वैशाखशुक्लपञ्चम्यां श्रीशङ्करभगवत्पादानामवतारदिने आचर्यते। चित्रे विग्रहे पादुकयोर्वा पूजयेत्।
पूर्वाङ्गपूजा. इदं पूर्वाङ्गं सर्वासु पूजासु समानम् — आदौ आचर्य पश्चात् प्रधानपूजां कुर्यात्। पूर्वाङ्गपूजा
पूर्वाङ्गपूजा
संवृणु
आचमनम्
ध्यानम्
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम्।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥
प्राणायामः — सङ्कल्पः
अप उपस्पृश्य
ममोपात्तसमस्तदुरितक्षयद्वारा श्रीपरमेश्वरप्रीत्यर्थं करिष्यमाणस्य कर्मणः निर्विघ्नेन परिसमाप्त्यर्थं आदौ विघ्नेश्वरपूजां करिष्ये।
महद्भन्दनम्
आब्रह्मलोकादारोहात् आलोकात् लोकपर्वतात्।
ये वसन्ति द्विजा देवास्तेभ्यो नित्यं नमो नमः ॥
आसनपूजा
पृथिव्या मेरुपृष्ठ ऋषिः। सुतलं छन्दः। कूर्मो देवता। आसने विनियोगः।
पृथिवि त्वया धृता लोका देवि त्वं विष्णुना धृता।
त्वं च धारय मां देवि पवित्रं चासनं कुरु ॥
घण्टापूजा
घण्टानादं कृत्वा।
आगमार्थं तु देवानां गमनार्थं तु रक्षसाम्।
घण्टारवं करोम्यादौ देवताह्वानकारणम् ॥
विघ्नेश्वरपूजा
अस्मिन् हरिद्राबिम्बे श्रीविघ्नेश्वरं ध्यायामि।
आवाहयामि। आसनं समर्पयामि। पादयोः पाद्यं समर्पयामि। अर्घ्यं समर्पयामि। आचमनीयं समर्पयामि। मधुपर्कं समर्पयामि। स्नानं समर्पयामि। आचमनीयं समर्पयामि। वस्त्रं समर्पयामि। उपवीतं समर्पयामि। दिव्यपरिमलगन्धान् धारयामि। अक्षतान् समर्पयामि। पुष्पैः पूजयामि।
| सुमुखाय नमः |
| एकदन्ताय नमः |
| कपिलाय नमः |
| गजकर्णिकाय नमः |
| लम्बोदराय नमः |
| विकटाय नमः |
| विघ्नराजाय नमः |
| विनायकाय नमः |
| धूमकेतवे नमः |
| गणाध्यक्षाय नमः |
| फालचन्द्राय नमः |
| गजाननाय नमः |
| वक्रतुण्डाय नमः |
| शूर्पकर्णाय नमः |
| हेरम्बाय नमः |
| स्कन्दपूर्वजाय नमः |
| सिद्धिविनायकाय नमः |
| श्रीमहागणपतये नमः |
उपचाराः
धूपमाघ्रापयामि। दीपं दर्शयामि। निवेदयामि। कर्पूरनीराजनं दर्शयामि। समस्तोपचारपूजां समर्पयामि।
प्रार्थना
वक्रतुण्ड महाकाय सूर्यकोटिसमप्रभ।
निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥
इति प्रार्थ्य। प्राणायामः।
सङ्कल्पः
