- १ॐ ककाररूपायै नमः
- २ॐ कल्याण्यै नमः
- ३ॐ कल्याणगुणशालिन्यै नमः
- ४ॐ कल्याणशैलनिलयायै नमः
- ५ॐ कमनीयायै नमः
- ६ॐ कलावत्यै नमः
- ७ॐ कमलाक्ष्यै नमः
- ८ॐ कल्मषघ्न्यै नमः
- ९ॐ करुणामृतसागरायै नमः
- १०ॐ कदम्बकाननावासायै नमः
- ११ॐ कदम्बकुसुमप्रियायै नमः
- १२ॐ कन्दर्पविद्यायै नमः
- १३ॐ कन्दर्प-जनकापाङ्ग-वीक्षणायै नमः
- १४ॐ कर्पूरवीटि-सौरभ्य-कल्लोलित-ककुप्तटायै नमः
- १५ॐ कलिदोषहरायै नमः
- १६ॐ कञ्जलोचनायै नमः
- १७ॐ कम्रविग्रहायै नमः
- १८ॐ कर्मादिसाक्षिण्यै नमः
- १९ॐ कारयित्र्यै नमः
- २०ॐ कर्मफलप्रदायै नमः
- २१ॐ एकाररूपायै नमः
- २२ॐ एकाक्षर्यै नमः
- २३ॐ एकानेकाक्षराकृत्यै नमः
- २४ॐ एतत्तदित्यनिर्देश्यायै नमः
- २५ॐ एकानन्द-चिदाकृत्यै नमः
- २६ॐ एवमित्यागमाबोध्यायै नमः
- २७ॐ एकभक्ति-मदर्चितायै नमः
- २८ॐ एकाग्रचित्त-निर्ध्यातायै नमः
- २९ॐ एषणा-रहितादृतायै नमः
- ३०ॐ एलासुगन्धिचिकुरायै नमः
- ३१ॐ एनःकूटविनाशिन्यै नमः
- ३२ॐ एकभोगायै नमः
- ३३ॐ एकरसायै नमः
- ३४ॐ एकैश्वर्य-प्रदायिन्यै नमः
- ३५ॐ एकातपत्र-साम्राज्य-प्रदायै नमः
- ३६ॐ एकान्तपूजितायै नमः
- ३७ॐ एधमानप्रभायै नमः
- ३८ॐ एजदनेकजगदीश्वर्यै नमः
- ३९ॐ एकवीरादि-संसेव्यायै नमः
- ४०ॐ एकप्राभव-शालिन्यै नमः
- ४१ॐ ईकाररूपायै नमः
- ४२ॐ ईशित्र्यै नमः
- ४३ॐ ईप्सितार्थ-प्रदायिन्यै नमः
- ४४ॐ ईदृगित्य-विनिर्देश्यायै नमः
- ४५ॐ ईश्वरत्व-विधायिन्यै नमः
- ४६ॐ ईशानादि-ब्रह्ममय्यै नमः
- ४७ॐ ईशित्वाद्यष्टसिद्धिदायै नमः
- ४८ॐ ईक्षित्र्यै नमः
- ४९ॐ ईक्षण-सृष्टाण्ड-कोट्यै नमः
- ५०ॐ ईश्वर-वल्लभायै नमः
- ५१ॐ ईडितायै नमः
- ५२ॐ ईश्वरार्धाङ्ग-शरीरायै नमः
- ५३ॐ ईशाधि-देवतायै नमः
- ५४ॐ ईश्वर-प्रेरणकर्यै नमः
- ५५ॐ ईशताण्डव-साक्षिण्यै नमः
- ५६ॐ ईश्वरोत्सङ्ग-निलयायै नमः
- ५७ॐ ईतिबाधा-विनाशिन्यै नमः
- ५८ॐ ईहाविरहितायै नमः
- ५९ॐ ईशशक्त्यै नमः
- ६०ॐ ईषत्-स्मिताननायै नमः
- ६१ॐ लकाररूपायै नमः
- ६२ॐ ललितायै नमः
- ६३ॐ लक्ष्मी-वाणी-निषेवितायै नमः
