अध्ययनम्
- अनुक्रमणिका
- विवाहे अश्मास्थापनादयः · टिप्पण्यः
- मूलम्
- याजुषमन्त्ररत्नाकरम् (मुद्रितग्रन्थः) पृष्ठम् ६०५–६०६ — मुद्रितग्रन्थस्य PDF-पाठात् स्वरसहितं यथावत् उद्धृतम्। कोष्ठकेषु सङ्ख्याः ग्रन्थस्य पृष्ठनिर्देशाः।
विवाहे अश्मास्थापनादयः
आ ति॑ष्ठे॒ममश्मा॑न॒मश्मे॑व॒ त्वꣴ स्थि॒रा भ॑व। अ॒भि ति॑ष्ठ पृतन्य॒तः सह॑स्व पृतनाय॒तः। इ॒यं ना॒र्युप॑ ब्रूते॒ कल्पा᳚न्यावपन्ति॒का। दी॒र्घा॒युर॑स्तु मे॒ पति॒र्जीवा॑तु श॒रदः॑ श॒तम्। तुभ्य॒मग्रे॒ पर्य॑वहन् सू॒र्यां व॑ह॒तुना॑ स॒ह। पुनः॒ पति॑भ्यो जा॒यां दा अ॑ग्ने प्र॒जया॑ स॒ह। पुनः॒ पत्नी॑म॒ग्निर॑दा॒दायु॑षा स॒ह वर्च॑सा।
॥१॥दी॒र्घा॒युर॑स्या॒ यः पतिः॒ स ए॑तु श॒रदः॑ श॒तम्। विश्वा॑ उ॒त त्वया॑ व॒यं धारा॑ उद॒न्या॑ इव। अति॑गाहेमहि॒ द्विषः॑। आ ति॑ष्ठे॒ममश्मा॑नम्। अ॒र्य॒मणं॒ नु दे॒वं क॒न्या॑ अ॒ग्निम॑यक्षत। स इ॒मां दे॒वो अ॑ध्व॒रः प्रेतो मु॒ञ्चाति॒ नामुतः॑ सुब॒द्धाम॒मुत॑स्करत्।
॥२॥तुभ्य॒मग्रे॒ पर्य॑वह॒न्पुनः॒ पत्नी॑म॒ग्निर॑दा॒द्विश्वा॑ उ॒त त्वया॑ व॒यमा ति॑ष्ठे॒ममश्मा॑नम्। त्वम॑र्य॒मा भ॑वसि॒ यत्क॒नीनां॒ नाम॑ स्व॒धाव॒त्स्व॑र्यं बि॒भर्षि। अ॒ञ्जन्ति॑ वृ॒क्षꣳ सुधि॑तं॒ न गोभि॒र्यद्दम्प॑ती॒ सम॑नसा कृ॒णोषि॑। तुभ्य॒मग्रे॒ पर्य॑वह॒न्पुनः॒ पत्नी॑म॒ग्निर॑दा॒द्विश्वा॑ उ॒त त्वया॑ व॒यम्।
॥३॥प्र त्वा॑ मुञ्चामि॒ वरु॑णस्य॒ पाशा॒द्येन॒ त्वाऽब॑ध्नात् सवि॒ता सु॒केतः॑। धा॒तुश्च॒ योनौ॑ सुकृ॒तस्य॑ लो॒के स्यो॒नं ते॑ स॒ह पत्या॑ करोमि। इ॒मं विष्या॑मि॒ वरु॑णस्य॒ पाशं॒ यमब॑ध्नीत सवि॒ता सु॒शेवः॑। धा॒तुश्च॒ योनौ॑ सुकृ॒तस्य॑ लो॒केऽरि॑ष्टां त्वा स॒ह पत्या॑ कृणोमि। अ॒याश्चा॒ग्नेऽस्य॑नभिश॒स्तीश्च॑ स॒त्यमित्त्वम॒या अ॑सि।
॥४॥अय॑सा॒ मन॑सा धृ॒तो॑ऽयसा॑ ह॒व्यमू॑हिषे॒ऽया नो॑ धेहि भेष॒जम्॥५॥
॥५॥टिप्पण्यः
“स॒त्यमि॑त्त्वम॒या” इति वा
॥६॥