अध्ययनम्
- अनुक्रमणिका
- क्षीराभिषेचनम् · दध्यभिषेचनम् · घृताभिषेचनम् · मध्वभिषेचनम् · शर्कराभिषेचनम्
- मूलम्
- तैत्तिरीय-ऋग्वेदपाठः याजुषमन्त्ररत्नाकरानुसारेण। स्वरः गुरोः समीपे एव।
क्षीराभिषेचनम्
आप्या॑यस्व॒ समे॑तु ते वि॒श्वत॑स्सोम॒ वृष्णि॑यम्। भवा॒ वाज॑स्य सङ्ग॒थे॥ पयः॑ पृथि॒व्यां पय॒ ओष॑धीषु॒ पयो॑ दि॒व्यन्तरि॑क्षे॒ पयो॑ धाः। पय॑स्वतीः प्र॒दिशः॑ सन्तु॒ मह्य᳚म्॥ क्षीरेण स्नपयामि॥
॥१॥दध्यभिषेचनम्
द॒धिक्राव्णो॑ अकारिषं जि॒ष्णोरश्व॑स्य वा॒जिनः॑। सु॒र॒भि नो॒ मुखा॑ कर॒त्प्र ण॒ आयू॑ꣴषि तारिषत्॥ दध्ना स्नपयामि॥
॥२॥घृताभिषेचनम्
शु॒क्रम॑सि॒ ज्योति॑रसि॒ तेजो॑ऽसि दे॒वो वः॑ सवि॒तोत्पु॑ना॒त्वच्छि॑द्रेण प॒वित्रे॑ण॒ वसो॒स्सूर्य॑स्य र॒श्मिभिः॑॥ घृतेन स्नपयामि॥
॥३॥मध्वभिषेचनम्
मधु॒ वाता॑ ऋताय॒ते मधु॑ क्षरन्ति॒ सिन्ध॑वः। माध्वी᳚र्नः स॒न्त्वोष॑धीः॥ मधु॒ नक्त॑मु॒तोषसि॒ मधु॑म॒त्पार्थि॑व॒ꣳ रजः॑। मधु॒ द्यौर॑स्तु नः पि॒ता॥ मधु॑मान्नो॒ वन॒स्पति॒र्मधु॑माँ अस्तु॒ सूर्यः॑। माध्वी॒र्गावो॑ भवन्तु नः॥ मधु॒ मधु॒ मधु॑॥ मधुना स्नपयामि॥
॥४॥शर्कराभिषेचनम्
ता नः॑ शि॒वाः शर्क॑राः सन्तु॒ सर्वा᳚ः। अ॒ग्ने रेतो॑ च॒न्द्रꣳ हिर॑ण्यम्। अ॒द्भ्यः संभू॑तम॒मृतं॑ प्र॒जासु॑। तत्सं॒भर॑न्नुत्तर॒तो नि॒धाय॑। अ॒ति॒ प्र॒यच्छं॒ दुरि॑तं तरेयम्॥
॥५॥स्वा॒दुः प॑वस्व दि॒व्याय॒ जन्म॑ने स्वा॒दुदिन्द्रा᳚य सु॒हवी᳚तुनाम्ने। स्वा॒दुर्मि॒त्राय॒ वरु॑णाय वा॒यवे॒ बृह॒स्पत॑ये॒ मधु॑माँ॒ अदा᳚भ्यः॥ शर्करया स्नपयामि॥
॥६॥