शुभे शोभने मुहूर्ते आद्यब्रह्मणः द्वितीयपराधे श्वेतवराहकल्पे वैवस्वतमन्वन्तरे अष्टाविंशतितमे कलियुगे प्रथमे पादे जम्बूद्वीपे भारतवर्षे भरतखण्डे मेरोर्दक्षिणे पार्श्वे शकाब्दे अस्मिन् वर्तमाने व्यावहारिके प्रभवादिषष्टिसंवत्सराणां मध्ये …… नाम संवत्सरे …… अयने …… ऋतौ …… मासे …… पक्षे …… शुभतिथौ …… वासरयुक्तायां …… नक्षत्रयुक्तायां शुभयोगशुभकरणसकलविशेषणविशिष्टायामस्यां शुभतिथौ ममोपात्तसमस्तदुरितक्षयद्वारा श्रीपरमेश्वरप्रीत्यर्थं श्रीशङ्करभगवत्पादप्रीत्यर्थं यथाशक्ति श्रीशङ्करभगवत्पादपूजां करिष्ये।
अप उपस्पृश्य। श्रीविघ्नेश्वराय नमः यथास्थानं प्रतिष्ठापयामि। शोभनार्थे क्षेमाय पुनरागमनाय च। इति विघ्नेश्वरमुद्राम्।
कलशपूजा
कलशं गन्धपुष्पाक्षतैरभ्यर्च्य। कलशजलेन तत्तद्देवतानाम योजयेत्। पूजाद्रव्याणि आत्मानं च प्रोक्ष्य।
गङ्गे च यमुने चैव गोदावरि सरस्वति।
नर्मदे सिन्धु कावेरि जलेऽस्मिन् सन्निधिं कुरु ॥
| गङ्गायै नमः | |
| यमुनायै नमः | |
| गोदावर्यै नमः | |
| सरस्वत्यै नमः | |
| नर्मदायै नमः | |
| सिन्धवे नमः | |
| कावेर्यै नमः | पुष्पैः पूजयामि। |
शङ्खपूजा
कलशोदकेन शङ्खं पूरयेत्। शङ्खजलेन पूजोपकरणानि द्रव्याणि आत्मानं च त्रिः प्रोक्ष्य, पुनः शङ्खं पूरयेत्।
त्वं पुरा सागरोत्पन्नो विष्णुना विधृतः करे।
देवैश्च पूजितः सर्वैः पाञ्चजन्य नमोऽस्तु ते ॥
आत्मपूजा
देहो देवालयः प्रोक्तो जीवो देवः सनातनः।
त्यजाम्यज्ञाननिर्मूल्यं सोऽहंभावेन पूजये ॥
पीठपूजा
| ओं सकलगुणात्मशक्तियुक्ताय योगपीठाय नमः |
| आधारशक्त्यै नमः |
| मूलप्रकृत्यै नमः |
| आदिवराहाय नमः |
| आदिकूर्माय नमः |
| अनन्ताय नमः |
| पृथिव्यै नमः |
| आदित्यादिनवग्रहदेवताभ्यो नमः |
| दशदिक्पालेभ्यो नमः |
गुरुध्यानम्
गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः।
गुरुः साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः ॥
श्रीगुरुं ध्यायामि।
प्रधानपूजा
ध्यानम्
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम्।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥
ध्यानम्
श्रुतिस्मृतिपुराणानां आलयं करुणालयम्।
नमामि भगवत्पादशङ्करं लोकशङ्करम् ॥
शङ्कराचार्यवर्यो मे सन्निधत्तां सदा हृदि।
सौम्यं यस्य वपुः ख्यातं विजहद्विषमां दृशम् ॥
शिवगुरुतपःप्रबन्धं चिद्घनं आर्योदरावासम्।
शङ्करगुरुवरं आद्यं ध्यायाम्यनिशं परात्मानम् ॥
श्रीशङ्करभगवत्पादाचार्यान् ध्यायामि।
आवाहनम्
यमाश्रिता गिरां देवी नन्दयत्यात्मसंश्रितान्।
तमाश्रये श्रिया जुष्टं शङ्करं करुणानिधिम् ॥
श्रीशङ्करभगवत्पादाचार्यान् आवाहयामि।
आसनम्
श्रीगुरुं भगवत्पादं शरण्यं भक्तवत्सलम्।
शिवं शिवकरं शुद्धं अप्रमेयं नमाम्यहम् ॥
