मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

अनात्मश्रीविगर्हणम्

3

सम्प्रदायतः श्रीशङ्करकृता

लब्धा विद्या राजमान्या ततः किं

प्राप्ता सम्पत्प्राभवाढ्या ततः किम् ।

भुक्ता नारी सुन्दराङ्गी ततः किम्

येन स्वात्मा नैव साक्षात्कृतोऽभूत् ॥

॥१॥

केयूराद्यैर्भूषितो वा ततः किं

कौशेयाद्यैरावृतो वा ततः किम् ।

तृप्तो मृष्टान्नादिना वा ततः किं

येन स्वात्मा नैव साक्षात्कृतोऽभूत् ॥

॥२॥

दृष्टा नाना चारुदेशास्ततः किं

पुष्टाश्चेष्टा बन्धुवर्गास्ततः किम् ।

नष्टं दारिद्र्यादिदुःखं ततः किं

येन स्वात्मा नैव साक्षात्कृतोऽभूत् ॥

॥३॥

स्नातस्तीर्थे जह्नुजादौ ततः किं

दानं दत्तं द्व्यष्टसंख्यं ततः किम् ।

जप्ता मन्त्राः कोटिशो वा ततः किं

येन स्वात्मा नैव साक्षात्कृतोऽभूत् ॥

॥४॥

गोत्रं सम्यग्भूषितं वा ततः किं

गात्रं भस्माच्छादितं वा ततः किम् ।

रुद्राक्षादिः संधृतो वा ततः किम्

येन स्वात्मा नैव साक्षात्कृतोऽभूत् ॥

॥५॥

अन्नैर्विप्रास्तर्पिता वा ततः किं

यज्ञैर्देवास्तोषिता वा ततः किम् ।

कीर्त्या व्याप्ताः सर्वलोकास्ततः किं

येन स्वात्मा नैव साक्षात्कृतोऽभूत् ॥

॥६॥

कायः क्लिष्टश्चोपवासैस्ततः किं

लब्धाः पुत्राः स्वीयपत्न्यास्ततः किम् ।

प्राणायामः साधितो वा ततः किं

येन स्वात्मा नैव साक्षात्कृतोऽभूत् ॥

॥७॥

युद्धे शत्रुर्निर्जितो वा ततः किं

भूयो मित्रैः पूरितो वा ततः किम् ।

योगैः प्राप्ताः सिद्धयो वा ततः किं

येन स्वात्मा नैव साक्षात्कृतोऽभूत् ॥

॥८॥

अब्धिः पद्भ्यां लङ्घितो वा ततः किं

वायुः कुम्भे स्थापितो वा ततः किम् ।

मेरुः पाणावुद्धृतो वा ततः किं

येन स्वात्मा नैव साक्षात्कृतोऽभूत् ॥

॥९॥

क्ष्वेलः पीतो दुग्धवद्वा ततः किं

वह्निर्जग्धो लाजवद्वा ततः किम् ।

प्राप्तश्चारः पक्षिवत्खे ततः किं

येन स्वात्मा नैव साक्षात्कृतोऽभूत् ॥

॥१०॥

बद्धाः सम्यक्पावकाद्यास्ततः किं

साक्षाद्विद्धा लोहवर्यास्ततः किम् ।

लब्धो निक्षेपोऽञ्जनाद्यैस्ततः किं

येन स्वात्मा नैव साक्षात्कृतोऽभूत् ॥

॥११॥

भूपेन्द्रत्वं प्राप्तमुर्व्यां ततः किं

देवेन्द्रत्वं सम्भृतं वा ततः किम् ।

मुण्डीन्द्रत्वं चोपलब्धं ततः किं

येन स्वात्मा नैव साक्षात्कृतोऽभूत् ॥

॥१२॥

मन्त्रैः सर्वः स्तम्भितो वा ततः किं

बाणैर्लक्ष्यो भेदितो वा ततः किम् ।

कालज्ञानं चापि लब्धं ततः किं

येन स्वात्मा नैव साक्षात्कृतोऽभूत् ॥

॥१३॥

कामातङ्कः खण्डितो वा ततः किं

कोपावेशः कुण्ठितो वा ततः किम् ।

लोभाश्लेषो वर्जितो वा ततः किं

येन स्वात्मा नैव साक्षात्कृतोऽभूत् ॥

॥१४॥

मोहध्वान्तः पेषितो वा ततः किं

जातो भूमौ निर्मदो वा ततः किम् ।

मात्सर्यार्तिर्मीलिता वा ततः किं

येन स्वात्मा नैव साक्षात्कृतोऽभूत् ॥

॥१५॥

धातुर्लोकः साधितो वा ततः किं

विष्णोर्लोको वीक्षितो वा ततः किम् ।

शंभोर्लोकः शासितो वा ततः किं

येन स्वात्मा नैव साक्षात्कृतोऽभूत् ॥

॥१६॥

यस्येदं हृदये सम्यगनात्मश्रीविगर्हणम् ।

सदोदेति स एवात्मसाक्षात्कारस्य भाजनम् ॥

॥१७॥

अन्ये तु मायिकजगद्भ्रान्तिव्यामोहमोहिताः ।

न तेषां जायते क्वापि स्वात्मसाक्षात्कृतिर्भुवि ॥

॥१८॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ अनात्मश्रीविगर्हणप्रकरणं सम्पूर्णम्