मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

प्राशनमन्त्राः

Also spelled: Prashanamantra · Prashanamanthra

प्राशनमन्त्राः. Also called prashana mantrah, Prāśanamantrāḥ. Svara-marked text on Vaidhika Dharma.

3
अध्ययनम्
अनुक्रमणिका
तै॰ब्रा॰ २.४.४ · तै॰अा॰ १.२६
संहिता निर्देशाः
मूलम्
तैत्तिरीय-ऋग्वेदपाठः याजुषमन्त्ररत्नाकरानुसारेण। स्वरः गुरोः समीपे एव।

तै॰ब्रा॰ २.४.४

न॒क्तं॒ जा॒ताऽस्यो॑षधे।

रामे॒ कृष्णे॒ असि॑क्नि च।

इ॒दꣳ र॑जनि रजय।

कि॒लासं॑ पलि॒तं च॒ यत्।

कि॒लासं॑ च पलि॒तं च॑।

निरि॒तो ना॑शया॒ पृष॑त्।

आ नः॒ स्वो अ॑श्ञुतां॒ वर्णः॑।

परा᳚ श्वे॒तानि॑ पातय।

असि॑तं ते नि॒लय॑नम्।

आ॒स्थान॒मसि॑तं॒ तव॑॥३४॥

असि॑क्नियस्योषधे।

निरि॒तो ना॑शया॒ पृष॑त्।

अ॒स्थि॒जस्य॑ कि॒लास॑स्य।

त॒नू॒जस्य॑ च॒ यत्त्व॒चि।

कृ॒त्यया॑ कृ॒तस्य॒ ब्रह्म॑णा।

लक्ष्म॑ श्वे॒तम॑नीनशम्।

सरू॑पा॒ नाम॑ ते मा॒ता।

सरू॑पो॒ नाम॑ ते पि॒ता।

सरू॑पाऽस्योषधे॒ सा।

सरू॑पमि॒दं कृ॑धि॥३५॥

शु॒नꣳ हु॑वेम म॒घवा॑न॒मिन्द्रम्᳚।

अ॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ।

शृ॒ण्वन्त॑मु॒ग्रमू॒तये॑ स॒मथ्सु॑।

घ्नन्तं॑ वृ॒त्राणि॑ स॒ञ्जितं॒ धना॑नाम्।

धू॒नु॒थ द्यां पर्व॑तान्दा॒शुषे॒ वसु॑।

नि वो॒ वना॑ जिहते॒ याम॑ नो भि॒या।

को॒पय॑थ पृथि॒वीं पृ॑श्ञिमातरः।

यु॒धे यदु॑ग्राः॒ पृष॑ती॒रयु॑ग्ध्वम्।

प्रवे॑पयन्ति॒ पर्व॑तान्।

विवि॑ञ्चन्ति॒ वन॒स्पतीन्॑॥३६॥

प्रोवा॑रत मरुतो दु॒र्मदा॑ इव।

देवा॑सः॒ सर्व॑या वि॒शा।

पु॒रु॒त्रा हि स॒दृङ्ङसि॑।

विशो॒ विश्वा॒ अनु॑ प्र॒भु।

स॒मथ्सु॑ त्वा हवामहे।

स॒मथ्स्व॒ग्निमव॑से।

वा॒ज॒यन्तो॑ हवामहे।

वाजे॑षु चि॒त्ररा॑धसम्।

सङ्ग॑च्छध्व॒ꣳ॒ संव॑दध्वम्।

सं वो॒ मनाꣳ॑सि जानताम्॥३७॥

दे॒वा भा॒गं यथा॒ पूर्वे᳚।

स॒ञ्जा॒ना॒ना उ॒पास॑त।

स॒मा॒नो मन्त्रः॒ समि॑तिः समा॒नी।

स॒मा॒नं मनः॑ स॒ह चि॒त्तमे॑षाम्।

स॒मा॒नं केतो॑ अ॒भि सꣳ र॑भध्वम्।

