मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

वैधव्य यक्ष्मादिहरं कर्म

Also spelled: Vaidhavya Yakshmadiharam Karma

वैधव्य यक्ष्मादिहरं कर्म. Also called vaidhavya yakshma haram, Vaidhavya yakṣmādiharaṃ karma. Svara-marked text on Vaidhika Dharma.

3
अध्ययनम्
अनुक्रमणिका
वैधव्य यक्ष्मादिहरं कर्म · टिप्पण्यः
मूलम्
याजुषमन्त्ररत्नाकरम् (मुद्रितग्रन्थः) पृष्ठम् ६१६–६१७ — मुद्रितग्रन्थस्य PDF-पाठात् स्वरसहितं यथावत् उद्धृतम्। कोष्ठकेषु सङ्ख्याः ग्रन्थस्य पृष्ठनिर्देशाः।

वैधव्य यक्ष्मादिहरं कर्म

अ॒क्षीभ्यां᳚ ते॒ नासि॑काभ्यां॒ कर्णा᳚भ्यां॒ चुबु॑का॒दधि॑। यक्ष्म॑ꣳ शीर्ष॒ण्यं॑ म॒स्तिष्का᳚ज्जि॒ह्वाया॒ विवृ॑हामि ते। ग्री॒वाभ्य॑स्त उ॒ष्णिहा᳚भ्यः॒ कीक॑साभ्योऽनू॒क्या᳚त्। यक्ष्मं॑ दोष॒ण्य॑मꣳसा᳚भ्यां बा॒हुभ्यां॒ विवृ॑हामि ते। आ॒न्त्रेभ्य॑स्ते॒ गुदा᳚भ्यो वनि॒ष्ठोर्हृद॑या॒दधि॑।

॥१॥

यक्ष्मं॒ मत॑स्नाभ्यां य॒क्नः प्ला॒शिभ्यो॒ विवृ॑हामि ते। ऊ॒रुभ्यां᳚ तेऽष्ठी॒वद्भ्यां॒ जङ्घा᳚भ्यां॒ प्रप॑दाभ्याम्। यक्ष्म॒ꣴ श्रोणी᳚भ्यां भा॒सदा᳚द् ध्व॒ꣳससो॒ विवृ॑हामि ते। मेह॑नाद् वल॒ङ्कर॑णा॒ल्लोम॑भ्यस्ते न॒खेभ्यः॑। यक्ष्म॒ꣳ सर्व॑स्मादा॒त्मन॒स्तमि॒मं विवृ॑हामि ते। अङ्गा॑दङ्गा॒ल्लोम्नो॑लोम्नो जा॒तं पर्व॑णि पर्वणि।

॥२॥

यक्ष्म॒ꣳ सर्व॑स्मादा॒त्मन॒स्तमि॒मं विवृ॑हामि ते। परा॑देहि शाब॒ल्यं॑ ब्र॒ह्मभ्यो॒ विभ॑जा॒ वसु॑। कृ॒त्यैषा प॒द्वती॑ भू॒त्वा जा॒याऽऽवि॑शते॒ पति᳚म्। आ॒श्ली॒ला त॒नूर्भ॑वति॒ रुश॑ती पा॒पया॑ऽमु॒या। पति॒र्यद्व॒ध्वै॑ वास॑सा॒ स्वमङ्ग॑मभि॒ धित्स॑ति। क्रू॒रमे॒तत्कटु॑कमे॒तद॑पा॒ष्ठव॑द्वि॒षव॒न्नैतदत्त॑वे।

॥३॥

सू॒र्यां यः प्र॒त्यक्षं॑ वि॒द्यात्स ए॒तत्प्रति॑गृह्णीयात्। आ॒शस॑नं वि॒शस॑न॒मथो॑ अधि वि॒चर्त॑नम्। सू॒र्यायाः᳚ पश्य रू॒पाणि॒ तानि॑ ब्र॒ह्मोत श॑ꣳसति॥१८॥

॥४॥

टिप्पण्यः

“जय॑न्त्यभि॒भूव॑री” इति वा

॥५॥

“भा॒ससा᳚द्” इति वा

॥६॥

“त॒नूर्भ॑व॒” इति वा

॥७॥

“स्व॒मङ्ग॑मभि॒” इति वा

॥८॥