- ६४ॐ लाकिन्यै नमः
- ६५ॐ ललनारूपायै नमः
- ६६ॐ लसद्दाडिम-पाटलायै नमः
- ६७ॐ ललन्तिकालसत्फालायै नमः
- ६८ॐ ललाट-नयनार्चितायै नमः
- ६९ॐ लक्षणोज्ज्वल-दिव्याङ्ग्यै नमः
- ७०ॐ लक्षकोट्यण्ड-नायिकायै नमः
- ७१ॐ लक्ष्यार्थायै नमः
- ७२ॐ लक्षणागम्यायै नमः
- ७३ॐ लब्धकामायै नमः
- ७४ॐ लतातनवे नमः
- ७५ॐ ललामराजदलिकायै नमः
- ७६ॐ लम्बिमुक्तालताञ्चितायै नमः
- ७७ॐ लम्बोदर-प्रसुवे नमः
- ७८ॐ लभ्यायै नमः
- ७९ॐ लज्जाढ्यायै नमः
- ८०ॐ लयवर्जितायै नमः
- ८१ॐ ह्रीङ्काररूपायै नमः
- ८२ॐ ह्रीङ्कारनिलयायै नमः
- ८३ॐ ह्रीम्पदप्रियायै नमः
- ८४ॐ ह्रीङ्कारबीजायै नमः
- ८५ॐ ह्रीङ्कारमन्त्रायै नमः
- ८६ॐ ह्रीङ्कारलक्षणायै नमः
- ८७ॐ ह्रीङ्कारजपसुप्रीतायै नमः
- ८८ॐ ह्रीम्मत्यै नमः
- ८९ॐ ह्रींविभूषणायै नमः
- ९०ॐ ह्रींशीलायै नमः
- ९१ॐ ह्रीम्पदाराध्यायै नमः
- ९२ॐ ह्रीङ्गर्भायै नमः
- ९३ॐ ह्रीम्पदाभिधायै नमः
- ९४ॐ ह्रीङ्कारवाच्यायै नमः
- ९५ॐ ह्रीङ्कारपूज्यायै नमः
- ९६ॐ ह्रीङ्कारपीठिकायै नमः
- ९७ॐ ह्रीङ्कारवेद्यायै नमः
- ९८ॐ ह्रीङ्कारचिन्त्यायै नमः
- ९९ॐ ह्रीं नमः
- १००ॐ ह्रीं-शरीरिण्यै नमः
- १०१ॐ हकाररूपायै नमः
- १०२ॐ हलधृक्पूजितायै नमः
- १०३ॐ हरिणेक्षणायै नमः
- १०४ॐ हरप्रियायै नमः
- १०५ॐ हराराध्यायै नमः
- १०६ॐ हरिब्रह्मेन्द्रवन्दितायै नमः
- १०७ॐ हयारूढा-सेविताङ्घ्र्यै नमः
- १०८ॐ हयमेध-समर्चितायै नमः
- १०९ॐ हर्यक्षवाहनायै नमः
- ११०ॐ हंसवाहनायै नमः
- १११ॐ हतदानवायै नमः
- ११२ॐ हत्यादिपापशमन्यै नमः
- ११३ॐ हरिदश्वादि-सेवितायै नमः
- ११४ॐ हस्तिकुम्भोत्तुङ्गकुचायै नमः
- ११५ॐ हस्तिकृत्ति-प्रियाङ्गनायै नमः
- ११६ॐ हरिद्राकुङ्कुमादिग्धायै नमः
- ११७ॐ हर्यश्वाद्यमरार्चितायै नमः
- ११८ॐ हरिकेशसख्यै नमः
- ११९ॐ हादिविद्यायै नमः
- १२०ॐ हालामदालसायै नमः
- १२१ॐ सकाररूपायै नमः
- १२२ॐ सर्वज्ञायै नमः
- १२३ॐ सर्वेश्यै नमः
- १२४ॐ सर्वमङ्गलायै नमः
- १२५ॐ सर्वकर्त्र्यै नमः
- १२६ॐ सर्वभर्त्र्यै नमः
- १२७ॐ सर्वहन्त्र्यै नमः
- १२८ॐ सनातनायै नमः
