अध्ययनम्
- अनुक्रमणिका
- आवाहनम्
- मूलम्
- तैत्तिरीय-ऋग्वेदपाठः याजुषमन्त्ररत्नाकरानुसारेण। स्वरः गुरोः समीपे एव।
आवाहनम्
स्वात्मसंस्थमजं शुद्धं त्वामद्य परमेश्वर। अरण्यामिव हव्याशं मूर्तावावाहयाम्यहम्॥
॥१॥ॐ भूर्भुवः सुवरोम् सशक्तिसाङ्गसायुधसवाहनसपरिवारं आवाहयिष्ये॥
॥२॥स्वामिन् सर्वजगन्नाथ यावत्पूजावसानकम्। तावत्त्वं प्रीतिभावेन बिम्बेऽस्मिन् सन्निधिं कुरु॥
॥३॥आवाहितो भव। स्थापितो भव। सन्निहितो भव। सन्निरुद्धो भव। अवकुण्ठितो भव। सुप्रीतो भव। सुप्रसन्नो भव। वरदो भव। सर्वाभीष्टप्रदो भव। स्वागतमस्तु। प्रसीद प्रसीद॥
॥४॥