मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शक्ति अष्टोत्तरशत दिव्यस्थानीय नाम स्तोत्रम्

3

मत्स्यपुराणम्

दक्ष उवाच

एवमुक्तोऽब्रवीद् दक्षः केषु केषु मयाऽनघे ।

तीर्थेषु च त्वं द्रष्टव्या स्तोतव्या कैश्च नामभिः ॥

॥१॥

देव्युवाच

सर्वगा सर्वभूतेषु द्रष्टव्या सर्वतो भुवि ।

सप्तलोकेषु यत्किञ्चिद् रहितं न मया विना ॥

॥२॥

तथाऽपि येषु स्थानेषु द्रष्टव्याः सिद्धिमीप्सुभिः ।

स्मर्तव्या भूतिकामैर्वा तानि वक्ष्यामि तत्त्वतः ॥

॥३॥

स्तोत्रम्

वाराणस्यां विशालाक्षी नैमिषे लिङ्गधारिणी ।

प्रयागे ललिता देवी कामुका गन्धमादने ॥

॥४॥

मानसे कुमुदा नाम विश्वकाया तथेश्वरे ।

गोमन्ते गोमती नाम मन्दरे कामचारिणी ॥

॥५॥

मदोत्कटा चैत्ररथे जयन्ती हस्तिनापुरे ।

कान्यकुब्जे तथा गौरी रम्भा मलयपर्वते ॥

॥६॥

एकाम्रके कीर्तिमती विश्वां विश्वेश्वरे विदुः ।

पुष्करे पुरुहूतेति केदारे मार्गदायिनी ॥

॥७॥

नन्दा हिमवतः पृष्ठे गोकर्णे भद्रकर्णिका ।

स्थानेश्वरे भवानी तु बिल्वके बिल्वपत्रिका ॥

॥८॥

श्रीशैले माधवी नाम भद्रा भद्रेश्वरे तथा ।

जया वराहशैले तु कमला कमलालये ॥

॥९॥

रुद्रकोट्यां च रुद्राणी काली कालञ्जरे गिरौ ।

महालिङ्गे तु कपिला मर्कोटे मुकुटेश्वरी ॥

॥१०॥

शालग्रामे महादेवी शिवलिङ्गे जलप्रिया ।

मायापुर्यां कुमारी तु सन्ताने ललिता तथा ॥

॥११॥

उत्पलाक्षी सहस्राक्षे हिरण्याक्षे महोत्पला ।

गयायां मङ्गला नाम विमला पुरुषोत्तमे ॥

॥१२॥

विपाशायामघोराक्षी पाटला पुण्ड्रवर्धने ।

नारायणी सुपार्श्वे तु त्रिकूटे रुद्रसुन्दरी ॥

॥१३॥

विपुले विपुला नाम कल्याणी मलयाचले ।

कौटवी कोटितीर्थेषु सुगन्धा माधवे वने ॥

॥१४॥

गोदाश्रमे त्रिसन्ध्या तु गङ्गाद्वारे रतिप्रिया ।

शिवकुण्डे शिवानन्दा नन्दिनी देविकातटे ॥

॥१५॥

रुक्मिणी द्वारवत्यां तु राधा वृन्दावने वने ।

देवकी मथुरायां तु पाताले परमेश्वरी ॥

॥१६॥

चित्रकूटे तथा सीता विन्ध्ये विन्ध्याधिवासिनी ।

सह्यद्वारे करीरा तु हरिश्चन्द्रे तु चन्द्रिका ॥

॥१७॥

रमणा रामतीर्थे तु यमुनायां मृगावती ।

करवीरे महालक्ष्मीरुमादेवी विनायके ॥

॥१८॥

अरोगा वैद्यनाथे तु महाकाले महेश्वरी ।

अभयेत्युष्णतीर्थेषु चामृता विन्ध्यकन्दरे ॥

॥१९॥

माण्डव्ये माण्डवी नाम स्वाहा माहेश्वरे पुरे ।

छागलाण्डे प्रचण्डा तु चण्डिकामरकण्टके ॥

॥२०॥

सोमेश्वरे वरारोहा प्रभासे पुष्करावती ।

