अध्ययनम्
- अनुक्रमणिका
- संहिता निर्देशाः
- अन्यत्र ग्रन्थे
- मूलम्
रुद्रत्रिशती नामानि
चतुर्थकाण्डे पञ्चमः प्रश्नः ५
१ नम॑स्ते रुद्र म॒न्यव॑ उ॒तोत॒ इष॑ वे॒ नमः॑ । नम॑स्ते अस्तु॒ धन्व॑ने
बा॒हुभ्या॑मु॒त ते॒ नमः॑ ॥ यात॒ इषुः॑ शि॒वत॑मा शि॒वं ब॒भूव॑
ते॒ धनुः॑ । शि॒वा श॑र॒व्या॑ या तव॒ तया॑ नो रुद्र मृडय ॥ या ते॑ रुद्र
शि॒वा त॒नूरघो॒रापा॑पकाशिनी । तया॑ नस्त॒नुवा॒ शंत॑मया॒ गिरि॑शन्ता॒भि
चा॑कशीहि ॥ यामिषुं॑ गिरिशन्त॒ हस्ते॒
२ बिभ॒र्॒ष्यस्त॑वे । शि॒वां गि॑रित्र॒ तां कु॑रु॒ मा हिꣳ॑सीः॒ पुरु॑षं॒
जग॑त् ॥ शि॒वेन॒ वच॑सा त्वा॒ गिरि॒शाच्छा॑ वदामसि । यथा॑ नः॒
सर्व॒मिज्जग॑दय॒क्ष्मꣳ सु॒मना॒ अस॑त् ॥ अध्य॑वोचदधिव॒क्ता प्र॑थ॒मो
दैव्यो॑ भि॒षक् । अहीग्॑श्च॒ सर्वा᳚ञ्जं॒भय॒न्थ्सर्वा᳚श्च यातुधा॒न्यः॑
॥ अ॒सौ यस्ता॒म्रो अ॑रु॒ण उ॒त ब॒भ्रुः सु॑म॒ङ्गलः॑ । ये चे॒माꣳ रु॒द्रा
अ॒भितो॑ दि॒क्षु
३ श्रि॒ताः स॑हस्र॒शोऽवै॑षा॒ꣳ॒ हेड॑ ईमहे ॥ अ॒सौ यो॑ऽव॒सर्प॑ति॒
नील॑ग्रीवो॒ विलो॑हितः । उ॒तैनं॑ गो॒पा अ॑दृश॒न्नदृ॑शन्नुदहा॒र्यः॑ ।
उ॒तैनं॒ विश्वा॑ भू॒तानि॒ स दृ॒ष्टो मृ॑डयाति नः ॥ नमो॑ अस्तु॒ नील॑ग्रीवाय
सहस्रा॒क्षाय॑ मी॒डुषे᳚ । अथो॒ ये अ॑स्य॒ सत्वा॑नो॒ऽहं तेभ्यो॑ऽकरं॒
नमः॑ ॥ प्र मु॑ञ्च॒ धन्व॑न॒स्त्वमु॒भयो॒रार्त्नि॑यो॒र्ज्याम् । याश्च॑ ते॒
हस्त॒ इष॑वः॒
४ परा॒ ता भ॑गवो वप ॥ अ॒व॒तत्य॒ धनु॒स्त्वꣳ सह॑स्राक्ष॒
शते॑षुधे । नि॒शीर्य॑ श॒ल्यानां॒ मुखा॑ शि॒वो नः॑ सु॒मना॑ भव ॥
विज्यं॒ धनुः॑ कप॒र्दिनो॒ विश॑ल्यो॒ बाण॑वाꣳ उ॒त । अने॑शन्न॒स्येष॑व
आ॒भुर॑स्य निष॒ङ्गथिः॑ ॥ या ते॑ हे॒तिर्मी॑ढुष्टम॒ हस्ते॑ ब॒भूव॑
ते॒ धनुः॑ । तया॒स्मान्, वि॒श्वत॒स्त्वम॑य॒क्ष्मया॒ परि॑ ब्भुज ॥ नम॑स्ते
अ॒स्त्वायु॑धा॒याना॑तताय धृ॒ष्णवे᳚ । उ॒भाभ्या॑मु॒त ते॒ नमो॑ बा॒हुभ्यां॒
तव॒ धन्व॑ने ॥ परि॑ ते॒ धन्व॑नो हे॒तिर॒स्मान्वृ॑णक्तु वि॒श्वतः॑ । अथो॒ य
इ॑षु॒धिस्तवा॒रे अ॒स्मन्नि धे॑हि॒ तम् ॥ ४। ५। १॥ हस्ते॑ दि॒क्ष्विष॑व उ॒भाभ्यां॒
द्वा विꣳ॑शतिश्च ॥TS 4.5.1॥
॥१॥