मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

गृहनिर्माणप्रवेशौ

Also spelled: Grihanirmanapraveshau

गृहनिर्माणप्रवेशौ. Also called grha nirmana praveshau, Gṛhanirmāṇapraveśau. Svara-marked text on Vaidhika Dharma.

3
अध्ययनम्
अनुक्रमणिका
गृहनिर्माणप्रवेशौ
मूलम्
याजुषमन्त्ररत्नाकरम् (मुद्रितग्रन्थः) पृष्ठम् ६३३–६३४ — मुद्रितग्रन्थस्य PDF-पाठात् स्वरसहितं यथावत् उद्धृतम्। कोष्ठकेषु सङ्ख्याः ग्रन्थस्य पृष्ठनिर्देशाः।

गृहनिर्माणप्रवेशौ

यद्भूमेः᳚ क्रू॒रं तदि॒तो ह॑रामि॒ परा॑चीं॒ निर्ऋ॑तिं॒ निर्वा॑हयामि। इ॒दꣴ श्रेयो॑ऽव॒सान॒माग॑न्म देवा॒ गोम॒दश्वा॑वदि॒दम॑स्तु॒ प्र भूम॑। स्यो॒ना पृ॑थिवि॒ भवा॑नृक्ष॒रा नि॒वेश॑नी। यच्छा॑ नः॒ शर्म॑ स॒प्रथाः᳚। इ॒हैव ति॑ष्ठ॒ निमि॑ता॒ तिल्व॑ला स्या॒दिरा॑वती। मध्ये॒ ताल्प्य॑स्य॒ तिष्ठा॒न्मा त्वा॒ प्राप॑न्नघा॒यवः॑।

॥१॥

आ त्वा॑ कुमा॒रस्त॒रुण॒ आ व॒त्सो जग॑ता स॒ह। आ त्वा॑ परि॒स्रुतः॑ कु॒म्भा आ द॒ध्नः कल॑शीरयन्। ऋ॒तेन॒ स्थूणा॒वधि॑रोह व॒ꣳशोग्रो॑ वि॒राज॒न्नप॑सेध॒ शत्रू॑न्। ब्रह्म॑ च ते क्ष॒त्रं च॒ पूर्वे॒ स्थूणे॑ अ॒भि र॑क्षतु। य॒ज्ञश्च॒ दक्षि॑णाश्च॒ दक्षि॑णे।

॥२॥

इ॒षश्चो॒र्जश्चाप॑रे मि॒त्रश्च॒ वरु॑ण॒श्चोत्त॑रे ध॒र्मस्ते॒ स्थूणा॑राजः॒ श्रीस्ते॒ स्तूपः॑। उ॒द्ध्रि॒यमा॑ण॒ उद्ध॑र पा॒प्मनो॑ मा॒ यदवि॑द्वा॒न् यच्च॑ वि॒द्वाꣴश्च॒कार॑। अह्ना॒ यदेनः॑ कृ॒तम॑स्ति पा॒पꣳ रात्र्या॒ यदेनः॑ कृ॒तम॑स्ति पा॒पꣳसर्व॑स्मा॒न्मोद्धृ॒तो मु॑ञ्च॒ तस्मा᳚त्।

॥३॥

इन्द्र॑स्य गृ॒हा वसु॑मन्तो वरू॒थिन॒स्तान॒हꣳ सु॒मन॑सः॒ प्रप॑द्ये। अ॒मृ॒ता॒हु॒तिम॒मृता॑यां जुहोम्य॒ग्निं पृ॑थि॒व्याम॒मृत॑स्य॒ जित्यै॒ तया॑ऽन॒न्तं काम॑म॒हं ज॑यानि प्र॒जाप॑ति॒र्यं प्र॑थ॒मो जि॒गाया॒ग्निम॑ग्नौ॒ स्वाहा᳚। (अन्न॑पत॒ इत्ये॒षा)। {अन्न॑प॒तेऽन्न॑स्य नो देह्यनमी॒वस्य॑ शु॒ष्मिणः॑।

॥४॥

प्र प्र॑दा॒तारं॑ तारिष॒ ऊर्जं॑ नो धेहि द्वि॒पदे॒ चतु॑ष्पदे॥} अरि॑ष्टा अ॒स्माकं॑ वी॒राः स॑न्तु॒ मा परा॑सेचि मे॒ धन᳚म्। भूमि॒र्भूमि॑मगान्मा॒ता मा॒तर॒मप्य॑गात्। भू॒यास्म॑ पु॒त्रैः प॒शुभि॒र्यो नो॒ द्वेष्टि॒ स भि॑द्यताम्।

॥५॥