पुस्तकानि मण्डले संस्थाप्य तत्र दुर्गालक्ष्मीयुक्तां सरस्वतीमावाह्य पूजयेत्।
पूर्वाङ्गपूजा. इदं पूर्वाङ्गं सर्वासु पूजासु समानम् — आदौ आचर्य पश्चात् प्रधानपूजां कुर्यात्। पूर्वाङ्गपूजा
पूर्वाङ्गपूजा
संवृणु
आचमनम्
ध्यानम्
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम्।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥
प्राणायामः — सङ्कल्पः
अप उपस्पृश्य
ममोपात्तसमस्तदुरितक्षयद्वारा श्रीपरमेश्वरप्रीत्यर्थं करिष्यमाणस्य कर्मणः निर्विघ्नेन परिसमाप्त्यर्थं आदौ विघ्नेश्वरपूजां करिष्ये।
महद्भन्दनम्
आब्रह्मलोकादारोहात् आलोकात् लोकपर्वतात्।
ये वसन्ति द्विजा देवास्तेभ्यो नित्यं नमो नमः ॥
आसनपूजा
पृथिव्या मेरुपृष्ठ ऋषिः। सुतलं छन्दः। कूर्मो देवता। आसने विनियोगः।
पृथिवि त्वया धृता लोका देवि त्वं विष्णुना धृता।
त्वं च धारय मां देवि पवित्रं चासनं कुरु ॥
घण्टापूजा
घण्टानादं कृत्वा।
आगमार्थं तु देवानां गमनार्थं तु रक्षसाम्।
घण्टारवं करोम्यादौ देवताह्वानकारणम् ॥
विघ्नेश्वरपूजा
अस्मिन् हरिद्राबिम्बे श्रीविघ्नेश्वरं ध्यायामि।
आवाहयामि। आसनं समर्पयामि। पादयोः पाद्यं समर्पयामि। अर्घ्यं समर्पयामि। आचमनीयं समर्पयामि। मधुपर्कं समर्पयामि। स्नानं समर्पयामि। आचमनीयं समर्पयामि। वस्त्रं समर्पयामि। उपवीतं समर्पयामि। दिव्यपरिमलगन्धान् धारयामि। अक्षतान् समर्पयामि। पुष्पैः पूजयामि।
| सुमुखाय नमः |
| एकदन्ताय नमः |
| कपिलाय नमः |
| गजकर्णिकाय नमः |
| लम्बोदराय नमः |
| विकटाय नमः |
| विघ्नराजाय नमः |
| विनायकाय नमः |
| धूमकेतवे नमः |
| गणाध्यक्षाय नमः |
| फालचन्द्राय नमः |
| गजाननाय नमः |
| वक्रतुण्डाय नमः |
| शूर्पकर्णाय नमः |
| हेरम्बाय नमः |
| स्कन्दपूर्वजाय नमः |
| सिद्धिविनायकाय नमः |
| श्रीमहागणपतये नमः |
उपचाराः
धूपमाघ्रापयामि। दीपं दर्शयामि। निवेदयामि। कर्पूरनीराजनं दर्शयामि। समस्तोपचारपूजां समर्पयामि।
प्रार्थना
वक्रतुण्ड महाकाय सूर्यकोटिसमप्रभ।
निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥
इति प्रार्थ्य। प्राणायामः।
सङ्कल्पः
शुभे शोभने मुहूर्ते आद्यब्रह्मणः द्वितीयपराधे श्वेतवराहकल्पे वैवस्वतमन्वन्तरे अष्टाविंशतितमे कलियुगे प्रथमे पादे जम्बूद्वीपे भारतवर्षे भरतखण्डे मेरोर्दक्षिणे पार्श्वे शकाब्दे अस्मिन् वर्तमाने व्यावहारिके प्रभवादिषष्टिसंवत्सराणां मध्ये …… नाम संवत्सरे …… अयने …… ऋतौ …… मासे …… पक्षे …… शुभतिथौ …… वासरयुक्तायां …… नक्षत्रयुक्तायां शुभयोगशुभकरणसकलविशेषणविशिष्टायामस्यां शुभतिथौ ममोपात्तसमस्तदुरितक्षयद्वारा श्रीपरमेश्वरप्रीत्यर्थं सरस्वतीप्रीत्यर्थं सरस्वतीपूजां करिष्ये।