- १२९ॐ सर्वानवद्यायै नमः
- १३०ॐ सर्वाङ्गसुन्दर्यै नमः
- १३१ॐ सर्वसाक्षिण्यै नमः
- १३२ॐ सर्वात्मिकायै नमः
- १३३ॐ सर्वसौख्यदात्र्यै नमः
- १३४ॐ सर्वविमोहिन्यै नमः
- १३५ॐ सर्वाधारायै नमः
- १३६ॐ सर्वगतायै नमः
- १३७ॐ सर्वावगुणवर्जितायै नमः
- १३८ॐ सर्वारुणायै नमः
- १३९ॐ सर्वमात्रे नमः
- १४०ॐ सर्वभूषण-भूषितायै नमः
- १४१ॐ ककारार्थायै नमः
- १४२ॐ कालहन्त्र्यै नमः
- १४३ॐ कामेश्यै नमः
- १४४ॐ कामितार्थदायै नमः
- १४५ॐ कामसञ्जीवन्यै नमः
- १४६ॐ कल्यायै नमः
- १४७ॐ कठिनस्तन-मण्डलायै नमः
- १४८ॐ करभोरवे नमः
- १४९ॐ कलानाथ-मुख्यै नमः
- १५०ॐ कचजिताम्बुदायै नमः
- १५१ॐ कटाक्षस्यन्दि-करुणायै नमः
- १५२ॐ कपालि-प्राणनायिकायै नमः
- १५३ॐ कारुण्य-विग्रहायै नमः
- १५४ॐ कान्तायै नमः
- १५५ॐ कान्तिधूत-जपावल्यै नमः
- १५६ॐ कलालापायै नमः
- १५७ॐ कम्बुकण्ठ्यै नमः
- १५८ॐ करनिर्जित-पल्लवायै नमः
- १५९ॐ कल्पवल्ली-समभुजायै नमः
- १६०ॐ कस्तूरी-तिलकाञ्चितायै नमः
- १६१ॐ हकारार्थायै नमः
- १६२ॐ हंसगत्यै नमः
- १६३ॐ हाटकाभरणोज्ज्वलायै नमः
- १६४ॐ हारहारि-कुचाभोगायै नमः
- १६५ॐ हाकिन्यै नमः
- १६६ॐ हल्यवर्जितायै नमः
- १६७ॐ हरित्पति-समाराध्यायै नमः
- १६८ॐ हठात्कार-हतासुरायै नमः
- १६९ॐ हर्षप्रदायै नमः
- १७०ॐ हविर्भोक्त्र्यै नमः
- १७१ॐ हार्दसन्तमसापहायै नमः
- १७२ॐ हल्लीसलास्य-सन्तुष्टायै नमः
- १७३ॐ हंसमन्त्रार्थ-रूपिण्यै नमः
- १७४ॐ हानोपादान-निर्मुक्तायै नमः
- १७५ॐ हर्षिण्यै नमः
- १७६ॐ हरिसोदर्यै नमः
- १७७ॐ हाहाहूहू-मुख-स्तुत्यायै नमः
- १७८ॐ हानि-वृद्धि-विवर्जितायै नमः
- १७९ॐ हय्यङ्गवीन-हृदयायै नमः
- १८०ॐ हरिगोपारुणांशुकायै नमः
- १८१ॐ लकाराख्यायै नमः
- १८२ॐ लतापूज्यायै नमः
- १८३ॐ लयस्थित्युद्भवेश्वर्यै नमः
- १८४ॐ लास्य-दर्शन-सन्तुष्टायै नमः
- १८५ॐ लाभालाभ-विवर्जितायै नमः
- १८६ॐ लङ्घ्येतराज्ञायै नमः
- १८७ॐ लावण्य-शालिन्यै नमः
- १८८ॐ लघु-सिद्धिदायै नमः
- १८९ॐ लाक्षारस-सवर्णाभायै नमः
- १९०ॐ लक्ष्मणाग्रज-पूजितायै नमः
