मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

याः प्राचीः

याः प्राचीः. Also called yah prachih, Yāḥ prācīḥ. Svara-marked text on Vaidhika Dharma.

MD
अध्ययनम्
अनुक्रमणिका
संहिता निर्देशाः
मूलम्

तै॰सं॰ ४.२.३

१० अन्न॑प॒तेऽन्न॑स्य नो देह्यनमी॒वस्य॑ शु॒ष्मिणः॑ । प्र प्र॑दा॒तारं॑ तारिष॒

ऊर्जं॑ नो धेहि द्वि॒पदे॒ चतु॑ष्पदे ॥ उदु॑ त्वा॒ विश्वे॑ दे॒वा अग्ने॒ भर॑न्तु॒

चित्ति॑भिः । स नो॑ भव शि॒वत॑मः सु॒प्रती॑को वि॒भाव॑सुः ॥ प्रेद॑ग्ने॒

ज्योति॑ष्मान्, याहि शि॒वेभि॑र॒र्चिभि॒स्त्वम् । बृ॒हद्भि॑र्भा॒नुभि॒र्भास॒न्मा

हिꣳ॑सीस्त॒नुवा᳚ प्र॒जाः ॥ स॒मिधा॒ग्निं दु॑वस्यत घृ॒तैर्बो॑धय॒ताति॑थिम्

। आ

११ ऽस्मि॑न् ह॒व्या जु॑होतन ॥ प्रप्रा॒यम॒ग्निर्भ॑र॒तस्य॑ श‍ृण्वे॒ वि

यथ्सूऱ्यो॒ न रोच॑ते बृ॒हद्भाः । अ॒भि यः पू॒रुं पृत॑नासु त॒स्थौ दी॒दाय॒

दैव्यो॒ अति॑थिः शि॒वो नः॑ ॥ आपो॑ देवीः॒ प्रति॑ गृह्णीत॒ भस्मै॒तथ्स्यो॒ने

कृ॑णुध्वꣳ सुर॒भावु॑ लो॒के । तस्मै॑ नमन्तां॒ जन॑यः सु॒पत्नी᳚र्मा॒तेव॑

पु॒त्रं बि॑भृ॒ता स्वे॑नम् ॥ अ॒प्स्व॑ग्ने॒ सधि॒ष्टव॒

१२ सौष॑धी॒रनु॑ रुध्यसे । गर्भे॒ सञ्जा॑यसे॒ पुनः॑ ॥ गर्भो॑ अ॒स्योष॑धीनां॒

गर्भो॒ वन॒स्पती॑नाम् । गर्भो॒ विश्व॑स्य भू॒तस्याग्ने॒ गर्भो॑ अ॒पाम॑सि ॥

प्र॒सद्य॒ भस्म॑ना॒ योनि॑म॒पश्च॑ पृथि॒वीम॑ग्ने । स॒ꣳ॒सृज्य॑

मा॒तृभि॒स्त्वं ज्योति॑ष्मा॒न् पुन॒रास॑दः ॥ पुन॑रा॒सद्य॒ सद॑नम॒पश्च॑

पृथि॒वीम॑ग्ने । शेषे॑ मा॒तुर्यथो॒पस्थे॒ऽन्तर॒स्याꣳ शि॒वत॑मः ॥

पुन॑रू॒र्जा

१३ निव॑र्तस्व॒ पुन॑रग्न इ॒षायु॑षा । पुन॑र्नः पाहि वि॒श्वतः॑ ॥ स॒ह

र॒य्यानिव॑र्त॒स्वाग्ने॒ पिन्व॑स्व॒ धार॑या । वि॒श्वफ्स्नि॑या वि॒श्वत॒स्परि॑ ॥

पुन॑स्त्वादि॒त्या रु॒द्रा वस॑वः॒ समि॑न्धतां॒ पुन॑र्ब्र॒ह्माणो॑ वसुनीथ य॒ज्ञैः ।

घृ॒तेन॒ त्वं त॒नुवो॑ वर्धयस्व स॒त्याः स॑न्तु॒ यज॑मानस्य॒ कामाः᳚ ॥ बोधा॑

नो अ॒स्य वच॑सो यविष्ठ॒ मꣳहि॑ष्ठस्य॒ प्रभृ॑तस्य स्वधावः । पीय॑ति

त्वो॒ अनु॑ त्वो गृणाति व॒न्दारु॑स्ते त॒नुवं॑ वन्दे अग्ने ॥ स बो॑धि सू॒रिर्म॒घवा॑

वसु॒दावा॒ वसु॑पतिः । यु॒यो॒ध्य॑स्मद्द्वेषाꣳ॑सि ॥ ४। २। ३॥ आ तवो॒र्जाऽनु॒

षोड॑श चTS 4.2.3

॥१॥