मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

श्रीलक्ष्मीपुण्याहमन्त्राः

श्रीलक्ष्मीपुण्याहमन्त्राः. Also called sri lakshmi punyaha mantrah, Śrīlakṣmīpuṇyāhamantrāḥ. Svara-marked text on Vaidhika Dharma.

MD
अध्ययनम्
अनुक्रमणिका
संहिता निर्देशाः
अन्यत्र ग्रन्थे
मूलम्

आपो हि ष्ठा

आपो॒ हि ष्ठा म॑यो॒भुव॒स्ता न॑ ऊ॒र्जे द॑धातन । म॒हे रणा॑य॒ चक्ष॑सेRV 10.9.1

॥१॥

यो व॑: शि॒वत॑मो॒ रस॒स्तस्य॑ भाजयते॒ह न॑: । उ॒श॒तीरि॑व मा॒तर॑:RV 10.9.2

॥२॥

तस्मा॒ अरं॑ गमाम वो॒ यस्य॒ क्षया॑य॒ जिन्व॑थ । आपो॑ ज॒नय॑था च नःRV 10.9.3

॥३॥

अघमर्षणम्

ऋ॒तं च॑ स॒त्यं चा॒भी॑द्धा॒त्तप॒सोऽध्य॑जायत । ततो॒ रात्र्य॑जायत॒ तत॑: समु॒द्रो अ॑र्ण॒वःRV 10.190.1

॥४॥

स॒मु॒द्राद॑र्ण॒वादधि॑ संवत्स॒रो अ॑जायत । अ॒हो॒रा॒त्राणि॑ वि॒दध॒द्विश्व॑स्य मिष॒तो व॒शीRV 10.190.2

॥५॥

सू॒र्या॒च॒न्द्र॒मसौ॑ धा॒ता य॑थापू॒र्वम॑कल्पयत् । दिवं॑ च पृथि॒वीं चा॒ऽन्तरि॑क्ष॒मथो॒ स्व॑:RV 10.190.3

॥६॥