- १९१ॐ लभ्येतरायै नमः
- १९२ॐ लब्धभक्ति-सुलभायै नमः
- १९३ॐ लाङ्गलायुधायै नमः
- १९४ॐ लग्न-चामर-हस्त-श्री-शारदा-परिवीजितायै नमः
- १९५ॐ लज्जापद-समाराध्यायै नमः
- १९६ॐ लम्पटायै नमः
- १९७ॐ लकुलेश्वर्यै नमः
- १९८ॐ लब्धमानायै नमः
- १९९ॐ लब्धरसायै नमः
- २००ॐ लब्धसम्पत्समुन्नत्यै नमः
- २०१ॐ ह्रीङ्कारिण्यै नमः
- २०२ॐ ह्रीङ्काराद्यायै नमः
- २०३ॐ ह्रीम्मध्यायै नमः
- २०४ॐ ह्रींशिखामण्यै नमः
- २०५ॐ ह्रीङ्कार-कुण्डाग्नि-शिखायै नमः
- २०६ॐ ह्रीङ्कार-शशिचन्द्रिकायै नमः
- २०७ॐ ह्रीङ्कार-भास्कररुच्यै नमः
- २०८ॐ ह्रीङ्काराम्भोद-चञ्चलायै नमः
- २०९ॐ ह्रीङ्कार-कन्दाङ्कुरिकायै नमः
- २१०ॐ ह्रीङ्कारैक-परायणायै नमः
- २११ॐ ह्रीङ्कार-दीर्घिकाहंस्यै नमः
- २१२ॐ ह्रीङ्कारोद्यान-केकिन्यै नमः
- २१३ॐ ह्रीङ्कारारण्य-हरिण्यै नमः
- २१४ॐ ह्रीङ्कारावाल-वल्लर्यै नमः
- २१५ॐ ह्रीङ्कार-पञ्जरशुक्यै नमः
- २१६ॐ ह्रीङ्काराङ्गण-दीपिकायै नमः
- २१७ॐ ह्रीङ्कार-कन्दरा-सिंह्यै नमः
- २१८ॐ ह्रीङ्काराम्भोज-भृङ्गिकायै नमः
- २१९ॐ ह्रीङ्कार-सुमनो-माध्व्यै नमः
- २२०ॐ ह्रीङ्कार-तरुमञ्जर्यै नमः
- २२१ॐ सकाराख्यायै नमः
- २२२ॐ समरसायै नमः
- २२३ॐ सकलागम-संस्तुतायै नमः
- २२४ॐ सर्ववेदान्त-तात्पर्यभूम्यै नमः
- २२५ॐ सदसदाश्रयायै नमः
- २२६ॐ सकलायै नमः
- २२७ॐ सच्चिदानन्दायै नमः
- २२८ॐ साध्यायै नमः
- २२९ॐ सद्गतिदायिन्यै नमः
- २३०ॐ सनकादिमुनिध्येयायै नमः
- २३१ॐ सदाशिव-कुटुम्बिन्यै नमः
- २३२ॐ सकलाधिष्ठान-रूपायै नमः
- २३३ॐ सत्यरूपायै नमः
- २३४ॐ समाकृत्यै नमः
- २३५ॐ सर्वप्रपञ्च-निर्मात्र्यै नमः
- २३६ॐ समानाधिक-वर्जितायै नमः
- २३७ॐ सर्वोत्तुङ्गायै नमः
- २३८ॐ सङ्गहीनायै नमः
- २३९ॐ सगुणायै नमः
- २४०ॐ सकलेष्टदायै नमः
- २४१ॐ ककारिण्यै नमः
- २४२ॐ काव्यलोलायै नमः
- २४३ॐ कामेश्वरमनोहरायै नमः
- २४४ॐ कामेश्वर-प्राणनाड्यै नमः
- २४५ॐ कामेशोत्सङ्गवासिन्यै नमः
- २४६ॐ कामेश्वरालिङ्गिताङ्ग्यै नमः
- २४७ॐ कामेश्वर-सुखप्रदायै नमः
