श्रीशङ्करभगवत्पादकृता
ईक्षितृत्वं स्वतःसिद्धं जन्तूनां च ततोऽन्यता ।
अज्ञानादित्यतोऽन्यत्वं सदसीति निवर्त्यते ॥
॥१॥एतावद् ध्यमृतत्वं न किंचिदन्यत् सहायकम् ।
ज्ञानस्येति ब्रुवच्छास्त्रं सलिङ्गं कर्म बाधते ॥
॥२॥सर्वेषां मनसो वृत्तमविशेषेण पश्यतः ।
तस्य मे निर्विकारस्य विशेषः स्यात् कथंचन ॥
॥३॥मनोवृत्तं मनश्चैव स्वप्नवज् जाग्रतीक्षितुः ।
सम्प्रसादे द्वयासत्त्वाच् चिन्मात्रः सर्वगोऽद्वयः ॥
॥४॥स्वप्नः सत्यो यथा ऽऽबोधाद् देहात्मत्वं तथैव च ।
प्रत्यक्षादेः प्रमाणत्वं जाग्रत् स्यादा ऽऽत्मवेदनात् ॥
॥५॥व्योमवत् सर्वभूतस्थो भूतदोषैर्विवर्जितः ।
साक्षी चेताऽगुणः शुद्धो ब्रह्मैवास्मीति केवलः ॥
॥६॥नामरूपक्रियाभ्योऽन्यो नित्यमुक्तस्वरूपवान् ।
अहमात्मा परं ब्रह्म चिन्मात्रोऽहं सदाद्वयः ॥
॥७॥अहं ब्रह्मास्मि कर्ता च भोक्ता चास्मीति ये विदुः ।
ते नष्टा ज्ञानकर्मभ्यां नास्तिकाः स्युर्न संशयः ॥
॥८॥धर्माधर्मफलैर्योग इष्टोऽदृष्टो यथात्मनः ।
शास्त्राद् ब्रह्मत्वमप्यस्य मोक्षो ज्ञानात् तथेष्यताम् ॥
॥९॥या माहाराजनाद्यास्ता वासनाः स्वप्नदर्शिभिः ।
अनुभूयन्त एवेह ततोऽन्यः केवलो दृषिः ॥
॥१०॥कोशादिव विनिष्कृष्टः कार्यकारणवर्जितः ।
यथासिर्दृश्यते स्वप्ने तद्वद् बोद्धा स्वयंप्रभः ॥
॥११॥आपेषात् प्रतिबुद्धस्य ज्ञस्य स्वाभाविकं पदम् ।
उक्तं नेत्यादिवाक्येन कल्पितस्यापनेतृणा ॥
॥१२॥महाराजादयो लोका मयि यद्वत् प्रकल्पिताः ।
स्वप्ने तद्वद् द्वयं विद्याद् रूपं वासनया सह ॥
॥१३॥देहलिङ्गात्मना कार्या वासनारूपिणा क्रिया ।
नेतिनेत्यात्मरूपत्वान् न मे कार्या क्रिया क्वचित् ॥
॥१४॥न ततोऽमृतताशास्ति कर्मणोऽज्ञानहेतुतः ।
मोक्षस्य ज्ञानहेतुत्वान् न तदन्यदपेक्षते ॥
॥१५॥अमृतं चाभयं नार्तं नेतीत्यात्मा प्रियो मम ।
विपरीतमतोऽन्यद् यत् त्यजेत् तत् सक्रियं ततः ॥
॥१६॥