अप उपस्पृश्य। श्रीविघ्नेश्वराय नमः यथास्थानं प्रतिष्ठापयामि। शोभनार्थे क्षेमाय पुनरागमनाय च। इति विघ्नेश्वरमुद्राम्।
कलशपूजा
कलशं गन्धपुष्पाक्षतैरभ्यर्च्य। कलशजलेन तत्तद्देवतानाम योजयेत्। पूजाद्रव्याणि आत्मानं च प्रोक्ष्य।
गङ्गे च यमुने चैव गोदावरि सरस्वति।
नर्मदे सिन्धु कावेरि जलेऽस्मिन् सन्निधिं कुरु ॥
| गङ्गायै नमः | |
| यमुनायै नमः | |
| गोदावर्यै नमः | |
| सरस्वत्यै नमः | |
| नर्मदायै नमः | |
| सिन्धवे नमः | |
| कावेर्यै नमः | पुष्पैः पूजयामि। |
शङ्खपूजा
कलशोदकेन शङ्खं पूरयेत्। शङ्खजलेन पूजोपकरणानि द्रव्याणि आत्मानं च त्रिः प्रोक्ष्य, पुनः शङ्खं पूरयेत्।
त्वं पुरा सागरोत्पन्नो विष्णुना विधृतः करे।
देवैश्च पूजितः सर्वैः पाञ्चजन्य नमोऽस्तु ते ॥
आत्मपूजा
देहो देवालयः प्रोक्तो जीवो देवः सनातनः।
त्यजाम्यज्ञाननिर्मूल्यं सोऽहंभावेन पूजये ॥
पीठपूजा
| ओं सकलगुणात्मशक्तियुक्ताय योगपीठाय नमः |
| आधारशक्त्यै नमः |
| मूलप्रकृत्यै नमः |
| आदिवराहाय नमः |
| आदिकूर्माय नमः |
| अनन्ताय नमः |
| पृथिव्यै नमः |
| आदित्यादिनवग्रहदेवताभ्यो नमः |
| दशदिक्पालेभ्यो नमः |
गुरुध्यानम्
गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः।
गुरुः साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः ॥
श्रीगुरुं ध्यायामि।
प्रधानपूजा
ध्यानम्
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम्।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥
सरस्वतीध्यानम्
सरस्वतीं सत्यवासां सुधांशुसमविग्रहाम्।
स्फटिकाक्षस्रजं पद्मं पुस्तकं च शुकं करैः ॥
चतुर्भिर्दधतीं देवीं चन्द्रबिम्बसमाननाम्।
वल्लभामखिलार्थानां वल्लकीवादनप्रियाम् ॥
भारतीं भावये देवीं भाषाणामधिदेवताम्।
भावितां हृदये सद्भिर्भामिनीं परमेष्ठिनः ॥
आवाहनम्
अस्मिन् पुस्तकमण्डले दुर्गालक्ष्मीयुक्तां सरस्वतीमावाहयामि।
चतुर्भुजां चन्द्रवर्णां चतुराननवल्लभाम्।
आवाहयामि वाणि त्वामाश्रितार्तिविनाशिनीम् ॥
आसनम्
आसनं सङ्गृहाणेदमाश्रिते सकलामरैः।
आदृते सर्वमुनिभिरार्तिदे सुरवैरिणाम् ॥
सरस्वत्यै नमः। आसनं समर्पयामि।
पाद्यम्
पाद्यमाद्यन्तशून्यायै वेद्यायै वेदवादिभिः।
दास्यामि वाणि वरदे देवराजसमर्चिते ॥
