुन्धस्वेति प्रणीताप्रणयनं चमसमद्भिः परिक्षालयति तूष्णीं कंसं मृन्मयं च । कंसेन प्रणयेद्ब्रह्मवर्चसकामस्य मृन्मयेन प्रतिष्ठाकामस्य गोदोहनेन पशुकामस्य । अपरेण गार्हपत्यं पवित्रान्तर्हितं चमसं निधाय तस्मिन्को वो गृह्णाति स वो गृह्णातु कस्मै वो गृह्णामि तस्मै वो गृह्णामि पोषाय व इत्यप आनयति
॥३॥अपो गृह्णन्ग्रहीष्यंश्च पृथिवीं मनसा ध्यायति
॥४॥उपबिलं चमसं पूरयित्वा प्रोक्षणीवदुत्पूयाभिमन्त्र्य ब्रह्मन्नपः प्रणेष्यामि यजमान वाचं यच्छेति संप्रेष्यति
॥५॥सर्वत्र प्रसव उक्ते करोति
॥६॥प्रणीयमानासु वाचं यच्छतोऽध्वर्युर्यजमानश्चा हविष्कृतः
॥७॥को वः प्रणयति स वः प्रणयत्वपो देवीः प्रणयानि यज्ञं संसादयन्तु नः । इरं मदन्तीर्घृतपृष्ठा उदाकुः सहस्रपोषं यजमाने न्यञ्चतीरिति समं प्राणैर्धारयमाणः स्फ्येनोपसंगृह्याविषिञ्चन्हरति
॥८॥पृथिवीं च मनसा ध्यायति
॥९॥को वो युनक्ति स वो युनक्तित्युत्तरेणाहवनीयमसंस्पृष्टा दर्भेषु सादयति
॥१०॥नेङ्गयन्ति नेलयन्त्या संस्थातोर्दर्भैरभिच्छाद्य
॥११॥संविशन्तां दैवीर्विशः पात्राणि देवयज्याया इति सपवित्रेण पाणिना पात्राणि संमृश्य
॥१२॥सप्तदशी कण्डिका
वानस्पत्यासि दक्षाय त्वेत्यग्निहोत्रहवणीमादत्ते । वेषाय त्वेति शूर्पम्
॥१॥प्रत्युष्टं रक्षः प्रत्युष्टा अरातय इत्याहवनीये गार्हपत्ये वा प्रतितप्य यजमान हविर्निर्वप्स्यामीत्यामन्त्रयते
॥२॥प्रवसत्यग्ने हविर्निर्वप्स्यामीति
॥३॥उर्वन्तरिक्षमन्विहीति शकटायाभिप्रव्रजति
॥४॥अपरेण गार्हपत्यं प्रागीषमुदगीषं वा नद्धयुगं शकटमवस्थितं भवति व्रीहिमद्यवमद्वा
॥५॥धूरसीति दक्षिणां युगधुरमभिमृशत्युत्तरां वा
॥६॥त्वं देवानामसि सस्नितममित्युत्तरामीषामालभ्य जपति
॥७॥विष्णुस्त्वाक्रंस्तेति सव्ये चक्रे दक्षिणं पादमत्याधायाहुतमसि हविर्धानमित्यारोहति
॥८॥उरु वातायेति परीणाहमपच्छाद्य मित्रस्य त्वा चक्षुषा प्रेक्ष इति पुरोडाशीयान्प्रेक्षते
॥९॥निरस्तं रक्षो निरस्तोऽघशंस इति यदन्यत्पुरोडाशीयेभ्यस्तन्निरस्योर्जाय वः पयो मयि धेहीत्यभिमन्त्र्य दशहोतारं व्याख्याय शूर्पे पवित्रे निधाय तस्मिन्नग्निहोत्रहवण्या हवींषि निर्वपति तया वा पवित्रवत्या
॥१०॥व्रीहीन्यवान्वा
॥११॥यच्छन्तां पञ्चेति मुष्टिं गृहीत्वा स्रुचि मुष्टिमोप्य देवस्य त्वेत्यनुद्रुत्याग्नये जुष्टं निर्वपामीति त्रिर्यजुषा तूष्णीं चतुर्थम्
॥१२॥अष्टादशी कण्डिका
एवमुत्तरं यथादेवतमग्नीषोमाभ्यामिति पौर्णमास्याम् । इन्द्राग्निभ्यामित्यमावास्यायाम्
॥१॥चतुरो मुष्टिन्निरुप्य निरुप्तेष्वन्वोप्येदं देवानामिति निरुप्तानभिमृशति । इदमु नः सहेत्यवशिष्टान्