श्रीशङ्करभगवत्पादाचार्येभ्यो नमः। आसनं समर्पयामि।
पूर्णकुम्भः
नित्यशुद्धं निराकारं निराभासं निरञ्जनम्।
नित्यबोधं चिदानन्दं गुरुं ब्रह्म नमाम्यहम् ॥
श्रीशङ्करभगवत्पादाचार्येभ्यो नमः। पूर्णकुम्भं समर्पयामि।
पाद्यम्
सर्वतन्त्रस्वतन्त्राय सदात्माद्वैतरूपिणे।
श्रीमते शङ्करार्याय वेदान्तगुरवे नमः ॥
श्रीशङ्करभगवत्पादाचार्येभ्यो नमः। पाद्यं समर्पयामि।
अर्घ्यम्
वेदान्तार्थाभिधानेन सर्वानुग्रहकारिणम्।
यतिरूपधरं वन्दे शङ्करं लोकशङ्करम् ॥
श्रीशङ्करभगवत्पादाचार्येभ्यो नमः। अर्घ्यं समर्पयामि।
आचमनीयम्
संसाराब्धिनिषण्णाज्ञनिकरप्रोद्दिधीर्षया।
कृतसंहननं वन्दे भगवत्पादशङ्करम् ॥
श्रीशङ्करभगवत्पादाचार्येभ्यो नमः। आचमनीयं समर्पयामि।
मधुपर्कः
विशुद्धविज्ञानघनं शुचिं हार्दतमोनुदम्।
दयासिन्धुं लोकबन्धुं शङ्करं नौमि सद्गुरुम् ॥
श्रीशङ्करभगवत्पादाचार्येभ्यो नमः। मधुपर्कं समर्पयामि।
स्नानम्
यत्पादपङ्कजध्यानात् तोटकाद्या यतीश्वराः।
बभूवुस्तादृशं वन्दे शङ्करं षण्मतेश्वरम् ॥
श्रीशङ्करभगवत्पादाचार्येभ्यो नमः। स्नपयामि। आचमनीयं समर्पयामि।
वस्त्रम्
नमः श्रीशङ्कराचार्यगुरवे शङ्करात्मने।
शरीरिणां शङ्कराय शङ्करज्ञानहेतवे ॥
श्रीशङ्करभगवत्पादाचार्येभ्यो नमः। वस्त्रं समर्पयामि।
रुद्राक्षमाला
विचार्य सर्ववेदान्तैः सञ्चार्य हृदयाम्बुजे।
प्रचार्य सर्वलोकेषु आचार्यं शङ्करं भजे ॥
श्रीशङ्करभगवत्पादाचार्येभ्यो नमः। रुद्राक्षमालां समर्पयामि।
भस्मगन्धादिकम्
याऽनुभूतिः स्वयंज्योतिः आदित्येशानविग्रहा।
शङ्कराख्या च तं नौमि सुरेश्वरगुरुं परम् ॥
श्रीशङ्करभगवत्पादाचार्येभ्यो नमः। भस्मगन्धादिकं समर्पयामि।
दण्डः
आनन्दघनमद्वन्द्वं निर्विकारं निरञ्जनम्।
भजेऽहं भगवत्पादं भजतामभयप्रदम् ॥
श्रीशङ्करभगवत्पादाचार्येभ्यो नमः। दण्डं समर्पयामि।
अक्षताः
तं वन्दे शङ्कराचार्यं लोकत्रितयशङ्करम्।
सत्तर्कनखरोद्गीर्णवावदूकमतङ्गजम् ॥
श्रीशङ्करभगवत्पादाचार्येभ्यो नमः। अक्षतान् समर्पयामि।
पुष्पमाला
नमामि शङ्कराचार्यगुरुपादसरोरुहम्।
यस्य प्रसादान्मूढोऽपि सर्वज्ञो भवति स्वयम् ॥
श्रीशङ्करभगवत्पादाचार्येभ्यो नमः। पुष्पमालां समर्पयामि। पुष्पैः पूजयामि।
अङ्गपूजा
| अष्टवर्षचतुर्वेदिने नमः | पादौ पूजयामि। |
| द्वादशाखिलशास्त्रविदे नमः | गुल्फौ पूजयामि। |
| सर्वलोकख्यातशीलाय नमः | जङ्घे पूजयामि। |
| प्रस्थानत्रयभाष्यकृते नमः | जानुनी पूजयामि। |