- २४८ॐ कामेश्वर-प्रणयिन्यै नमः
- २४९ॐ कामेश्वर-विलासिन्यै नमः
- २५०ॐ कामेश्वर-तपःसिद्ध्यै नमः
- २५१ॐ कामेश्वर-मनःप्रियायै नमः
- २५२ॐ कामेश्वर-प्राणनाथायै नमः
- २५३ॐ कामेश्वर-विमोहिन्यै नमः
- २५४ॐ कामेश्वर-ब्रह्मविद्यायै नमः
- २५५ॐ कामेश्वर-गृहेश्वर्यै नमः
- २५६ॐ कामेश्वराह्लादकर्यै नमः
- २५७ॐ कामेश्वर-महेश्वर्यै नमः
- २५८ॐ कामेश्वर्यै नमः
- २५९ॐ कामकोटिनिलयायै नमः
- २६०ॐ काङ्क्षितार्थदायै नमः
- २६१ॐ लकारिण्यै नमः
- २६२ॐ लब्धरूपायै नमः
- २६३ॐ लब्धधियै नमः
- २६४ॐ लब्ध-वाञ्चितायै नमः
- २६५ॐ लब्धपाप-मनोदूरायै नमः
- २६६ॐ लब्धाहङ्कार-दुर्गमायै नमः
- २६७ॐ लब्धशक्त्यै नमः
- २६८ॐ लब्धदेहायै नमः
- २६९ॐ लब्धैश्वर्यसमुन्नत्यै नमः
- २७०ॐ लब्धवृद्ध्यै नमः
- २७१ॐ लब्धलीलायै नमः
- २७२ॐ लब्धयौवनशालिन्यै नमः
- २७३ॐ लब्धातिशय-सर्वाङ्ग-सौन्दर्यायै नमः
- २७४ॐ लब्धविभ्रमायै नमः
- २७५ॐ लब्धरागायै नमः
- २७६ॐ लब्धपत्यै नमः
- २७७ॐ लब्ध-नानागमस्थित्यै नमः
- २७८ॐ लब्धभोगायै नमः
- २७९ॐ लब्धसुखायै नमः
- २८०ॐ लब्धहर्षाभिपूरितायै नमः
- २८१ॐ ह्रीङ्कार-मूर्त्यै नमः
- २८२ॐ ह्रीङ्कार-सौधशृङ्गकपोतिकायै नमः
- २८३ॐ ह्रीङ्कार-दुग्धाब्धि-सुधायै नमः
- २८४ॐ ह्रीङ्कार-कमलेन्दिरायै नमः
- २८५ॐ ह्रीङ्कार-मणिदीपार्च्यै नमः
- २८६ॐ ह्रीङ्कार-तरुशारिकायै नमः
- २८७ॐ ह्रीङ्कार-पेटक-मण्यै नमः
- २८८ॐ ह्रीङ्कारादर्श-बिम्बितायै नमः
- २८९ॐ ह्रीङ्कार-कोशासिलतायै नमः
- २९०ॐ ह्रीङ्कारास्थान-नर्तक्यै नमः
- २९१ॐ ह्रीङ्कार-शुक्तिका-मुक्तामण्यै नमः
- २९२ॐ ह्रीङ्कार-बोधितायै नमः
- २९३ॐ ह्रीङ्कारमय-सौवर्णस्तम्भ-विद्रुम-पुत्रिकायै नमः
- २९४ॐ ह्रीङ्कार-वेदोपनिषदे नमः
- २९५ॐ ह्रीङ्काराध्वर-दक्षिणायै नमः
- २९६ॐ ह्रीङ्कार-नन्दनाराम-नवकल्पक-वल्लर्यै नमः
- २९७ॐ ह्रीङ्कार-हिमवद्गङ्गायै नमः
- २९८ॐ ह्रीङ्कारार्णव-कौस्तुभायै नमः
- २९९ॐ ह्रीङ्कार-मन्त्र-सर्वस्वायै नमः
- ३००ॐ ह्रीङ्कार-परसौख्यदायै नमः
इति श्री-ललितात्रिशतीनामावलिः सम्पूर्णा