देवमाता सरस्वत्यां पारा पारातटे मता ॥

॥२१॥

महालये महाभागा पयोष्ण्यां पिङ्गलेश्वरी ।

सिंहिका कृतशौचे तु कार्त्तिकेये तु शङ्करी ॥

॥२२॥

उत्पलावर्तके लोला सुभद्रा शोणसङ्गमे ।

महासिद्धवने लक्ष्मीरनङ्गा भरताश्रमे ॥

॥२३॥

जालन्धरे विश्वमुखी तारा किष्किन्धपर्वते ।

देवदारुवने पुष्टिर्मेधा काश्मीरमण्डले ॥

॥२४॥

भीमादेवी हिमाद्रौ तु पुष्टिर्विश्वेश्वरे तथा ।

कपालमोचने शुद्धिर्माता कायावरोहणे ॥

॥२५॥

शङ्खोद्धारे ध्वनिर्नाम धृतिः पिण्डारके तथा ।

काला तु चन्द्रभागायामच्चोदे शिवकारिणी ॥

॥२६॥

वेणायाममृता नाम बदर्याम् उर्वशी तथा ।

औषधी चोत्तरकुरौ कुशद्वीपे कुशोदका ॥

॥२७॥

मन्मथा हेमकूटे तु मुकुटे सत्यवादिनी ।

अश्वत्थे वन्दनीया तु निधिर्वैश्रवणालये ॥

॥२८॥

गायत्री वेदवदने पार्वती शिवसन्निधौ ।

देवलोके तथेन्द्राणी ब्रह्मास्येषु सरस्वती ॥

॥२९॥

सूर्यबिम्बे प्रभा नाम मातॄणां वैष्णवी तथा ।

अरुन्धती सतीनां तु रामासु च तिलोत्तमा ॥

॥३०॥

चित्ते ब्रह्मकला नाम शक्तिः सर्वशरीरिणाम् ।

एतदुद्देशतः प्रोक्तं नामाष्टशतमुत्तमम् ॥

॥३१॥

अष्टोत्तरं च तीर्थानां शतमेतदुदाहृतम् ।

यः पठेच्छृणुयाद्वाऽपि सर्वपापैः प्रमुच्यते ॥

॥३२॥

एषु तीर्थेषु यः कृत्वा स्नानं पश्यन्ति मां नरः ।

सर्वपापविनिर्मुक्तः कल्पं शिवपुरे वसेत् ॥

॥३३॥

यस्तु मत्परमः कालं करोत्येतेषु मानवः ।

स भित्त्वा ब्रह्मसदनं पदमभ्येति शाङ्करम् ॥

॥३४॥

नामाष्टशतकं यस्तु श्रावयेच्छिवसन्निधौ ।

तृतीयायामथाष्टम्यां बहुपुत्रो भवेन्नरः ॥

॥३५॥

गोदाने श्राद्धकाले वा अहन्यहनि वा पुनः ।

देवार्चनविधौ विद्वान् पठन् ब्रह्माधिगच्छति ॥

॥३६॥

एवं वदन्ती सा तत्र ददाहात्मानमात्मना ।

स्वायम्भुवेऽपि काले च दक्षप्राचेतसोऽभवत् ॥

॥३७॥

पार्वती चाभवद् देवी शिवदेहार्धधारिणी ।

मेनागर्भसमुत्पन्ना भुक्तिमुक्तिफलप्रदा ॥

॥३८॥

अरुन्धती जपन्त्येतत्तदाप्ता योगमुत्तमम् ।

पुरूरवाश्च राजर्षिर्लोकेषु जयतामगात् ॥

॥३९॥

ययातिः पुत्रलाभं तु धनलाभं तु भार्गवः

तथाऽन्ये देवदैत्याश्च ब्राह्मणाः क्षत्रियास्तथा

वैश्याः शूद्राश्च बहवः सिद्धिमीयुर्यथेप्सिताम् ॥

॥४०॥

यत्रेतल्लिखितं तिष्ठेत् पूज्यते देवसन्निधौ ।

न तत्र शोकदौर्गत्यं कदाचिदपि जायते ॥

॥४१॥

इति श्रीमत्स्यमहापुराणे त्रयोदशेऽध्याये श्री-शक्त्यष्टोत्तरशतदिव्यस्थानीयनामस्तोत्रं सम्पूर्णम्