॥२॥स्फात्यै त्वा नारात्या इति निरुप्तानेवाभिमन्त्र्येदमहं निर्वरुणस्य पाशादित्युपनिष्क्रम्य स्वरभिव्यख्यमिति प्राङ् प्रेक्षते
॥३॥सुवरभिविख्येषमिति सर्वं विहारमनुवीक्षते । वैश्वानरं ज्योतिरित्याहवनीयं स्वाहा द्यावापृथिवीभ्यामिति स्कन्नानभिमन्त्र्यं दृंहन्तां दुर्या द्यावापृथिव्योरिति प्रत्यवरोह्योर्वन्तरिक्षमन्विहीति हरति
॥४॥अदित्यास्त्वोपस्थे सादयामीत्यपरेण गार्हपत्यं यथादेवतमुपसादयति
॥५॥आहवनीयं वा यद्याहवनीये श्रपयति
॥६॥यदि पात्र्या निर्वपेद्दक्षिणतः स्फ्यमुपधाय तस्यां सर्वाञ्छकटमन्त्राञ्जपेत्
॥७॥एकोनविंशी कण्डिका
सशूकायामग्निहोत्रहवण्यामप आनीय पूर्ववदुत्पूयाभिमन्त्र्य ब्रह्मन्प्रोक्षिष्यामीति ब्रह्माणमामन्त्र्य देवस्य त्वेत्यनुद्रुत्याग्नये वो जुष्टं प्रोक्षामीति यथादेवतं हविस्त्रिः प्रोक्षन्नाग्निमभिप्रोक्षेत्
॥१॥यं द्विष्यात्तस्याभिप्रोक्षेत्
॥२॥उत्तानानि पात्राणि पर्यावर्त्य शुन्धध्वं दैव्याय कर्मण इति त्रिः प्रोक्ष्य प्रोक्षणीशेषमग्रेण गार्हपत्यं निधाय देवस्य त्वा सवितुः प्रसव इति कृष्णाजिनमादायावधूतं रक्षोऽवधूता अरातय इत्युत्करे त्रिरवधूनोत्यूर्ध्वग्रीवं बहिष्टाद्विशसनम्
॥३॥अदित्यास्त्वगसीत्युत्तरेण गार्हपत्यमुत्करदेशे वा प्रतीचीनग्रीवमुत्तरलोमोपस्तृणाति
॥४॥पुरस्तात्प्रतीचीं भसदमुपसमस्यति
॥५॥अनुत्सृजन्कृष्णाजिनमधिषवणमसीति तस्मिन्नुलूखलमधिवर्तयति
॥६॥अनुत्सृजन्नुलूखलमग्नेस्तनूरसीति तस्मिन्हविरावपति त्रिर्यजुषा तूष्णीं चतुर्थम्
॥७॥अद्रिरसि वानस्पत्य इति मुसलमादाय हविष्कृदेहीति त्रिरवहन्ति । अनवघ्नन्वा हविष्कृतं ह्वयति
॥८॥हविष्कृदेहीति ब्राह्मणस्य हविष्कृदागहीति राजन्यस्य हविष्कृदाद्रवेति वैश्यस्य हविष्कृदाधावेति शूद्रस्य
॥९॥प्रथमं वा सर्वेषाम्
॥१०॥अव रक्षो दिवः सपत्नं वध्यासमित्यवहन्ति
॥११॥विंशी कण्डिका
उच्चैः समाहन्तवा इति संप्रेष्यति
॥१॥कुटरुरसि मधुजिह्व इत्याग्नीध्रोऽश्मानमादायेषमावदोर्जमावदेति दृषदुपले समाहन्ति
॥२॥द्विर्दृषदि सकृदुपलायां त्रिः संचारयन्नवकृत्वः संपादयति
॥३॥सावित्रेण वा शम्यामादाय तया समाहन्ति
॥४॥वर्षवृद्धमसीति पुरस्ताच्छूर्पमुपोहत्युत्तरतो वा
॥५॥वर्षवृद्धा स्थेत्यभिमन्त्र्य प्रति त्वा वर्षवृद्धं वेत्त्वित्युद्वपति
॥६॥परापूतं रक्षः परापूता अरातय इत्युत्करे परापुनाति
॥७॥प्रविद्धं रक्षः पराध्माता अमित्रा इति तुषान्प्रस्कन्दतोऽनुमन्त्रयते
॥८॥मध्यमे पुरोडाशकपाले तुषानोप्य रक्षसां भागोऽसीत्यधस्तात्कृष्णाजिनस्योपवपत्युत्तरमपरमवान्तरदेशम्