| पद्मपादादिसच्छिष्याय नमः | ऊरू पूजयामि। |
| पाषण्डध्वान्तभास्कराय नमः | कटिं पूजयामि। |
| अद्वैतस्थापनाचार्याय नमः | गुह्यं पूजयामि। |
| द्वैतादिद्विपकेसरिणे नमः | नाभिं पूजयामि। |
| व्यासनन्दितसिद्धान्ताय नमः | उदरं पूजयामि। |
| वादनिर्जितमण्डनाय नमः | वक्षःस्थलं पूजयामि। |
| षण्मतस्थापनाचार्याय नमः | हृदयं पूजयामि। |
| षड्गुणैश्वर्यमण्डिताय नमः | कण्ठं पूजयामि। |
| सर्वलोकानुग्रहकृते नमः | स्कन्धौ पूजयामि। |
| सर्वज्ञत्वादिभूषणाय नमः | हस्तौ पूजयामि। |
| श्रुतिस्मृतिपुराणज्ञाय नमः | मुखं पूजयामि। |
| श्रुत्येकशरणप्रियाय नमः | नेत्रे पूजयामि। |
| सकृत्स्मरणसन्तुष्टाय नमः | कर्णौ पूजयामि। |
| शरणागतवत्सलाय नमः | नासिकां पूजयामि। |
| निर्व्याजकरुणामूर्तये नमः | ललाटं पूजयामि। |
| निरहंभावगोचराय नमः | चिबुकं पूजयामि। |
| संशान्तभक्तहृत्तापाय नमः | गण्डस्थलं पूजयामि। |
| सदसद्वस्तुविमुखाय नमः | शिरः पूजयामि। |
| सत्तासामान्यविग्रहाय नमः | सर्वाण्यङ्गानि पूजयामि। |
अष्टोत्तरशतनामार्चना
आदि शङ्कराचार्य अष्टोत्तरशत नामावलिःपृथक्पृष्ठे पठ
- १ॐ श्रीशङ्कराचार्यवर्याय नमः
- २ॐ ब्रह्मज्ञानप्रदायकाय नमः
- ३ॐ अज्ञानतिमिरादित्याय नमः
- ४ॐ सुज्ञानाम्बुधिचन्द्रमसे नमः
- ५ॐ वर्णाश्रमप्रतिष्ठात्रे नमः
- ६ॐ श्रीमते नमः
- ७ॐ मुक्तिप्रदायकाय नमः
- ८ॐ शिष्योपदेशनिरताय नमः
- ९ॐ भक्ताभीष्टप्रदायकाय नमः
- १०ॐ सूक्ष्मतत्त्वरहस्यज्ञाय नमः
- ११ॐ कार्याकार्यप्रबोधकाय नमः
- १२ॐ ज्ञानमुद्राञ्चितकराय नमः
- १३ॐ शिष्य-हृत्ताप-हारकाय नमः
- १४ॐ पारिव्राज्याश्रमोद्धर्त्रे नमः
- १५ॐ सर्वतन्त्रस्वतन्त्रधिये नमः
- १६ॐ अद्वैतस्थापनाचार्याय नमः
- १७ॐ साक्षाच्छङ्कररूपभृते नमः
- १८ॐ षण्मतस्थापनाचार्याय नमः
- १९ॐ त्रयीमार्गप्रकाशकाय नमः
- २०ॐ वेदवेदान्ततत्त्वज्ञाय नमः
- २१ॐ दुर्वादिमतखण्डनाय नमः
- २२ॐ वैराग्यनिरताय नमः
- २३ॐ शान्ताय नमः
- २४ॐ संसारार्णवतारकाय नमः
- २५ॐ प्रसन्नवदनाम्भोजाय नमः
- २६ॐ परमार्थप्रकाशकाय नमः
- २७ॐ पुराणस्मृतिसारज्ञाय नमः
- २८ॐ नित्यतृप्ताय नमः
- २९ॐ महते नमः
- ३०ॐ शुचये नमः
- ३१ॐ नित्यानन्दाय नमः
- ३२ॐ निरातङ्काय नमः
- ३३ॐ निःसङ्गाय नमः
- ३४ॐ निर्मलात्मकाय नमः
- ३५ॐ निर्ममाय नमः
- ३६ॐ निरहङ्काराय नमः
- ३७ॐ विश्ववन्द्यपदाम्बुजाय नमः
- ३८ॐ सत्त्वप्रधानाय नमः
- ३९ॐ सद्भावाय नमः
- ४०ॐ सङ्ख्यातीतगुणोज्ज्वलाय नमः
- ४१ॐ अनघाय नमः
