श्रीशङ्करभगवत्पादकृता
नान्यदन्यद् भवेद् यस्मान् नान्यत् किंचिद् विचिन्तयेत् ।
अन्यस्यान्यत्वभावे हि नाशस्तस्य ध्रुवो भवेत् ॥
॥१॥स्मरतो दृश्यते दृष्टं पटे चित्रमिवार्पितम् ।
यत्र येन च तौ ज्ञेयौ सत्त्वक्षेत्रज्ञसंज्ञकौ ॥
॥२॥फलान्तं चानुभूतं यद् युक्तं कर्त्रादिकारकैः ।
स्मर्यमाणं हि कर्मस्थं पूर्वं कर्मैव तत् ततः ॥
॥३॥द्रष्टुश्चान्यद् भवेद् दृश्यं दृश्यत्वाद् घटवत् सदा ।
दृश्याद् द्रष्टासजातीयो न धीवत् साक्षितान्यथा ॥
॥४॥स्वात्मबुद्धिमपेक्ष्यासौ विधीनां स्यात् प्रयोजकः ।
जात्यादिः शववत् तेन तद्वन् नानात्मतान्यथा ॥
॥५॥न प्रियाप्रिय इत्युक्तेर्नादेहत्वं क्रियाफलम् ।
देहयोगः क्रियाहेतुस्तस्माद् विद्वान् क्रियास्त्यजेत् ॥
॥६॥कर्मस्वात्मा स्वतन्त्रश्चेन् निवृत्तौ च तथेष्यताम् ।
अदेहत्वे फलेऽकार्ये ज्ञाते कुर्यात् कथं क्रियाः ॥
॥७॥जात्यादीन् सम्परित्यज्य निमित्तं कर्मणां बुधः ।
कर्महेतुविरुद्धं यत् स्वरूपं शास्त्रतः स्मरेत् ॥
॥८॥आत्मैकः सर्वभूतेषु तानि तस्मिंश्च खे यथा ।
पर्यगाद् व्योमवत् सर्वं शुक्रं दीप्तिमदिष्यते ॥
॥९॥व्रणस्नाय्वोरभावेन स्थूलं देहं निवारयेत् ।
शुद्धापापतया लेपं लिङ्गं चाकायमित्युत ॥
॥१०॥वास्देवो यथाश्वत्थे स्वदेहे चाब्रवीत् समम् ।
तद्वद् वेत्ति य आत्मानं समं स ब्रह्मवित्तमः ॥
॥११॥यथा ह्यन्यशरीरेषु ममाहन्ता न चेष्यते ।
अस्मिंश्चापि तथा देहे धीसाक्षित्वाविशेषतः ॥
॥१२॥रूपसंस्कारतुल्याधी रागद्वेषौ भयं च यत् ।
गृह्यते धीश्रयं तस्माज् ज्ञाता शुद्धोऽभयः सदा ॥
॥१३॥यन्मनास्तन्मयोऽन्यत्वे नात्मत्वाप्तौ क्रियात्मनि ।
आत्मत्वे चानपेक्षत्वात् सापेक्षं हि न तत् स्वयम् ॥
॥१४॥खमिवैकरसा ज्ञप्तिरविभक्ताजरामला ।
चक्षुराद्युपधानात् सा विपरीता विभाव्यते ॥
॥१५॥दृश्यत्वादहमित्येष नात्मधर्मो घटादिवत् ।
तथान्ये प्रत्यया ज्ञेया दोषश्चात्ममलो ह्यतः ॥
॥१६॥सर्वप्रत्ययसाक्षित्वादविकारी च सर्वगः ।
विक्रियेत यदि द्रष्टा बुद्ध्यादीवाल्पविद् भवेत् ॥
॥१७॥न दृष्टिर्लुप्यते द्रष्टुश्चक्षुरादेर्यथैव तु ।
नहि द्रष्टुरिति ह्युक्तं तस्माद् द्रष्टा सदैव भुक् ॥
॥१८॥संघातो वास्मि भूतानां करणानां तथैव च ।
व्यस्तं वान्यतमो वास्मि को वास्मीति विचारयेत् ॥
॥१९॥व्यस्तं नाहं समस्तं वा भूतमिन्द्रियमेव वा ।
ज्ञेयत्वात् करणत्वाच् च ज्ञातान्योऽस्माद् घटादिवत् ॥
॥२०॥आत्माग्नेरिन्धना बुद्धिरविद्याकामकर्मभिः ।
दीपिता प्रज्वलत्येषा द्वारैः श्रोत्रादिभिः सदा ॥
॥२१॥दक्षिणाक्षिप्रधानेषु यदा बुद्धिर्विचेष्टते ।
विषयैर्हविषा दीप्ता आत्माग्निः स्थूलभुक् तदा ॥
॥२२॥हूयन्ते तु हविंषीति रूपादिग्रहणे स्मरन् ।
अरागद्वेष आत्माग्नौ जाग्रद्दोषैर्न लिप्यते ॥
॥२३॥मानसे तु गृहे व्यक्ता अविद्याकर्मवासनाः ।
पश्यंस्तैजस आत्मोक्तः स्वयंज्योतिःप्रकाशिताः ॥
॥२४॥विषया वासना वापि चोद्यन्ते नैव कर्मभिः ।
यदा बुद्धौ तदा ज्ञेयः प्राज्ञ आत्मा ह्यनन्यदृक् ॥
॥२५॥मनोबुद्धीन्द्रियाणां या अवस्थाः कर्मचोदिताः ।
चैतन्येनैव भास्यन्ते रविणेव घटादयः ॥
॥२६॥तत्रैवं सति बुद्धीर्ज्ञ आत्मभासावभासयन् ।
कर्ता तासां यदर्थास्ता मूढैरेवाभिधीयते ॥