॥९॥हस्तेनोपवपतीति बृह्वृचब्राह्मणम्
॥१०॥अद्भिः कपालं संस्पर्श्य प्रज्ञातं निधायाप उपस्पृश्य वायुर्वो वि विनक्त्विति विविच्य देवो वः सविता हिरण्यपाणिः प्रतिगृह्णात्विति पात्र्यां तण्डुलान्प्रस्कन्दयित्वादब्धेन वश्चक्षुषावपश्यामि रायस्पोषाय वर्चसे सुप्रजास्त्वाय चक्षुषो गोपीथायाशिषमाशास इत्यवेक्ष्य त्रिष्फलीकर्तवा इति संप्रेष्यति
॥११॥या यजमानस्य पत्नी साभिद्रुत्यावहन्ति
॥१२॥यो वा कश्चिदविद्यमानायाम्
॥१३॥एकविंशी कण्डिका
देवेभ्यः शुन्धध्वं देवेभ्यः शुन्ध्यध्वं देवेभ्यः शुम्भध्वमिति सुफलीकृतान्करोति । तूष्णीं वा
॥१॥प्रक्षाल्य तुण्डुलांस्त्रिष्फलीक्रियमाणानां यो न्यङ्गो अवशिष्यते । रक्षसां भागधेयमापस्तत्प्रवहतादित इत्युत्करे त्रिर्निनयति
॥२॥अत्र कृष्णाजिनस्यादानादि प्रागधिवर्तनात्कृत्वा दिव स्कम्भनिरसीति कृष्णाजिन उदीचीनकुम्बां शम्यां निधाय धिषणासि पर्वत्येति शम्यायां दृषदमत्याधाय धिषणासि पार्वतेयीति दृषद्युपलामत्यादधाति
॥३॥पूर्ववदनुत्सर्गः
॥४॥अंशव स्थ मधुमन्त इति तण्डुलानभिमन्त्र्य देवस्य त्वेत्यनुद्रुत्याग्नये जुष्टमधिवपामीति यथादेवतं दृषदि तण्डुलानधिवपति त्रिर्यजुषा तूष्णीं चतुर्थम्
॥५॥प्राणाय त्वेति प्राचीमुपलां प्रोहत्यपानाय त्वेति प्रतीचीं व्यानाय त्वेति मध्यदेशे व्यवधारयति प्राणाय त्वापानाय त्वा व्यानाय त्वेति संततं पिनष्टि
॥६॥दीर्घामनु प्रसितिमायुषे धामिति प्राचीमन्ततोऽनुप्रोह्य देवो वः सविता हिरण्यपाणिः प्रतिगृह्णात्विति कृष्णाजिने पिष्टानि प्रस्कन्दयित्वादब्धेन वश्चक्षुषावेक्ष इत्यवेक्ष्यासंवपन्ती पिंषाणूनि कुरुतादिति संप्रेष्यति
॥७॥दासी पिनष्टि पत्नी वा
॥८॥अपि वा पत्न्यवहन्ति शूद्रा पिनष्टि
॥९॥द्वाविंशी कण्डिका
आहवनीये गार्हपत्ये वा हवींषि श्रपयति
॥१॥धृष्टिरसि ब्रह्म यच्छेत्युपवेषमादाय रक्षसः पाणिं दहाहिरसि बुध्निय इत्यभिमन्त्र्यापाग्नेऽग्निमामादं जहीति गार्हपत्यात्प्रत्यञ्चावङ्गारौ निर्वर्त्य निष्क्रव्यादं सेधेति तयोरन्यतरमुत्तरमपरमवान्तरदेशं निरस्या देवयजं वहेति दक्षिणमवस्थाप्य ध्रुवमसीति तस्मिन्नध्यमं पुरोडाशकपालमुपदधाति
॥२॥निर्दग्धं रक्षो निर्दग्धा अरातय इति कपाले ऽङ्गारमत्याधाय धर्त्रमसीति पूर्वं द्वितीयं संस्पृष्टम् । धरुणमसीति पूर्वं तृतीयम् । चिदसि विश्वासु दिक्षु सीदेति मध्यमाद्दक्षिणम् । परिचिदसि विश्वासु दिक्षु सीदेति मध्यमादुत्तरम्
॥३॥यथायोगमितराणि
॥४॥त्रयोविंशी कण्डिका
मरुतां शर्धोऽसीति षष्ठम् । धर्मासीति सप्तमम् । चित स्थेत्यष्टमम्