सरस्वत्यै नमः। पाद्यं समर्पयामि।
अर्घ्यम्
अघहन्त्रि गृहाणेममर्घ्यमष्टाङ्गसंयुतम्।
अम्बाखिलानां जगतामम्बुजासनसुन्दरि ॥
सरस्वत्यै नमः। अर्घ्यं समर्पयामि।
आचमनीयम्
आचम्यतां तोयमिदमाश्रितार्थप्रदायिनि।
आत्मभूवदनावासे आधिहारिणि ते नमः ॥
सरस्वत्यै नमः। आचमनीयं समर्पयामि।
मधुपर्कः
मधुपर्कं गृहाणेदं मधुसूदनवन्दिते।
मन्दस्मिते महादेवि महादेवसमर्चिते ॥
सरस्वत्यै नमः। मधुपर्कं समर्पयामि।
पञ्चामृतम्
पञ्चामृतं गृहाणेदं पञ्चाननसमर्चिते।
पयोदधिघृतोपेतं पञ्चपातकनाशिनि ॥
सरस्वत्यै नमः। पञ्चामृतं समर्पयामि।
स्नानम्
साध्वीनामग्रतो गण्ये साधुसङ्घसमादृते।
सरस्वति नमस्तुभ्यं स्नानं स्वीकुरु सम्प्रति ॥
सरस्वत्यै नमः। स्नानं समर्पयामि।
वस्त्रम्
दुकूलद्वितयं देवि दुरितापहवैभवे।
विधिप्रिये गृहाणेदं सुधानिधिसमं शिवे ॥
सरस्वत्यै नमः। वस्त्रं समर्पयामि।
उपवीतम्
उपवीतं गृहाणेदमुपमाशून्यवैभवे।
हिरण्यगर्भमहिषि हिरण्मयगुणैः कृतम् ॥
सरस्वत्यै नमः। उपवीतं समर्पयामि।
आभरणानि
वर्णरूपे गृहाणेदं स्वर्णवर्यपरिष्कृतम्।
अर्णवोद्धृतरत्नाढ्यं कर्णभूषादिभूषणम् ॥
सरस्वत्यै नमः। आभरणानि समर्पयामि।
सौभाग्यद्रव्यम्
कुङ्कुमाञ्जनसिन्दूरकञ्चुकादिकमम्बिके।
सौभाग्यद्रव्यमखिलं सुरवन्द्ये गृहाण मे ॥
सरस्वत्यै नमः। सौभाग्यद्रव्यं समर्पयामि।
गन्धः
अन्धकारिप्रियाराध्ये गन्धमुत्तमसौरभम्।
गृहाण वाणि वरदे गन्धर्वपरिपूजिते ॥
सरस्वत्यै नमः। गन्धं समर्पयामि।
अक्षताः
अक्षतांस्त्वं गृहाणेमान् अहतानमरार्चिते।
अक्षतेऽद्भुतरूपाढ्ये यक्षराजादिवन्दिते ॥
सरस्वत्यै नमः। अक्षतान् समर्पयामि।
पुष्पाणि
पुन्नागजातीमल्ल्यादिपुष्पजातं गृहाण मे।
पुमर्थदायिनि परे पुस्तकाढ्यकराम्बुजे ॥
सरस्वत्यै नमः। पुष्पाणि समर्पयामि।
अङ्गपूजा
| पावनायै नमः | पादौ पूजयामि। |
| गिरे नमः | गुल्फौ पूजयामि। |
| जगद्वन्द्यायै नमः | जङ्घे पूजयामि। |
| जलजासनायै नमः | जानुनी पूजयामि। |
| उत्तमायै नमः | ऊरू पूजयामि। |
| कमलासनप्रियायै नमः | कटिं पूजयामि। |
| नानाविद्यायै नमः | नाभिं पूजयामि। |
| वाण्यै नमः | वक्षः पूजयामि। |
| कुरङ्गाक्ष्यै नमः | कुचौ पूजयामि। |
| कलारूपिण्यै नमः | कण्ठं पूजयामि। |
| भाषायै नमः | बाहून् पूजयामि। |
| चिरन्तनायै नमः | चिबुकं पूजयामि। |
| मुग्धस्मितायै नमः | मुखं पूजयामि। |
| लोलेक्षणायै नमः | लोचने पूजयामि। |
| कलायै नमः | ललाटं पूजयामि। |
| वर्णरूपायै नमः | कर्णौ पूजयामि। |
| करुणायै नमः | कचान् पूजयामि। |
