- १ॐ परमानन्दलहर्यै नमः
- २ॐ परचैतन्यदीपिकायै नमः
- ३ॐ स्वयम्प्रकाशकिरणायै नमः
- ४ॐ नित्यवैभवशालिन्यै नमः
- ५ॐ विशुद्धकेवलाखण्डसत्यकालात्मरूपिण्यै नमः
- ६ॐ आदिमध्यान्तरहितायै नमः
- ७ॐ महामायाविलासिन्यै नमः
- ८ॐ गुणत्रयपरिच्छेत्र्यै नमः
- ९ॐ सर्वतत्त्वप्रकाशिन्यै नमः
- १०ॐ स्त्रीपुंसभावरसिकायै नमः
- ११ॐ जगत्सर्गादिलम्पटायै नमः
- १२ॐ अशेषनामरूपादिभेदच्छेदरविप्रभायै नमः
- १३ॐ अनादिवासनारूपायै नमः
- १४ॐ वासनोद्यत्प्रपञ्चिकायै नमः
- १५ॐ प्रपञ्चोपशमप्रौढायै नमः
- १६ॐ चराचरजगन्मय्यै नमः
- १७ॐ समस्तजगदाधारायै नमः
- १८ॐ सर्वसञ्जीवनोत्सुकायै नमः
- १९ॐ भक्तचेतोमयानन्तस्वार्थवैभवविभ्रमायै नमः
- २०ॐ सर्वाकर्षणवश्यादिसर्वकर्मधुरन्धरायै नमः
- २१ॐ विज्ञानपरमानन्दविद्यायै नमः
- २२ॐ सन्तानसिद्धिदायै नमः
- २३ॐ आयुरारोग्यसौभाग्यबलश्रीकीर्तिभाग्यदायै नमः
- २४ॐ धनधान्यमणीवस्त्रभूषालेपनमाल्यदायै नमः
- २५ॐ गृहग्राममहाराज्यसाम्राज्यसुखदायिन्यै नमः
- २६ॐ सप्ताङ्गशक्तिसम्पूर्णसार्वभौमफलप्रदायै नमः
- २७ॐ ब्रह्मविष्णुशिवेन्द्रादिपदविश्राणनक्षमायै नमः
- २८ॐ भुक्तिमुक्तिमहाभक्तिविरक्त्यद्वैतदायिन्यै नमः
- २९ॐ निग्रहानुग्रहाध्यक्षायै नमः
- ३०ॐ ज्ञाननिर्द्वैतदायिन्यै नमः
- ३१ॐ परकायप्रवेशादियोगसिद्धिप्रदायिन्यै नमः
- ३२ॐ शिष्टसञ्जीवनप्रौढायै नमः
- ३३ॐ दुष्टसंहारसिद्धिदायै नमः
- ३४ॐ लीलाविनिर्मितानेककोटिब्रह्माण्डमण्डलायै नमः
- ३५ॐ एकस्यै नमः
- ३६ॐ अनेकात्मिकायै नमः
- ३७ॐ नानारूपिण्यै नमः
- ३८ॐ अर्धाङ्गनेश्वर्यै नमः
- ३९ॐ शिवशक्तिमय्यै नमः
- ४०ॐ नित्यशृङ्गारैकरसप्रियायै नमः
- ४१ॐ तुष्टायै नमः
- ४२ॐ पुष्टायै नमः
- ४३ॐ अपरिच्छिन्नायै नमः
- ४४ॐ नित्ययौवनमोहिन्यै नमः
- ४५ॐ समस्तदेवतारूपायै नमः
- ४६ॐ सर्वदेवाधिदेवतायै नमः
- ४७ॐ देवर्षिपितृसिद्धादियोगिनीभैरवात्मिकायै नमः
- ४८ॐ निधिसिद्धिमणीमुद्रायै नमः
- ४९ॐ शस्त्रास्त्रायुधभासुरायै नमः
- ५०ॐ छत्रचामरवादित्रपताकाव्यजनाञ्चितायै नमः
- ५१ॐ हस्त्यश्वरथपादातामात्यसेनासुसेवितायै नमः
- ५२ॐ पुरोहितकुलाचार्यगुरुशिष्यादिसेवितायै नमः
- ५३ॐ सुधासमुद्रमध्योद्यत्सुरद्रुमनिवासिन्यै नमः
- ५४ॐ मणिद्वीपान्तरप्रोद्यत्कदम्बवनवासिन्यै नमः