॥१॥एवमुत्तरं कपालयोगमुपदधाति
॥२॥अपि वा मध्यममुपधाय सव्यस्य पाणेरङ्गुल्याभिनिधाय निर्दग्धं रक्षो निर्दग्धा अरातय इति कपालेऽङ्गारमत्याधाय धर्त्रमसीति तस्मादपरं धरुणमसीति तस्मात्पूर्वं यथायोगमितराणि
॥३॥तस्यतस्याङ्गुल्याभिनिधानमङ्गाराधिवर्तनं च वाजसनेयिनः समामनन्ति
॥४॥चित स्थोर्ध्वचित इत्यूर्ध्वमष्टाभ्य उपदधाति तूष्णीं वा
॥५॥भृगूणामङ्गिरसां तपसा तप्यध्वमिति वेदेन कपालेष्वङ्गारानध्यूह्य मदन्तीरधिश्रयति
॥६॥चतुर्विंशी कण्डिका
प्रक्षालितायां पात्र्यां निष्टप्तोपवातायां पवित्रवत्यां पिष्टानि संवपति देवस्य त्वेत्यनुद्रुत्याग्नये जुष्टं संवपामीति यथादेवतं त्रिर्यजुषा तूष्णीं चतुर्थम्
॥१॥संवपन्वाचं यच्छति तामभिवासयन्विसृजते
॥२॥प्रोक्षणीवत्पिष्टान्युत्पूय प्रणीताभिः संयौति
॥३॥अन्या वा यजुषोत्पूय यदि प्रणीता नाधिगच्छेत्
॥४॥स्रुवेण प्रणीताभ्य आदाय वेदेनोपयम्य समापो अद्भिरग्मतेति पिष्टेष्वानीयाद्भिः परि प्रजाता इति तप्ताभिरनुपरिप्लाव्य जनयत्यै त्वा संयौमीति संयुत्य मखस्य शिरोऽसीति पिण्डं कृत्वा यथाभागं व्यावर्तेथामिति विभज्य समौ पिण्डौ कृत्वा यथादेवतमभिमृशतीदमग्नेरित्याग्नेयम् । इदमग्नीषोमयोरित्यग्नीषोमीयम्
॥५॥इदमहं सेनाया अभीत्वर्यै मुखमपोहामीति वेदेन कपालेभ्योऽङ्गारानपोह्य घर्मोऽसि विश्वायुरित्याग्नेयं पुरोडाशमष्टासु कपालेष्वधिश्रयति
॥६॥एवमुत्तरमुत्तरेषु
॥७॥एवमनुपूर्वाण्येवैष्वत ऊर्ध्वं कर्माणि क्रियन्ते
॥८॥पञ्चविंशी कण्डिका
समानजातीयेन कर्मणैकैकमपवर्जयति
॥१॥यानि विभवन्ति सकृत्तानि क्रियन्ते
॥२॥उरु प्रथस्वोरु ते यज्ञपतिः प्रथतामिति पुरोडाशं प्रथयन्सर्वाणि कपालान्यभिप्रथयति
॥३॥अतुङ्गमनपूपाकृतिं कूर्मस्येव प्रतिकृतिमश्वशफमात्रं करोति
॥४॥यावन्तं वा मन्यते
॥५॥तं न सत्रा पृथं करोतीत्येके
॥६॥त्वचं गृह्णीष्वेत्यद्भिः श्लक्ष्णीकरोत्यनतिक्षारयन्
॥७॥अन्तरितं रक्षोऽन्तरिता अरातय इति सर्वाणि हवींषि त्रिः पर्यग्नि कृत्वा देवस्त्वा सविता श्रपयत्वित्युल्मुकैः परितपति
॥८॥अग्निस्ते तनुवं मातिधागिति दर्भैरभिज्वलयति ज्वालैर्वा
॥९॥अविदहन्तः श्रपयतेति वाचं विसृजते
॥१०॥आग्नीध्रो हवींषि सुशृतानि करोति
॥११॥सं ब्रह्मणा पृच्यस्वेति वेदेन पुरोडाशे साङ्गारं भस्माध्यूहति
॥१२॥अत्र वा वाचं विसृजेत्
॥१३॥अङ्गुलिप्रक्षालनं पात्रीनिर्णेजनं चोल्मुकेनाभितप्य स्फ्येनान्तर्वेदि तिस्रो लोखा लिखति प्राचीरुदीचीर्वा
॥१४॥तास्वसंस्यन्दयंस्त्रिर्निनयति प्रत्यगपवर्गमेकताय स्वाहेत्येतैः प्रतिमन्त्रम्
॥१५॥निनीय वाभितपेदभितपेत्
॥१६॥