श्रीशङ्करभगवत्पादकृता
दृशिस्वरूपं गगनोपमं परं सकृद्विभातं त्वजमेकमक्षरम् ।
अलेपकं सर्वगतं यदद्वयं तदेव चाहं सततं विमुक्त ओम् ॥
॥१॥दृषिस्तु शुद्धोऽहमविक्रियात्मको न मेऽस्ति कश्चिद् विशयः स्वभावतः ।
पुरस्तिरश्चोर्ध्वमधश्च सर्वतः सुपूर्णभूमा त्वज आत्मनि स्थितः ॥
॥२॥अजोऽमरश्चैव तथाजरोऽमृतः स्वयंप्रभः सर्वगतोऽहमद्वयः ।
न कारणं कार्यमतीव निर्मलः सदैव तृप्तश्च ततो विमुक्त ओम् ॥
॥३॥सुषुप्तजारत्स्वपतश्च दर्शनं न मेऽस्ति किंचित् स्वमिवेह मोहनम् ।
स्वतश्च तेषां परतोऽप्यसत्त्वतस्तुरीय एवास्मि सदा दृगद्वयः ॥
॥४॥शरीरबुद्धीन्द्रियदुःखसंततिर्न मे न चाहं मम निर्विकारतः ।
असत्त्वहेतोश्च तथैव संततेरसत्त्वमस्याः स्वपतो हि दृश्यवत् ॥
॥५॥इदं तु सत्यं मम नास्ति विक्रिया विकारहेतुर्न हि मेऽद्वयत्वतः ।
न पुण्यपापे न च मोक्षबन्धने न चास्ति वर्णश्रमताशईरतः ॥
॥६॥अनादितो निर्गुणतो न कर्म मे फलं च तस्मात् परमोऽहमद्वयः ।
यथा नभः सर्वगतं न लिप्यते तथा ह्यहं देहगतोऽपि सूक्ष्मतः ॥
॥७॥सदा च भूतेषु समोऽहमीश्वरः क्षराक्षराभ्यां परमो ह्यथोत्तमः ।
परात्मतत्त्वश्च तथाद्वयोऽपि सन् विपर्ययेणाभिवृतस्त्वविद्यया ॥
॥८॥अविद्यया भावनया च कर्मभिर्विविक्त आत्माव्यवधिः सुनिर्मलः ।
दृगादिशक्तिप्रचितोऽहमद्वयः स्थितः स्वरूपे गगनं यथाचलम् ॥
॥९॥अहं परं ब्रह्म विनिश्चयात्मदृञ् न जायते भूय इति श्रुतेर्वचः ।
न चैव बीजे त्वसति प्रजायते फलं न जन्मास्ति ततो ह्यमोहता ।
॥१०॥ममेदमित्थं च तवाद ईदृशं तथाहमेवं न परोऽपि चान्यथा ।
विमूढतैवस्य जनस्य कल्पना सदा समे ब्रह्मणि चाद्वये शिवे ॥
॥११॥यदद्वयं ज्ञानमतीव निर्मलं महात्मनां तत्र न शोकमोहता ।
तयोरभावे न हि कर्म जन्म वा भवेदयं वेदविदां विनिश्चयः ॥
॥१२॥सुषुप्तवज् जाग्रति यो न पश्यति द्वयं तु पश्यन्नपि चाद्वयतः ।
तथा च कुर्वन्नपि निष्क्रियश्च यः स आत्मविन् नान्य इतीह निश्चयः ॥
॥१३॥इतीदमुक्तं परमार्थदर्शनं मया हि वेदान्तविनिश्चितं परम् ।
विमुच्यतेऽस्मिन् यदि निश्चितो भवेन् न लिप्यते व्योमवदेव कर्मभिः ॥
॥१४॥