| शिवायै नमः | शिरः पूजयामि। |
| सरस्वत्यै नमः | सर्वाण्यङ्गानि पूजयामि। |
अष्टोत्तरशतनामार्चना
सरस्वती अष्टोत्तरशत नामावलिःपृथक्पृष्ठे पठ
- १ॐ सरस्वत्यै नमः
- २ॐ महाभद्रायै नमः
- ३ॐ महामायायै नमः
- ४ॐ वरप्रदायै नमः
- ५ॐ श्रीप्रदायै नमः
- ६ॐ पद्मनिलयायै नमः
- ७ॐ पद्माक्ष्यै नमः
- ८ॐ पद्मवक्त्रकायै नमः
- ९ॐ शिवानुजायै नमः
- १०ॐ पुस्तकभृते नमः
- ११ॐ ज्ञानमुद्रायै नमः
- १२ॐ रमायै नमः
- १३ॐ परायै नमः
- १४ॐ कामरूपायै नमः
- १५ॐ महाविद्यायै नमः
- १६ॐ महापातकनाशिन्यै नमः
- १७ॐ महाश्रयायै नमः
- १८ॐ मालिन्यै नमः
- १९ॐ महाभोगायै नमः
- २०ॐ महाभुजायै नमः
- २१ॐ महाभागायै नमः
- २२ॐ महोत्साहायै नमः
- २३ॐ दिव्याङ्गायै नमः
- २४ॐ सुरवन्दितायै नमः
- २५ॐ महाकाल्यै नमः
- २६ॐ महापाशायै नमः
- २७ॐ महाकारायै नमः
- २८ॐ महाङ्कुशायै नमः
- २९ॐ पीतायै नमः
- ३०ॐ विमलायै नमः
- ३१ॐ विश्वायै नमः
- ३२ॐ विद्युन्मालायै नमः
- ३३ॐ वैष्णव्यै नमः
- ३४ॐ चन्द्रिकायै नमः
- ३५ॐ चन्द्रवदनायै नमः
- ३६ॐ चन्द्रलेखविभूषितायै नमः
- ३७ॐ सावित्र्यै नमः
- ३८ॐ सुरसायै नमः
- ३९ॐ देव्यै नमः
- ४०ॐ दिव्यालङ्कारभूषितायै नमः
- ४१ॐ वाग्देव्यै नमः
- ४२ॐ वसुदायै नमः
- ४३ॐ तीव्रायै नमः
- ४४ॐ महाभद्रायै नमः
- ४५ॐ महाबलायै नमः
- ४६ॐ भोगदायै नमः
- ४७ॐ भारत्यै नमः
- ४८ॐ भामायै नमः
- ४९ॐ गोविन्दायै नमः
- ५०ॐ गोमत्यै नमः
- ५१ॐ शिवायै नमः
- ५२ॐ जटिलायै नमः
- ५३ॐ विन्ध्यवासायै नमः
- ५४ॐ विन्ध्याचलविराजितायै नमः
- ५५ॐ चण्डिकायै नमः
- ५६ॐ वैष्णव्यै नमः
- ५७ॐ ब्राह्म्यै नमः
- ५८ॐ ब्रह्मज्ञानैकसाधनायै नमः
- ५९ॐ सौदामिन्यै नमः
- ६०ॐ सुधामूर्त्यै नमः
- ६१ॐ सुभद्रायै नमः
- ६२ॐ सुरपूजितायै नमः
- ६३ॐ सुवासिन्यै नमः
- ६४ॐ सुनासायै नमः
- ६५ॐ विनिद्रायै नमः
- ६६ॐ पद्मलोचनायै नमः
- ६७ॐ विद्यारूपायै नमः
- ६८ॐ विशालाक्ष्यै नमः
- ६९ॐ ब्रह्मजायायै नमः
- ७०ॐ महाफलायै नमः
- ७१ॐ त्रयीमूर्त्यै नमः
- ७२ॐ त्रिकालज्ञायै नमः
- ७३ॐ त्रिगुणायै नमः
- ७४ॐ शास्त्ररूपिण्यै नमः
- ७५ॐ शुम्भासुरप्रमथिन्यै नमः
- ७६ॐ शुभदायै नमः
- ७७ॐ स्वरात्मिकायै नमः
- ७८ॐ रक्तबीजनिहन्त्र्यै नमः
- ७९ॐ चामुण्डायै नमः
- ८०ॐ अम्बिकायै नमः
- ८१ॐ मुण्डकायप्रहरणायै नमः
- ८२ॐ धूम्रलोचनमर्दन्यै नमः
- ८३ॐ सर्वदेवस्तुतायै नमः
- ८४ॐ सौम्यायै नमः
- ८५ॐ सुरासुरनमस्कृतायै नमः
- ८६ॐ कालरात्र्यै नमः
- ८७ॐ कलाधारायै नमः
- ८८ॐ रूपसौभाग्यदायिन्यै नमः