- ५५ॐ चिन्तामणिगृहान्तःस्थायै नमः
- ५६ॐ मणिमण्टपमध्यगायै नमः
- ५७ॐ रत्नसिंहासनप्रोद्यच्छिवमञ्चाधिशायिन्यै नमः
- ५८ॐ सदाशिवमहालिङ्गमूलसङ्घट्टयोनिकायै नमः
- ५९ॐ अन्योन्यालिङ्गसङ्घर्षकण्डूसङ्क्षुब्धमानसायै नमः
- ६०ॐ कलोद्यद्बिन्दुकालिन्यातुर्यनादपरम्परायै नमः
- ६१ॐ नादान्तानन्दसन्दोहस्वयंव्यक्तवचोऽमृतायै नमः
- ६२ॐ कामराजमहातन्त्ररहस्याचारदक्षिणायै नमः
- ६३ॐ मकारपञ्चकोद्भूतप्रौढान्तोल्लाससुन्दर्यै नमः
- ६४ॐ श्रीचक्रराजनिलयायै नमः
- ६५ॐ श्रीविद्यामन्त्रविग्रहायै नमः
- ६६ॐ अखण्डसच्चिदानन्दशिवशक्तैक्यरूपिण्यै नमः
- ६७ॐ त्रिपुरायै नमः
- ६८ॐ त्रिपुरेशान्यै नमः
- ६९ॐ महात्रिपुरसुन्दर्यै नमः
- ७०ॐ त्रिपुरावासरसिकायै नमः
- ७१ॐ त्रिपुराश्रीस्वरूपिण्यै नमः
- ७२ॐ महापद्मवनान्तस्थायै नमः
- ७३ॐ श्रीमत्त्रिपुरमालिन्यै नमः
- ७४ॐ महात्रिपुरसिद्धाम्बायै नमः
- ७५ॐ श्रीमहात्रिपुराम्बिकायै नमः
- ७६ॐ नवचक्रक्रमादेव्यै नमः
- ७७ॐ महात्रिपुरभैरव्यै नमः
- ७८ॐ श्रीमात्रे नमः
- ७९ॐ ललितायै नमः
- ८०ॐ बालायै नमः
- ८१ॐ राजराजेश्वर्यै नमः
- ८२ॐ शिवायै नमः
- ८३ॐ उत्पत्तिस्थितिसंहारक्रमचक्रनिवासिन्यै नमः
- ८४ॐ अर्धमेर्वात्मचक्रस्थायै नमः
- ८५ॐ सर्वलोकमहेश्वर्यै नमः
- ८६ॐ वल्मीकपुरमध्यस्थायै नमः
- ८७ॐ जम्बूवननिवासिन्यै नमः
- ८८ॐ अरुणाचलशृङ्गस्थायै नमः
- ८९ॐ व्याघ्रालयनिवासिन्यै नमः
- ९०ॐ श्रीकालहस्तिनिलयायै नमः
- ९१ॐ काशीपुरनिवासिन्यै नमः
- ९२ॐ श्रीमत्कैलासनिलयायै नमः
- ९३ॐ द्वादशान्तमहेश्वर्यै नमः
- ९४ॐ श्रीषोडशान्तमध्यस्थायै नमः
- ९५ॐ सर्ववेदान्तलक्षितायै नमः
- ९६ॐ श्रुतिस्मृतिपुराणेतिहासागमकलेश्वर्यै नमः
- ९७ॐ भूतभौतिकतन्मात्रदेवताप्राणहृन्मय्यै नमः
- ९८ॐ जीवेश्वरब्रह्मरूपायै नमः
- ९९ॐ श्रीगुणाढ्यायै नमः
- १००ॐ गुणात्मिकायै नमः
- १०१ॐ अवस्थात्रयनिर्मुक्तायै नमः
- १०२ॐ वाग्रमोमामहीमय्यै नमः
- १०३ॐ गायत्रीभुवनेशानीदुर्गाकाल्यादिरूपिण्यै नमः
- १०४ॐ मत्स्यकूर्मवराहादिनानारूपविलासिन्यै नमः
- १०५ॐ महायोगीश्वराराध्यायै नमः
- १०६ॐ महावीरवरप्रदायै नमः
- १०७ॐ सिद्धेश्वरकुलाराध्यायै नमः
- १०८ॐ श्रीमच्चरणवैभवायै नमः
इति देवीवैभवाश्चर्याष्टोत्तरशतनामावलिः