अध्ययनम्
- अनुक्रमणिका
- शङ्खपूजा
- मूलम्
- तैत्तिरीय-ऋग्वेदपाठः याजुषमन्त्ररत्नाकरानुसारेण। स्वरः गुरोः समीपे एव।
शङ्खपूजा
शङ्खं चन्द्रार्कदैवत्यं मध्ये वरुणसंयुतम्। पृष्ठे प्रजापतिश्चैव अग्रे गङ्गा सरस्वती॥
त्रैलोक्ये यानि तीर्थानि वासुदेवस्य चाज्ञया। शङ्खे तिष्ठन्ति विप्रेन्द्रास्तस्माच्छङ्खं प्रपूजयेत्॥
॥१॥त्वं पुरा सागरोत्पन्नो विष्णुना विधृतः करे। पूजितः सर्वदेवैश्च पाञ्चजन्य नमोऽस्तु ते॥
गर्भा देवारिनारीणां विशीर्यन्ते सहस्रधा। तव नादेन पाताले पाञ्चजन्य नमोऽस्तु ते॥
॥२॥अ॒ग्नेर्म॑न्वे प्रथ॒मस्य॒ प्रचे॑तसो॒ यं पाञ्च॑जन्यं ब॒हवः॑ समि॒न्धते᳚। विश्वा॑स्यां वि॒शि प्र॑विविवि॒श्वां स॑मीमहे॒ स नो॑ मुञ्च॒त्वंह॑सः॥
॥३॥