- ८९ॐ वाग्देव्यै नमः
- ९०ॐ वरारोहायै नमः
- ९१ॐ वाराह्यै नमः
- ९२ॐ वारिजासनायै नमः
- ९३ॐ चित्राम्बरायै नमः
- ९४ॐ चित्रगन्धायै नमः
- ९५ॐ चित्रमाल्यविभूषितायै नमः
- ९६ॐ कान्तायै नमः
- ९७ॐ कामप्रदायै नमः
- ९८ॐ वन्द्यायै नमः
- ९९ॐ विद्याधरसुपूजितायै नमः
- १००ॐ श्वेताननायै नमः
- १०१ॐ नीलभुजायै नमः
- १०२ॐ चतुर्वर्गफलप्रदायै नमः
- १०३ॐ चतुराननसाम्राज्यायै नमः
- १०४ॐ रक्तमध्यायै नमः
- १०५ॐ निरञ्जनायै नमः
- १०६ॐ हंसासनायै नमः
- १०७ॐ नीलजङ्घायै नमः
- १०८ॐ ब्रह्मविष्णुशिवात्मिकायै नमः
धूपः
दशाङ्गो गुग्गुलूपेतः सुगन्धः सुमनोहरः।
आघ्रेयः सर्वदेवानां धूपोऽयं प्रतिगृह्यताम् ॥
सरस्वत्यै नमः। धूपं समर्पयामि। आचमनीयं समर्पयामि।
दीपः
साज्यं त्रिवर्तिसंयुक्तं वह्निना योजितं मया।
गृहाण मङ्गलं दीपं त्रैलोक्यतिमिरापहम् ॥
सरस्वत्यै नमः। दीपं समर्पयामि। आचमनीयं समर्पयामि।
नैवेद्यम्
अन्नं चतुर्विधं सूपफलभक्ष्यसमन्वितम्।
दधिमध्वाज्यसंयुक्तं नैवेद्यं प्रतिगृह्यताम् ॥
सरस्वत्यै नमः। अमृतं महानैवेद्यं समर्पयामि। मध्ये मध्ये पानीयं समर्पयामि। आचमनीयं समर्पयामि।
ताम्बूलम्
पूगीफलसमायुक्तं नागवल्लीदलैर्युतम्।
कर्पूरचूर्णसंयुक्तं ताम्बूलं प्रतिगृह्यताम् ॥
सरस्वत्यै नमः। कर्पूरताम्बूलं समर्पयामि।
नीराजनम्
चन्द्रादित्यौ च नक्षत्रं विद्युदग्निस्त्वमेव च।
त्वमेव सर्वज्योतींषि कुर्यां नीराजनं तव ॥
सरस्वत्यै नमः। सर्वमङ्गलप्राप्त्यर्थं सर्वापराधक्षमापणार्थं कर्पूरनीराजनं दर्शयामि। आचमनीयं समर्पयामि।
पुष्पाञ्जलिः
मन्दारनीलोत्पलकुन्दजातीपुन्नागमल्लीकरवीरपङ्कजैः।
पुष्पाञ्जलिं बिल्वदलैस्तुलस्या देवि त्वदंघ्रौ विनिवेशयामि ॥
सरस्वत्यै नमः। मन्त्रपुष्पाञ्जलिं समर्पयामि।
प्रदक्षिणनमस्काराः
यानि कानि च पापानि जन्मान्तरकृतानि च।
तानि तानि विनश्यन्ति प्रदक्षिणपदे पदे ॥
प्रकृष्टपापनाशाय प्रकृष्टफलसिद्धये।
प्रदक्षिणं करोमि त्वां प्रसीद परमेश्वरि ॥
नमो नमः सुरवरपूजिताङ्घ्रये
नमो नमो निरुपममङ्गलात्मिके।
नमो नमो विपुलपदैकसिद्धये
नमो नमः परमदयानिधे नमः ॥
सरस्वत्यै नमः। प्रदक्षिणनमस्कारान् समर्पयामि।
प्रार्थना
या कुन्देन्दुतुषारहारधवळा या शुभ्रवस्त्रावृता
या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना।
या ब्रह्माच्युतशङ्करप्रभृतिभिर्देवैः सदा पूजिता
सा मां पातु सरस्वती भगवती निःशेषजाड्यापहा ॥
नमस्कारान् समर्पयामि।
ब्राह्मणपूजा
ब्राह्मणपूजा। उपायनदानम्।