- ४२ॐ सारहृदयाय नमः
- ४३ॐ सुधिये नमः
- ४४ॐ सारस्वतप्रदाय नमः
- ४५ॐ सत्यात्मने नमः
- ४६ॐ पुण्यशीलाय नमः
- ४७ॐ साङ्ख्ययोगविचक्षणाय नमः
- ४८ॐ तपोराशये नमः
- ४९ॐ महातेजसे नमः
- ५०ॐ गुणत्रयविभागविदे नमः
- ५१ॐ कलिघ्नाय नमः
- ५२ॐ कालधर्मज्ञाय नमः
- ५३ॐ तमोगुणनिवारकाय नमः
- ५४ॐ भगवते नमः
- ५५ॐ भारतीजेत्रे नमः
- ५६ॐ शारदाह्वानपण्डिताय नमः
- ५७ॐ धर्माधर्मविभागज्ञाय नमः
- ५८ॐ लक्ष्यभेदप्रदर्शकाय नमः
- ५९ॐ नादबिन्दुकलाभिज्ञाय नमः
- ६०ॐ योगिहृत्पद्मभास्कराय नमः
- ६१ॐ अतीन्द्रिय-ज्ञाननिधये नमः
- ६२ॐ नित्यानित्यविवेकवते नमः
- ६३ॐ चिदानन्दाय नमः
- ६४ॐ चिन्मयात्मने नमः
- ६५ॐ परकायप्रवेशकृते नमः
- ६६ॐ अमानुष-चरित्राढ्याय नमः
- ६७ॐ क्षेमदायिने नमः
- ६८ॐ क्षमाकराय नमः
- ६९ॐ भवाय नमः
- ७०ॐ भद्रप्रदाय नमः
- ७१ॐ भूरिमहिम्ने नमः
- ७२ॐ विश्वरञ्जकाय नमः
- ७३ॐ स्वप्रकाशाय नमः
- ७४ॐ सदाधाराय नमः
- ७५ॐ विश्वबन्धवे नमः
- ७६ॐ शुभोदयाय नमः
- ७७ॐ विशालकीर्तये नमः
- ७८ॐ वागीशाय नमः
- ७९ॐ सर्वलोकहितोत्सुकाय नमः
- ८०ॐ कैलासयात्रा-सम्प्राप्तचन्द्रमौलि-प्रपूजकाय नमः
- ८१ॐ काञ्च्यां श्रीचक्रराजाख्य-यन्त्रस्थापन-दीक्षिताय नमः
- ८२ॐ श्रीचक्रात्मक-ताटङ्क-पोषिताम्बा-मनोरथाय नमः
- ८३ॐ श्रीब्रह्मसूत्रोपनिषद्भाष्यादिग्रन्थकल्पकाय नमः
- ८४ॐ चतुर्दिक्चतुराम्नायप्रतिष्ठात्रे नमः
- ८५ॐ महामतये नमः
- ८६ॐ द्विसप्ततिमतोच्छेत्त्रे नमः
- ८७ॐ सर्वदिग्विजयप्रभवे नमः
- ८८ॐ काषायवसनोपेताय नमः
- ८९ॐ भस्मोद्धूलितविग्रहाय नमः
- ९०ॐ ज्ञानात्मकैकदण्डाढ्याय नमः
- ९१ॐ कमण्डलुलसत्कराय नमः
- ९२ॐ व्याससन्दर्शनप्रीताय नमः
- ९३ॐ भगवत्पादसंज्ञकाय नमः
- ९४ॐ चतुःषष्टिकलाभिज्ञाय नमः
- ९५ॐ ब्रह्मराक्षस-मोक्षदाय नमः
- ९६ॐ सौन्दर्यलहरीमुख्यबहुस्तोत्रविधायकाय नमः
- ९७ॐ श्रीमन्मण्डनमिश्राख्यस्वयम्भूजयसन्नुताय नमः
- ९८ॐ तोटकाचार्यसम्पूज्याय नमः
- ९९ॐ पद्मपादार्चिताङ्घ्रिकाय नमः
- १००ॐ हस्तामलकयोगीन्द्रब्रह्मज्ञानप्रदायकाय नमः
- १०१ॐ सुरेश्वरादि-सच्छिष्य-सन्न्यासाश्रम-दायकाय नमः
- १०२ॐ निर्व्याजकरुणामूर्तये नमः
- १०३ॐ जगत्पूज्याय नमः
- १०४ॐ जगद्गुरवे नमः
- १०५ॐ भेरीपटहवाद्यादिराजलक्षणलक्षिताय नमः
- १०६ॐ सकृत्स्मरणसन्तुष्टाय नमः
- १०७ॐ सर्वज्ञाय नमः
- १०८ॐ ज्ञानदायकाय नमः
- १०९ॐ श्रीशङ्करभगवत्पादाचार्येभ्यो नमः
धूपः
संसारसागरं घोरं अनन्तक्लेशभाजनम्।
