- १ॐ गकाररूपाय नमः
- २ॐ गम्बीजाय नमः
- ३ॐ गणेशाय नमः
- ४ॐ गणवन्दिताय नमः
- ५ॐ गणनीयाय नमः
- ६ॐ गणाय नमः
- ७ॐ गण्याय नमः
- ८ॐ गणनातीतसद्गुणाय नमः
- ९ॐ गगनादिकसृजे नमः
- १०ॐ गङ्गासुताय नमः
- ११ॐ गङ्गासुतार्चिताय नमः
- १२ॐ गङ्गाधरप्रीतिकराय नमः
- १३ॐ गवीशेड्याय नमः
- १४ॐ गदापहाय नमः
- १५ॐ गदाधरनुताय नमः
- १६ॐ गद्यपद्यात्मककवित्वदाय नमः
- १७ॐ गजास्याय नमः
- १८ॐ गजलक्ष्मीवते नमः
- १९ॐ गजवाजिरथप्रदाय नमः
- २०ॐ गञ्जानिरतशिक्षाकृतये नमः
- २१ॐ गणितज्ञाय नमः
- २२ॐ गण्डदानाञ्चिताय नमः
- २३ॐ गन्त्रे नमः
- २४ॐ गण्डोपलसमाकृतये नमः
- २५ॐ गगनव्यापकाय नमः
- २६ॐ गम्याय नमः
- २७ॐ गमनादिविवर्जिताय नमः
- २८ॐ गण्डदोषहराय नमः
- २९ॐ गण्डभ्रमद्भ्रमरकुण्डलाय नमः
- ३०ॐ गतागतज्ञाय नमः
- ३१ॐ गतिदाय नमः
- ३२ॐ गतमृत्यवे नमः
- ३३ॐ गतोद्भवाय नमः
- ३४ॐ गन्धप्रियाय नमः
- ३५ॐ गन्धवाहाय नमः
- ३६ॐ गन्धसिन्धूरबृन्दगाय नमः
- ३७ॐ गन्धादिपूजिताय नमः
- ३८ॐ गव्यभोक्त्रे नमः
- ३९ॐ गर्गादिसन्नुताय नमः
- ४०ॐ गरिष्ठाय नमः
- ४१ॐ गरभिदे नमः
- ४२ॐ गर्वहराय नमः
- ४३ॐ गरलिभूषणाय नमः
- ४४ॐ गविष्ठाय नमः
- ४५ॐ गर्जितारावाय नमः
- ४६ॐ गम्भीरहृदयाय नमः
- ४७ॐ गदिने नमः
- ४८ॐ गलत्कुष्ठहराय नमः
- ४९ॐ गर्भप्रदाय नमः
- ५०ॐ गर्भार्भरक्षकाय नमः
- ५१ॐ गर्भाधाराय नमः
- ५२ॐ गर्भवासिशिशुज्ञानप्रदाय नमः
- ५३ॐ गरुत्मत्तुल्यजवनाय नमः
- ५४ॐ गरुडध्वजवन्दिताय नमः
- ५५ॐ गयेडिताय नमः
- ५६ॐ गयाश्राद्धफलदाय नमः
- ५७ॐ गयाकृतये नमः
- ५८ॐ गदाधरावतारिणे नमः
- ५९ॐ गन्धर्वनगरार्चिताय नमः
- ६०ॐ गन्धर्वगानसन्तुष्टाय नमः
- ६१ॐ गरुडाग्रजवन्दिताय नमः
- ६२ॐ गणरात्रसमाराध्याय नमः
- ६३ॐ गर्हणास्तुतिसाम्यधिये नमः
- ६४ॐ गर्ताभनाभये नमः
- ६५ॐ गव्यूतिदीर्घतुण्डाय नमः
- ६६ॐ गभस्तिमते नमः
- ६७ॐ गर्हिताचारदूराय नमः
- ६८ॐ गरुडोपलभूषिताय नमः
- ६९ॐ गजारिविक्रमाय नमः
- ७०ॐ गन्धमूषवाजिने नमः
- ७१ॐ गतश्रमाय नमः
- ७२ॐ गवेषणीयाय नमः
- ७३ॐ गहनाय नमः
- ७४ॐ गहनस्थमुनिस्तुताय नमः
- ७५ॐ गवयच्छिदे नमः
- ७६ॐ गण्डकभिदे नमः
- ७७ॐ गह्वरापथवारणाय नमः
- ७८ॐ गजदन्तायुधाय नमः
- ७९ॐ गर्जद्रिपुघ्नाय नमः
- ८०ॐ गजकर्णिकाय नमः
- ८१ॐ गजचर्मामयच्छेत्रे नमः
- ८२ॐ गणाध्यक्षाय नमः
- ८३ॐ गणार्चिताय नमः
- ८४ॐ गणिकानर्तनप्रीताय नमः
- ८५ॐ गच्छते नमः
- ८६ॐ गन्धफलीप्रियाय नमः
- ८७ॐ गन्धकादिरसाधीशाय नमः
- ८८ॐ गणकानन्ददायकाय नमः
- ८९ॐ गरभादिजनुर्हर्त्रे नमः
- ९०ॐ गण्डकीगाहनोत्सुकाय नमः
- ९१ॐ गण्डूषीकृतवाराशये नमः
- ९२ॐ गरिमालघिमादिदाय नमः
- ९३ॐ गवाक्षवत्सौधवासिने नमः
- ९४ॐ गर्भिताय नमः
- ९५ॐ गर्भिणीनुताय नमः
- ९६ॐ गन्धमादनशैलाभाय नमः
- ९७ॐ गण्डभेरुण्डविक्रमाय नमः
- ९८ॐ गदिताय नमः
- ९९ॐ गद्गदारावसंस्तुताय नमः
- १००ॐ गह्वरीपतये नमः
- १०१ॐ गजेशाय नमः
- १०२ॐ गरीयसे नमः
- १०३ॐ गद्येड्याय नमः
- १०४ॐ गतभिदे नमः
- १०५ॐ गदितागमाय नमः
- १०६ॐ गर्हणीयगुणाभावाय नमः
- १०७ॐ गङ्गादिकशुचिप्रदाय नमः
- १०८ॐ गणनातीतविद्याश्रीबलायुष्यादिदायकाय नमः
इति गकारादि गणपत्यष्टोत्तरशतनामावलिः सम्पूर्णा