सं॒ज्ञाने॑न वो ह॒विषा॑ यजामः।

स॒मा॒नी व॒ आकू॑तिः।

स॒मा॒ना हृद॑यानि वः।

स॒मा॒नम॑स्तु वो॒ मनः॑।

यथा॑ वः॒ सुस॒हास॑ति॥३८॥

सं॒ज्ञानं॑ नः॒ स्वैः।

सं॒ज्ञान॒मर॑णैः।

सं॒ज्ञान॑मश्विना यु॒वम्।

इ॒हास्मासु॒ निय॑च्छतम्।

सं॒ज्ञानं॑ मे॒ बृह॒स्पतिः॑।

सं॒ज्ञानꣳ॑ सवि॒ता क॑रत्।

सं॒ज्ञान॑मश्विना यु॒वम्।

इ॒ह मह्यं॒ नि य॑च्छतम्।

उप॑ च्छा॒यामि॑व॒ घृणेः᳚।

अग॑न्म॒ शर्म॑ ते व॒यम्॥३९॥

अग्ने॒ हिर॑ण्यसन्दृशः।

अद॑ब्धेभिः सवितः पा॒युभि॒ष्ट्वम्।

शि॒वेभि॑र॒द्य परि॑पाहि नो॒ गयम्᳚।

हिर॑ण्यजिह्वः सुवि॒ताय॒ नव्य॑से।

रक्षा॒ माकि॑र्नो अ॒घशꣳ॑स ईशत।

मदे॑मदे॒ हि नो॑ द॒दुः।

यू॒था गवा॑मृजु॒क्रतुः॑।

सङ्गृ॑भाय पु॒रूश॒ता।

उ॒भ॒या ह॒स्त्या वसु॑।

शि॒शी॒हि रा॒य आ भ॑र॥४०॥

शिप्रि॑न्वाजानां पते।

शची॑व॒स्तव॑ द॒ꣳ॒सना᳚।

आ तू न॑ इन्द्र भाजय।

गोष्वश्वे॑षु शु॒भ्रुषु॑।

स॒हस्रे॑षु तुवीमघ।

यद्दे॑वा देव॒हेड॑नम्।

देवा॑सश्चकृ॒मा व॒यम्।

आदि॑त्या॒स्तस्मा᳚न्मा यू॒यम्।

ऋ॒तस्य॒र्तेन॑ मुञ्चत।

ऋ॒तस्य॒र्तेना॑ऽऽदित्याः॥४१॥

यज॑त्रा मु॒ञ्चते॒ह मा᳚।

य॒ज्ञैर्वो॑ यज्ञवाहसः।

आ॒शिक्ष॑न्तो॒ न शे॑किम।

मेद॑स्वता॒ यज॑मानाः।

स्रु॒चाऽऽज्ये॑न॒ जुह्व॑तः।

अ॒का॒मा वो॑ विश्वेदेवाः।

शिक्ष॑न्तो॒ नोप॑ शेकिम।

यदि॒ दिवा॒ यदि॒ नक्तम्᳚।

एन॑ एन॒स्योक॑रत्।

भू॒तं मा॒ तस्मा॒द्भव्यं॑ च॥४२॥

द्रु॒प॒दादि॑व मुञ्चतु।

द्रु॒प॒दादि॒वेन्मु॑मुचा॒नः।

स्वि॒न्नः स्ना॒त्वी मला॑दिव।

पू॒तं प॒वित्रे॑णे॒वाऽऽज्यम्᳚।

विश्वे॑ मुञ्चन्तु॒ मैन॑सः।

उद्व॒यं तम॑स॒स्परि॑।

पश्य॑न्तो॒ ज्योति॒रुत्त॑रम्।

दे॒वं दे॑व॒त्रा सूर्यम्᳚।

अग॑न्म॒ ज्योति॑रुत्त॒मम्॥४३॥ ॥TB 2.4.4॥

॥१॥

तै॰अा॰ १.२६

अ॒ग्निं प्र॒णीयो॑पसमा॒धाय॑। तम॒भित ए॒ता अ॒बीष्टका॒ उप॑दधाति।

अ॒ग्नि॒हो॒त्रे द॑र्शपूर्णमा॒सयोः᳚। प॒शु॒ब॒न्धे चा॑तुर्मा॒स्येषु॑।

अथो॑ आहुः। सर्वे॑षु यज्ञक्र॒तुष्विति॑।

अथ॑ ह स्माहारु॒णः स्वा॑य॒म्भुवः॑। सा॒वि॒त्रः सर्वो॒ऽग्निरित्यन॑नुषङ्गं मन्यामहे।