त्वामेव शरणं प्राप्य निस्तरन्ति मनीषिणः ॥
श्रीशङ्करभगवत्पादाचार्येभ्यो नमः। धूपमाघ्रापयामि।
दीपः
नमस्तस्मै भगवते शङ्कराचार्यरूपिणे।
येन वेदान्तविद्येयं उद्धृता वेदसागरात् ॥
श्रीशङ्करभगवत्पादाचार्येभ्यो नमः। दीपं दर्शयामि।
नैवेद्यम्
भगवत्पादपादाब्जपांसवः सन्तु सन्ततम्।
अपारसारसंसारसागरोत्तारहेतवः ॥
श्रीशङ्करभगवत्पादाचार्येभ्यो नमः। अमृतं महानैवेद्यं निवेदयामि। आचमनीयं समर्पयामि।
कर्पूरनीराजनम्
यस्योपदेशदीधित्या चिदात्मा नः प्रकाशते।
नमः सद्गुरवे तस्मै स्वाविद्याध्वान्तहेतवे ॥
श्रीशङ्करभगवत्पादाचार्येभ्यो नमः। कर्पूरनीराजनं दर्शयामि।
गुरुस्तुतिः
आचार्यान्भगवत्पादान् षण्मतस्थापकान् हितान्।
परहंसान् नुमोऽद्वैतस्थापकान् जगतो गुरून् ॥
भगवत्पादसंभूतां आत्माम्भोनिधिगामिनीम्।
भाष्यभागीरथीं भूयो भजामो भवशान्तये ॥
भगवत्पादपादाब्जद्वन्द्वं द्वन्द्वनिबर्हणम्।
सुरेश्वरादिसच्छिष्यैः अवलम्बितमाश्रये ॥
गुरुर्धाम्ना महिम्ना च शङ्करो यो विराजते।
तत्पदाम्भोरुहरजःकणायास्तु नमो नमः ॥
श्रीमते शङ्करार्याय धीमतेऽद्भुतशक्तये।
नमोऽस्त्वद्वैतसिद्धान्तस्थापनोपात्तमूर्तये ॥
शङ्कारूपेण मच्चित्तं पङ्कीकृतमभूद्यया।
सा माया किङ्करी यस्य शङ्कराचार्यमाश्रये ॥
नमस्तस्मै भगवते शङ्कराचार्यरूपिणे।
येन वेदान्तविद्येयं उद्धृता वेदसागरात् ॥
शास्त्रं शारीरमीमांसा देवस्तु परमेश्वरः।
आचार्याः शङ्कराचार्याः सन्तु जन्मनि जन्मनि ॥
आश्रिताज्ञानतत्कार्यनाशकं देशिकोत्तमम्।
चिन्मुद्रालङ्कृतकरं यतिराजं नमाम्यहम् ॥
सदाशिवसमारम्भां शङ्कराचार्यमध्यमाम्।
अस्मदाचार्यपर्यन्तां वन्दे गुरुपरम्पराम् ॥
नारायणं पद्मभुवं वसिष्ठं शक्तिं च तत्पुत्रपराशरं च।
व्यासं शुकं गौडपदं महान्तं गोविन्दयोगीन्द्रमथास्य शिष्यम् ॥
श्रीशङ्कराचार्यमथास्य पद्मपादं च हस्तामलकं च शिष्यम्।
तं तोटकं वार्तिककारमन्यान् अस्मद्गुरून्सन्ततमानतोऽस्मि ॥
महात्रिपुरसुन्दरीरमणचन्द्रमौलीश्वरप्रसादपरिलब्धवाङ्मयविभूषिताशान्तरम्।
निरन्तरमुपास्महे निरुपमात्मविद्यानदीनदीनदपतिप्रभं मनसि शङ्कराचार्यं गुरुम् ॥
प्रदक्षिणनमस्काराः
श्रीशङ्करभगवत्पादाचार्येभ्यो नमः। प्रदक्षिणनमस्कारान् समर्पयामि।
गुरुपादोदकप्राशनम्
अविद्यामूलनाशाय जन्मकर्मनिवृत्तये।
ज्ञानवैराग्यसिद्ध्यर्थं गुरुपादोदकं शुभम् ॥
गुरुपादोदकं प्राश्नामि।
समर्पणम्
अनया पूजया श्रीशङ्करभगवत्पादाचार्याः प्रीयन्ताम्। तत्सत्। ब्रह्मार्पणमस्तु।