अध्ययनम्
- अनुक्रमणिका
- आवाहनम् उपचाराश्च · मन्त्रपुष्पम् · अष्टपुष्पपूजा · उपस्थानम्
- मूलम्
- तैत्तिरीय-ऋग्वेदपाठः याजुषमन्त्ररत्नाकरानुसारेण। स्वरः गुरोः समीपे एव।
आवाहनम् उपचाराश्च
हृत्पद्मकर्णिकामध्यात् उमया सह शङ्कर। आगच्छत्वं महादेव सर्वैरावरणैः सह॥
॥१॥आत्वा॑ वहन्तु॒ हर॑यः॒ सचे॑तसः श्वे॒तैरश्वै᳚ः स॒ह के॑तु॒मद्भि॒र्वाता॑जितै॒र्बल॑वद्भि॒र्मनो॑जवैः॒ राया॑हि शी॒घ्रं मम॑ ह॒व्याय॑ श॒र्वोम्। ईशानः सर्व॑विद्या॒ना॒मीश्वरः सर्व॑भूता॒नां॒ ब्रह्माधि॑पति॒र्ब्रह्म॒णोऽधि॑पति॒र्ब्रह्मा॑ शि॒वो मे॑ अस्तु सदाशि॒वोम्। ईशानमावाहयामि॥
॥२॥स्वामिन् सर्वजगन्नाथ यावत्पूजावसानकम्। तावत् त्वं प्रीतिभावेन लिङ्गेऽस्मिन् सन्निधिं कुरु॥ स्थिराे भव। वरदो भव। सुप्रसन्नो भव। सुप्रतिष्ठितो भव॥
॥३॥स॒द्योजा॒तं प्र॑पद्यामि। आसनं समर्पयामि। स॒द्योजा॒ताय॒ वै नमो॒ नमः॑। पाद्यं समर्पयामि। भ॒वे भ॑वे॒ नाति॑भवे भवस्व॒ माम्। अर्घ्यं समर्पयामि। भ॒वोद्भा॑वाय॒ नमः॑। आचमनीयं समर्पयामि॥
॥४॥वा॒म॒दे॒वाय॒ नमः॑। स्नानं समर्पयामि। ज्ये॒ष्ठाय॒ नमः॑। वस्त्रं समर्पयामि। श्रे॒ष्ठाय॒ नमः॑। उपवीतं समर्पयामि। रु॒द्राय॒ नमः॑। आभरणं समर्पयामि। काला॑य॒ नमः॑। गन्धं समर्पयामि। कल॑विकरणाय॒ नमो॒ बल॑विकरणाय॒ नमो॒ बला॑य॒ नमो॒ बल॑प्रमथनाय॒ नमः॑। अक्षतान् समर्पयामि। सर्व॑भूतदमनाय॒ नमो॑ म॒नोन्म॑नाय॒ नमः॑। पुष्पाणि समर्पयामि॥
॥५॥मन्त्रपुष्पम्
वि॒श्वत॑श्चक्षुरु॒त वि॒श्वतो॑मुखो वि॒श्वतो॑हस्त उ॒त वि॒श्वत॑स्पात्। संबा॒हुभ्यां॒ नम॑ति॒ संपत॑त्रै॒र्द्यावा॑पृथि॒वी ज॒नय॑न् दे॒व एकः॑॥ मन्त्रपुष्पं समर्पयामि॥
॥६॥यो वेदादौ स्व॑रः प्रो॒क्तो॒ वे॒दान्ते॑ च प्र॒तिष्ठि॑तः। तस्य॑ प्र॒कृति॑लीन॒स्य॒ यः॒ पर॑स्स म॒हेस्व॑रः॥ तत्पुरुषाय नमः। वेदोक्तमन्त्रपुष्पं समर्पयामि॥
॥७॥अष्टपुष्पपूजा
अर्कं चम्पकपुन्नागनन्द्यावर्तानि पाटली। बृहतीकरवीराणि द्रोणपुष्पाणि चार्चयेत्॥
॥८॥ॐ भ॒वाय॑ दे॒वाय॒ नमः॑ (अर्कपुष्पं समर्पयामि)। ॐ श॒र्वाय॑ दे॒वाय॒ नमः॑ (चम्पकपुष्पं समर्पयामि)। ॐ ईशा॑नाय दे॒वाय॒ नमः॑ (पुन्नागपुष्पं समर्पयामि)। ॐ प॒शु॒पत॑ये दे॒वाय॒ नमः॑ (नन्द्यावर्तपुष्पं समर्पयामि)। ॐ रु॒द्राय॑ दे॒वाय॒ नमः॑ (पाटलीपुष्पं समर्पयामि)। ॐ उ॒ग्राय॑ दे॒वाय॒ नमः॑ (बृहतीपुष्पं समर्पयामि)। ॐ भी॒माय॑ दे॒वाय॒ नमः॑ (करवीरपुष्पं समर्पयामि)। ॐ म॒ह॒ते दे॒वाय॒ नमः॑ (द्रोणपुष्पं समर्पयामि)॥
॥९॥उपस्थानम्
अ॒घोरे᳚भ्योऽथ॒ घोरे᳚भ्यो॒ घोर॒ घोर॑तरेभ्यः। सर्वे᳚भ्यः सर्व॒ शर्वे᳚भ्यो॒ नम॑स्ते अस्तु रु॒द्ररू॑पेभ्यः॥
॥१०॥त॑त्पु॒रु॑षाय वि॒द्महे॑ महादे॒वाय॑ धीमहि। तन्नो॑ रुद्रः प्रचो॒दया᳚त्॥
॥११॥ईशानः सर्व॑विद्या॒ना॒मीश्वरः सर्व॑भूता॒नां॒ ब्रह्माधि॑पति॒र्ब्रह्म॒णोऽधि॑पति॒र्ब्रह्मा॑ शि॒वो मे॑ अस्तु सदाशि॒वोम्॥
॥१२॥