श्रीशङ्करभगवत्पादकृता
प्रैषेद्धुमशक्यत्वान् नेति नेतीति शेषितम् ।
इदं नाहमिदं नाहमित्यद्धा प्रतिपद्यते ॥
॥१॥इदंधीरिदमात्मोत्था वाचारम्भञगोचरा ।
निषिद्धात्मोद्भवत्वात् सा न पुनर्मानतां व्रजेत् ॥
॥२॥पूर्वबुद्धिमबाधित्वा नोत्तरा जायते मतिः ।
दृषिरेकः स्वयंसिद्धः फलत्वात् स न बाध्यते ॥
॥३॥इदंवनमतिक्रम्य शोकमोहादिदूषितम् ।
वनाद् गन्धारको यद्वत् स्वमात्मानं प्रपद्यते ॥
॥४॥