॥२७॥सर्वज्ञोऽप्यत एव स्यात् स्वेन भासावभासयन् ।
सर्वं सर्वक्रियाहेतोः सर्वकृत्त्वं तथात्मनः ॥
॥२८॥सोपाधिश्चैवमात्मोक्तो निरुपाख्योऽनुपाधिकः ।
निष्कलो निर्गुणः शुद्धस्तं मनो वाक् च नाप्नुतः ॥
॥२९॥चेतनोऽचेतनो वापि कर्ताकर्ता गतोऽगतः ।
बद्धो मुक्तस्तथा चैको नैकः शुद्धोऽन्यथेति वा ॥
॥३०॥अप्राप्यैव निवर्तन्ते वाचो धीभिः सहैव तु ।
निर्गुणत्वात् क्रियाभावाद् विशेषाणां ह्यभावतः ॥
॥३१॥व्यापकं सर्वतो व्योम मूर्तैः सर्वैर्वियोजितम् ।
यथा तद्वदिहात्मानं विद्याच्छुद्धं परं पदम् ॥
॥३२॥दृष्टं हित्वा स्मृतिं तस्मिन् सर्वग्रश्च तमस्त्यजेत् ।
सर्वदृग् ज्योतिषा युक्तो दिनकृच्छार्वरं यथा ॥
॥३३॥रूपस्मृत्यन्धकारार्थः प्रत्यया यस्य गोचराः ।
स एवात्मा समो द्रष्टा सर्वभूतेषु सर्वगः ॥
॥३४॥आत्मबुद्धिमनश्चक्षुर्विषयालोकसंगमात् ।
विचित्रो जायते बुद्धेः प्रत्ययोऽज्ञानलक्षणः ॥
॥३५॥विविच्यास्मात् स्वमात्मानं विद्याच्छुद्धं परं पदम् ।
द्रष्टारं सर्वभूतस्थं समं सर्वभयातिगम् ॥
॥३६॥समस्तं सर्वगं शान्तं विमलं व्योमवत् स्थितम् ।
निष्कलं निष्क्रियं सर्वं नित्यं द्वन्द्वैर्विवर्जितम् ॥
॥३७॥सर्वप्रत्ययसाक्षी ज्ञः कथं ज्ञेयो मयेत्युत ।
विमृश्यैवं विजानीयाज् ज्ञातं ब्रह्म न वेति वा ॥
॥३८॥अदृष्टं द्रष्ट्रविज्ञातं दभ्रमित्यादिशासनात् ।
नैव ज्ञेयं मयान्यैर्वा परं ब्रह्म कथंचन ॥
॥३९॥स्वरूपाव्यवधानाभ्यां ज्ञानालोकस्वभावतः ।
अन्यज्ञानानपेक्षत्वाज् ज्ञातं चैव सदा मया ॥
॥४०॥नान्येन ज्योतिषा कार्यं रवेरात्मप्रकाशने ।
स्वबोधान् नान्यबोधेच्छा बोधस्यात्मप्रकाशने ॥
॥४१॥न तस्यैवान्यतोऽपेक्षा स्वरूपं यस्य यद् भवेत् ।
प्रकाशान्तरदृश्यो न प्रकाज़ो ह्यस्ति कश्चन ॥
॥४२॥व्यक्तिः स्यादप्रकाशस्य प्रकाशात्मसमागमात् ।
प्रकाशस्त्वर्ककार्यः स्यादिति मिथ्या वचो ह्यतः ॥
॥४३॥यतोऽभूत्वा भवेद् यच्च तस्य तत् कार्यमिष्यते ।
स्वरूपत्वादभूत्वा न प्रकाशो जायते रवेः ॥
॥४४॥सत्तामात्रे प्रकाशस्य कर्तादित्यादिरिष्यते ।
घटादिव्यक्तितो यद्वत् तद्वद् बोधात्मनीष्यताम् ॥
॥४५॥बिलात् सर्पस्य निर्याणे सूर्यो यद्वत् प्रकाशकः ।
प्रयत्नेन विना तद्वज् ज्ञातात्मा बोधरूपतः ॥
॥४६॥दग्धैवमुष्णः सत्तायां तद्वद् बोधात्मनीष्यताम् ।
सत्येव यदुपाधौ तु ज्ञाते सर्प इवोत्थिते ॥
॥४७॥ज्ञातायत्नोऽपि तद्वज् ज्ञः कर्ता भ्रामकवद् भवेत् ।
स्वरूपेण स्वयं नात्मा ज्ञेयोऽज्ञेयोऽथवा ततः ॥
॥४८॥विदिताविदिताभ्यां तदन्यदेवेति शसनात् ।
बन्धमोक्षादयो भावास्तद्वदात्मनि कल्पिताः ॥
॥४९॥नाहोरात्रे यथा सूर्ये प्रभारूपाविशेषतः ।
बोधरूपाविशेषान् न बोधाबोधौ तथात्मनि ॥
॥५०॥यथोक्तं ब्रह्म यो वेद हानोपादानवर्जितम् ।
यथोक्तेन विधानेन स सत्यं नैव शक्नुयात् ॥
॥५१॥जन्ममृत्युप्रवाहेषु पतितो नैव शक्नुयात् ।
इत उद्धर्तुमात्मानं ज्ञानादन्येन केनचित् ॥
॥५२॥‘भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः ।
क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्ट’ इति श्रुतेः ॥
॥५३॥ममाहमित्येतदपोह्य सर्वतो विमुक्तदेहं पदमम्बरोपमम् ।
सुदृष्टशात्रानुमितिभ्य ईरितं विमुच्यतेऽस्मिन् यदि निश्चितो नरः ॥
॥५४॥