नाना॒ वा ए॒तेषां᳚ वी॒र्या॑णि। कम॒ग्निं चि॑नुते॥१०७॥

स॒त्रि॒यम॒ग्निं चि॑न्वा॒नः। कम॒ग्निं चि॑नुते।

सा॒वि॒त्रम॒ग्निं चि॑न्वा॒नः। कम॒ग्निं चि॑नुते।

ना॒चि॒के॒तम॒ग्निं चि॑न्वा॒नः। कम॒ग्निं चि॑नुते।

चा॒तु॒र्॒‌हो॒त्रि॒यम॒ग्निं चि॑न्वा॒नः। कम॒ग्निं चि॑नुते।

वै॒श्व॒सृ॒जम॒ग्निं चि॑न्वा॒नः। कम॒ग्निं चि॑नुते॥१०८॥

उ॒पा॒नु॒वा॒क्य॑मा॒शुम॒ग्निं चि॑न्वा॒नः। कम॒ग्निं चि॑नुते।

इ॒ममा॑रुणकेतुकम॒ग्निं चि॑न्वा॒न इति॑। वृषा॒ वा अ॒ग्निः।

वृषा॑णौ॒ सꣴस्फा॑लयेत्। ह॒न्येता᳚स्य य॒ज्ञः।

तस्मा॒न्नानु॒षज्यः॑। सोत्त॑रवे॒दिषु॑ क्र॒तुषु॑ चिन्वीत।

उ॒त्त॒र॒वे॒द्याꣴ ह्य॑ग्निश्ची॒यते᳚। प्र॒जाका॑मश्चिन्वीत॥१०९॥

प्रा॒जा॒प॒त्यो वा ए॒षो᳚ऽग्निः। प्रा॒जा॒प॒त्याः प्र॒जाः।

प्र॒जावा᳚न्‌ भवति। य ए॒वं वेद॑।

प॒शुका॑मश्चिन्वीत। सं॒ज्ञानं॒ वा ए॒तत् प॑शू॒नाम्।

यदापः॑। प॒शू॒नामे॒व सं॒ज्ञाने॒ऽग्निं चि॑नुते।

प॒शु॒मान् भ॑वति। य ए॒वं वेद॑॥११०॥

वृष्टि॑कामश्चिन्वीत। आपो॒ वै वृष्टिः॑।

प॒र्जन्यो॒ वर्‌षु॑को भवति। य ए॒वं वेद॑।

आ॒म॒या॒वी चि॑न्वीत। आपो॒ वै भे॑ष॒जम्।

भे॒ष॒जमे॒वास्मै॑ करोति। सर्व॒मायु॑रेति।

अ॒भि॒चरꣴ॑श्चिन्वीत। वज्रो॒ वा आपः॑॥१११॥

वज्र॑मे॒व भ्रातृ॑व्येभ्यः॒ प्रह॑रति। स्तृ॒णु॒त ए॑नम्।

तेज॑स्कामो॒ यश॑स्कामः। ब्र॒ह्म॒व॒र्च॒सका॑मः स्व॒र्गका॑मश्चिन्वीत।

ए॒ताव॒द्वा वा᳚ऽस्ति। याव॑दे॒तत्।

याव॑दे॒वास्ति॑। तदव॑रुन्धे।

तस्यै॒तद्व्र॒तम्। वर्‌ष॑ति॒ न धा॑वेत्॥११२॥

अ॒मृतं॒ वा आपः॑। अ॒मृत॒स्यान॑न्तरित्यै।

नाफ्सु मूत्र॑पुरी॒षं कु॑र्यात्। न निष्ठी॑वेत्।

न वि॒वस॑नः स्नायात्। गुह्यो॒ वा ए॒षो᳚ऽग्निः।

ए॒तस्या॒ग्नेरन॑तिदाहाय। न पु॑ष्करप॒र्णानि॒ हिर॑ण्यं॒ वाऽधि॒तिष्ठे᳚त्।

ए॒तस्या॒ग्नेरन॑भ्यारोहाय। न कूर्म॒स्याश्नी॑यात्।

नोद॒कस्या॒घातु॑का॒न्येन॑मोद॒कानि॑ भवन्ति। अ॒घातु॑का॒ आपः॑।

य ए॒तम॒ग्निं चि॑नु॒ते। य उ॑चैनमे॒वं वेद॑॥११३॥ ॥TA 1.26॥

॥२॥